पञ्चाग्निविषयविद्या संसृतिबन्धोत्थखेदविवृतिपरा ।
इष्टापूर्तादिकृतो देहाद्देहान्तरप्राप्तौ ॥ 86 ॥
गतिमाह भूतसूक्ष्मैस्संपरिरब्धस्य सेन्द्रियप्राणैः ।
यत्सङ्कल्पायत्तां तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥87॥
1 ॥ तदन्तरप्रतिपच्यधिकरणम् ॥ 1 ॥ अतीते अध्यायद्वये प्रथमेन तत्तत्परविद्यानिरूपणेन श्रीनिवास एव जगज्जन्मादिकारणं सर्वशेषि परं ब्रह्म; चतुर्मुखरुद्रेन्द्रादित्यादयस्तेनैव श्रीनिवासेन स्वलीलायै सृज्यन्ते, संह्रियन्ते च । स श्रीनिवासस्तमश्शब्दितप्रकृतिमण्डलादूर्ध्ववर्तिनि नित्यसूरिभिस्सदा दृश्यमाने स्थानविशेषे निरतिशयज्योतिर्मयातिरमणीयस्वेच्छापरिगृहीतदिव्यमङ्गलविग्रहविशिष्टः वाङ्मनसापरिच्छेद्यानन्दवान् स्वाश्रितानां निरतिशयानन्दं" जनयन् संसारबन्धान्मुक्तैरनुभूयमानस्सन्नास्त इति संसरतां जन्तूनां तदनुबुभूषाजननाय परमपुरुषार्थभूतं तक्स्वरूपस्वभावादिकं निर्धारितम् । द्वितीयेन एवं निर्धारितस्यार्थस्य स्मृतितर्कविरेधपरिहारेण अविचाल्यत्वं, परपक्षप्रतिक्षेपेणाबाधितत्वं, श्रीपाञ्चरात्रख्यभगवत्प्रणीतागमरूपप्रमाणमूर्धन्यसिद्धत्वेन श्रद्धेयतमत्वं, वियदादीनामचेतनानां चेतनानां च ब्रह्मकार्यत्वप्रकारशोधनेन कार्यसामान्यस्य श्रीनिवासाख्यब्रह्मकार्यत्वं च प्रतिष्ठापितम् ॥ एवं पुरुषार्थस्वरूपे निश्चितेऽप्यनादिवासनावशेन त्रिवर्गमेव परमपुरूषार्थं मन्यमानानां, तत्र अल्पास्थिरत्वादिदोषनिरूपणं विना तत्र दृढतरवैराग्यानुत्पादं, तदनुत्पादे च पूर्वोदाहृतपरमापुरुषार्थप्राप्तौ त्वरातिशयासिद्धिं च पर्यालोचयन्, पुनरावृत्तिप्रतिणदनेन कर्मफलानामनित्यत्वं, अपुनरावृत्तिप्रतिपादनेन ब्रह्मोपासनफलस्यापवर्गस्य नित्यत्वं च प्रतिपाद्य, तन्मुखेन परमपुरुषार्थप्राप्तौ त्वारतिशयमुत्पादयितुमुपक्रमतेऽनन्तरेणाध्यायद्वयेन ॥ यद्यापि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराम्यं विषयेषुत्पद्येन, न तादृशं वैराग्यं" कर्मविचारेणोत्पद्येन इति तदर्थं प्रयत्नस्सफल एवेति मन्यमानस्तृतीयाध्यायप्रथमणदे पञ्चाग्निविद्यानिरूपणेन कर्मफलानां सर्वेषामपि नश्वरतां निरयतुल्यतां च ख्यापयितुमारभते तदन्तरप्रतिपत्तौ इत्यादिना ॥ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ 3-1-1 ॥ [त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ 2 ॥ प्राणगतेश्च ॥ 3 ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ 4 ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ 5 ॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ 6 ॥ भाक्तं वाऽनात्मवित्तवात्तथा हि दर्शयति ॥ 7 ॥] अत्र ‘‘अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः’’ इत्युत्तरसूत्रात् ‘इष्टादिकारी’ इति पदं प्रथमैकवचनान्तमुपतिष्ठते । ‘‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’’ इति प्रश्नवाक्यस्थं त्रिवृत्करणभूतसूक्ष्मपरं ‘आप’ इति पदं तृतीयान्ततया विपरिणतं" बुद्धिस्थतयाऽन्वेति । ‘‘संज्ञामूर्तिकॢप्तिस्तु’’ इति पूर्वाधिकरणसूत्रे मूर्तिशब्देन प्रस्तुतो देहः तदन्तरेत्यत्र तच्छब्देन परामृश्यते । ततश्च इष्टादिकारी जीवः, तदन्तरप्रतिपत्तौ-देहान्तरप्राप्तौ, भूतसूक्ष्मैः संपरिष्वक्तः-संबद्ध एव, रंहति-गच्छति; प्रश्ननिरूपणाभ्यां-प्रश्नोत्तराभ्यां तथाऽवगतेरिति सूत्रार्थः॥ पञ्चाग्निविषयविद्या संसृतिबन्धोत्थखेदविवृतिपरा । इष्टापूर्तादिकृतो देहाद्देहान्तरप्राप्तौ ॥ 86 ॥ गतिमाह भूतसूक्ष्मैस्संपरिरब्धस्य सेन्द्रियप्राणैः । यत्सङ्कल्पायत्तां तद्ब्रह्म श्रीनिवासनाम भजे ॥ 87 ॥ अर्थः । संसृतिबन्धेनोत्थितो यः खेदः- पितृयाणमार्गपरिभ्रमणादिक्लेशः, तद्विवरणपरा पञ्चाग्निविद्या पूर्वदेहं विहाय देहान्तरप्राप्तिदशायां" इन्द्रियैः प्रणैश्च सहितैर्भूतसूक्ष्मैर्दृढं संश्लिष्टस्य इष्टापूर्तादिकृतो यत्सङ्कल्पायत्तां, यस्य संसारबन्धकृतः श्रीनिवासस्य सङ्कल्पकृतां गतिमाह, तद्ब्रह्म इति पूर्ववत् ॥ भावः । यागदानादिसुकृतकर्मकृत् जीवः देहान्तरप्राप्तिदशायां पुनः" शरीरान्तरारंभकतयाऽतिभीषणैर्भूतसूक्ष्मैराशीविषैरिवानुद्रुतस्सन् गच्छति । अहो दुस्सहोऽयं संसारबन्धक्लेश इति पञ्चाग्निविद्यया प्रतिपाद्यते । सोऽयं सर्वेऽपि क्लेशश्श्रीनिवासापरनामधेयस्य परस्य ब्रह्मणस्तत्तत्कर्मफलदित्सरूपसङ्कल्पाद्भवतीति श्वेताश्वतरोपनिषदाऽवगम्यते ॥ तत्र हि ‘‘प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः’’ इति मन्त्रेण जगदीश्वरस्य क्षेत्रज्ञसंसारबन्धहेतुत्वं तज्जनकसंकल्पवत्त्वरूपं" प्रतिणदितम् । ततश्च संसारबन्धस्य ईश्वरसंकल्पकृतत्वात् बन्धान्दर्गतस्य भूतसूक्ष्मैस्सह जीवस्य लोकान्तरगमनादेरीश्वरसंकल्पकृतत्वं" सिद्धम् । अत एव हि सूत्रकारैः तृतीयाध्यायद्वितीयपादे सन्ध्याधिकरणे ‘‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’’ इति सूत्रे जीवात्मनस्संसारबन्धस्य परमात्मसंकल्पकृतत्वेन तदन्तर्गतं तत्स्वरूपतिरोधानमपि तत्संकल्पकृतमिति सूत्रितम् ॥ अयं च जगदीश्वरः श्रीनिवासापरनामधेयो नारायण एवेति ‘‘वेदाहमेतं पुरुषं महान्तं आदित्यवर्ण तमसः परस्तात्’’ इति त्स्यामेवोपनिषदि तृतीयाध्याये पठ्यमानमन्त्रादवगम्यते । ्यं हि मन्त्रः ‘‘अद्भ्यससंभूतः पृथिव्यै रसाच्च’’ इत्यनुवाके श्रूयते । ततश्च तदनुवाके श्रुतेन नारायणादन्यत्र असंभवता लक्ष्मीपतित्वलिङ्गेन उक्तमन्त्रश्रुतो महापुरुषः नारायण एवेति, तदुपनिषदि श्रुताःईशान-शिव शंभू-रुद्रादयः" शब्दाः योगादिना नारायणेऽपि संभवन्तस्तत्परा एवेति, कृत्स्नापीयमुपनिषन्नारायणपरैवेति य निर्धार्यते । अतः ‘‘प्रधानक्षेत्रज्ञपतिर्गुणेशः’’ इति पूर्वोदाहृतमन्त्रश्रुत इश्वरोऽपि स एवेति निर्धार्यते इति । सर्वमिदमभिसन्धाया अस्मिन पद्ये यत्सङ्गल्पायत्तां इत्युक्तम् ॥ पूर्वपक्षः । देहान्तरप्रप्तयो गच्छन् इष्टादिकारी जीवः देहान्तरारंभकैर्भूतसूक्ष्मैरसंसृष्ट एव गच्छति, देहान्तरारंभकाणां भूतसूक्ष्माणां" तत्र तत्र सुलभत्वेन भूतसूक्ष्मैस्सह गमनकल्पनस्य निष्प्रयोजनत्वादिति ॥ सिद्धान्तः । देहाद्देहान्तरं गच्छन् इष्टापूर्तादिकृत् भूतसूक्ष्मैस्संसृष्ट एव गच्छति; पञ्चाग्निविद्याप्रकरणे श्रूयमाणेन ‘‘वेत्थ यथा पञ्चम्यामाहुतावापः" पुरुषवचसो भवन्ति’’ इति प्रश्नेन, ‘‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’’ इति प्रतिवचनेन च भूतसूक्ष्मैस्संसृष्ट एव गच्छतीत्यवगमात् श्रुत्येकसमधिगम्यस्यार्थस्य यथाश्रुति प्रतिपत्तव्यत्वात् । तत्र हि, ‘भूतसूक्ष्मविशिष्टस्य जीवस्य पञ्चस्वग्निषु क्रमेण संबन्धं प्राप्य, योषिद्रूपाग्निसंबन्धप्राप्त्यनन्तरं देहविशिष्टो भवतीति प्रतिवचनप्रकारश्च श्रूयते । अतो भूतसूक्ष्माणां" जीवेन सह गमनाभावे पञ्चाग्निसंबन्धपूर्वकं तदीयदेहात्मना परिणामस्यासंभवात्, जीवेन सह गच्छन्तीति प्रतीयते ॥ ननु उक्तप्रश्नप्रतिवचनयोरपामेव देहात्मना परिणमप्रकारप्रश्नः, तत्प्रतिवचनं च श्रूयते, न तु पञ्चानां भूतसूक्ष्माणाम् । अतः" कथं भूत सूक्ष्मपञ्चकस्य जीवेन सह गमनलाभ इति चेत् । उच्यते-देहान्तरारंभिकाणामपां तदारंभप्रकारप्रश्नंप्रतिवचनयोः श्रवणात् भूतान्तरासंसृष्टानामपां" देहारंभकत्वासंभवेन, अर्थसामर्थ्यादेव भूतान्तरसंसृष्टानामणं गमनलाभः । श्रुतावब्ग्रहणं तु देहारंभकेषु भूतेषु लोहितादिरूपाणामपां" बाहुल्याभिप्रायम् । एवं ‘‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति; प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’’ इति जीवेन समं सुख्यप्राणस्य इन्द्रियाणां च गमन श्रवणात् , निराश्रयाणां तेषां गमनासंभवेन भूतसूक्ष्माश्रितानामेव तेषां गमनस्य वक्तव्यत्वादपि जीवेन सह भूतसूक्ष्माणां गमनसिद्धिः ॥ ननु जीवस्य मरणदशायां तदीयवागादीन्द्रियाणामग्न्यादौ लयश्रवणात् कथं तेषां जीवेन सह गमनोक्तिसंभवः? श्रूयते हि ‘‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं’’ इत्यादौ वागदीन्द्रियाणमग्न्यादौ लय इति चेन्मैवं- ‘‘ओषधीर्लोमानि वनस्पतीन् केशा’’ इति मृतशरीरेण समं दह्यमानानां लोम्नां केशानां च ओषध्यादिषु लयश्रवणस्य ओषध्याद्यभिमानिनीनां देवतानां लोमाद्यभिमाननिवृत्तिपरताया अवश्यवक्तव्यतया, तत्सहपठितस्य वागादीन्द्रियलयस्यापि अग्न्याद्यभिमानिदेवतानां वागादीन्द्रियाभिमाननिवृत्तिपरतया उपपत्तेः ।. ननु ‘‘असौ वाव लोको गौतमाग्निस्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’’ इति प्रतिवचने प्रथमाहुतौ श्रद्धाया हूयमानत्वं" श्रूयते, न त्वपाम्; अतः कथं प्रतिवचनेन भूतसंसृष्टस्य जीवस्य गमनलाभ इति चेत्, उच्यते- ‘‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’’ इति अपां पञ्चमाहुतौ शरीरात्मना परिणामप्रकारप्रश्नस्य प्रथमाहुतिविषये ‘‘तस्मिन्ने तास्मिन्नग्नौ’’ इत्यादिप्रतिवचने अपां हूयमानत्वप्रकारविषयः प्रतिवयनासङ्गतिः स्यात् । अपां हि पञ्चस्वग्निषु हूयमानत्वप्रकारविषयः प्रश्नः । अतस्तत्र श्रद्धाशब्देन आप एवोच्यन्त इत्यवश्यमाश्रयणीयम् । अस्ति च श्रद्धाशब्दस्य अप्सु अपां हि पञ्चस्वग्निषु हूत्यवश्यमाश्रयणीयम् । अस्ति च श्रद्धाशब्दस्य अप्सु वैदिकः प्रयोगः ‘‘श्रद्धा वा आपः’’ इति ।. नन्वेवमापि श्रद्धाशब्दोक्तस्य भूतसूक्ष्मपञ्चकस्य हूयमानत्वलाभेन तस्यैव गमनलाभस्संभवति, न तु तत्संसृष्टस्येष्टादिकारिणः गमनस्य पञ्चाग्निविद्या लाभ इति चेत्, श्रृणु-उत्तरत्र पितृयाणमार्गोक्तिप्रकरणे छान्दोग्ये ‘‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते’’ इतीष्टादिकारिणां पितृयाणमार्गेण गतिमुपक्रम्य, ‘‘पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्ष्यन्ति’’ इत्यत्र पितृयाणमार्गेण