तत्तत्कर्मोपकृतात् यदुपासनतः फलावाप्तिः ।
श्रुतिवाक्येभ्यस्सिद्धः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 136॥

41 ॥ पुरुषार्थाधिकरणम् ॥ 1 ॥ तत्राऽऽदौ भगवतः श्रीनिवासस्य प्रथमाध्याये उत्तरोत्तरबलीयसीमिर्युक्तिभिः प्रत्यवस्थानेन पूर्वपक्षिभिर्निराचिकीर्षितस्य त्रिविधचेतनाचेतनवैलक्षण्यस्य तदुक्तयुक्तिजालतूलनिराकरणेन व्यवस्थापितत्वेऽपि ब्रह्मविद्याङ्गेषु निरूपयिष्यमाणेष्ववसरलाभेन पूर्वोक्तसर्वपूर्वपक्षयुक्त्यपेक्षया बलीयस्या युकत्या प्रत्यवस्थानेन परनिराचिकीर्षितं भगवतश्चेतनाचेतनवैलक्षण्यं स्थूणानिखननन्यायेन दृढीकर्तु पूर्वपक्षोत्थापनाय सिद्धान्तमुपक्षिपति ॥ पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ 3-4-1 ॥ अत्र ‘अतः’शब्देन पूर्वपादप्रस्तुता ब्रह्मविद्या परामृश्यते । ततश्च ब्रह्मविद्यातः, पुरुषार्थः अपवर्गपुरुषार्थः सिद्ध्यति, ‘‘ब्रह्मविदाप्नोति परं’’ इत्यादिश्रुतेः इति भगवान् बादरायणो मन्यत इति मूत्रार्थः ॥ पूर्वस्मिन् पादे अङ्ग्यनुष्ठानाय वक्तव्यं सर्व निरूपितं; अङ्गानुष्ठानाय वक्तव्यनिरूपणार्थ, कर्मणां फलद्वारा त्याज्यताया वैराम्यपादे निरूपितत्वेन तेषां स्वरूपेण उपादेयताज्ञापनार्थ च चतुर्थः पाद आरम्यते । एवं प्रथमचतुर्थपादाभ्यां कर्मणां फलकामनयाऽनुष्ठाने ब्रह्वनर्थावहत्वं, ब्रह्मविद्याङ्गतयाऽनुष्ठानेऽभ्युदयावहत्वं च दर्शितं भवति । एवं च सतिकर्मणां फलद्वारा हानार्थ, स्वरूपेणोपादानार्थ च तेषां स्वरूपावगमाय कर्मविचारस्यापेक्षितत्वासिद्ध्या तस्य पूर्वपृत्तत्वं शास्त्रारंभे ‘‘अथातो ब्रह्मजिज्ञासा’’ इति अथशब्दविवक्षितमुपपादितं" भवति । सूत्रस्यायं भावः- ‘‘ब्रह्मविदाप्नोति परं,’’ ‘‘तमेवं विद्वानमृत इह भवति’’ इत्यादिषु भगवतः श्रीनिवासापरनामधेयस्य ब्रह्मणः" उपासनेन मोक्षपुरुषार्थप्राप्ति प्रतिपादनात् ब्रह्मविद्यात एव मोक्षपुरुषार्थप्राप्तिः, न कर्मभिरिति भगवद्पादरायणमतमिति ॥ पूर्वपक्षमुत्थापयति- शेषत्वात्पुरुषार्थवादो यथाऽन्येष्त्रिति जैमिनिः ॥ 3-4-2 ॥ [आचारदर्शनात् ॥ 3 ॥ तच्छ्रुतेः ॥ 4 ॥ समन्वारंभणात् ॥ 5 ॥ तद्वतो विधानात् ॥ 6 ॥ नियमात् ॥ 7 ॥] एतानि पूर्वपक्षसूत्राणि ॥ ‘‘ब्रह्मविदाप्नोति परं’’ इत्यादिषु श्रुतस्य ब्रह्मशब्दवाच्यस्य कर्मशेषत्वात्, तेषु वाक्येषु फलश्रुतिः अर्थवादः-प्रशंसामात्रम् । अन्येषुद्रव्यगुणादिषु यथा फलश्रुतिरर्थवादः, तद्वदिति जैमिनिः आचार्यो मन्यत्र इत्युक्तसूत्रार्थः । पूर्वपक्षसूत्राणामयं भावः- ‘‘आत्मा वाऽरे द्रष्टव्य’’ इत्यादिषु ज्ञातव्यतया श्रुत आत्मा ज्ञादिक्रियाकर्तुर्जीवादनतिरिक्तः, स एव ब्रह्मशब्देनोव्यते, ‘‘तत्त्वमसि,’’ ‘‘अयमात्मा ब्रह्म’’ इत्यादिषु जीवब्रह्मणोरैक्यप्रतिपादनात् । यद्यपि ‘‘तत्त्वमसि’’ इत्यादिसामानाधिकरण्यं न जीवब्रह्मणोः स्वरूपैक्यपरं, अपि तु शरीरात्मभावपरं इति ‘‘अवस्थितेरिति काशकृत्स्नः’’ इत्यादिषूपपादितं, तथाऽपि वक्ष्यमाणैर्हेतुभिर्विद्यायाः कर्मणेषत्वावगमात् तदन्यथानुपपत्त्या वेदितव्यस्याऽऽत्मनः कर्मकर्तृर्जीवादनतिरिक्तत्वमवर्जनीयम् । तथा हि - वेदान्तेषु कैश्चित् श्रुतिलिङ्गादिभिः विद्यायाः कर्मप्राधान्यसूचनात् तस्याः कर्माङ्गत्वं निश्चीयते । अतः ‘‘आत्मा वाऽरे द्रष्टव्यः,’’ ‘‘तमेवैकं जानथाऽऽत्मानं’’ इत्याद्याः श्रुतयः क्रतुषु कर्तुर्जीवात्मनो यथावस्थितस्वरूपस्य वेदितव्यत्वोपदेशपराः" । तद्याथात्म्यवैदनं च क्रतुकर्तुस्तस्य जीवात्मनः संस्काररूपं सत् तद्द्वारा क्रत्वङ्गम् । यथा ‘‘व्रीहीन् प्रोक्षति’’ िति विहितं" प्रोक्षणमव्याभिचरितक्रतुसंबन्धिव्रीहिसंस्काररूपं सत् व्रीहिद्वारा क्रत्वङ्गं, तद्वदिति निश्चीयते । कर्मसु कर्तुर्जीवात्मनो नित्यत्वादिरूपयाथात्म्यवेदनेन संस्कार्यत्वं चावश्यापेक्षितम् । कर्तुरात्मनो नित्यत्वादिज्ञानेन विना देहान्तरानुमाव्यस्वर्गादिफलसाधनेषु क्रतुषु प्रवृत्त्यनुपपत्तेः । अतः ‘‘आत्मा वाऽरे द्रष्टव्य’’ इत्याद्याः श्रुतयः कर्तुर्जीवात्मनो नित्यत्वादिरूपयाथात्म्यस्य वेदितव्यत्वोपदेशपरा एवा कर्मसु कर्ता जीव एव ‘‘ब्रह्मविदाप्नोति’’ इत्यादौ ब्रह्मशब्देनोच्यत इति ‘‘तत्त्वमसि’’ इत्यादिश्रुतिभिरवगम्यते । एतेन ‘‘नेतरोऽनुपपत्तेः,’’ ‘‘अधिकं तु भेदनिर्देशात्’’ ित्यादिषु ब्रह्मणो जीवादर्थान्तरत्वव्यवस्थापनं, ‘‘्वस्यितेरिति काशकृत्स्न’’ इत्यादिषु ‘‘तत्त्वमसि’’ इत्यादिसामानाधिकरण्यस्य अन्यथोपपादनं च सर्व निरस्तम् । ‘‘ब्रह्मविदाप्नोति परं’’ इत्यादिषूपदिष्टस्य ब्रह्मवेदनस्योक्तरीत्या कर्तृद्वरा क्रतुशेषताया अवश्याम्युपगन्तव्यत्वात् । एवं च ब्रह्मवेदनस्य कर्माङ्गत्वे क्रत्वङ्गस्य पर्णातादेरिव ब्रह्मवंदनस्य फलश्रुतिरर्थवादमात्रं, न तत्फले श्रुतेस्तात्पर्यमिति । अत्र ‘अन्येषु’ इत्यनेन द्रव्यगुणकर्माणि दृष्टान्ततया विवक्षितानि ॥ ‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति ’’ इति पर्णतादिद्रव्येषु ‘‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’’ इत्यञ्जनादिसंस्कारेषु ‘‘यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते’’ इत्यादिषु कर्मसु फलक्षुतिरर्थवाद इति पूर्वमीमांसायां" निर्णीतम् ॥ के ते हेतवः यैर्विद्यायाः कर्मशेषत्वमवगम्यत इति चेत, उच्यते ब्रह्म वित्तमानां केकयजनककेशिध्वजादीनां बहुशो यज्ञाचरणमेव श्रूयते । तत्र विद्याकर्मणोरुभयोः प्रसक्तौ कर्मणः प्राधान्येनानुष्ठानं तस्याङ्गित्वं सूचयति ॥ ‘‘यदेव विद्याया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’’ इति तृतीयाश्रुत्या विद्यायाः कर्ममुविनियोगो दृश्यते। श्रुतेः" प्रकरणात् बलीयस्त्वात् ‘विद्याया’ इति तृतीयाश्रुतिर्विद्यासामान्यस्य कर्माङ्गत्वं दर्शयति । अतो विद्यायाः कर्मसु विनियोगदर्शनात् कर्मणोऽङ्गित्वं लभ्यते । ‘‘तं विद्याकर्मणी समन्वारभेते’’ इति परलोकं प्रयान्तं प्रति विद्याकर्मणोरनुवर्तमानत्वश्रवणात् तयोः" संबन्धः प्रतीयते । स च संबन्धोऽङ्गाङ्गिभावो वक्तव्यः । तत्र ब्रह्मविदां प्राधान्येन कर्मानुष्ठानदर्शनेन कर्मणोऽङ्गित्वमवगम्यते । ‘‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’’ इत्यादि श्रूयते । आचार्याद्वेदमधीत्य-गुरोर्नियमनमनतिक्रम्य, गुरोः कर्म-गुरवे कर्तव्यं गुरुदक्षिणादिकं अतिशेषेण-निश्शेषं अभिसमावृत्य-निर्वर्त्य, कुटुम्बे-गार्हस्थ्याश्रमकर्मणि स्थित इत्युक्तश्रुत्यर्थः । अत्र ‘अधीत्य’ इति ल्यपा अध्ययनस्य गृहस्थधर्मे विनियोगः प्रतीयते । अध्ययनं चार्थज्ञानपर्यन्तमिति पूर्वमीमांसायां स्थापितम् । अतोऽर्थज्ञानस्य कर्मसु विनियोगदर्शनात् विद्यायाः कर्मङ्गत्वं" लभ्यते । ‘‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’’ इति ईणावास्योपनिषदि श्रूयते । शतं समाःशतवर्षाणि, जिजीविषेष्-जीवितुमिच्छेत् चेत्, कर्माणि कुर्वन्नेव जिचीविषेत् इति उक्तश्रुत्यर्थः । अत्र विदुषो यावदायुषं कर्मकरणविधानात् कर्मणः प्राधान्यं, मध्ये प्राप्तस्य सर्वस्य तदङ्गत्वलक्षणामप्राधान्यं च लम्यते । अतोऽपि विद्या कर्माङ्गम् । एतैर्हेतुभिः कर्माङ्गत्व मवगम्यत इति ॥ अधिकोपदेशाप्तु बादरायणस्यैवं तद्दर्शनात् ॥ 3-4-8 ॥ [तुल्यं तु दर्शनम् ॥ 9 ॥ असार्वत्रिकी ॥ 10 ॥ विभागः शतवत् ॥ 11 ॥ अध्ययनमात्रवतः ॥ 12 ॥ नाविशेषात् ॥ 13 ॥ स्तुतयेऽनुमतिर्वा ॥ 14 ॥ कामकरेण चैके ॥ 15 ॥ उपमर्द च ॥ 16 ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ 17 ॥ परामर्श जैमिनिरचोदनाच्चापवदति हि ॥ 18 ॥ अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥ 19 ॥ विधिर्वा धारणवत् ॥ 