रथवेशन्तप्रभृतीन्यत्याश्चर्याणि देहिनां स्वप्ने ।
सृजति यदचिन्त्यशक्त्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 92 ॥
7 ॥ सन्ध्याधिकरणम् ॥ 1 ॥ पूर्वस्मिन् पादे संसरतो जीवस्य संसारदोषदर्शनेन तत्र जिहासोत्पादनाय जाग्रदवस्थायां लोकान्तरे इह च विविधदुःखानुभवो निरूपितः" । इदानीं परमात्मप्राप्तीच्छोत्पादनाय परमात्मनः प्राप्यत्वोपास्यत्वयोस्सिद्धये तस्य निरस्तनिखिलदोषत्वं, अनन्तकल्याणगुणाकरत्वं" च निरूपयितुं द्वितीयः पाद आरभ्यते ॥ तत्र संसरतो जीवस्य स्वाप्नकालिककल्मफलानुभवनिरूपणेन तदवस्थायां दोषान्निरूपयितुं, परस्य ब्रह्मणो विचित्रशक्तियोगं दर्शयितुं" च प्रवृत्तमिदमधिकरणम् । यद्यपि जाग्रदवस्थावत् स्वप्नाद्यवस्था अपि पूर्वपाद एव निरूपणीयाः, तथापि तन्निरूपणस्य परमात्मविचित्रशक्तियोगनिरूपणरूपत्वेन, परमात्मनः कल्याणगुणनिरूपणपरेऽस्मिन् पाद एव तन्निरूपणमुचितमित्यभिप्रेत्य, अस्मिन् पादे तन्निरुपणं कृतम् ॥ सन्ध्ये सृष्टिराह हि ॥ 3-2-1 ॥ निर्मातारं चैके पुत्रादयश्च ॥ 2 ॥ इदं सूत्रद्वयं पूर्वपक्षविषयम् । उक्तसूत्रद्वयाभिप्रेतोऽयं पूर्वपक्षः- ‘‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति; अथ रथान् रथयोगान् पथः सृजते’’ इत्युपक्रम्य, ‘‘स हि कर्ता’’ इति श्रूयते । तत्र ‘‘रथान् रथयोगान् पथः सृजते’’ इति रथादिस्रष्टृत्वेनोच्यमानः" पुरुषः क इति जिज्ञासायां, ‘‘स हि कर्ता’’ इत्युत्तरवाक्ये तच्छब्देन ‘‘सन्ध्यं तृतीयं स्वप्नस्थानं; तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभे स्थाने पश्यतीदं च परलोकस्थानं च’’ इत्यादिपूर्ववाक्ये प्रस्तुतं स्वप्नद्रष्टारं परमृश्य तस्य स्वाप्नार्थकर्तृत्वोक्त्या स्वप्नद्रष्टा जीव एव स्वाप्नरथादीनां स्रष्टेति निर्मीयते । एवं कठवल्ल्यां ‘‘य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’’ इत्यस्मिन् मन्त्रे जीवस्यैव स्वाप्नपदर्थनिर्मातृत्वमभिधीयते । अत्र हि ‘कामं कामं’ इत्यनेन ‘‘सर्वान् कामान् छन्दतः प्रार्थयस्व । शतायुषः पुत्रपौत्रान् वृणीष्व’’ इति पूर्वप्रस्तुतानां काम्यमानानां पुत्रपौत्रादीनां प्रत्यभिज्ञानात् तेषां निर्मातृत्वेनोच्यमानः" पुरुषो जीवात्मैव भवितुमर्हति; तस्यैव पुत्रपौत्रादिप्रतिसंबन्धित्वसंभवात् । अतस्स्वाप्नपदार्थसृष्टिर्जीवकर्तृकैवेति निर्णीयते ॥ न चोपकरणरहितस्य स्वप्नद्रष्टुः कथं रथादिसृष्टिरिति वाच्यम्प्रजापतिविद्यायां जीवात्मनः सत्यसंकल्पत्वश्रवणेन जाग्रद्दशायां" तिरोहितस्यापि सत्यसंकल्पत्वस्य स्वप्नदशायामाविर्भावसंभवेन सङ्गल्पमात्रेण स्वाप्नपदार्थसृष्ट्युपपत्तेः इति ॥ मायामात्रं तु कार्त्र्न्येनानभिव्यक्तस्वरूपत्वात् ॥ 3-2-3 ॥ [पराभिध्यानात्तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ 4 ॥ देहयोगाद्वा सोऽपि ॥ 5 ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ 6 ॥] अयमत्र सिद्धान्तः-स्वाप्नपदार्थसृष्टिर्जीवकर्तृकैवेत्येतन्नोपपद्यते; जीवात्मनस्सत्यसङ्गल्पत्वस्य स्वाभाविकत्वेऽपि, तस्य संसारदशायां तिरोहितत्वेन तस्य सङ्कल्पमात्रेण सृष्ट्यनुपपत्तेः । अपि तु नित्याविर्भूतसत्यसङ्कल्पत्वादिकस्य परमात्मन ेव स्वप्नद्रष्टृपुरुषकृतशुभाशुभकर्मफलदित्सया आश्चर्यभूता स्वप्ने काचिद्रथादिसृष्टिः । ‘‘स हि कर्ता’’ इत्येतदपि ‘‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’’ इत्यनेन सकलपुरुषानुभाव्यचिरकालस्थायिरथादीन् प्रतिषिध्य, ‘‘अथ रथान् रथयोगान् पथस्सृजते’’ इत्यनेन स्वप्नद्रष्टृपुरुषमात्रानुभाव्यतत्कालमात्रावस्थायिरथादिसृष्टिं प्रतिपाद्य, कथमीदृशविचित्रसृष्टिकर्तृत्वमुपपद्यते इत्याकाक्षायां, विचित्रसृष्टिकर्तृत्वमुपपादयति इति प्रतीयते । ततश्च ‘स’ इत्यस्य स्वप्नद्रष्टृजीवपरत्वे, तस्य विचित्रसृष्टिकर्तृतायाः तदनुगुणशक्त्यादिमत्तायाश्चाप्रसिद्धतया विचित्रसृष्टिकर्तृत्वोपपादनं न घटते । ‘स’ इत्यस्य विचित्रसकलप्रपञ्चनिर्माणधुरन्धरतया अचिन्त्यशक्तिमतया च प्रसिद्धपरमात्मपरत्वे तु, तस्य अचिन्त्यशक्तिमत्तायाः प्रसिद्धतया अचिन्त्यशक्तिमहिम्ना विचित्रस्वाप्नपदार्थस्रष्टृत्वमुपपद्यत इति पूर्ववाक्यप्रस्तुतं विचित्रसृष्टिकर्तृत्मुपपादितं भवति ॥ ‘‘य एषु सुप्तेषु जागर्ति’’ इति पूर्वोदाहृतश्रुतिरपि परमात्मविषयैव । ‘‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोकाः" श्रितास्सर्वै तदु नात्येति कश्चन’’ इति तदुत्तरवाक्ये पूर्व यच्छब्देन निर्दिष्टं स्वाप्नपदार्थनिर्मातारं तच्छब्देन परामृश्य, तस्य निरुपाधिकामृतत्वसर्वलोकाधारत्वादिपरमात्मासाधारणधर्माम्नानात् । अतः तत्र ‘कामं कामं’ इत्यस्य सङ्कल्प्य सङ्कल्प्य इत्यर्थः" । णमुलन्तं चेदं पदम् । अतस्तदैकार्थ्यादपि ‘‘अथ रथान् रथयोगान् पथस्सृजते’’ इति श्रुतिः परमात्मविषयैव; न जीवात्मविषया, तदीयसत्यसङ्कल्पत्वस्य संसारदशायां तिरोहितत्वेन सङ्कल्पमात्रेण सृष्ट्यनुपपत्तेः ॥ ननु जीवात्मनस्स्वाभाविकसत्यसङ्कल्पत्वादेस्संसारदशायां कुतस्तिरोधानमिति चेत्, परमात्मसङ्कल्पवशात् तिरोधानमिति ब्रूमः । श्रूयते हि श्वेताश्वतरोपनिषदि ‘‘प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारभोक्षस्थितिबन्धहेतुः’’ इति परमात्मनः क्षेत्रज्ञसंबन्धहेतुत्वं तत्प्रयोजकसंकल्पवत्त्वरूपम् । ततश्च जीवात्मनस्संसारबन्धस्य परमात्मसंकल्पप्रयोजयत्वे तदन्तर्गतस्य सत्यसंकल्पत्वादिजीवस्वरूपतिरोधानस्यापि तत्संकल्पप्रयोज्यत्वे तदन्तर्गतस्य सत्यसंकल्पत्वादिजीवस्वरूपतिरोधानस्यापि तत्संकल्पप्रयोज्यत्वं सिद्धम् । तच्च तिरोधानं सृष्टिदशायां शरीरात्मना परिणताचित्संबन्धेन, प्रलयदशायां सूक्ष्मावस्थापन्नाचित्संबन्धेन भवति ।. ननु सत्यसंकल्पत्वादिजीवस्वरूपस्य तिरोहितत्वेऽपि तस्य स्वप्नदशायामाविर्भावः तेन स्वाप्नपदर्थसृष्टिश्चास्त्विति चेत्, मैवम्-स्वप्नं" शुभसूचकस्येवाशुभसूचकस्यापि निमित्तस्य दर्शनश्रवणेन, स्वाप्नपदार्थसृष्टेः जीवकर्तृकत्वे, जीवात्मनस्स्वाशुभसूचकनिमित्तसृष्टेस्तद्दर्शनस्य च श्रुतिसिद्धस्यानुपपत्तिप्रसङ्गात् । श्रूयते हि ‘‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ’’ इति, ‘‘अथ स्वप्ने कृष्णं कृष्णदन्तं पश्यति, स एनं हन्ति’’ इति च शुभसूचकदर्सनमिवाशुभसूचकदर्शनमपि ॥ अस्मिन्नधिकरणे जीवात्मनस्स्वप्नेऽनिष्टनिमित्तवस्तुदर्शनजनितभयकम्पशोकादयो दोषाः, परमात्मनः विचित्रस्वाप्नपदार्थसृष्ट्या अचिन्त्यशक्तिरूप महिमविशेषस्च प्रतिपादिता इति ॥ रथवेशन्तप्रभृतीन्यत्याश्चर्याणि देहिनां स्वप्ने । सृजति यदचिन्त्यशक्त्य तद्ब्रह्म घीनिवासनाम भजे ॥ 92 ॥ वेशन्तः- पल्वलम् । अत्याश्चर्यत्वं स्वप्नद्रष्टृमात्रानुभाव्यत्वस्वप्नकालमात्रावस्थायित्वबाह्यवस्तुप्रतिघातानर्हत्वादिभिर्वोद्ध्यम् ॥ ‘‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’’ इति स्वप्नविषया श्रुतिः ‘‘य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’’ इति श्रुत्यैकार्थ्यात् तादृशश्रुत्युक्तं निर्मातारं स्वप्नपदार्थस्रष्टारमाह । स च निर्माता ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः" परमं पदं’’ इति मुमुक्षुप्राप्यतया पूर्वप्रस्तुतं श्रीनिवासापरनामधेयं विष्ण्वाख्यं परं ब्रह्मेत्यभिप्रायेणात्र यत् सृजति इत्युक्तम् ॥ 74 ॥ इति सन्ध्याधिकरणम् ॥ 1 ॥
आयस्तोऽयं जीवः करणैस्सह तूलतल्प इव ।
शेते यत्र सुषुप्तौ तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 93 ॥
8 ॥ तदभावाधिकरणम् ॥ 2 ॥ स्वप्नावस्थानिरूपणानन्तरं सुषुप्त्यवस्थानिरूपणाय प्रवृत्तमिदमाधिकरणम् ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ 3-2-7 ॥ [अतः प्रबोधोऽस्मात् ॥ 8 ॥] तदभावः-स्वप्नाभावः, सुषुप्तिरित्यर्थः; नाडीषु-हिताख्यासु नाडीषु, पुरीतदाख्यायां नाड्यां, परमात्मनि च भवति । तच्छ्रुतेः- हितापुरीतत्परमात्मनां" सुषुप्तिस्थानत्वश्रवणादिति सूत्रार्थः ॥ छान्दोग्ये सद्विद्याप्रकरणे सुषुप्तिनिरूपणावसरे ‘‘तद्यत्रैतत्सुषुप्तस्समस्तस्संप्रसन्नः स्वप्तं न विजानाति आसु तदा नाडीषु सुप्तो भवति’’ इति, बृहदारण्यके ‘‘अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते’’ इति, छान्दोग्ये ‘‘यत्रैतत्पुरुषः स्वपिति नाम साता सोम्य तदा संपन्नो भवति’’ इति च श्रूयते । अत्र प्रथमोदाहृतश्रुतौ हिताख्यनाडीनां जीवात्मनस्सुषुप्तिस्थानत्वं प्रतिपाद्यते; द्वितीयश्रुतौ पुरीतन्नाड्यास्तत्स्थानत्वं; तृतीयश्रुतौ ब्रह्मणस्तत्स्थानत्वं प्रतिपाद्यते । अत्र त्रयाणां सुषुप्तिस्थानत्वश्रवणात्, अणोर्जीवस्य युगपत् त्रिषु स्थानेषु शयनासंभवात्, हितासु नाडीषु वा, पुरीतति वा, ब्रह्मणि वा शयितो भवतीति त्रयाणां विकल्प इति पूर्वपक्षः ॥ विकल्पांङ्गीकारे एकैकस्मिन् स्थाने शयनदशायामितरयोश्शयनस्थानत्वाभावप्रसङ्गः । स च न युक्तः । प्रासादखट्वापर्यङ्कन्यायेन त्रयाणां" युगपत्स्थानत्वसंभवात् । तत्र प्रासादस्थानीया हिता नाम नाड्यः; खट्वास्थानीया पुरीतन्नाडी; पर्यङ्कस्थानीयं ब्रह्म । अत एव सुषुप्तस्य ‘‘सतआगम्य न विदुस्सत आगच्छामह’’ इति ब्रह्मणस्सकाशादुत्थानश्रुतिरुपपद्यते । अतस्त्रयाणां समुच्चय एवेति सिद्धान्तः ॥ आयस्तोऽयं जीवः करणैस्सह तुलतल्प इव । शेते यत्र सुषुप्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 93 ॥ आयस्तः- जाग्रद्दशायामिन्द्रियप्रेरणेन श्रान्त इत्यर्थः । शिथ्टं स्पष्टम् ॥ अत्र श्रान्तस्य जीवस्य सुषुप्तिदशायां परमात्मनः तच्छ्रमापनोदनरूपगुणपिशेषः, जीवात्मनो ज्ञानसामान्याभावेन अचित्कल्पतारूपदोषश्च प्रतिपादितौ भवतः । अत्र सुषुप्तिस्थानतया निर्दिष्टस्य सच्छब्दवाच्यस्य ब्रह्मण ईक्षत्यधिकरणे नामरूपव्याकरणकर्तृत्वादिना प्रत्यभिज्ञापकेन श्रीनिवासाख्यदेवताविशेषरूपताया व्यवस्थापितत्वात्, तदभिप्रायेणात्र यत्र शेते इत्युक्तम् ॥ 75 ॥ इति तदभावाधिकरणम् ॥ 2 ॥
यत्र शयनेन जीवस्स्वास्थ्यं समवाप्य भूयोऽपि ।
उत्तिष्ठति तल्पादिव तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 94 ॥
9 ॥ कर्मानुस्मृत्यधिकरणम् ॥ 3 ॥ सुषुप्त्यनन्तरमुत्थितस्य सुषुप्तादन्यत्वमाशंक्य तत्परिहाराय प्रवृत्तमिदमधिकरणम् ॥ छान्दोग्ये सुषुप्तस्य ‘‘सता सोम्य तदा संपन्नो भवति’’ इति सच्छब्दितब्रह्मसंपत्तिः श्रूयते । सा च संपत्तिर्लयरूपेति ‘‘स्वमपीतो भवाति’’ इति तत्रत्यश्रुत्याऽवगम्यते । एवं ‘‘तं न कश्चन पाप्मा स्पृशति’’ इति सुषुप्तस्य सर्वपाप्मास्पर्शश्च श्रूयते । अतस्सर्वकर्मविनिर्मोकपूर्वकं ब्रह्मणि लयप्रतिपादनात् सुषुप्तस्य मुक्तताप्रतीतेस्तस्मादन्य एवोत्तिष्ठतीति पूर्वपक्षे सिद्धान्तमाह– स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ इति । ॥ 3-2-9 ॥ तुशब्दः पक्षव्यावर्तकः । यस्सुषुप्तः स एव उत्तिष्ठति । तत्र हेतुमाह कर्मेत्यादिना । कर्म-पुण्यपापरूपं सुषुप्तिकृतं कर्म, अनुस्मृतिः- ‘योऽहं सुषुप्तस्स एवाहमुत्थित’ इति प्रत्यभिज्ञा, शब्दः-‘‘त इह व्याघ्रो वा सिंहो वा’’ इत्यादिश्रुतिः, विधिः- मोक्षर्थब्रह्मोपासनविधिः, एतेभ्यः सुषुप्तस्यैव स्वापादुत्थानमिति निश्चीयत इति सूत्रार्थः ॥ अयं भावः- सुषुप्तेन सुषुप्तेः प्राक् कृतानामभुक्तफलानां पुण्यपापरुपकर्मणां फलानुभवं ब्रह्मोपासनं वा विना नाशो न संभवति । स्वापादुत्थितस्य योऽहं सुप्तस्स एवाहं प्रबुद्धोऽस्मीति प्रत्यभिज्ञा च भवति । ‘‘त इह व्याघ्रो वा सिंहो वा’’ इत्यादिश्रुतिरपि यादृशरूपस्सुषुप्तो भवति, सुषुप्तेरनन्तरं तादृशरूप एव भवतीत्याह । सुषुप्तस्य सुषुप्तिमात्रेण मुक्तत्वे मुक्तिप्राप्तये ब्रह्मोपासनविधिवैयर्थ्यं" च भवति । अतस्सुषुप्तस्य मुक्तत्वाभावात् स एव प्रबुद्ध्यत इति निश्चीयते ॥ सुषुप्तस्य ‘‘नाह खल्वयमेवं संप्रत्यात्मानं जानाति’’ इति ज्ञानसामान्याभावः, ‘‘नाहमत्र भोग्यं पश्यमि’’ इति सुषुप्तेर्भोग्यत्वाभावश्च श्रूयते । मुक्तस्य तु ‘‘सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः, मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इत्यादिश्रुतिभिस्सर्वज्ञत्वं" । ब्रह्मगुणानुभव इत्यादिकं प्रतिपाद्यते । अतो मुक्तेस्सुषुप्त्यपेक्षया अत्यन्तवैलक्षण्यप्रतीत्या सुषुप्तिर्न मुक्तिरिति निश्चीयते । सुषुप्तस्य पाप्मास्पर्शश्रुतिस्तु तेदानीं कर्मणां फलप्रदानाभावमात्रपरतयोपपद्यते । सुषुप्तौ ब्रह्मसंपत्तिश्रुतिरपि जाग्रद्दशायामिन्द्रियादिप्रेरणेन श्रान्तस्य श्रमनिवृत्तये विश्रमस्थानप्राप्तिमात्ररूपब्रह्मप्राप्तिप्रतिपादनपरा । अतस्सुषुप्तस्य मुक्तत्वाभावत् स एव स्वापादुत्तष्ठतीति । यत्र शयनेन जीवस्स्वास्थ्यं समवाप्य भूयोऽपि । उत्तिष्ठति तल्पादिव तद्ब्रह्म श्रीनिवासानाम भजे ॥ 94 ॥ स्वास्थ्यं-श्रमनिवृत्तिः । शिष्टं स्पष्टम् ॥ पूर्वाधिकरणे श्रीनिवासस्यैव सुषुप्तिस्थानत्वेन निर्धारितत्दात् तस्मादेव उत्थानमित्यभिप्रायेण यस्मादुत्तिष्ठति इत्युक्तिः ॥ 76 ॥ इति कर्मानुस्मृत्याधिकरणम् ॥ 3 ॥
यत्-कारितासु जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु ।
मूर्छान्याभ्यो भिन्ना तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 95 ॥
10 ॥ मुग्धाधिकरणम् ॥ 4 ॥ प्रसङ्गान्मूर्छावस्थां निरूपयितुं प्रवृत्तमिदमधिकरणम् ॥ मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ 3-2-10 ॥ सुग्धे-मूर्छिते, या अवस्था, सा अर्धसंपत्तिः-अर्धमरणरूपा; परिशेषात्-जाग्रत्स्वप्नसुषुप्त्यवस्थास्वनन्तर्भावादिति सूत्रार्थः ॥ भावः । जाग्रत्स्वप्नयोः ज्ञानसद्भावात्, मूर्छायां ज्ञानाभावात्, मूर्छान जाग्रत्स्वप्नयोरन्तर्भवति । पूर्छाया अभिघातानिष्टश्रवणादिमूलत्वात् सुषुप्तेरतथात्वात्, न सुषुप्तावन्तर्भावः । मूर्छायां अल्पप्राणसद्भावात् मरणे प्राणस्यात्यन्तमभावात्, मूर्छा न मरणेऽन्तर्भवति । अतो जाग्रदाद्यवस्थाभ्योऽन्यामूर्छावस्था ॥ यत्कारितासु जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु । मूर्छाऽन्याभ्यो भिन्ना तद्ब्रह्म श्रीनिवासनाम भजे ॥ 95 ॥ अर्थः । यत्संकल्पकारितासु जाग्रदाद्यवस्थासु मूर्छावस्था जाग्रदादिभ्योऽन्या तद्ब्रह्म इति पूर्ववत् । अस्याभिप्रायस्सूत्रव्याख्यानेन विवृतः ॥ अत्र श्वेताश्वतरश्रुतिमनुसृत्य जाग्रदाद्यवस्थानां श्रीनिवासख्यब्रह्मकारितत्वोक्तिरिति द्रष्टव्यम् । अत्र मूर्छाया अर्धमरणत्वोक्त्या जीवस्य मूर्छायां महान् क्लेशो निरूपितो भवति ॥ 77 ॥ इति मुग्धाधिकरणम् ॥ 4 ॥
यत्संबन्धाज्जीवे जायन्ते जाग्रदादयो दोषाः ।
तेन शरीरेण समं सत्यपि योगे न ते दोषाः ॥ 96 ॥
यस्मिन्संबध्यन्ते हेयानां प्रतिभटस्वभावतया ।
कल्याणगुणतयापि च तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 97 ॥
11 ॥ अभ्यलिङ्गाधिकरणम् ॥ 5 ॥ एवं जीवात्मनो जाग्रत्स्वप्नसुषुप्तिमूर्छाद्यवस्थाहेतुभुततत्तच्छरीरयोगेन तास्ववस्थासु सुखदुःखरूपफलानुफवो निरूपितः । इदानीं" परमात्मनो जाग्रदाद्यवस्थाहेतुभूतजीवाधिष्टितशरीरयोगे सत्यपि तत्तच्छरीरसंबन्धकृतसुखदुःखाद्यपुरुषार्थसंपन्धलेशाभावं कल्याणगुणयोगं च निरूपयितुं प्रवृत्तमिदमधिकरणम् ॥ यद्यपि ‘‘संभोगप्राप्तिरिति चेन्न वैशेष्यात्,’’ ‘‘भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्’’ इति सूत्रयोः परमात्मनो जीवाधिष्ठितदेहसंबन्धे सत्यप्यकर्मवश्यतया न सुखदुःखादिरूपकर्मफलस्पर्श इति निरूपितमेव, तथापि मांसशेणितादिमयदेहसंबन्धाज्जीवात्मनीव तदन्तर्यामितया तस्मिन् देहेऽवास्थिते परमात्मन्यपि तद्देहसंबन्धप्रयुक्तापुरुषार्थयोगोऽवर्जनीयः । न च जीवात्मनि पुण्यपापरूपकर्मसंबन्धप्रयुक्तोऽपुरुषार्थयोगः न देहसंबन्धप्रयुक्तः । अतोऽकर्मवश्ये परमात्मनि सत्यपि देहसंबन्धे नापुरुषार्थयोगप्रसङ्ग इति वाच्यम् । कर्मणा देहसंबन्धोत्पादनद्वारा अपुरुषार्थहेतुत्वस्य ‘‘देहयोगाद्वा सोऽपि’’ इति सन्ध्याधिकरणसूत्रे व्यवस्थापितत्वेन देहस्य स्वतो हेयत्वाभावे कर्मभिरपुरुषार्थजनने देहसंबन्धापेक्षावैयर्थ्यप्रसङ्गेन देहस्य स्वतो हेयताया ्वश्याश्रयणीयत्वात् । न च कर्मकृतस्यैव देहसंबन्धस्यापुरुषार्थहेतुत्वं, न स्वेच्छाकृतस्य । ततश्च प्रकृते ईश्वरस्य जीवाधिष्ठितदेहसंबन्धस्य स्वेच्छाकृतत्वेन नापुरुषार्थापादकतेति वाच्यम्-स्वेच्छाकृतस्यापि देहसंबन्धस्य वस्तुस्वभावप्रयुक्तापुरुषार्थहेतुतताया दुर्वारत्वात् । न हि पूयशोणितादिगर्तमज्जनं स्वेच्छाकृतमपि नापुरुषार्थहेतुर्भवतीति पूर्वपक्षावतारात्, तमिमं पूर्वपक्षं परिहर्तुमधिकरणारम्भः ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ 3-2-11 ॥ [भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ 12 ॥ अपि चैवमेके ॥ 13 ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ 14 ॥ प्रकाशवच्चावैयर्थ्यात् ॥ 15 ॥ आह च तन्मात्रम् ॥ 16 ॥ दर्शयति चाथो अपि स्मर्यते ॥ 17 ॥ अत एवोपमा सूर्यकादिवत् ॥ 18 ॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ 19 ॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥ 20 ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ 21 ॥ तदव्यक्तमाह हि ॥ 22 ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ 23 ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ 24 ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ 25 ॥] परस्य-गुहासूत्रोक्तयोरात्मनोरन्यतरस्य परमात्मनः, स्थानतोऽपितदितरजीवाधिष्ठिततदपुरुषार्थहेतुभूततत्तद्देहेष्ववस्थानादपि, न अपुरुषार्थयोग इति प्रकरणसिद्धम् । पूर्वाधिकरणेषु जीवात्मनः देहसंबन्धकृतापुरुषार्थयोगनिरूपणस्यैव प्रकृतत्वात् । ततश्च परमात्मनस्तत्तद्देहेष्ववस्थानादपि अपुरुषार्थयोगो न भवतीत्यर्थः पर्यवसितः । तत्र हेतुमाह उभयलिंगं सर्वत्र हि । हि-यतः, ‘परं’ इति विभक्तिविपरिणामेनानुषज्यते । परं ब्रह्म, सर्वत्र श्रुतिस्मृतिषु, उभयलिङ्गं-हेयप्रत्यनीकत्वकल्याणैकतानत्वरूपासाधारणधर्मविशिष्टं प्रतिपाद्यत इति सूत्रार्थः" ॥ भावः । ‘‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपि पासस्सत्यकामस्सत्यङ्कल्पः’’ इत्यादिश्रुतिषु, ‘‘परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे’’ इत्यादिस्मृतिषु च परमात्मनस्स्वाभाविकहेयप्रत्यनीकत्वकल्याणगुणाकरत्वरूपासाधारणधर्मप्रतिपादनेन हेयप्रत्यनीके तस्मिन् देहसंबन्धो नापुरुषार्थापादनाय भवति । अपहतपाप्मत्वं हि पुण्यपापरूपकर्मफलास्पृष्टत्वम् । पुण्यपापसजातीयकर्मणां" स्वस्मिन्नपुरुषार्थापादनशक्तिविघटकशक्तिमत्त्वपर्यवासितम् । इदमेव च हेयप्रत्यनीकत्वम् । ईदृशशक्तिमति परमात्मनि हेयभूतदेहसंबन्धस्य नापुरुषार्थापादकतासम्भवः ॥ यत्तु स्वेच्छाकृतस्यापि हेयसम्बन्धस्य वस्तुस्वभावप्रयुक्तमपुरुषार्थापादकत्वमवर्जनीयमिति, तन्न; हेयतायाः कर्मकृतत्वेन वस्तुस्वभावप्रयुक्तत्वाभावात् । सर्वस्यैव वस्तुनस्सम्सारदशायामनुकूलत्वं प्रतिकूलत्वं वा न वस्तुस्वभावप्रयुक्तम् । तथात्वे सर्वस्य सर्वदा सर्वमनुकूलमेव वा प्रतिकूलमेव वा स्यात; न चैवं दृश्यते । अतस्सर्ववस्तूनां संसारदशायामनुकूलत्वप्रतिकूलत्वयोः कर्मकृतत्वेनाकर्मवश्यस्य परमात्मनस्सर्वमपि स्वविभूतित्वेनानुकूलमेवेति न तस्यपरमात्मन्यपुरुषार्थापादकतेति ॥ ननुक्तलक्षणस्य अपहतपाप्मत्वस्य जीवात्मनोऽप्यविशिष्टतायाः प्रजापतिवाक्यसिद्धत्वेऽपि देहसम्योगदशायां तस्य तिरोधानेन जीवात्मनो यथाऽपुरुषार्थसम्बन्धस्तथा परमात्मनोऽपि देहसम्बन्धदशायां तस्य तिरोधानेनापुरुषार्थसम्बन्धस्स्यादिति चेत्, मैवम्-कर्मकृतस्यैव देहसम्बन्धस्य स्वरूपतिरोधायकतया एच्छिकस्य तस्य तिरोधायकत्वाभावेन परमात्मनः पृथिव्यादिदेहसम्बन्धस्य एच्छिकत्वेन उक्तदोषाभावात् ॥ अन्तर्यामिब्राह्मणे हि ‘‘य- पृथिव्यां तिष्ठन्’’ इत्यादिना परमात्मनः पृथिव्यादितत्तद्देहेषु तत्तन्नियमनायान्तर्यामितयाऽपस्थानमुक्त्वा, प्रतिस्थानं ‘‘स त आत्माऽन्तर्याम्यमृतः’’ इत्यपुरुषार्थलेशासम्स्पर्शरूपामृतत्वोक्त्या परमात्मनस्तत्तद्देहसम्बन्धस्यापुरुषार्थापादकताऽभावोऽवगम्यते ॥ अपि च ‘‘द्वा मुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्तलं स्वाद्वत्ति अनश्नन्नन्योऽपि, जीवात्मनस्तद्देहसम्बन्धकृतकर्म फलभूतसुखदुःखानुभवः; परमात्मनस्तु तद्देहसम्बन्धप्रयुक्तसुखदुःखभोगाभावः, अतिरोहितसर्वज्ञत्वादिगुणवत्तया द्योतमानत्वं च स्पष्टमेवाभिधीयते ॥ ननु परमात्मनोऽपि कर्मवश्यत्वं श्रुतिषु प्रतीयते । ‘‘वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यश्शरदि वैश्यः’’ इत्यादिषु ब्राह्मणादिशरीरवतामाधानविधेः, ‘‘ब्रह्मणो न सुरां पिबेत्’’ इत्यादिषु तेषांसुरापानादिनिषेधस्य च प्रतिपादनात्, ‘‘सेयं देवतेमास्तिस्रो देवता अनेन जीवेनानुप्रविश्य नामरूपे व्याकरोत्’’ इति श्रुतौ ्नुप्रवेशपूर्वकनामरूपव्याकरणाभिधानेन जीवात्मन इव परमात्मनोपि तत्तच्छरीरानुप्रवेशकृततत्तच्छरीरवत्तासिद्ध्या उक्तविधिनिषेधपिषयताप्रतीतेः; पिधिनिपेधविषयत्वमेव हि कर्मवश्यत्वमिति चेत्, मैवं–‘‘आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’’ इति श्रुतौ परमात्मनो नामरूपनिर्वाहकत्वेन प्रधानतया नामरूपकार्यास्पृष्टत्वरूपरूपरहिततुल्यत्वप्रतिपादनेन जीवात्मवन्नामरूपवत्त्वेऽपि रूपवत्ताप्रयुक्तविधिनिषेधविषयत्वकृतसुखदुःखाद्यपुरुषार्थसम्बन्धाभावप्रतीतेः । उक्तश्रुतौ हि यत्-ब्रह्म, ते अन्तरा-नामरूपाभ्यामस्पृथ्टं" िति परमात्मनो नामरूपाभ्यामस्पृष्टत्वं प्रतिपाद्यते । तच्च रूपवत्ताप्रयुक्तविधिनिषेधविषयत्वकृतसुखदुःखाद्यपुरुषार्थवत्त्वाभावः" । अतः परमात्मन उक्तश्रुत्या विधिनिषेधविषयत्वाभावस्सिद्धः । इत्थं च ‘‘ब्राह्मणो यजेत’’ इत्यादिश्रुतौ ब्राह्मणादिशब्दा न परमात्मपर्यन्तवाचिनः, परमात्मनि विधिनिषेधयोरन्वयबाधात्; अपि तु तत्तच्छरीरविशेषविशिष्टजीवात्ममात्रवाचिनः; ‘‘यस्य पृथिवी शरीरं’’ इत्यादौ पृथिव्यादिशब्दवत् । तत्र हि पृथिव्यादिशब्दानां परमात्मपर्यन्तवाचित्वे यस्य परमात्मनश्शरीरमित्यस्यान्वयानुपपत्त्या पृथिवीमात्रपरत्वमवश्यमाश्रयणीयम् । अतः परमात्मनस्तत्र तत्रान्तर्यामिरूपेणावस्थितत्वेऽपि तत्तत्सम्बन्धकृतदोषासम्स्पृष्टत्वं सिद्धम् ॥ ननु ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यादौ परमात्मनो ज्ञानस्वरूपत्वप्रतिपादनात् ज्ञानस्य ज्ञानान्तराश्रयत्वासम्भवात् परमात्मनस्सर्वज्ञात्वाद्यनन्तकल्याणगुणवत्त्वमप्रामाणिकमिति चेत्, न - ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यादिभिः परमात्मनः ज्ञानस्वरूपत्वप्रतिपादनवत् ‘‘यस्सर्वज्ञस्सर्ववित्’’ इत्यादिभिस्सर्वज्ञत्वादिगुणानामपि प्रतिपादनात् ज्ञानस्वरूपस्यापि ब्रह्मणो ज्ञानाश्रयत्वेऽनुपपत्तिविरहात्, ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यादौ ज्ञानस्वरूपताप्रतिपादनेऽपि गुणान्तराणामनिषेधात्, ‘‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च,’’ ‘‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’’ इत्यादिस्मृतिषु च कृत्स्नासु अनन्तगुणवत्त्वाप्रतिपादनाच्च परमात्मनो निरस्तनिखिलदोषत्वस्यानन्तकल्याणगुणवत्त्वस्य चप्रामाणिकताया दुरपह्नवत्वात् ॥ ‘‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथाऽऽत्मैकोऽप्यनेकस्थो जलाधारेष्विवांशुमान् ॥’’ ‘‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैवदृश्यते जलयन्द्रवत्’’ इत्यादिशास्त्रेषु आकाशवत् जलप्रतिबिम्बितसूर्यादिवच्च तत्र तत्रस्थानेषु स्थितोऽपि परमात्मा तत्तद्गतदोषैर्न स्पृश्यते इत्यभिधानादपि परमात्मनो निर्दोषत्वं निर्णीयते ॥ ननु जलप्रतिबिम्बितसूर्यस्य वस्तुतो जलेऽनवस्थानात् तद्गतदोषास्पृष्टत्वमस्तु; परमात्मनस्तु तत्तत्स्थानेषु वस्तुतः स्थितत्वात् कथं जलप्रतिबिम्बितसूर्यदृष्टान्तेन तत्तत्स्थानेषु वस्तुतः स्थितत्वात् कथं जलप्रतिबिम्बितसूर्यदृष्टान्तेन तत्तत्स्थानगतदोषास्पृष्टत्ववर्णनोपपत्तिरिति चेत्, उच्यतेवस्तुतस्तत्तत्स्थानगतदोषासम्स्पर्शे देशविब्रकर्षवत् स्वभावविप्रकर्षोऽपि कारणम् । तत्र देशविप्रकर्षात् जलप्रतिबिम्बितसूर्ये जलगतदोषासंस्पर्शः । आकाशे तु निर्लेपे स्वभावविप्रकल्थात् घटकरकादिस्थानसम्बन्धेऽपि, तद्गतवर्तुलत्वादिदोषासंस्पर्शः । तद्वत्, प्रकृते हेयप्रत्यनकिस्य परमात्मनस्तत्तत्स्थानसंबन्धेऽपि स्वभावविप्रकर्षात् तत्तत्स्थानगतवृद्धिह्रासादिदोषासंस्पर्शः इति दर्शयितुमत्र दृष्टान्तद्वयोपादानम् । अतो नानुपपत्तिः ॥ ननु बृहदारण्यके ‘‘द्वे वाव ब्रह्मणो रुपे मूर्तं चैवामूर्तं च ’’ इत्यादिना ब्रह्मणो मूर्तामूर्तात्मकरूपद्वयवत्त्वं, ‘‘तस्य ह वा एतस्य रूपं’’ इत्यादिना आकारविशेषवत्तवं च प्रतिपाद्य, ‘‘अथात आदेशो नेति नेति’’ इत्यनन्तरवाक्ये ‘इति न इति न’ इत्यात्र इतिशब्दाभ्यां पूर्वोक्तं प्रकारद्वयं परामृश्य, ‘‘नेति नेति’’ इति तत्प्रतिषेधात् ब्रह्मणो निर्विशेषत्वे श्रुतेस्तात्पर्यं" प्रतीयते । तत्कथं सर्वज्ञत्वाद्यनन्तगुणवत्त्वं ब्रह्मण उच्यत इति चेत्, मैवम्–‘‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनं’’ इत्यादिश्रुतिभिर्भ्रह्मणः प्रत्यक्षागोचरत्वाभिधानेन ‘‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां’’ इति, ‘‘भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्तवेन प्रवेष्टुं च परन्तप’’ इति श्रुतिस्मृतिषु भक्त्येकगोचरताप्रतिपादनेन च ब्रह्मणो मूर्तामूर्तात्मकरूपद्वयवत्त्वस्य प्रत्यक्षादिप्रमाणान्तरप्राप्त्यसंभवेन अनुवादायोगात् विधेरेव वक्तव्यतया ‘‘नेति नेति’’ इत्यास्य तत्प्रतिषेधपरत्वे, स्वेन विहितस्य स्वेनैव प्रतिषेधेन श्रुतेरुन्मत्तत्वापत्त्या ‘‘नेति नेति’’ इत्येतन्नप्रकृतरूपद्वयनिषेधपरं; अपि तु रूपद्वयवत्त्वाभिधानेन रूपद्वयमात्रवत् ब्रह्म इति ब्रह्मप्रकारस्य इयत्ताप्रतीत्या तत्प्रतिषेधाय प्रवृत्तमिदं ‘‘अथात आदेशो नेति नेति’’ इति वाक्यम् । ततश्चात्र ‘इति न’ इत्यनेन प्रकृता प्रकारेयत्ता प्रतिषिध्यते । ततश्च ब्रह्म एतावन्मात्रवन्न इति तदर्थोऽपश्यश्रयणीयः । ‘‘न ह्येतस्मादिति, नेत्यन्यत्परमस्ति’’ इत्यादिवाक्यशेषादपि ‘‘नेति नेति’’ इति निषेधस्योक्तार्थ परत्वमवगम्यते । ‘इति न’ इत्यनेन एतावन्मात्रवन्न इत्युक्तं यद्ब्रह्म, एतस्माद्ब्रह्मणः परं-स्वरूपतो गुणातो विभूतितश्च उत्कृष्टमन्यन्नास्ति इति हि तदर्थः । ततश्चात्र प्रकृताद्ब्रह्मण उत्कृष्टस्यान्यस्य प्रतिषेधात् ब्रह्मणस्सर्वप्रकारेण सर्वोत्कृष्टत्वं प्रतिपादितं" भवति । ‘‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यं’’ इति ब्रह्मणो नामधेयविशेषमुक्त्वा, तन्निर्वचनेनापि प्रह्मणस्सर्वोत्कृष्टत्वप्रतिपादने वाक्यतात्पर्य गम्यते । ‘प्राणाः’ इति प्राणसाहचर्याल्लक्षणया जीवा उच्यन्ते । ते, सत्यं–निर्विकारस्वरूपाः, तेषामचेतनवत्स्वरूपविकाराभावात् । तेषामेष सत्यं–एषः-परमात्मा, तेभ्यः-जीवात्मभ्योऽपि, सत्यं–स्वरूपस्वभावयोर्निर्विकारः । जीवात्मनां स्वरूपविकाराभावेऽपि, तदीयधर्मभूतज्ञानस्यसंकोचविकासरूपविकारवत्त्या स्वभावविकारवत्त्वमस्ति । परमात्मनस्तु उयविधविकारभावात् तेभ्योऽपि परमात्मा उत्कृष्ट इत्यर्थः ॥ अपि च ‘‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च’’ इत्यादिश्रुतिषु साक्षात्कृतपरब्रह्मस्वरूपाणां वामदेवादीनां" ब्रह्मसाक्षत्कारे ज्ञानत्वानन्दत्वादीनामिव मनुसूर्यादिप्रपञ्चवैशिष्ट्यस्यापि विषयत्वोक्तेः तेषामिव प्रपञ्चवैशिष्ट्यस्यापि तत्त्वसाक्षात्कारेण साक्षात्कृतत्वात् भ्रान्तिसिद्धत्वोक्त्ययोगेन पारमार्थ्यस्यावस्यवक्तव्यत्वादपि ‘‘अथात आदेशो नेति नेति’’ इत्यस्य ब्रह्मणि प्रपञ्चवैशिष्ट्यनिषेधपरत्ववर्णनमयुक्तम् । अतो ब्रह्मणो निरस्तनिखिलदोषत्वमनन्तकल्याणगुणाकरत्वं च प्रामाणिकमेवेति सिद्धम् ॥ यत्संबन्धाज्जीवे जायन्ते जाग्रदादयो दोषाः । तेन शरीरेण समं सत्यपि योगे न ते दोषाः ॥ 96 ॥ यस्मिन्संबध्यन्ते हेयानां प्रतिभटस्वभावतया । कल्याणगुणतयाऽपि च तद्ब्रह्म श्रीनिवासनाम भजे ॥ 97 ॥ अर्थः । यत्संबन्धात्- यस्य शरीरस्य संबन्धादित्यर्थः । हेयानां प्रतिभठस्वभावतया इति स्वस्मिन् दोषाणामसंबन्धापादकस्वाभाविकशक्तिमत्तयेत्यर्थः" । कल्याणगुणर्तया इति कल्याणाः-स्वस्मिन् स्वाश्रितेषु च दोषनिवर्तनसमर्था गुणाः यस्य, तथाभूततयेत्यर्थः ॥ यद्यपि ब्रह्मणस्स्वस्मिन् दोषासंबन्धे हेयप्रत्यनीकत्वस्योपयुक्तत्वेऽपि कल्याणगुणवत्त्वस्य तत्रानुपयोगात् तदुपादानमनर्थकमिव भाति, तथापि परमात्मसंबन्धिनां ज्ञानशक्त्यादिगुणानां स्वस्मिन् स्वाश्रितेषु च दोषनिवर्तनोपयोगित्वात् तस्याप्युपादानमिति द्रष्टव्यम् । अत्र हेयप्रतिभटत्वस्य ‘‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासम्मत्यकामस्सत्यसंकल्पः’’ इति श्रुतिसिद्धतया तस्यां" श्रुतौ अपहतपाप्मत्वादिगुणाष्टकविशिष्टतयाऽभिधीयमान आत्मा ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मादिव्यो देव एको नारायणः’’ इति श्रुतो नारायण एवेति प्रत्यभिज्ञायमानतया, श्रीनिवासापरनामधेयनारायण एवायं ‘‘अपहतपाप्मा’’ इत्यादि’‘सत्यसङ्कल्प’’ इत्यन्तेनोक्तः परमात्मेति निर्धार्यते इति ॥ 79 ॥ इति उभयलिङ्गाधिकरणम् ॥ 5 ॥
यस्यांशभूतमेतन्मूर्तामूर्तात्मकं विश्वम् ।
भास्वत इव प्रकाशस्तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 98 ॥
12 ॥ अहिकुण्डलाधिकरणम् ॥ 6 ॥ पूर्वाधिकरणे ‘‘प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः’’ इति सूत्रे ‘‘द्वे वाव ब्रह्मणो रूपे’’ इत्यादिश्रुतिमधिकृत्य चिन्तितम् । तस्यां श्रुतौ मूर्तामूर्तात्मकाचित्प्रपञ्चस्य ब्रह्मरूपत्वमभिहितम् । ब्रह्मणो निर्दोषत्वस्थिरीकरणाय उक्तश्रुत्यभिहितं" ब्रह्मरूपत्वं कीदृशमिति विचाराय प्रवृत्तमिदमधिकरणम् ॥ अभयव्यपदेशात्त्वहिकुण्डलवत् ॥ 3-2-26 ॥ इदं पूर्वपक्षसूत्रम् । अहेः-सर्पस्य, कुण्डलभाववत् अचित्प्रपञ्चो ब्रह्मणो रूपमित्यर्थः । यथा अहेरवस्थाभेदेन कुण्डलभावः, तद्वत् ब्रह्मणोऽवस्थाभेदेनाचित्प्रपञ्चभाव इत्यर्थः । अत्र हेतुमाह उभयव्यपदेशात्-भेदाभेदयोरुभयोर्व्यपदेशादित्यर्थः । ‘‘ब्रह्मैवेदं" सर्वं’’ इति अचिद्ब्रह्मणोरभेदस्य, ‘‘हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य’’ इत्यादौ ‘अहं इमास्तिस्रो देवता’ िति भेदस्य च व्यपदेशादिति सूत्रार्थः ॥ भावः । अचिद्ब्रह्मणोर्वस्त्वैक्यादभेदः; प्रपञ्चस्य ब्रह्मावस्थाविशेषत्वात् तयोर्भेदः इति ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ 3-2-27 ॥ इदं पूर्वपक्षान्तरसूत्रम् । वाशब्दः पक्षव्यावृत्त्यर्थः । यथा प्रकाशतदाश्रययोः प्रभाप्रभावतोस्तेजस्त्वरूपैकजातियोगेनैक्यं, एवमचिद्ब्रह्मणोर्ब्रह्मत्वरूपैकजातियोगेनैक्याम्; व्यक्त्यात्मना भेद इति पक्षान्तरम् ॥ पूर्ववद्वा ॥ 3-2-28 ॥ [प्रतिषेधाच्च ॥ 29 ॥] इदं सिद्धान्तसूत्रम् । वाशब्दः पक्षद्वयव्यावर्तकः । ‘‘प्रकाशादिवत्तु नैवं पर’’ इति अंशाधिकरणसूत्रे यथा जीवब्रह्मणोरवृथक्सिद्धविशेषणविशेष्यभावापन्नतया अवृथक्द्धिविशेषणवाचिशब्दानां विशेष्यपर्यन्तवाचकत्वेन, ‘‘तत्त्वमसि’’ इत्यादावभेदव्यपदेशः, विशेषणविशेष्ययोस्स्वरूपभेदाद्भेदव्यपदेशश्चोक्तः, तद्वत् अचिद्ब्रह्मणोर्विशेषणविशेष्यभावापन्नतया अवृथक्सिद्धविशेषणवाचिशब्दानां विशेषणपर्यन्तवाचकत्वेनतयोः अभेदव्यपदेशः, विशेषणविशेष्ययोस्स्वरूपभेदाद्भेदव्यपदेशश्च । प्रथमपक्षे ब्रह्ममः परिणामित्वापत्त्या निर्विकारत्वश्रुतिविरोधः । द्वितीयपक्षे चिदचिदीश्वरेषु ब्रह्मत्वरूपामेकजातिमभ्युपगम्याचिदीश्वरयोरभेदनिर्वाहेऽभिमते, गोत्वरूपैकजात्याश्रययोः खण्डमुण्डव्यक्त्योरिवाभेदव्यवहारानुपपत्तिः अतः पक्षद्वयमनुपपन्नम् । तृतीयपक्षे तु अचिद्ब्रह्मणोस्स्वरूपभेदान्न निर्विकारत्वश्रुतिविरोधः; विशिष्टैक्यादभेदव्यवहारस्य मुख्यत्वोपपत्तिश्च । ‘‘स वा एष महानज आत्माऽजरोऽमरः’’ इत्यादिषु ब्रह्ममस्स्वरूपपरिणामप्रतिषेधादपि विशिष्टैकदेशत्वमेवाचिद्वस्तुनोंऽशत्वमिति निर्णीयते ॥ यस्यांशब्ूतमेतन्मूर्तामूर्तात्मकं विश्वं । भास्वत इव प्रकाशस्तद्ब्रह्म शीनीवासनाम भजे ॥ 98 ॥ अर्थः । यथा प्रकाशविशिष्टस्याऽऽदित्यस्य प्रकाशो विशेषणतया अंशः, एवमपृथक्सिद्धिसंबन्धेन मूर्तामूर्तात्मकप्रपञ्चविशेष्टस्य ब्रह्मम उक्तप्रपञ्चः विशेषणतयाऽशभूत इति ॥ अत्र ‘‘यस्य पृथिवी शरीरं,’’ ‘‘यस्याऽऽपः शरीरं’’ इत्यादिश्रुतिषु पृथिव्यादीनां ब्रह्मणश्च शरीरात्मभावरूपापृथक्सिद्धविशेषणविशेष्य भावप्रतिपादनात्, तस्य य श्रीनिवासापरनामधेयनारायणविषयकत्वस्य पूर्वमुपपादितत्वात् यस्यांशभूतं इत्युक्तम् ॥ 79 ॥ इति अहिकुण्डलाधिकरणम् ॥ 6 ॥
सर्वस्मात्परमं यत् यस्मात्परमं न किञ्चिदप्यस्ति ।
गुणतः स्वरूपतो वा तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 99 ॥