प्रस्थितस्येष्टादिकारिणश्चन्द्रप्राप्त्यनन्तरं सोमराजात्मना भवनस्याभिधानात्, इह पञ्चाग्निविद्याप्रकरणेऽपि, ‘‘तस्मिन्नेतस्मिन्नगनौ देवाः श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा संभवति’’ इति प्रथमाहुतौ हुतस्य श्रद्धाशाब्दोक्तस्य सोमराजात्मना संभवस्याभिधानात्, स एवायमिष्टादिकारिणस्सोमराजभाव इति प्रत्यभिज्ञायमानतया अत्र श्रद्धाशब्देन भूतसूक्ष्मपञ्चकविशिष्ट इष्टादिकारी निर्दिश्यत इति निर्धार्यते ॥ न च ‘‘एष सोमो राजा’’ इत्येतदनन्तरं ‘‘तद्देवानामन्नं तं देवा भक्षयान्ति’’ इत्यत्र तच्छब्देन बूर्वाक्यप्रस्तुतं परामृश्च तस्यान्नत्वभक्ष्यमाणत्वयोर्वचनात् इष्टादिकारिणो जीवस्य भक्ष्यमाणत्वासंभवात् ‘‘एष सोमो राजा’’ इतीदं वाक्यं न प्राप्त्रिष्टादिकारिपरं, अपि तु प्राप्यचन्द्रपरं; तथा सति चन्द्रस्य देवान्नत्वदेवभक्ष्यमाणत्वयोः पुराणादिषु प्रसिद्धत्वेन वाक्यार्थोपपत्तेरिति वाच्यम्-‘‘एष सोमो राजा’’ इत्यस्य प्राप्यचन्द्रपरत्वे चन्द्रस्य सोमत्वराजत्वयोः प्रसिद्धयोरनुवादे प्रयोजनाभावेन वाक्यवैयर्थ्यप्रसङ्गेन प्राप्त्रिष्टादिकारिपरताया अवश्यवक्तव्यत्वात् । तथा सति चन्द्रं प्राप्तस्येष्टादिकारिणः अमृतमयदेहप्राप्तिविधिपरत्वेन सार्थक्यसंभवात् ॥ ‘‘तं देवा भक्ष्यन्ति’’ इति वाक्यं इष्टादिकारिण आजानदेवैः पशुवत् स्वभोगोपकरणीक्रियमाणत्वपरम्; इष्टादिकारिणः ब्रह्मवित्त्वाभावेन देवैः पशुवत् स्वभोगोपकरणीक्रियमाणत्वस्य ‘‘यथा पशुरेवं स देवानां’’ इत्यत्र श्रूयमाणत्वात् । यथा पशुःमनुष्यस्य भोगोपकरणीभवति, एवं सः अब्रह्मवित् इष्टादिकारी देवानां किंकरीभूय भोगोपकरणीभवतीति तदर्थः । ततश्च ‘‘तस्मिन्नेतस्मिन्नग्नौ देवा’’ इत्यादिवाक्यस्य, तस्मिन्नेतस्मिन्नग्नौ-द्युलोकरूपेऽग्नौ, देवाः-िष्टादिकारिणो जीवस्य इन्द्रियाणि, श्रद्धां-भूतसूक्ष्मपञ्चकविशिष्टमिष्टादिकारिणं, द्युलोकं प्रापयन्तीति फलितम् । तस्या आहुतेस्सोमो राजा संभवति-द्युलोकं प्राप्त इष्टादिकारी अमृतमयदिव्यशरीरविशिष्टो भवतीत्यर्थः । ‘‘आकाशच्चन्द्रमसमेष सोमो राजा’’ इत्यत्रापि, एषः-चन्द्रं प्राप्त इष्टादिकारी, सोमो राजा-अमृतमयदिव्यशरीरविशिष्टो भवतीत्यर्थः ॥ इत्थं च ‘‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’’ इति प्रश्नस्य प्रथमाहुतिविषयेण ‘‘असौ वाव लोको गौतमाग्निस्तस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’’ इत्यनेन प्रतिवचनेन भूतसूक्ष्मपञ्चकविशिष्टस्य इष्टादिकारिणो गमनलाभात् भूतसूक्ष्मपञ्चकविशिष्ट एव ष्टादिकारी गच्छतीति सिद्धम् ॥ 68 ॥ इति तदन्तरप्रतिपत्त्यधिकरणम् ॥ 1 ॥
सुकृतफले भुक्ते सत्यभुक्तफलकर्मभिस्सहितः ।
यस्येच्छयाऽवरोहति तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 88 ॥