20 ॥] तुशब्दः पक्षव्यावर्तकः, अधिकोपदेशात्-जीवादर्थान्तरस्य ब्रह्मणो ब्रह्मविद्यासु वेद्यत्वोपदेशात्, विद्यात एव पुरुषार्थ इति भगवद्बादरायणमतम् । उपासनविधिवाक्येषु जीवादर्थान्तरस्य उपास्यत्वविधानदर्शनात् इत्युक्तसूत्रार्थः । सिद्धान्तसूत्राणामयं भावः- ‘व्रीहीन् प्रोक्षाति’ इत्यादौ विहितस्य प्रोक्षणस्य व्रीहिद्वारा क्रत्वङ्गत्ववत् ‘‘ब्रह्मविदाप्नोति परं’’ इत्यादौ विहितस्य वेदनस्य प्रत्यगात्मद्वारा क्रत्वङ्गत्वं नोपपद्यते । प्रत्यगात्मतो विलक्षणस्यैव तत्र वेद्यत्वावगमेन प्रत्यगात्मनस्तत्रोपस्थितेरेवासंभवात्; उपास्थितत्वसंभवे हि तस्य वेदनं प्रति द्वारत्वसंभवः । तत्र हि वेद्यतया प्रकान्तं ब्रह्म वाहनसापरिच्छेद्यानन्दवत्, संकल्पमात्रेम जगत्स्रष्टृ, वायुसूर्याग्नीन्द्रादीनां भीषयितृ, सर्वेषां स्वस्वेष्टप्रदानेनाऽऽनन्दयितृ, इत्येवमादिगुणविशिष्टं प्रतिपाद्यते । न हीदं गुणजातं कर्मसु कर्तुर्जीवात्मनो याथात्म्यमिति संभावनागन्धोऽपि संभवति । अपि च कर्मसु कर्ता जीवः स्वेनाप्राप्तस्य तत्तत्क्रतुफलस्य स्वर्गादेरर्थी; इदं तु प्रब्म स्वतस्सिद्धनिरतिशयानन्दवत्, इति स्वर्गसुखार्थिनो नात्र प्रत्यभिज्ञालेशस्याप्यवकाशः । अतोऽत्र विहितवेदनस्य क्रतुशेषतां प्रत्यनुपस्थितस्य तस्य कथं द्वारतासंभवः किञ्च कर्मसु कर्तुर्जीवस्य देहान्तरानुभाव्यस्वर्गसुखानुभवहेतुभूतक्रतुषु प्रवृत्तिं प्रति देहातिरिक्तत्वज्ञानमात्रस्यापेक्षिततयाऽत्र विधीयमानस्य प्रागुक्तगुणाविशिष्ट विषयकवेदनस्य क्रतुषु प्रवृत्तिं प्रत्यनपेक्षितस्य क्रतुं प्रति शेषत्वं शङ्कितुमपि न शक्यम् । अतोऽत्र विहितवेदनस्य फलश्रवणं नार्थवादः, अतो विद्यात एव पुरुषार्थः ॥ यत्तु ब्रह्मविदां कर्मानुष्ठानदर्शनं कर्मणां प्राधान्ये लिङ्गमिति, तदनुपपन्नम् । ब्रह्मविदां कर्मत्यागस्यापि ‘‘किमर्था वयमध्येष्यामहे, किमर्थावयं यक्ष्यामहे’’ इत्यादिश्रुतिषु दर्शनेन कर्मणोऽङ्गित्वे, कथाञ्चिदापि तत्त्यागानुपपत्तेः । अस्मत्पक्षे ब्रह्मविदामाभिसंहितफलानां" कर्मणां त्यागः, अनभिसंहितफलानां तेषामनुष्ठानमिति त्यगोऽनुष्ठानमुभयमप्युपपद्यते । भवत्पक्षे तु ब्रह्मविद्याफलस्यापवर्गस्यामभ्युपगमेन त्रिवर्गैकफलानामङ्गिना कर्मणा मनुष्ठानममनुष्ठानं च व्याहतं स्यात् ॥ यदप्युक्तं ‘‘यदेव विद्याया करोति’’ इति प्रकरणाद्बलीयस्या विद्याश्रुत्या विद्यायाः क्रत्वर्थत्वं सिद्ध्यतीति, तदपि न ; ‘‘यदेव’’ इति यच्छब्दस्यानुवादरूपतया प्रापकप्रमाणाकांक्षायां ‘‘उद्गीयमुपासीत’’ इति प्रकृतोद्गीथोपासनेन क्रियमाणस्य कर्मणः परमर्शलाभात् विद्याशब्दस्य प्रकृतोद्गीयविद्यामात्रविष्यतया संकोचावश्यंभावात् ॥ यदपि ‘‘तं विद्या कर्मणी समन्वारभेते’’ इति परलोकं यान्तं विद्वांसमनुपर्तमानयोः विद्याकर्मणोः साहित्यप्रतीत्या विद्यायाः कर्माङ्गत्वं" प्रतीयत इति, तदपि न; विद्याकर्मणोः स्वस्वफलप्रदानायानुवृत्तिपरतयाऽप्युपपत्त्या अङ्गाङ्गिभावासिद्धेः ॥ ‘‘आचार्यकुलाद्वेदमधीत्य’’ इत्याद्युदाहृतश्रुतौ अध्यायनमात्रवतः कर्माविधानेन अध्ययनस्य कर्माङ्गत्वप्रतीतादपि विद्यायाः कर्माङ्गत्वाप्रतीतेः" । अध्ययनविधेरर्थज्ञानपर्यन्तत्वाभावात् अर्थज्ञानपर्यन्तत्वाम्युपगमेऽपि वेदान्तवाक्यजन्यशाब्दज्ञानादन्यस्य तन्मूलकस्मृतिसन्ततिरूपस्योपासनस्यैव वेदान्तेषु मोक्षसाधनताविधानेन तस्य कर्माङ्गत्वासिद्धेः ॥ ‘‘कुर्वन्नेवेह कर्माणि’’ इति श्रुतेः विद्याङ्गभूतकर्मणो यावज्जीवमपरित्याज्यतापरतयाऽप्युपपत्त्या स्वतन्त्रकर्मपरतायां मानाभावात्, विदुषा यथेष्टं कर्मकरणेऽपि कर्मफलं तस्मिन् न संभध्यत इति पूर्वमन्त्रप्रकृतब्रह्मविद्यामाहात्म्यप्रतिपादनपरत्वेन तस्याः श्रुतेः" विद्यातो निवर्त्य यावज्जीवं विदुषः कर्मानुष्ठाने प्रवर्तनपरत्वाभावाच्च नोक्तश्रुत्या विद्यायाः कर्माङ्गत्वलाभः । विषयविरक्तस्य विद्यानिष्ठस्य गृहस्थाश्रमधर्मत्यागवचनाच्च न विद्या कर्माक्रम् । उच्यते हि ‘‘एतद्ध स्म वै विद्वांसः प्रजां न कामयन्ते, कि प्रजया करिष्यामह इति’’ इति विषयविरक्तस्य प्रजाशब्दनिर्दिष्ठगृहस्थाश्रमत्यागः, तेन तत्कर्मत्यागसिद्ध्या विद्यायाः कर्माङ्गत्वे अङ्गिभूतो कर्मत्यामो नोपपद्यते । अपि च ‘‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’’ इति ब्रह्मविद्याया दर्शनसमानाकारया कर्मणां नाशः श्रूयते । तश्व विद्यायाः कर्माङ्गत्वे अङ्गेनाङ्गिनः स्वरूपनाशायोगात् नोपपद्यते । अतो विद्या न कर्माङ्गम् ॥ अपि च ‘‘त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयेतः" सर्व एते पुण्यलोका भवन्ति, प्रह्मसंस्थोऽमृतत्वमेति’’ इति श्रूयते । अयमर्थः- धर्मस्कन्धाः-धर्माश्रयाः आश्रमाः इत्यर्थः । ते त्रयः, यज्ञाध्ययनदानादिधर्माश्रयो गृहस्थाश्रमः प्रथमः । ‘तप एव द्वितीय’ इति । अत्र तपश्शब्देन कायक्लेशप्रधानं वानप्रस्थसंन्यासाश्रमद्वयं" गृङ्यते; स द्वितीयाश्रम इत्यर्थः । ब्रह्मयर्य-वेदाध्ययनाय गुरुकुलवासः । ‘सर्व एते पुण्यलोका भवन्ति’ इति । एवं गार्ङस्थ्यवानप्रस्थसंन्यासब्रह्मचर्यभेदभिन्नेषु चतुर्ष्वाश्रमेषु केवलाश्रमधर्मनिष्ठास्तत्तत्पुण्यलोकान् प्राप्य, तत्तत्मुकृतफलमनुभवन्ति । ‘ब्रह्मसंस्थोऽमृतत्वमेति’- तेषु चतुर्ष्वाश्रमिषु ये ब्रह्मविद्यानिष्ठास्ते मुक्तिं प्राप्नुवन्ति इति श्रुत्यर्थः । अत्र संन्यासाश्रमनिष्ठानामपि ब्रह्मविद्यानुष्ठानविधानात, तेषां यज्ञदानादिकर्माभावेन अङ्गनं विहाय अङ्गानुष्ठानायोगेन, न ब्रह्मविद्यायाः कर्माङ्गत्वम् ॥ ‘‘त्रयो धर्मस्कन्धाः’’ इत्याद्युदाहृतश्रुतौ विधिप्रत्ययाश्रवणेन नाश्रमाणां विधिः, अपि तु पूर्वप्रकृतस्य प्रणवकरणकब्रह्मोपासनस्य स्तुत्यर्थमाश्रमाणमनुवादमात्रमत्र क्रियत इत्यभ्युपगन्तव्यम् । अन्यया गृहस्थाश्रमातिरिक्तश्रमाङ्गीकारे ‘‘वीरहा वा एष योऽग्निमुद्वासयते’’ इति गृहस्थाश्रमधर्मत्यागे प्रत्यवायश्रवणविरोधप्रसङ्गात् । अत आश्रमान्तरं नास्त्येवेति चेत्, उच्यते-उक्तश्रुतौ गृहस्थाश्रमस्याप्यनुवाद इत्यङ्गीकारे ताद्विधायकप्रमाणप्राप्तस्यैवानुवादस्य वक्तव्यतया आश्रमविधायकप्रमाणप्राप्तप्यनुष्ठेयान्येव ॥ वस्तुतस्तु ‘‘त्रयो धर्मस्कन्धा’’ इत्युदाहृतश्रुतौ चतुर्णामाश्रमाणामप्राप्तत्वाविशेषात् विधिः कल्पनीयः । यथा ‘‘अधस्तात् समिधं" धारयमनुद्रवेत् उपरि हि देवेभ्यो धारयति’’ इत्यत्र उपरिधारणे विध्यश्रवणेऽपि तस्याप्राप्तत्वेन विधिः कल्प्यते, तद्वत् । उक्तं" हि पूर्वमीमांसायां ‘‘विधिस्तु धारणेऽपूर्वतवात्’’ इति । उपरिधारणस्याप्राप्तत्वात् तत्र विधिः कल्पनीय इति सूत्रार्थः । अतश्च संन्यासाश्रमस्यापि प्रामाणिकतया तत्र च यज्ञादिकर्मणामभावात् विद्यायाः कर्माङ्गत्वे कर्मपरित्यागेन ब्रह्म विद्यानुष्ठानासंभवात्, न ब्रह्मविद्या कर्माङ्गमिति सिद्धम् । यद्यापि ‘‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’’ इति संन्यासाश्रमविधिर्जाबालश्रुतौ श्रूयते, तथापि तादृशविधिमसन्तं कृत्वा अत्र विधिकल्पनोक्तिरिति द्रष्टव्यम् ॥ तत्तत्कर्मोपकृतात् यदुपासनतः फलावाप्तिः । श्रुतिवाक्येभ्यस्सिद्धः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 138 ॥ यज्ञादिकर्माङ्गकात् यस्य श्रीनिवासस्य उपासनात् मोक्षफलावाप्तिः, श्रुतिवाक्येभ्यः-‘‘ब्रह्मविदाप्नोप्ति परं,’’ ‘‘तमेवं विद्वानमृत इह भवति’’ इत्यादिश्रुतिवाक्येभ्यः सिद्धा इत्यर्थः । ब्रह्मोपसनस्य मोक्षसाधनत्वं ‘‘तमेवं विद्वानमृत इह भवति’’ इत्यादिश्रुतिसिद्धम् । तस्य कर्माङ्गकत्वं तु ‘‘तमेतं वेदानुवचनेन ब्रह्मणा विविधिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’’ इति श्रुतिसिद्धम् ॥ ‘‘तमेवं विद्वान्’’ इत्यादिश्रुतेः लक्ष्मीपतिविषयकत्वात् यदुपासनत इत्युक्तम् ॥ 109 ॥ इति पुरुषार्थाधिकरणम् ॥ 1 ॥