13 ॥ पराधिकरणम् ॥ 7 ॥ एवमुभयलिङ्गधिकरणे जगत्कारणस्य श्रीनिवासापरनामधेयस्य ब्रह्मणः प्राप्यत्वोपास्यत्वयोस्सिद्धये निरस्तनिखिलदोषत्वं, समस्तकल्याणगुणाकरत्वं" चोभयं निरूपितम् । पूर्वाधिकरणे निरस्तनिखिलदोषत्वं च स्थिरीकृतम् । इदानीं प्राप्यत्वोपयोगिगुणपौष्कल्यस्य स्थिरीकलणाय प्रवृत्तमिदमधिकरणम् ॥ परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ 3-2-30 ॥ इदं पूर्वपक्षसूत्रम् । सेतुव्यपदेशात्, उन्मानव्यपदेशात्, संबन्धव्यपदेशात्, भेदव्यपदेशाच्च । अतः-पूर्वप्रकृतात् श्रीनिवासापरनामधेयात् परस्माद्ब्रह्मणः, परं-उत्कृष्टं, किञ्चिदस्तीति गम्यते इति सूत्रार्थः ॥ अयं भावः- ‘‘य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय’’ इति श्रुतौ जगत्कारणस्य परमात्मनस्सेतुत्वं व्यपदिश्यते । तेन लोके यथा सेतुस्तीरान्तरप्रापकः, तद्वत् अयं परमात्मा वस्त्वन्तरप्रापक इति लाभात् तेन प्रापणीयं किञ्चित् ततोऽप्युत्कृष़्टमस्तीति लभ्यते । ‘‘एतं सेतुं तीर्त्वाऽन्धस्सन्ननन्धो भवति’’ इति श्रुत्यन्तरे अस्य परमात्मनो जगत्कारणस्यातिक्रमणीयत्वं च श्रूयते । तेन चैनमतिक्रम्याधिगन्तव्यं किञ्चिदस्तीति लभ्यते ॥ एवं ‘‘चतुष्पाद्ब्रह्म’’ ‘‘षोडशकलं’’ इति श्रुत्यन्तरे अस्य परमात्मनः प्रत्येकं कलावतुष्टयविशिष्टपादचतुष्टयवत्त्वेन परिमितत्वं" प्रतिपाद्यते । तेनास्य परमात्मनः परिमितत्वव्यपदेशेनापरिमितमन्यदस्तीति लभ्यते ॥ एवं ‘‘अमृतस्य परं सेतुं दग्धेन्धनमिवानलं’’ इति श्रुत्यन्तरे अमृतशब्दितस्य कस्यचित्, परमात्मनश्च, प्राप्यप्रापकभावरूपस्संबन्धसेतुशब्देन व्यपदिश्यते । तेन प्राप्यान्तरमस्तीति लभ्यते ॥ एवं ‘‘तेनेदं पूर्णं पुरुषेण सर्वं’’ इति परमात्मनमुपक्रम्य, ‘‘ततो यदुत्तरतरं तदरूपमनामयं य एतद्विदुरमृतास्ते भवन्ति’’ इति श्रूयते । अत्र ‘‘ततो यदुत्तरतरं’’ इत्यत्र परमात्मानं तच्छब्देन परामृश्य तस्मादप्युत्कृष्टस्य कस्यचित्प्रतिपादनाच्च प्राप्यवस्तुनः" परमात्मतो भेदः प्रतीयते ॥ तत्मादुक्तैर्हेतुभिः परमाकारणात्परस्माद्ब्रह्मणः श्रीनिवासापरनामधेयादुत्कृष्टं किञ्चितत्त्वमस्तीति ॥ सामान्यात्तु ॥ 3-2-31 ॥ बुद्ध्यर्थः पादवत् ॥ 32 ॥ स्थानविशेषात्प्रकाशादिवत् ॥ 33 ॥ उपपत्तेश्च ॥ 34 ॥ तथाऽन्यप्रतिषेधात् ॥ 35 ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ 36 ॥ एतानि सिद्धान्तसूत्राणि । तेषामयं भावः- ‘‘य आत्मा स सेतुः’’ इत्यत्र, लोके यथा से,ुरुभयपार्श्ववर्तिनामसङ्करकरः, तथाऽयं परमात्मा सर्वस्य जगतोऽसङ्कींर्णत्वेन स्थापक इत्यभिप्रायेण सेतुव्यपदेशः । इत्थं च सेतुसादृश्यं ‘‘विधृतिरेषां लोकानामसंभेदाय’’ इत्यनन्तरवाक्येनैव स्फुटीकृतम् । ‘‘एतं सेतुं तीर्त्वा’’ इत्यत्र ‘तीर्त्वा’ इत्येतत् ‘वेदान्तं तरति’ इतिवत् प्राप्त्यर्थकम् । अतस्सेतुव्यपदेशस्योक्तरीत्याऽन्यथासिद्धत्वेन, न तावता प्रकृतात्परस्माद्ब्रह्मणः प्राप्यवस्त्वन्तरसिद्धिः ॥ यथाऽपरिच्छिन्नस्य ब्रह्मणो ‘‘वाक्पादः प्राणः पादः’’ इत्यादिना वागादीनां पादत्वव्यपदेशस्तथोपासनार्थः, तथाऽपरिच्छिन्नस्य ब्रह्मणश्चतुष्पात्त्वोक्तिरुपासनार्था ।यथा सर्वतो विस्तृतस्सूर्यालोकादिर्जालकाद्युपाधिसंबन्धेन परिच्छिन्नो गृह्यते, तद्वत् अपरिच्छिन्नस्यापि ब्रह्मण उपाधिना परिच्छिन्नत्वेनानुसन्धानसंभवात् । अतश्चतुष्पात्त्वोक्तेरुक्तरीत्याऽन्यथासिद्धत्वेन नानुन्मितवस्त्वन्तरगमकता ॥ ‘‘अमृतस्यैष सेतुः’’ इत्यदिरपि ब्रह्मणस्स्वप्राप्तौ स्वस्यैवोपायतापरतयाऽप्युपपत्तेः, तेनापि न प्राप्यान्तरसिद्धिः ॥ ‘‘यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नणीयो न जयायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वं’’ इति पूर्वमन्त्रे परस्माद्ब्रह्मण उत्कृष्टस्यान्यस्य वस्तुनः प्रतिषेधात् ‘‘ततो यदुत्तरतरं’’ इत्यस्य परस्माद्ब्रह्मण उत्कृष्टतरं यत् इति नार्थः; तथा सति पूर्वमन्त्रविरोधप्रसङ्गात्; अपि तु जगत्कारणात्परस्माद्ब्रह्मण उत्कृष्टतरं यतो नास्ति, ततः-तस्माद्धेतोः, उत्तरतरं-सर्वोत्कृष्टं जगत्कारणं यद्ब्रह्म, तत् अरूपमनामयं-कर्मकृतरूपतत्कृतदुःखसंबन्धविरोधि ।एतद््ब्रह्म ये विदुः ते अमृता भवन्तीति श्रुत्यर्थः । एवं सेत्वादिव्यपदेशस्यान्यथासिद्धत्वेन न तेन परस्माज्जगत्कारणाद्ब्रह्मण उत्कृष्टवस्त्वन्तरसिद्धिः" । किञ्च ‘‘यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणः स्थितः’’ इत्यादिषु परेण ब्रह्मणा स्वेतरसमस्तपस्तूनां नियन्तृतया व्याप्तत्वोक्त्या तदव्याप्तं किञ्चिन्नास्तीत्यर्थलाभेन तत उत्कृष्टस्य तदव्याप्तस्य प्रतिषेधादपि जगत्कारणं परं ब्रह्मैव सर्वोत्कृष्टमिति सिद्धम् ॥ सर्वस्मात्परमं यत् यस्मात्परमं न किञ्चिदप्यस्ति । गुणतस्स्वरूपतो वा तद्ब्रह्म श्रीनिवासनाम भजे ॥ 100 ॥ स्पष्टोऽर्थः ॥ भावः । ‘‘वेदाहमेतं पुरुषं महान्तं’’ इति उत्तरनारायणे लक्ष्मीपतित्वेन प्रतिपादितं श्रीनिवासाख्यं महापुरुषं प्रस्तुत्य, ‘‘यस्मात्परं" नापरमस्ति किञ्चित्’’ इत्युत्तरमन्त्रे स्वरूपतो गुणतो वा पूर्वप्रकृतान्महापुरुषादुत्कृष्ट मन्यन्नास्तीति प्रतिपाद्य, ‘‘ततो यदुत्तरतरं’’ इति तदनन्तरमन्त्रे यस्माद्देतोर्लक्ष्मीपतेश्श्रीनिवासान्महापुरुषादुत्कृष्टं नास्ति तस्माद्धेतोशश्रीनिवासाख्यं" परं ब्रह्मैव सर्वोत्कृष्टमिति, तदुपासनमेव मोक्षोपाय इति चोपसंहृतत्वात्, श्रीनिवासाख्यं परं ब्रह्मैव सर्वोत्कृष्टमिति निर्धार्यते इति ॥ 80 ॥ इति पराधिकरणम् ॥ 7 ॥