2 ॥ कृतात्ययाधिकरणम् ॥ 2 ॥ पूर्वाधिकरणे सुकृतफलभोगाय प्रस्थितस्येष्टादिकारिणो भूतसूक्ष्मरूपेण परिणतप्रकृतिसंबन्धस्यावर्जनीयत्वमुक्तम् । अनेन ब्रह्मविद्यायाः" कर्मणां च महदन्तरं दर्शितं भवति । ब्रह्मविद्या हि स्वफलभोगाय प्रस्थितस्य ब्रह्मविदः प्रकृतिसंबन्धं नाशयति; कर्म तु प्रकृतिसंबन्धं" स्थापयतीति । इदानीं पुण्यकर्मकारिणः प्रकृतिसंबन्धहेतुभूतकर्मबन्धस्यावर्जनीयता ख्यापयितुं प्रवृत्तमिदमधिकरणम् ॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ 3-1-8 ॥ [चरणदिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥ 9 ॥ आनर्थक्यमिति चैन्न तदपेक्षत्वात् ॥ 10 ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ 11 ॥] पूर्वसूत्रात् ‘इष्टादिकारी’ इति पदं विपरिणतमनुवर्तते । ‘अवरोहति’ इत्यध्याहार्यम् । ततश्च इष्टादिकारी, कृतात्ययो, कृतस्य-फलदानाय प्रवृत्तपुण्यकर्मणः, अत्यये-क्षये, अनुशयवान्-अदत्तफलावशिष्टकर्मवान्; यथेतं-आरोहप्रकारेण; अनेवं-प्रकारान्तरेण च अवरोहति; दृष्टस्मृतिभ्यांश्रुतिस्मृतिभ्यां" तथाऽवगतेरिति सूत्रार्थः ॥ सुकृतफले भुक्ते सत्यभुक्तफलकर्मभिस्सहितः । यस्येच्छयाऽवरोहति तद्ब्रह्म श्रीनिवासनाम भजे ॥ 88 ॥ अत्र ‘इष्टादिकारी’ इति पदं प्रकरणसिद्धम् । स्पष्टोऽर्थः ॥ भावः । स्वर्गं प्राप्तः पुण्यकर्मकृज्जीवः फलदानप्रवृत्तपुण्यकर्मफलेऽनुभूते सति भोक्तव्यफलकर्मभारवाही यस्य भगवतश्श्रीनिवासस्य संकल्पादवरोहति तद्ब्रह्मेति पूर्ववत् । आरोहक्रमेण क्रमान्तरेण चावरोहति । धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेणाऽऽरोहः" । अवरोहस्तु चन्द्राकाशवायुधूमाभ्रमेघवृष्टिक्रमेण । आरोहावरोहयोराकाशप्राप्त्या यथागतं अवरोहे पितृलोकमप्राप्य वाय्वादिप्राप्त्या क्रमान्तरमिति विवेकः । इष्टादिकारिणां स्वर्गादवरोहस्यापि भगवत्संकल्पायत्तत्वस्य पूर्वोदाहृतश्वेताश्वतरोपनिषत्सेद्धत्वमभिप्रेत्यात्र यर्स्येच्छयाऽवरोहति इत्युक्तम् ॥ पूर्वपक्षः । ‘‘तस्मिन् यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते’’ इत्यत्र संपातशब्दस्य कर्मबाचिनस्संकोचकाभावेन कर्मसामान्यपरतया निश्शेषकर्मफलभोगानन्तरं स्वर्गात् प्रतिनिवृत्तिश्रवणेन स्वर्गादवरोहन्नष्टादिकारी भुक्तशिष्टकर्मशून्य एव प्रतिनिवर्तते । अत एव ‘‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययं । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे ॥’’ इति श्रुत्यन्तरं संगच्छते । तत्र हि इह लोके यत्कर्म करोति तस्यान्तं प्राप्य स्वर्गलोकात् प्रतिनिवृत्तिः श्रूयत इति ॥ सिद्धान्तः । इष्टादिकारी अभुक्तफलकर्मविशेष्ट एव स्वर्गादवरोहति; ‘‘तद्य इह रमणीयचरणा अभ्याशो ह यत्, ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं" क्षत्रिययोनिं वैश्ययोनिं वा । अथ य इह कपूयचरणा अब्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं सूकरयोनिं चण्डालयोनिं वा ’’ इति श्रुतेः, ‘‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तसुखमेधसो जन्म प्रतिपद्यन्ते; विष्वञ्चो विपरीता नश्यन्ति’’ इति स्मृतेश्च तथाऽवगमात् । इह-अस्मिन् लोके, अभ्याशः-स्वर्गादागन्तारः ये, ते रमणीयचरणाः-पुण्यकर्माणः, यत्-यदि, ते-आगन्तारः, रमणीयां-उत्कृष्टां ब्राह्मणादियोनिं प्राप्नुवान्ति । इह अभ्यागन्तारः ये, ते कपूयचरणाः-पापकर्माणः, यत्-यदि, श्वयोनिप्रभृतिंकुत्सितां जातिं प्राप्नुवन्ति इति उक्तश्रुत्यर्थः ।