यद्यजनरूपकर्मण्युद्गीथो रसतमत्वेन ।
श्रुत्योपास्यो विहितस्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 137 ॥

42 ॥ स्तुतिमात्राधिकरणम् ॥ 2 ॥ पूर्वाधिकरणे ‘‘ब्रह्मसंस्थोऽमृतत्वमेति’’ इति ब्रह्मस्थस्तुत्यर्थमाश्रमानुवाद इति स्तुतिः प्रसक्ता । तद्वदुद्गीथेऽपि रसतमत्वाद्युक्तिः" रतुतिःस्यात् इति शङ्कावारणाय प्रवृत्तमिदमाधिकरणम् ॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ 3-4-21 ॥ [भावशब्दाच्च ॥ 22 ॥] उपादानात्- ‘‘स एष रसानां रसतमः परमः परार्थ्योऽष्टमो य उद्गीथ’’ इत्यत्र क्रत्वक्ष्गभूतोद्गीथमुपादाय ‘‘स एष रसानां रमतम’’ इति वचनात्, उद्गीथे रसतमत्ववचनं स्तुतिमात्रं इति चेत् इत्यान्तमाशङ्का; तां परिहरति न ङति; न स्तुतिमात्रम् । तत्र हेतुः अपूर्वत्वात् इति; अब्राप्तत्वात् इत्यर्थः इति सूत्रार्थः ॥ पूर्वपक्षः । ‘‘स एष रसानां रसतमः परमः परार्थ्योऽष्टमो य उद्गीथ’’ इत्यत्र क्रत्वङ्गभूतमुद्गीथमुपादाय तस्य रसतमत्वोक्तिः स्तुतिरूपा । यथा ‘‘इयमेव जुहूः’’ इत्यत्र क्रत्वङ्गभूतां जुहूमुपादाय, तस्याः पृथिवीत्वोक्तिः स्तुतिरूपा, तद्वत् ॥ सिद्धान्तः । उद्गीथे रसतमत्वस्य प्रमाणान्तराप्राप्तत्वेन तदुक्तेः स्तुतिरूपत्वं न संभवति । स्तुतिर्हि प्रमाणान्तरप्राप्तगुणानुवादेन भवति । अतोऽत्राप्राप्तत्वात् रसतमत्वेक्तिः न स्तुत्यर्था; अपि तु उद्गीथे रसतमत्वदृष्टिविधानार्थैव । ‘‘इयमेव जुहूः’’ इति वचनस्य क्रतुविधिप्रकरणस्थत्वेन यथाकथञ्चित् क्रतुविधिवाक्यैकवाक्यतासंभवे, तत्परित्यज्य वाक्यभेदकल्पनस्यान्याय्यत्वात् ‘इयमेव जुहूः’ इत्यादौ अर्थवादत्वमाश्रितम् । इह तु उद्गीथविधेरसन्निहितत्वात्, अर्थवादरूपत्वमुक्तवाक्यस्यान्याय्यम् । ‘‘उद्गीथमुमासीत’’ इत्युपासनविधिसन्निधानात् उद्गीथे रसतमत्वदृष्टिविधिरेवायमिति ॥ यद्यजनरूपकर्मण्युद्गीथो रसतमत्वेन । श्रुत्योपस्यो विहितस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 139 ॥ सूत्रव्याख्यानेनैव व्याख्यातमिदं पद्यम् । सर्वेषां यज्ञानां श्रीनिवासाराधनपरत्वे प्रमाणं पूर्वमेव दर्शितम् ॥ 110 ॥ इति स्तुतिमात्राधिकरणम् ॥ 2 ॥