कर्मभिरुपासनैश्चाशेषैराराधितं प्रसन्नं यत् ।
सकलफलप्रदमेकं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 100 ॥
14 ॥ फलाधिकरणम् ॥ 8 ॥ एवं परमात्मोपासने प्रवर्तनौपयिकं तस्य निरस्तनिखिलदोषत्वं, समस्तकल्याणगुणाकरत्वं, परमप्राप्यत्वं च निरूपितम् । इदानीं तदौपयिकं तस्यैव फलप्रदत्वं व्यवस्थापयितुं प्रवृत्तमिदमधिकरणम् ॥ फलमत उपपत्तेः ॥ 3-2-37 ॥ [श्रुतत्वाच्च ॥ 38 ॥ धर्मं जैमिनिरत एव ॥ 39 ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ 40 ॥] अतः- सर्वज्ञात्सर्वशक्तात्सत्यसंकल्पात्परस्माद्ब्रह्मण एव । फलं त्रिवर्गापवर्गरूपफलं भवतीत्यर्थः । अत्र हेतुमाह उपपत्तेः" इति । सर्वज्ञत्वादिगुणवतस्तस्यैव फलप्रदत्वोपपत्तेरिति सूत्रार्थः ॥ पूर्वपक्षः । यथा कृष्यादिकं कर्म कस्यचित्पुरुषस्य प्रसादमनपेक्ष्य फलं प्रयच्छति, तथा यागदानादिवैदिककर्मणां स्वत एव फलप्रदत्वसंभवात् ‘‘ज्योतिष्टोमेन स्वर्गकामो यजेत’’ इत्यादिश्रुतिषु यागादेस्स्वर्गसाधनत्वबोधनाच्च यागादिवैदिकं कर्मैव स्वर्गादिफलसाधनम् । न च यागादेराशुतरविनाशितया कालान्तरानुभाव्यस्वर्गादिफलं प्रति तस्य साधनत्वं न संभवतीति वाच्यम्, यागादेर्विधिबोधितस्वर्गादिफलसाधनत्वान्यथाऽनुपपत्त्या, यागादिना कर्तर्यात्मनि फलोत्पत्तिपर्यन्तस्थायी अपूर्वाख्यः कश्चिद्धर्मविशेष उत्पाद्यते, तद््द्वारा यागादिः स्वर्गादिसाधनमिति कल्पनेन यागादेस्स्वर्गसाधनत्वोपपत्तेरिति ॥ सिद्धान्तः । ‘‘स्वर्गकामो यजेत्’’ इत्यादिविधिवाक्येषु श्रुतस्य यजधातोः ‘यजदेवपूजायां’’ इति देवताराधनेऽनुशिष्टतया देवताराधनरूपत्वेनैव कर्मणां विधानलाभात्, ‘‘वायव्यं श्वेतमालभेत भूतिकामः’’ इत्यादिष्वैश्वर्यादिसाधनतया वाय्वादिदेवताराधनभूतमिष्टिविशेषं विधाय, ‘‘वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’’ इत्यादिषु तदनन्तरार्थवादवाक्येषु पूर्ववाक्य वि हि तेष्टिविशेषाराधितवाय्वादिदेवतानामैश्वर्यादिफलप्रदत्वोपदेशेन तत्तत्कर्मणां तत्तत्कर्माराधनजनितदेवताप्रीतिद्वारा फलसाधनत्वप्रकारोपपादनात, अर्थवादोक्तस्य फलसाधनत्वब्रकारस्य विध्यपेक्षितत्वेन विधेस्तत्र तात्पर्यसंभवाच्च तत एव सर्वोपपत्तौ कर्मभि. फलजनने अपूर्वरूपद्वारकल्पने श्रुतहानाश्रुतकल्पनयोः प्रसङ्गेन तत्तत्कर्माराधनप्रींतानां" देवतानामेव फलप्रदत्वाभ्युपगमो न्याय्य इति ॥ इदमत्रावधेयम्-यद्यपि ‘‘सएवैनं भूतिं गमयति,’’ ‘‘तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्वयति’’ इत्यादिषु वाय्विन्द्रादीनामेव फलप्रदत्वं" प्रतीयते, तथापि ‘‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनां । इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः,’’ ‘‘यो यो यां यां तनुं भक्तश्श्रद्धयाऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्या राधनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान्,’’ ‘‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’’ इत्यादिश्रुतिस्मृतिषु भागवत एव सर्वकर्मसमाराध्यत्वसर्वकर्मफलप्रदत्वयोरभिधानेन पूर्वोदाहृतार्थवादवाक्यस्थवाय्विन्द्रादिशब्दानां ‘‘वायव्यंश्वेतमालभेत’’ इत्यादिविधेवाक्यस्थवाय्वादिशब्दानां च वाय्वाद्यन्तर्यामिपरमात्मपर्यन्तत्वे परमात्मन एव फलप्रदत्वे च तात्पर्यमिति ॥ एतेन वाय्वादिदेवताराधनरूपकर्मणां विपाकात्प्रागेव वाय्वाद्यर्वाचीनदेवतानां नाशसंभवेन तासां कर्मफलप्रदत्वासंभवशंकाया नावकाशः; तासां नाशेऽप्यकालकाल्यस्य तदन्तरात्मनः परमात्मनस्सर्वदाऽवस्थानेन, तस्य फलप्रदत्वेऽनुपपत्तिविरहात् । इत्थं च परमात्मैव सर्वकर्मसमाराध्यस्सर्वकर्मफलप्रदश्चेति सिद्धम् ॥ कर्मभिरुपासनैश्चाशेषैराराधितं प्रसन्नं यत् । सकलफलप्रदमेकं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 102 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" तृतीयाध्यायस्य द्वितीयः पादः । स्पष्टोऽर्थः ॥ भावः । तैत्तिरीयके अंभस्यनुवाके ‘‘इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः’’ इति श्रूयते । अस्यार्थः- प्रकृतं ब्रह्म, बहुधा जातं-अग्नीन्द्रादिशब्दघटितश्रुतिविहितत्वेन देवताभेदात् बहुविधं, जायमानं, इष्टाबूर्तं-यागादिश्रौतं कर्म, खातादिस्मार्तं कर्म, विश्वं-सर्वं, बिभर्ति-स्वाराधनत्वेन स्वीकरोति; भुवनस्य-सर्वस्य लोकस्य, तत्तत्कर्मफलप्रदानेन, नाभिः-धारकं च भवतीति। अयं भावः-अग्नीन्द्रादिनामघटितश्रुतिवाक्यविहितानि यानि यानि तत्तद्देवतोद्देश्यकानि कर्माणि, तानि सर्वणि तत्तद्देवतान्तरात्मतयाऽवस्थाय स्वाराधनतया स्वीकृत्य तत्तत्कर्मफलप्रदानेन सर्वान् ब्रह्मैव रक्षतीति ॥ तत्र सर्वकर्मसमाराध्यतया सर्वकर्मफलप्रदतया च श्रुतं ब्रह्म, ‘‘अद्भ्यस्संभूतो हिरण्यगर्भ इत्यष्टौ’’ इति तत्प्रकरणस्थोत्तरवाक्येन, ‘‘इष्टापूर्तं बहुधा’’ इति मन्त्रस्य ‘‘अद्भ्यस्संभूतः पृथिव्यै रसाच्च’’ इत्याद्यनुवाकसमानप्रकरणतावगमात्, तस्य च लक्ष्मीपतिविषयकत्वात्, स लक्ष्मीपतिः श्रीनिवास एवेति निर्धार्यते । ‘‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति’’ इति मोक्षानन्दहेतुत्वेन श्रुत आनन्दमयात्मा श्रीनिवासापरनामधेयपुण्डरीकाक्ष एवेति पूर्वमेव निर्धारितम् ॥ 81 ॥ इति फलाधिकरणम् ॥ 8 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीवेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे तृतीयाध्यायस्य द्वितीयः पादः ॥