उक्तश्रुतिस्मृत्योः स्वर्गात् प्रतिनिवर्तमानस्य पुण्यपापरूवकर्मभेदेन जन्मभेदप्रतिपादनात् अनादिकालप्रवृत्तपूण्यपापरूपकर्मसु अभुक्तफलानां कर्मणां ब्रह्मविद्यारूपप्रायश्चित्तेन विना नाशासंभवाच्च ‘‘यावत्संपातमुषित्वा’’ इत्यत्र संपातशब्दः फलदानप्रवृत्तपुण्यकर्ममात्रपरतया संकोचनीयः । ‘‘प्राप्यान्तं कर्मणस्तस्य’’ इति श्रुत्यन्तरमपि फलदानप्रवृत्तकर्मविषयमेव वाच्यम् ॥ ननु उदाहृतश्रुतौ ‘रमणीयचरणाः’ ‘कबूयचरणाः’ इत्युभयत्र चरणशब्द आचारवाची; लोके आचार एव तस्य प्रयोगदर्शनात् । वेदे च ‘‘यान्यनवद्यानि कर्माणि’’ इति, ‘‘यान्यस्माकं सुचरितानि’’ इति कर्मण आचारस्य च पृथङ्निर्देशात् अत्र आचारफलमेव तत्तद्योनिप्राप्तिः, न तु कर्मफलं" इति प्रतीयते । अतः कथमुक्तश्रुतिबलात् कर्मशेषविशिष्टस्य प्रत्यवरोह उच्यत इति चेत्, उच्यते-चरणशब्दस्य आचारे प्रयोगेऽपि, प्रकृते चरणशब्दस्य नाचारपरत्वं संभवति; सदसद्योनिजन्मनः पुण्यपापरूपकर्मफलभूतसुखदुःखभोगार्थत्वेन तत्र कर्मण एव हेतुतया आचारस्य तद्धेतुत्वायोगात् । अत उक्तश्रुतौ चरणशब्दस्सुकृतरूपकर्मणि लाक्षणिकः । ‘चर्यत इति चरणं’ इति व्युत्पत्त्या सुकृतदुष्कृतरूपकर्मवाची वा वक्तव्यः" । न चैवमाचारस्य वैयर्थ्यं शंक्यम्; तस्य कर्मानुष्ठानयोग्यतापादकत्वेन सार्थक्यात् । अतः स्वर्गात्प्रत्यवरोहन् इष्टादिकर्मकृत् अभुक्तफलकर्मविशिष्ट एव प्रत्यवरोहतीति सिद्धम् ॥ 69 ॥ इति कृतात्ययाधिकरणम् ॥ 2 ॥
विद्याकर्मविहीनाः पापकृतो यस्य संकल्पात् ।
नरकानेव भजन्ते तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥89 ॥
3 ॥ अनिष्टादिकार्यधिकरणम् ॥ 3 ॥ ‘‘तस्मिन् यावत्संपातमुषित्वा’’ इत्यत्र संपातशब्दस्येव ‘‘चन्द्रमसमेव ते सर्वे गच्छन्ति’’ इत्यत्र सर्वशब्दस्य संकोचे प्रमाणाभावेन, तत्र सर्वशब्दः सुकृतदुष्कृतकृत्सर्वसाधारणस्स्यादित्याशङ्गां परिहर्तु प्रवृत्तमिदमधिकरणम् ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ 3-1-12 ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ 13 ॥ स्मरन्ति च ॥ 14 ॥ अपि सप्त ॥ 15 ॥ तत्रापि तद्व्यापारादविरोधः ॥ 16 ॥ एतानि पूर्वपक्षसूत्राणि । ‘चन्द्रगमनं’ इत्यध्याहार्यम् । चन्द्रगमनं अनिष्टादिकारिणामपि श्रूयते इति सूत्रार्थः । अत्र अनिष्टादिकारिशब्देन शास्त्रनिषिद्धकर्मकर्तारः विहितकर्मणामकर्तारश्च विवक्षिताः ॥ पूर्वपक्षसूत्राणामयं भावः- ‘‘ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’’ इति अस्माल्लोकात्प्रेत्य गच्छतां" सर्वेषां चन्द्रप्राप्तिश्रवणात् पूर्वोक्तद्विविधपापकर्मकारिणामपि चन्द्रप्राप्तिरस्त्येव । परन्तु ‘‘अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’’ इति, ‘‘सर्वे चैते वशं यान्ति यमस्य भगवन् किल’’ इत्यादिश्रुतिस्मृतिषु पापिनां यमसदनप्राप्त्यभिधानात्, यमसदनं प्राप्य यमाज्ञया पापिनां प्रथमं पापफलभूतरौरवादिनरकानुभवः, पश्चचन्द्रप्राप्तिरिति पुण्यकृद्भ्यो विशेषसिद्धये कल्पनीयमिति ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ 3-1-17 ॥ न तृतीये तथोपलब्धेः ॥ 18 ॥ स्मर्यतेऽपि च लोके ॥ 19 ॥ दर्शनाच्च ॥ 20 ॥ तृतीयशब्दावरोधस्संशोकजस्य ॥ 21 ॥ एतानि सिद्धान्तसूत्राणि ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । पापिनां चन्द्रप्राप्तिर्नास्ति; देवयानपितृयाणमार्गगमनस्य प्रकरणेन विद्याकर्मफलभोगार्थत्वावगमात् इत्युक्तसूत्रार्थः । अयं भावः- ‘‘अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति’’ इत्युपक्रम्य, ‘‘आकाशाच्चन्द्रमसं’’ इति पितृयाणमार्गेण प्रस्थितस्थ चन्द्रप्रप्तिराम्नाता । ततश्च ‘‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसंभवन्ति’’ इत्यादिविद्याफलतया अभिमतमर्चिरादिमार्गगमनं ब्रह्मविद्यारहितानां पापिनां यथा न संभवति, एवं ‘‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति’’ इत्यादिना पुण्यकर्मफलतयाऽभिहितपितृयाणमार्गगमनमपि पुण्यकर्मरहितानां पापिनां न संभवति ।अतस्तेषां चन्द्रप्राप्तिरपि नास्ति । ‘‘ये वै के चास्माल्लोकात्’’ इत्यादिपूर्वोदाहृतश्रुतौ ‘ते सर्वे’ इति सर्वशब्दः पुण्यकर्मकर्तृसर्वविषयतया संकोचनीयः" ॥ ननु पापिनां चन्द्रप्राप्त्यभावे चन्द्रप्राप्त्यनन्तरभावितया पूर्वोदाहृतश्रुतिसिद्धा योषिद्रपपञ्चमाग्नौ भूतसूक्ष्माणामाहुतिरपि न संभवति । तदसंभवे च तैश्शरीरारंभोऽपि नोपपद्यते इति चेत्, मैवम्-पापिनां द्युलोकप्राप्त्यभावश्रवणेन तेषां योषिद्रूपपञ्चमाग्निसंबन्धमन्तरेणैव शरीरारंभलाभेन तदर्थं चन्द्रप्राप्तेरकल्पनीयत्वात् । श्रूयते हि पञ्चाग्निविद्याप्रकरणे ‘‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुदाण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं, तेनासौ लोको न संपूर्यते’’ इत्यत्र तृतीयस्थानशब्दनिर्दिष्टानां पापिनां" द्युलोकप्राप्त्यभावः । देवयानपितृयाणमार्गप्राप्तिहेतुभूतविद्याकर्मसंबन्धहीनाः पुनःपुनर्जननमरणवन्तो ये पापिनस्तैसस्वर्गलोको न संपूर्यते इत्युक्तश्रुत्यर्थः । एवं द्रौपदीधृष्टद्युम्नप्रभृतीनामयोनिजानां योषिद्गर्भसंबन्धमन्तरेणौव शरीरोत्पत्तिस्मरणादपि शरीरारंभे न योषिद्गर्भसंबन्धापेक्षानियमः । एवं ‘‘तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जं’’ इति श्रुतौ तरुगुल्मादिस्थावरशरीराणां, कृमिदंशादिस्वेदजशरीराणां च योषिद्गर्भसंबन्धमन्तरेण शरीरारंभश्रवणादपि शरीरारेभे न योषिद्गर्भसंबन्धरूपपञ्चमाहुत्यपेक्षानियम्ः" । अदाहृतश्रुतौ उद्भिज्जशब्देन स्वेदजशरीरमपि गृह्यत इति द्रष्टव्यम् । अतः पापिनां शरीरारंभे न पञ्चमाहुत्यपेक्षा नापि चन्द्रप्राप्त्यपेक्षेति सिद्धम् ॥ विद्याकर्मविहीनाः पापकृतो यस्य संकल्पात् । नरकानेव भजन्ते तद्ब्रह्म श्रीनिवासनाम भजे ॥ 89 ॥ पापिनां नरकप्राप्तेरपि भगवत्संकल्पकृतत्वस्य पूर्वोदाहृतश्वेताश्वतरो पनिषत्सिद्धत्वादत्र यत्सङ्कल्पात् नरकानेव भजन्ते इत्युक्तम् ॥ 70 ॥ इति अनिषटादिकार्यधिकरणम् ॥ 3 ॥
अवरोहन्गगनाद्यैस्संश्लेषं कमपि यत्कृतं प्राप्य ।
निष्क्रामत्यनतिचिरात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 90 ॥
मेघान्निष्क्रान्तस्सन्, व्रीहिभिरन्यस्य देहतां प्राप्तैः।
श्लिष्यति यत्संकल्पात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 91 ॥