सत्-विद्याद्यारंभेष्वाख्यानैः श्वेतकेतुमुख्यानाम् ।
यत्-विद्याः स्तूयन्ते तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 138 ॥

43 ॥ पारिप्लवाधिकरणम् ॥ 3 ॥ पूर्वाधिकरणे ’’ स एष रसानां रसतमः’’ इत्यादेः स्तुतित्वं निराकृत्य उपासनार्थत्वं स्थापितम् । तद्वत् ‘‘श्वेतकेतुर्हाऽऽरुणेय आस’’ इत्याद्याख्यानानां किं विद्यास्तुत्यर्थत्वमुचितं, उत पारिप्लवार्थत्वमिति शङ्कापरिहाराय प्रवृत्तभिदमाधिकरणम् ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ 3-4-23 ॥ [तथा चैकवाक्योपबन्धात् ॥ 24 ॥] ‘‘श्वेतकेतुर्हाऽऽरुणेय आस’’ इत्याद्युपाख्यानविशेषाः पारिप्लवार्थाः- ‘‘आख्यानानि शंसन्ति’’ इति विहिताख्यानशंसनार्था इति चेत् इत्यन्तं शङ्का । तां परिहरति न इति । न-आख्यानशंसनार्था नेत्यर्थः । तत्र हेतुः विशेषितत्वात् इति । शंसनीयानामाख्यानानां" विशिष्योक्तत्वादिति सूत्रार्थः ॥ पूर्वपक्षः । ‘‘आख्यानानि शंसन्ति’’ इति सर्वेषामाख्यानानां परिप्रवनाम्नि शंसने विनियुक्तत्वात्, ‘‘श्वेतकेतुर्हाऽऽरुणेय आस’’ इत्यादीन्याख्यानान्यपि शंसनार्थानीति ॥ सिद्धान्तः । ‘‘आख्यानानि शंसन्ति’’ इत्युक्त्वा शंसनीयानामाख्यानानां ‘‘मनुर्वैवस्वतो राजा’’ इत्यादिना विशिष्योक्तत्वात् ‘‘श्वेतकेतुर्हाऽऽरुणेय आस’’ इत्याद्युपाख्यानानि सद्विद्याविधिवाक्यैकवाक्यतया निबद्धत्वात् विधित्सितविद्याविशेषस्तुत्यर्थानि, न शंसनार्थानीति ॥ सद्विद्याद्यारंभेष्वाख्यानैः श्वेतकेतुमुख्यानां । यद्विद्याः स्तूयन्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 140 ॥ ब्रह्मविद्यानामुपक्रमे ‘‘श्वेतकेतुर्हाऽऽरुणेयः किलाऽऽस’’ इत्यादिश्वेतकेतुत्वाद्याख्यानैर्यस्य भगवतः श्रीनिवासस्य विद्याः" स्तूयन्ते तद्ब्रह्म इति पूर्ववत् ॥ सद्विद्यादीनां श्रीनिवासवेषयकत्वं पूर्वमेव निरूपितम् ॥ 111 ॥ इति पारिब्लवाधिकरणम् ॥ 3 ॥

यज्ञाद्यनधिकृता ये त्वाश्रमिणस्तेषु यत्-विद्या ।
नाकाङ्क्षति यज्ञादींस्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 139 ॥

44 ॥ अग्नीन्धनाद्यधिकरणम् ॥ 4 ॥ पूरुषार्थाधिकरणे संन्यासाश्रमनिष्ठानां ब्रह्मविद्याधिकरणश्रवणेन तेषां यज्ञादिकर्माभावात् ब्रह्मविद्याया न कर्माङ्गत्वमिति निरूपितम् । अनन्तरं स्तुतिप्रसङ्गात् अधिकरणद्वयं प्रवृत्तम् । इदानीं संन्यासाद्याश्रमनिष्ठानां अग्न्याधानीदिकर्मसापेक्षाया ब्रह्मविद्यायाः कथं संभव इत्याशङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ 3-4-25 ॥ चशब्द उम्क्तशङ्कानिवृत्तिद्योतकः । यतः श्रुतिषु संन्यासाद्याश्रमनिष्ठानां ब्रह्मविद्यासंबन्धः श्रूयते, अत एव तेषु ब्रह्मविद्या अग्न्याधानादिकर्मनिरपेक्षा इति सूत्रार्थः ॥ अयं भावः-संन्यासाद्याश्रमिणां स्वस्वाश्रमविहितधर्मैरेव विद्यानुग्रहसंभवात्, तेषां अग्न्याधानादिगृहस्थाश्रमधर्मविरहेऽपि न क्षतिः ॥ यज्ञाद्यनधिकृता ये त्वाश्रमिणस्तेषु यद्विद्या । नाकांक्षति यज्ञादींस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 141 ॥ नाकांक्षति यज्ञादीन् इति । तत्तदाश्रमविहितधर्मैरेव ब्रह्मविद्योपकारसंभवादिति भावः । शिष्टं स्पष्टम् ॥ 112 ॥ इति अग्नीन्धनाद्यधिकरणम् ॥ 4 ॥

यज्ञाधिकारवत्सु त्वग्न्याधानादिकान् सर्वान् ।
आकाङ्क्षति यत्-विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 140 ॥

45 ॥ सर्वाबेक्षाधिकरणम् ॥ 5 ॥ पूर्वाधिकरणे संन्यासाद्याश्रमनिष्ठेषु ब्रह्मविद्याया अग्न्याधानादिबूर्वकयज्ञादिनैरपेक्ष्यमुक्तम् । तर्हि गृहस्थाश्रमिष्वपि यज्ञादिनैरपेक्ष्यमस्त्वित्याशङ्गापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ 3-4-26 ॥ अत्र चशब्दोऽवधारणार्थः । यज्ञादिकर्माधिकरवत्सु गृहस्थाश्रमिषु ब्रह्मविद्या यज्ञादिसर्वकर्मसापेक्षैव; यज्ञादिश्रुतेः-यज्ञादिसाध्यत्वश्रुतेः" । अश्ववत्-यथा गमनसाधनभूतोऽश्वः गमनसाधनत्वोपयुक्तसर्वपरिकरसापेक्षः, तद्वदिति सूत्रार्थः ॥ अयं भावः- ‘‘तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’’ इति श्रूयते । तमेतं भगवन्तं श्रीनिवासं, ब्रह्मणा–ब्रह्मविद्यानिष्ठाः, वेदानुवचनेन-वेदाध्ययनेन, यज्ञेन, दानेन, तपसाकृच्छ्रचान्द्रायणादिव्रतेन, अनाशकेन-अनशनेन, उपवासव्रतेन इति यावत्; विविदिषन्ति-वेदितुमिच्छन्ति इति श्रुत्यर्थः । ‘असिना जिघांसति’ इत्यादौ यथा ‘असिना’ इति तृतीयया खङ्गस्य हननक्रियासाधनत्वं बोद्ध्यते, तद्वत् अत्रापि ‘यज्ञेन’ इत्यादितृतीयया यज्ञादेः ‘विविदिषन्ति’ इति सन्प्रत्ययानतोपस्थाप्यवेदनविषयकेच्छायामेव ‘यज्ञेन’ इत्यादितृतीयया यज्ञादेः साधनत्वं" बोद्ध्यतामिति वाच्यम्ः, वेदनेच्छायां यज्ञादेः साधनत्वे-नान्वययोग्यताविरहेण तथाऽन्वयबोधङ्गीकारासंवात् । तथा हि -स्वर्गादिरूपफलेच्छां" विना तदुपायभूतयागेच्छा नोत्पद्यते; यष्टुमिच्छां विना तदुपायद्रव्यार्जनेच्छा नोत्पद्यत इत्यनुभवसिद्धम् । ततश्च प्रकृते यज्ञादेर्वेदनेच्छासाधनत्वङ्गीकारे यज्ञादेर्वेदनेच्छा फलं; तस्याश्च वेदनं फलमिति लाभेन वेदनेय्छारूपफलेच्छां विना वेदनोपायभूतवेदनेच्छारूपोपायेच्छाया असंभवात्, तदसंभवे यज्ञादिरूपतदुपायेच्छाया असंभवात्, प्रथमं वेदनेच्छा; अनन्तरं वेदनेच्छारूपोपायेच्छा; ततस्तदुपायभूतयज्ञेच्छा उत्पद्यत इति वक्तव्यम् । ततश्च वेदनेच्छायामुत्पादनीयायां वेदनेच्छाया अपेक्षितत्वापत्त्या आत्माश्रयदोषप्रसङ्गः । अतो यज्ञादेर्वैदनेच्छासाधनत्वबोधङ्गीकारा सेभवात् वेदन एव तदन्वयबोधो वक्तव्यः । अतो यज्ञादेर्वेदनं प्रति साधनताया उक्तश्रुतिसिद्धतया गृहस्थाश्रमिषु ब्रह्मविद्या यज्ञादितदाश्रमविहितनित्यनैमित्तिकसर्वकर्मसापेक्षैवेति ॥ यज्ञाधिकरवत्सु त्वग्न्याधानादिकान् सर्वान् । आकांक्षति यद्विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 142 ॥ अत्र तुशब्दो यज्ञादिनैरपेक्ष्यशङ्कानिवर्तकः । सर्वान्-नित्यनैमित्तिकसर्वधर्मानित्यर्थः ॥ ‘‘तमेतं वेदानुवचनेन’’ इत्यादिश्रुतेः वाजसनेयकश्रुतदहरविद्यावेद्यविषयकत्वात् तस्याश्च विद्यायाः श्रीनिवासविषयकताया दहराधिकरणादिषु निर्णीतत्वात्, अत्र यद्विद्या इत्युक्तम् ॥ 113 ॥ इति सर्वापेक्षाधिकरणम् ॥ 5 ॥