4 ॥ तत्स्वाभाव्यापच्यधिकरणम् ॥ 4 ॥ स्वर्गात् प्रत्यवरोहन् जीवश्चन्द्रलोके देवशरीरारंभकैस्सुकृतफलभोगावसाने विलीय सूक्ष्मतां प्राप्तैस्सप्राणैस्सेन्द्रियैः पञ्चभिर्भूतैस्सहितः" अभुक्तफलकर्मविशिष्टश्च प्रत्यवरोहतीत्युक्तं प्राक् । इदानीं प्रत्यवरोहणकाले मार्गमध्ये तस्यावस्थाविसेषो विचार्यते ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ 3-1-22 ॥ तत्स्वाभाव्यापत्तिः- आकाशादिसादृश्यापत्तिः, श्रुतिस्थेन आकाशादिभावप्रप्तिशब्देनाभिधीयते, तत्सादृश्यप्राप्तेरेवोपपद्यमानत्वादिति सूत्रार्थः ॥ अयं भावः-स्वर्गात्प्रतिनिवर्तमानमधिकृत्य, ‘‘यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽभ्रं भवति’’ इत्यादि श्रूयते । अत्र ‘आकाशं’ इत्यादौ ‘अभिसंभवति’ इति पूरणीयम् । ततश्च ‘आकाशमभिसंभवति’ इत्यनेन आकाशप्राप्तिः प्रतीयते । तथाऽपि ‘वायुर्भूत्वा’ इत्यादावुत्तरत्र वाय्वादिभावप्राप्त्यभिधानेन पूर्वमप्याकाशादिभावप्राप्तिरेव विवक्षितेति गम्यते । तत्रावरोहतो जीवस्य आकाशभाव आकाशशरीरकत्वरूप इति न वक्तुं शक्यम्, पूर्वमेव जीवान्तरशरीरभूतस्याऽऽकाशस्येदानीं स्वर्गात्प्रत्यवरोहज्जीवशरीरत्वासंभवात् । अपि त्वाकाशसादृश्यापत्तिरेव । तत्सादृश्यं च आकाशद्भेदकाकारप्रहाणेन ततः पृथक्प्रतीत्यनर्हत्वमेव । ततश्च चन्द्रलोकात्प्रत्यवरोहन् जीव आकाशात्पृथक्प्रतीत्यनर्हभूतसूक्ष्मविशिष्टो भवतीति पर्यवसितम् ॥ 71 ॥ इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥ 4 ॥
अवरोहन्गगनाद्यैस्संश्लेषं कमपि यत्कृतं प्राप्य ।
निष्क्रामत्यनतिचिरात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 90 ॥
मेघान्निष्क्रान्तस्सन्, व्रीहिभिरन्यस्य देहतां प्राप्तैः।
श्लिष्यति यत्संकल्पात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 91 ॥
5 ॥ नातिचिराधिकरणम् ॥ 5 ॥ नातिचिरेण विशेषात् ॥ 3-1-23 ॥ आकाशवायुधूमाभ्रमेघवृष्टिसादृश्यं प्राप्तस्स्वर्गात्प्रत्यवरोहन् जीवः, ईषद्विलम्बेनाऽऽकाशादितो निष्क्रामति । व्रीहिप्राप्त्यनन्तरं, ‘‘ततः खलु वै दुर्निष्प्रपतरं’’ इति विलम्बेन व्रीह्यादितो निष्क्रमणश्रवणात्, ततः पूर्वमाकाशादितो निष्क्रमणे ईषद्विलम्बावगतेरिति सूत्रार्थः ॥ ‘दुर्निष्प्रपततरं’ इति वक्तव्ये ‘दुर्निष्प्रपतरं’ इति तकारलोपश्छान्दसः । व्रीह्यादितो निष्क्रमणमतिकृच्छ्रेण भवतीत्यर्थः । उक्ताधिकरणद्वयार्थसंग्रहकमिदं पद्यम् ॥ अवरोहन्गगनाद्यैस्संश्लेषं कमपि यत्कृतं प्राप्य । निष्क्रमामत्यनतिचिरात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 90 ॥ अर्थः । चन्द्रात् अवरोहन् जीवः येन श्रीनिवासेन कृतं-तत्संकल्पकृतमित्यर्थः; आकाशाद्यैस्समं कमपि आकाशादितः पृथक्प्रतीत्यनर्ह, संश्लेषं संबन्धं, प्राप्य अनतिचिरात्-ईषद्विलम्बेन, निष्क्रामति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । इष्टादिकारिणां चन्द्रलोके देवशरीरारंभकाणि भूतसूक्ष्माणि तस्य स्वर्गसुखानुभवस्यावसाने द्रवीभावं प्राप्य वायुना इतस्तातः" क्षिप्यमाणान्याकाशेन समं पृथक्प्रतीत्यनर्हं श्रीनिवाससंकल्पकारितं संबन्धविशेषं प्राप्नुवन्ति । तदा तत्संसृष्टः प्रत्यवरोहन् जीवोऽपि तथाविधमाकाशसंबन्धं प्राप्य आकाशदीषद्विलम्बेन निष्क्रम्य वायुना, ततो धूमेन, ततोऽभ्रेण, ततो मेघेन, ततो वृष्टा समं" तथाविधसंबन्धं प्राप्नोतीति । ‘अभ्रं’ इत्यनेन जलग्रहणावस्था; ‘मेघं’ इत्यनेन जलसेचनावस्था चोच्यते ॥ 72 ॥ इति नातिचिराधिकरणम् ॥ 5 ॥