यज्ञाधिकारवत्स्वपि यत्-विद्या शमदमादिसापेक्षा ।
अङ्गतया विहितत्वात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 141 ॥

46 ॥ शमदमाद्यधिकरणम् ॥ 6 ॥ पूर्वाधिकरणे ब्रह्मविद्यानिष्ठैः गृस्थाश्रमिभिः यज्ञादीनि नित्यनैमित्तिककर्माण्यनुष्ठेयानीत्युक्तम् । इन्द्रियव्यापाररूपाणां" तेषामनुष्ठेयत्वे इन्द्रियव्यापारनिवृत्तिरूपाणि शमदमादीनि तैरनुष्ठेयानि न वेत्याशङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ शमदमाद््युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ 3-4-27 ॥ यद्यपि शमदमादीनीन्द्रियव्यापारोपरमरूपाणि, तथाऽपि अङ्गत्वेन तेषामपि विहिततयाऽवश्यानुष्ठेयत्वेन गृहस्थो विद्यानिष्ठः शामदमाद्युपेतः" स्यात् इति सूत्रार्थः ॥ ‘‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्’’ इति श्रुतौ शमदमादीनां ब्रह्मविद्याङ्गतया विधानात् गृहस्थैः ब्रह्मविद्यानिष्ठैस्तान्यवश्यानुष्ठेयान्येव; शमदमादिविधीनां निषिद्धकर्मविषयत्वात् फलाभिसन्धिसहितकर्मविषयत्वाच्च, यज्ञादिविधीनां फलाभिसन्धिरहितनित्यनैमित्तिककर्मविषयत्वाच्च विरोधाभावात् । नित्यनैमित्तिककर्मणामनुष्ठानस्य चित्तविक्षेपवासनाहेतुत्वेऽपि तैः कर्मभिराराधितपरमपुरुषानुग्रहेण चित्तविक्षेपादिनिरासात् चितसमाधानोपपत्तेरिति भावः । एवंवित्-ब्रह्मविद्यानिष्ठः, शान्तः-निगृहीतान्तरिन्द्रियः, दान्तः-निगृहीतबाह्येन्द्रियः, उपरतः-निष्द्धकाम्यकर्मभ्यो निवृत्तः, तितिक्षुः-शीतोष्णसुखदुःखादिद्वन्द्रसहिष्णुः, समाहितः-चित्तैकाग्र्यवान, भूत्वा, आत्मन्येव-मनस्येव, आत्मानं-परमात्मानं, पश्येत्-दर्शनसमानाकारं यथा स्यात् तथा ध्यायेत्, साक्षात्कुर्यादित्यर्थः । अत्र ‘भूत्वा’ इत्यनेन शमदमादीनामङ्गत्वमुक्तं भवति ॥ यज्ञाधिकारवत्स्वपि यद्विद्या शमदमादिसापेक्षा । अङ्गतया विहितत्वात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 143 ॥ स्पष्टोऽर्थः ॥ ब्रह्मविद्यानां सर्वासां श्रीनिवासविषयकत्वस्य पूर्वमेव निरूपितत्वात् अत्र यद्विद्या इत्युक्तम् ॥ 114 ॥ इति शमदमाद्यधिकरणम् ॥ 6 ॥

प्राणविदोऽप्यतिशक्तेर्यन्निष्ठस्याऽपि भोजनानियमः ।
अत्यन्तापत्-विषयस्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 142 ॥

47 ॥ सर्वान्नानुमत्यधिकरणम् ॥ 7 ॥ पूर्वाधिकरणे ब्रह्मविद्यानिष्ठस्य शम आवश्यक इत्युक्तम् । तत्र भोजननियमरूपशमविशेषो ब्रह्मविदोऽस्ति न वेति वियाराय प्रवृत्तमिदमधिकरणम् ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ 3-4-28 ॥ [अबाधाच्च ॥ 29 ॥ अपि स्मर्यते ॥ 30 ॥ शब्दश्चातोऽकामकारे ॥ 31 ॥] चशब्दोऽवधारणे । प्राणविद्यानिष्ठोस्य सर्वान्नानुमतिः प्राणापद्दशाविषयैव; ब्रह्मविद्विषये प्राणापद्विषयत्वदर्शनात् इति सूत्रार्थः ॥ पूर्वपक्षः । छान्दोग्ये पञ्चमप्रपाठके प्राणविद्याप्रकरणे ‘‘न ह वा एवंविदि किञ्चनानन्नं भवति’’ इति श्रुतौ ‘प्राणविद्यानिष्ठस्य किमप्यन्नमनदनीयं" न भवति’ इत्युक्त्वा प्राणविद्यानिष्ठस्य सर्वदा निषिद्धान्नस्यापि भोजनानुमतिर्विद्यामाहात्म्यादिति प्रतीयते । एवमल्पशक्तेः" प्राणविदो निषिद्धान्नानुमतौ ब्रह्मविद्यानिष्ठस्य सर्वदा निषिद्धान्नानुमतिः कैमुतिकन्यायसिद्धेति ॥ सिद्धान्तः । ब्रह्मविद्यानिष्ठस्य उषस्तस्य प्राणापद्दशायां हस्तिपकोच्छिष्टकुलमाषभक्षणास्य तेन लब्धप्राणधारणस्य तस्य हस्तिपकदत्तपानान्निवृत्तेश्च छान्दोग्ये प्रथमप्रपाठके नवमखण्डे उषस्तवृत्तान्तप्रकरणे श्रवणेन, महामहिमशालिनो ब्रह्मविदोऽपि निषिद्धान्नभक्षणस्याऽऽपद्विषयत्वावगमेन ‘‘आहारशुद्धौ सत्त्वशुद्धिः सत्तवशुद्धौ ध्रुवा स्मृतिः’’ इत्याहारशुद्धेरावश्यकताश्रवणेन, ‘‘प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः" । लिप्यते न स पापेन पद्मपत्रमिवांभसा’’ इति ब्राह्मणसामान्यस्याऽऽपदि सर्वान्नानुमतिस्मरणेन ‘‘तस्मान्न ब्राह्मणः सुरां पिबेत्’’ इति ब्राह्मणसामान्यस्य निषिद्धभक्षणान्निवृत्तेः श्रवणेन च ब्रह्मविदोऽपि सर्वान्नानुमतेरापद्विषयत्वसिद्धौ, अल्पशक्तेः प्राणो पासकस्य सर्वान्नानुमतिरापद्विषयेवेति किमु वक्तव्यम् ॥ प्राणविदोऽप्यतिशक्तेर्यन्निष्ठस्याऽपि भोजनानियमः । अत्यन्तापद्विषयस्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 144 ॥ प्राणविद्यानिष्ठादपि ब्रह्मविद्यामाहात्म्येन शक्त्यतिशयवतो यन्निष्ठस्यश्रीनिवासोपासनारूपब्रह्मविद्यानिष्ठस्य, अन्नभोजननियमाभावः-निषिद्धान्न भोजनं, अत्यन्तापद्विषयः, तद्ब्रह्म इति पूर्ववत् ॥ 114 ॥ इति सर्वान्नानुमत्यधिकरणम् ॥ 7 ॥

यदुपासनाङ्गभूतं यज्ञादिकमङ्गमाश्रमस्यापि ।
भवति विनियोगभेदात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 143 ॥

48 ॥ विहितत्वाधिकरणम् ॥ 8 ॥ ‘‘सर्वापेक्षा च’’ इत्यधिकरणे यज्ञादीनां ब्रह्मविद्याङ्गत्वमुक्तम् । तेषां विद्याङ्गत्वेऽमुमुक्षुभिर्गृहस्थाश्रमनिष्ठैर्यज्ञादिकर्माण्यनुष्ठेयानि न वेत्याशङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ विहितत्वाच्चाऽऽश्रमकर्माऽपि ॥ 3-8-32 ॥ सहकारित्वेन च ॥ 33 ॥ [सर्वथाऽपि त एवोभयलिङ्गात् ॥ 34 ॥ अनभिभवं च दर्शयति ॥ 35 ॥] चश्शङ्कानिवृत्तौ । विद्याङ्गानि यज्ञादीनि आश्रमाङ्गान्यपि भवन्तीत्यर्थः । तत्र हेतुः विहितत्वाच्च इति । ‘‘यावज्जीवमघ्निहोत्रं" जुहोति’’ इत्यादौ आश्रमनिष्ठानामप्यनुष्ठेयतया विहितत्वादित्यर्थ इति प्रथमसूत्रार्थः । विद्यास्वरूपोत्पादकतया विद्याङ्गत्वेन विहितत्वाच्चेति द्वितीयसूत्रार्थः ॥ पूर्वपक्षः । यज्ञादीनां विद्याङ्गत्वे आश्रमाङ्गत्वं न संभवति; विद्याङ्गत्वे मुमुक्षूणामेव विद्यायामधिकारात् । मुमुक्षायां सत्यां यज्ञादीनामनुष्ठेयतया अनित्यता स्यात् । गृहस्थाश्रमाङ्गत्वे ‘‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’’ इति गृहस्थैर्यावज्जीवमनुष्ठेयताविधानात् नित्यता स्यात् । ततश्च नित्यत्वानित्यत्वयोर्विरुद्धधर्मयोः समावेशप्रसङ्गः । न चैकस्य कर्मणो नित्यत्वकाम्यत्वोभयसंभवात् अङ्गताग्राहकप्रमाणभेदरूपविनियोगवृथक्त्वन्यायेन उक्तविरोधः परिहर्तु शक्य इति वाच्यम् । विद्याङ्गकर्मणामाश्रमाङ्गकर्मणां च भिन्नभिन्नप्रकरणविहितानां स्वरूपैक्ये प्रमाणाभावेन तेषां स्वरूपैक्यस्यासंभवात् । विद्याङ्गकर्मणामाश्रमाङ्गत्वासंभवेन केवलाश्रमिभिः यज्ञादीन्यननुष्ठेयानीति ॥ सिद्धान्तः । यथा ‘‘अग्निहोत्रं जुहुयात् स्वर्गकामः’’ इत्यादिशस्त्रैः स्वर्गकामनायां सत्यामनुष्ठेयतया विहितस्याग्निहोत्रादिकर्मणो ‘‘यावज्जीवमग्निहोत्रं" जुहोति’’ इत्यादिभिः नित्यतया विधानेन प्रसक्तः नित्यत्वानित्यत्वविरोधः विनियोजकप्रमाणभेदरूपविनियोगवृथक्त्वन्यायेन परिह्रियते, तद्वत इहापि ‘‘तमेतं वेदानुवचनेन ब्रह्माणा विविदिषन्ति यज्ञेन दानेन’’ इत्यादिशस्त्रैर्विद्याङ्गतया विहितानां यज्ञादीनां ‘‘यावज्जीवं" दर्शपूर्णमासाभ्यां यजेत’’ इत्यादिभिः गृहस्थाश्रमाङ्गतयाऽपि विधानात् य एव यज्ञादय आश्रमाङ्गतया विहितस्तानेव यज्ञादीन् ‘‘यज्ञेन दानेन तपसाऽनाशकेन’’ इति श्रुतौ यज्ञादिशब्दैः प्रत्यभिज्ञाप्य तेषां ‘विविदिषन्ति’ इति विद्योपत्त्यर्थतया विधानात्, ‘‘धर्मेण पापमपनुदति’’ इत्यादिश्रुतिषु धर्मशब्दनिर्दिष्टैस्तैरेव यज्ञादिभिर्ब्रह्मविद्योत्पत्तिप्रतिबन्धकपापनिरसनद्वारेण विद्योत्पत्त्यर्थताया दर्शितत्वाच्च, आशमाङ्गविद्याङ्गकर्मणोः स्वरूपैक्यात् विनियोगवृथक्त्वन्यायेन नित्यानित्यसंयोगविरोधस्य सुपरिहरत्वात् विद्याङ्गानां" यज्ञादीनामाश्रमाङ्गत्वे बाधकाभावेन मुमुक्षारहितैर्गृहस्थाश्रमनिष्ठैरपि यज्ञादीन्यनुष्ठेयान्येवेति ॥ यदुपासनाङ्गभूतं यज्ञादिकमङ्गमाश्रमस्यापि । भवति विनियोगभेदात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 145 ॥ विनियोगभेदात्-अङ्गत्वग्राहकप्रमाणभेदादित्यर्थः ॥ 116 ॥ इति विहितत्वाधिकरणम् ॥ 8 ॥

स्वार्हैर्दानजपाद्यैरपि सिद्धेस्संभवात्-विधुरः ।
यदुपास्तावधिकुरुते तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 144 ॥

49 ॥ विधुराधिकरणम् ॥ 9 ॥ ब्रह्मचर्याद्याश्रमनिष्ठानां ब्रह्मविद्यायामधिकारोऽस्तीति निरूपितम् । आश्रमरहितानामाश्रमाङ्गकर्मासंभवात् तदङ्गकब्रह्मविद्यायामधिकारो नास्तीति पूर्वपक्षे प्राप्ते तत्परिहाराय प्रवृत्तमिदमधिकरणम् ॥ अन्तरा चापि तु तद््दृष्टेः ॥ 3-4-36 ॥ [अपि स्मर्यते ॥ 37 ॥ विशेषानुग्रहश्च ॥ 38 ॥ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ 39 ॥] अन्तरा-आश्रमान् विना वर्तमानानां मृतदारादीनां ब्रह्मविद्यायामधिकारोऽस्ति; तद््दृष्टेः-रैक्वभीष्मादीनां आश्रमरहितानां ब्रह्मविद्यानुष्ठानदर्शनात् इति सूत्रार्थः ॥ ‘‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन’’ इति श्रुतौ दानोपवासयोः ‘‘जपेनापि च संसिद्ध्येत् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यात् मैत्रो ब्राह्मण उच्यते’’ इति स्मृतौ जपस्य, ‘‘तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्येत्’’ इति श्रुतौ तपःप्रभृतीनां च ब्रह्मविद्योत्पादकत्वाभिधानेन अनाश्रमिणां तेष्वधिकारसंभवात्, रैक्वादीनामनाश्रमिणां ब्रह्मविद्यानुष्ठानदर्शनाच्च अनाश्रमिणामप्यधिकारोऽस्त्येव । परन्तु आश्रमेषु भूयसां धर्माणां सत्त्वात् अनाश्रमिणो धर्मस्य अल्पत्वात् अल्पैर्थर्मैरनुग्रहापेक्षया भूयोभिर्थर्मैरनुग्रहाधिक्यसंभवात्, ‘‘अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः’’ इत्यनापदि अनाश्रमित्वनिषेधाच्च आश्रमित्वमेव युक्तम् ॥ स्वार्हैर्दानजपाद्यैरपि सिद्धेस्संभवाद्विधुरः । यदुपास्तावधिकुरुते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 146 ॥ विधुरः- अनाश्रमी । सिद्धेः संभवात्-ब्रह्मविद्योत्पादनसंभवात् । शिष्टं स्पष्टम् ॥ 117 ॥ इति विधुराधिकरणम् ॥ 9 ॥

आरूढाः पतिता ये संन्यासाद्याश्रमात् तेषाम् ।
नाधिकृतिर्यदुपास्तौ तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 145 ॥

50 ॥ तद्भूताधिकरणम् ॥ 10 ॥ पूर्वाधिकरणे विधुरादीनामुपवासादिभिरनुग्रहसंभवात् ब्रह्मविद्यायामधिकारोऽस्तीति निरूपितम् । तद्वत् आशमभ्रष्टानामपि ब्रह्मविद्यायामधिकारोऽस्त्विति शङ्कापरिहाराय प्रवृत्तमिदमाधिकरणम् ॥ तद््भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः ॥ 3-4-40 ॥ [न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ 41 ॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ 42 ॥ बहिस्तूभयधाऽपि स्मृतेराचाराच्च ॥ 43 ॥] तुशब्दः पक्षव्यावृत्त्यर्थः । तद्भतस्य-नैष्ठिकादिभावं प्राप्तस्य, अतद्भावः- नौष्ठिकत्वाद्यभावः, नैष्ठिकाश्रमादिभ्यश्च्युतिरिति यावत्; न भवतीत्यर्थः । तत्र हेतुमाह नियमात् इत्यादिना । तेषां नैष्ठिकादीनां, यानि रूपाणि-धर्माः, तेषां अभावेभ्यः- परित्यागेभ्यः, नियमात्-व्यावर्तनादिति सूत्रार्थः ॥ अयं भावः- ‘‘ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’’ इति नैष्ठिकब्रह्मचारिणो यावदायुषं ब्रह्मचर्येशैवावस्थानविधानात्, ‘‘अरण्यमियात् ततो न पुनरेयात्’’ इति वानप्रस्थस्य तदाश्रमान्निवृत्तिप्रतिषेधात्, ‘‘संन्यस्याग्निं न पुनरावर्तयेत्’’ इति संन्यासाश्रमं" प्राप्तस्य ततो निवृत्तिनिषेधाच्च नैष्ठिकाद्याश्रमात् भ्रष्टानामशुद्धत्वेन तेषां ब्रह्मविद्यायां नाधिकारः । न च अधिकारलक्षणाख्यप्रायश्चित्तग्रन्थोक्तप्रायश्चित्तेन तेषां शुद्धिसंभवात् ब्रह्मविद्यायामधिकारः संभवतीति वाच्यं; ‘‘आरूढो नैष्टिकं धर्म यस्तु प्रच्यवते नरः । प्रायश्चित्तं न पश्यामि येन शुद्ध्येत् स आत्महा’’ इति नैष्ठिकादेर्भ्रष्टत्य प्रायश्चित्ताभावस्मरणात्, प्रायश्चित्तशास्त्रस्योपकुर्वाणब्रह्मचारिविषयत्वात् । आश्रमात् भ्रंशस्य उपपातकत्वमङ्गीकृत्य निषिद्धमध्वशनादौ प्रायश्चित्तवत् आशमभ्रष्टानामपि प्रायश्चित्तस्य कैश्चित् अभ्युपगमेऽप्याश्रमात् भ्रंशस्य महापातकत्वे उपपातकत्वे वा ‘‘प्रायश्चित्तं न पश्यामि येन शुद्ध्येत् स आत्महा’’ इति स्मृत्या तेषामशुद्धिस्मरणात्, शिष्टैस्तेब्यो ब्रह्मविद्याया अनुपदेशाच्च तेषां ब्रह्मविद्यायां नास्त्यधिकार इति ॥ आरूढाः पतिता ये संन्यासाद्याश्रमात् तेषां । नाधिकृतिर्यदुपास्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 147 ॥ स्पष्टोऽर्थः ॥ 118 ॥ इति तद्भूताधिकरणम् ॥ 10 ॥

यत्-विद्यासहकारिक्रत्वङ्गोद्गीथवेदनाः सर्वाः ।
ऋत्विग्भिः कर्तव्यास्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 146 ॥

51 ॥ स्वाम्यधिकरणम् ॥ 11 ॥ पूर्व ब्रह्मोपासनानुष्ठात्रननुष्ठातृविभाग उक्तः । तत्प्रसङ्गात् उद्गीथोपासनानुष्ठात्रननुष्ठातृविभागनिरूपणाय ब्रवृत्तमिदमधिकरणम् ॥ स्वामिनः फलश्रुतेरित्यात्रयेः ॥ 3-4-44 ॥ इदं पूर्वपक्षसूत्रम् । उद्गीथोपासनं, स्वामिनः- यजमानस्य, कर्मयजमानेनानुष्ठेयमित्यर्थः । तस्यैव फलप्राप्तिश्रुतेः इति आत्रेयो मन्यत इति सूत्रार्थः ॥ अयं भावः- यथा दहराद्युपासनानि तत्फलाश्रयकर्तृकाणि त्था उद्गीथोपासनान्यपि क्रतुफलाप्रतिबन्धरूपफलाश्रयेण यजमानेन कर्तव्यानि, तेषां पुरुषार्थत्वात् । न च गोदोहनस्य पुरुषार्थत्वेऽपि तत्करणकं प्रणयनं यथर्त्विजा क्रियते, तद्वत् उद्गीथोपासनस्य पुरुषार्थत्वेऽपि तस्य ऋत्विक्कर्तृकत्वमेव न्याय्यमिति वाच्यम् । ऋत्विक््क्रियमाणाप्प्रणयनाश्रयस्य गोदोहनस्य यजमानेन उपादातुमशक्यतया तेनापां" प्रणयनं ऋत्विक्कर्तृकमाश्रितम् । इह तु उद्गात्रा क्रियमाण उद्गीथे यजमानेन रसतमत्वेनोपासनस्य कर्तु शक्यतया फलभाजा तेनैव उपासनं" कर्तव्यमिति ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ 3-4-45 ॥ इदं सिद्धान्तसूत्रम् । उद्गीथोपासनं, आर्त्विज्यं-ऋत्विक्कर्म, ऋत्विजा कर्तव्यमित्यर्थः । अत्र हेतुमाह-हि-यतः, तस्मै-साङ्गक्रत्वनुष्ठानाय, ऋत्विक् परिक्रियते-दक्षिणया स्वीक्रियत इति सूत्रार्थः ॥ अयं भावः- ‘‘ऋत्विजो वृणीते’’ ‘‘ऋत्विग्भ्यो दक्षिणां ददाति’’ इति शास्त्रेण साङ्गक्रत्वनुष्ठानाय ऋत्विग्वरणस्य, तेभ्यो दक्षिणाप्रदानस्य च विहितत्वेन क्रत्वन्तर्गतस्य कायिकस्य मानसस्य च सर्वस्य तेनैव कर्तव्यत्वात् उद्गीथोपासनमपि तेनैव कर्तव्यं, न तु तत्र यजमानेन कर्तु शक्यत्वमशक्यत्वं वा प्रयोजकमिति ॥ यद्विद्यासहकारिक्रत्वङ्गोद्गीथवेदनाः सर्वाः । ऋत्विग्भिः कर्तव्यास्तद्ब्रह्म श्रीनिवासनाम भजे ॥ 148 ॥ उद्गीथवेदनाः- उद्गीथोपासनानीत्यर्थः । शिष्टं स्पष्टम् ॥ 119 ॥ इति स्वाम्याधिकरणम् ॥ 11 ॥

यस्य शुभाश्रयमननं शमादिवत् यस्य चिन्तायाः ।
सहकारितया विहितं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 147 ॥

52 ॥ सहकार्यधिकरणम् ॥ 12 ॥ यज्ञादिकं शमदमादिकं च विद्याङ्गभूतं निरूपितम्; तत्सङ्गतं च मध्ये प्राप्तं निरूपितम् । इदानीं विद्याया अङ्गान्तरनिरूपणाय प्रवृत्तमिदमधिकरणम् ॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ 3-4-46 ॥ [कृत्स्नभावात्तु गृहिणोपसंहारः ॥ 47 ॥ मौनवदितरेषामप्युपदेशात् ॥ 48 ॥] बृहदारण्यके ‘‘तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः, मौनं चामौनं" च निर्विद्याथ ब्रह्मणः’’ इति श्रूयते । तस्मात्-वैराग्यस्यऽऽवश्यकत्वात्, ब्राह्मणः-अधीतकृत्स्नवेदः, पाण्डित्यं-उपदेशैकसमाधिगम्यार्थज्ञानं" निर्विद्य-प्राप्य, बाल्येन तिष्ठासेत्; बाल्यं च पाण्डित्यं च निर्विद्य, अथ मुनिः स्यात्-पुनः पुनरुपासनालम्बनशुभाश्रयचिन्तनपरः" स्यात् । अमौनं च - मौनव्यतिरिक्तबाल्यपाण्डित्योभयं, मौनं च-शुभाश्रयसंशीलनं च प्राप्य; अथ ब्राह्मणः- लब्धनिदिध्यासनो भवतीति श्रुत्यर्थः । अत्र ‘अथ मुनिः’ इत्यत्र विधिप्रत्ययाश्रवणात् पूर्वोक्तस्य पाण्डित्यस्यैव अनुवादः; न तु विद्यासहकारिणः सस्यचिदन्यस्य विधानमिति पूर्वपक्षे प्राप्ते, अनेन सिद्धान्त उच्यते-तद्वतः-ब्रह्मविद्यावतः विध्यादिवत-विद्यासहकारितया विधीयमानानि यानि यज्ञादीनि, यानि शमदमादीनि, ये चानूद्यमाने श्रवणमनने, तद्वत्; ‘अथ मुनिः’ इत्यत्र मुनिशब्दोक्ते सहकार्यन्तरविधिः-सहकार्यन्तरतया विधीयमानमित्यर्थः" । विधीयमानं सहकार्यन्तरमिति फलितोऽर्थः । तच्च मुनिशब्देक्तं सहकार्यन्तरं तृतीयं-बाल्यपण्डित्ययोस्तृतीयं, पुनः पुनरालम्बनसंशीलनरूपं" मौनमित्यर्थः । मुनिशब्देनोक्तर्थलाभोपपादनपरं ‘पक्षेण’ इति पदम् । पक्षेण-परिग्रहेण, अत्यादरेणेति यावत् । प्रकृष्टमननशीलेषु पराशरादिषु मुनिशब्दप्रयोगदर्शनादुक्तार्थलाभ इति सूत्रार्थः ॥ अयं भावः- यथा यज्ञादयः शमादयश्च ‘‘यज्ञेन दानेन’’ इत्यादिश्रुतिषु विद्यासहकारितया विधीयन्ते, यथा च श्रवणामनने ‘‘श्रोतव्यो मन्तव्य’’ इति विद्यासहकारितयाऽनुद्येते, तथा ‘अथ मुनिः’ इत्यत्र बाल्यपाण्डित्ययोस्तृतीयं पराशरादिषु प्रसिद्धं शुभाश्रयसंशीलनरुपं" मौनं विद्यासहकारितयाऽप्राप्तत्वात् विधीयते । बाल्यं पाण्डित्यं मौनं च त्रितयं विधीयते इति यावत् । ततश्च ‘मुनिः स्यात्’ इति विधिः कल्पनीय इति ॥ नन्वेवं ब्रह्मविद्यायाः सर्वाश्रमिसाधारणत्वे तत्तदाश्रमविहितधर्मसहितबाल्यपाण्डित्यमौनत्रितयाङ्गकत्वे चाभ्युपगम्यमाने, छान्दोग्ये ‘‘आचार्य कुलाद्वेदमधीत्य’’ इत्याद्युपक्रम्य, ‘‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’’ इत्यादिना गृहस्थाश्रमनिष्ठविषयतया उपसंहारः" कथमुपपद्यते इति चेत्, उच्यते-ब्रह्मविद्यायाः सर्वाश्रमसाधारण्यात्, तत्र गृहस्थाश्रमरूपविशेषे उपसंहार इति न तद्विरोधः । एवं" वाजसनेयके ‘‘तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य’’ इत्यारभ्य ‘‘एतं वैतमात्मानं विदित्वा ब्रह्मणः पुत्रेषणायाश्च दारेषणायाश्च लोकेषणायाश्च व्युत्थाय, अथ भिक्षाचर्य चरति’’ इत्यादिना भिक्षाचर्वादिरूपसंन्यासाश्रमनिष्ठधर्मोपादानपूर्वकं बाल्यपाण्डित्यमौनानां" त्रयाणां विद्यासहकारितयोपदेशप्रकरणे संन्यासाश्रमधर्मोपादानं आश्रमान्तरधर्माणामपि प्रदर्शनार्थम्; सर्वाश्रमिणामपि ब्रह्मविद्यायामधिकारस्य ‘‘ब्रह्मसंस्थोऽमृतत्वमेति’’ इत्यत्र श्रवणादिति ॥ यस्य शुभाश्रयमननं शमादिवत् यस्य चिन्तायाः । सहकारितया विहितं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 149 ॥ यस्य श्रीनिवासस्य शुभाश्रयचिन्ता-व्युत्थानकाले दिव्यमङ्गलविग्रहसंशीलनं, शमादिवत् । शिष्टं स्पष्टम् ॥ उपस्तब्राह्मणे ‘‘योऽशनायापिपासे शोकं मोहं जरां मृत्यमत्येति’’ इति प्रक्रान्तात्मविषयत्वात्, ‘‘पाण्डित्यं च बाल्यं च निर्विद्य अथ मुनिः स्यात्’’ इति श्रुतेः, तस्याऽऽत्मनोऽशनायद्यतीतत्वेन ‘‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः" सत्यसङ्कल्पः’’ इति श्रुत्युक्तात्मैक्यस्य प्रत्यभिज्ञायमानतया, तस्य च आत्मनः ‘‘एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः’’ इति श्रुत्युक्तनारायणत्वप्रत्यभिज्ञानात्, ‘‘अथ मुनिः स्यात्’’ इति विहितं मननं श्रीनिवासशुभाश्रयमननमिति सिद्धमित्यभिप्रायेण यस्य शुभाश्रयमननं इत्युक्तम् ॥ 120 ॥ इति सहकार्यधिकरणम् ॥ 12 ॥

यत्-विद्यानिष्ठस्य प्रकृष्टमाहात्म्यशालिनो विहितम् ।
महिमानाविष्करणं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 148 ॥

53 ॥ अनाविष्काराधिकरणम् ॥ 13 ॥ पूर्वाधिकरणे बाल्यपाण्डित्यमौनत्रयं विद्यासहकारितया विहितमित्युक्तम् । तत्र बाल्यशब्दार्थविवरणाय प्रवृत्तमिदमाधिकरणम् ॥ अनाविष्कुर्वन्नन्वयात् ॥ 3-4-49 ॥ विद्वान् स्वमाहात्म्यं अनाविष्कुर्वन् वर्तेतेत्यर्थः । अनाविष्काररूपबाल्यस्यैव ‘‘बालयेन तिष्ठासेत्’’ इति श्रुतौ अन्वययोग्यत्वादिति सूत्रार्थः ॥ ‘‘तस्मात् ब्राह्मणः पाण्डियं निर्विद्य बाल्येन तिष्ठासेत्’’ इति ब्रह्मविद्याङ्गतया श्रुतौ विधीयमानं बाल्यं न कामचारकामवादकामभक्षणरूपं" बालकर्म, ‘‘नाविरतो दुश्चरीतात्’’ इत्यादिश्रुतिभिः कामचारादेः ब्रह्मविद्याविरोधित्वेनोक्तेः ; अपि तु स्वस्वभावानाविष्काररूपं" बालकर्मैव, स्वमाहात्म्यानाविष्काररूपस्य तस्यैव विद्यानयोग्यत्वात् ॥ यद्विद्यानिष्ठस्य प्रकृष्टमाहात्म्यशालिनो विहितम् । महिमानाविष्करणं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 150 ॥ ‘‘बाल्येन तिष्ठासेत्’’ इति श्रुतिविवक्षितब्रह्मविद्यायाः श्रीनिवासविषयकत्वं पूर्वाधिकरणे निरूपितम् ॥ 121 ॥ इति अनाविष्काराधिकरणम् ॥ 13 ॥

न नियतिरैश्वर्यफला यत्-विद्योत्पद्यते तदैवेति ।
धर्मेष्वनुष्ठितेष्वपि तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 149 ॥

54 ॥ ऐहिकाधिकरणम् ॥ 14 ॥ एतावता ब्रह्मविद्याङ्गं निरूपितम्; अङ्गिभूतब्रह्मविद्योत्पत्तिसमयनिरूपणाय प्रवृत्तमिदमधिकरणद्वयम् । तत्र मोक्षेतरफलसाधनब्रह्मविद्योत्पत्तिसमयनिरूपणाय प्रवृत्तमिदमधिकरणम् ॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ 3-4-50 ॥ ऐहिकं-मोक्षेतरफलसाधनं ब्रह्मोपासनं, प्रबलकर्मभिः प्रतिबन्धाभावे सति उत्पद्यत इत्यर्थः । तत्र हेतुमाह तद्दर्शनात् इति । ‘‘यदेव विद्याया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवते’’ इति ब्रह्मोपासनस्य प्रतिबन्धसंभवश्रवणादिति सूत्रार्थः ॥ ‘‘चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन’’ इति ब्रह्मोपासनस्यानेकजन्मार्जितसुकृतकर्मसाध्यत्वाभिधानात्, तेषां च सुकृतकर्मणां" प्रबलैः कर्मान्तरैः फलप्रतिबन्धाभावे सति ब्रह्मोपासनं तदानीमेवोत्पद्यते । ‘‘यदेव विद्यया करोति’’ इत्युदाहृतश्रुतौ उद्गीथोपासनविशिष्टतया क्रियमाणस्य क्रतुरूपस्य पुण्यकर्मणः फलप्रतिबन्धाभावरूपवीर्यवत्तरत्वश्रवणेन उद्गीथोपासनरहितक्रत्वादिरूपपुण्यकर्मणः प्रबलकर्मभिः" फलप्रतिबन्धसिद्धेरिति भावः ॥ न नियतिरैश्वर्यफला यद्विद्योत्पद्यते तदैवेति । धर्मेष्वनुष्ठितेष्वपि तद्ब्रह्म श्रीनिवासनाम भजे ॥ 151 ॥ ऐश्वर्यफला, यद्विद्या-यस्य श्रीनिवासस्य विद्या, ‘‘चतुर्विधा भजन्ते मां’’ इति गीतादिषु विहितेति भावः । धर्मेषु-विद्योत्पत्तिसाधनमूतसुकृतकर्मसु अनुष्ठितेष्वपि, तदानीमेवोत्पद्यते इति न नियमः, तद्ब्रह्म इति पूर्ववत् । अनियमहेतुः सूत्रव्याख्याने निरूपितः । दुर्लभा श्रीनिवासे भक्त्युत्पत्तिरित्यनेनाधिकरणेन भक्तेर्माहात्म्यमुक्तं भवति ॥ 122 ॥ इति ऐहिकाधिकरणम् ॥ 14 ॥

यत्-विद्या प्रबलतमाप्यसति प्रतिबन्धके प्रबले ।
उत्पद्यते तदानीं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 150 ॥

55 ॥ मुक्तिफलाधिकरणम् ॥ 15 ॥ मुक्तिफलकस्यापि ब्रह्मोपासनस्य उत्पत्तिकालानियमनिरूपणाय प्रवृत्तमिदमधिकरणम् ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेः तदवस्थावधृतेः ॥ 3-4-51 ॥ मुक्तिफलस्य ब्रह्मोपासनस्यापि एवं-तत्साधनभूतसुकृतकर्मानुष्ठानानन्तरं एवोत्पत्तिरिति नियमो नास्ति, तदवस्थावधृतेः, तस्य मोक्षफलसाधनब्रह्मोपासनस्यापि, अवस्थायाः-उत्पत्तिकालमर्यादायाः, अवधृतेः-अवधारणात्, निर्णयादिति सूत्रार्थः ॥ मोक्षसाधनभूतब्रह्मोपासनोत्पत्तिसाधनानामैश्वर्यफलसाधनब्रह्मोपासनोत्पादकसुकृतकर्मापेक्षयाऽतिशयितानामपि ततोऽपि प्रबलब्रह्मविदपचारादिभिः" प्रतिबन्धसंभवात् प्रतिबन्धकनिवृत्त्यनन्तरमेवोत्पत्तिरिति स्वसाधनधर्मानुष्ठानानन्तरमेवेति न नियम इति भावः । अयं विचार उद्गीथोपासनरहितक्रत्वङ्गकब्रह्मोपासनविषयः" ॥ ‘तदवस्थावधृतेः’ इति पदाभ्यासोऽध्यायसमाप्तिद्योतनार्थः ॥ यद्विद्या प्रबलतमाऽप्यसति प्रतिबन्धके प्रबले । उत्पद्यते तदार्नी तद्ब्रह्म श्रीनिवासनाम भजे ॥ 152 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" तृतीयाध्यायस्य चतुर्थः पादः" स्पष्टोऽर्थः ॥ 123 ॥ इति मुक्तिफलाधिकरणम् ॥ 15 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शरीरकाधिकरणरत्नमालाप्रकारो तृतीयाध्यायस्य चतुर्थः पादः ॥ ॥ तृतीयाध्यायः समाप्तः ॥