जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥
करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥81 ॥

26 ॥ प्राणोत्पच्यधिकरणम् ॥ 1 ॥ तृतीयपादे आकाशाद्यचेतनवर्गस्य चेतनवर्गस्य च ब्रह्मकार्यत्वप्रकारो निरूपितः । इदानीं इन्द्रियादीनां जीवोपकरणानां कार्यत्वप्रकारो निरूप्यते ॥ तथा प्राणाः ॥ 2-4-1 ॥ इदं पूर्वपक्षसूत्रम् । यथा जीवो नौत्पद्यते, तथा इन्द्रियाण्यपि नोत्पद्यन्ते इति सूत्रार्थः । ‘‘असद्वा इदमग्र आसीत् । तदहुः" किं तदासीत् इति । ऋषयो वाव ते अग्रे आसन् । तदाहुः-के ते ऋषयः इति । प्रणा वाव ऋषयः’’ इति शतपथब्राह्मणे प्रलयकाले प्राणशब्दवाच्यानां" इन्द्रियाणां सद्भावश्रवणेन तेषामुत्पत्त्यभावावगमात् इन्द्रियाणि नोत्पद्यन्ते इति भावैः ॥ आवृत्त्या इदमेव सिद्धान्तसूत्रम् - तथा प्राणाः ॥ 2-4-1 ॥ [गौण्यसंभवात् तत्प्राक््श्रुतेश्च ॥ 2 ॥ तत्पूर्वकत्वाद्वाचः ॥ 3 ॥] तथा प्राणाः- इन्द्रियाणि वियदादिवत् उत्पद्यन्ते इति सूत्रार्थः ॥ भावः । ‘‘एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’’ इत्यादिश्रुतिषु वियदादीनामिव इन्द्रियाणामप्युत्पत्तिश्रवणेन तेषामुत्पत्तिः अस्त्येव । उदाहृतशतपथब्राह्मणे, ‘‘प्राणा वाव ऋषयः’’ इत्यत्र प्रणशब्दवाच्यः" परमात्मा, न इन्द्रियाणि; ऋषिशब्दसामानाधिकरण्येन प्राणशब्दवाच्यस्य सर्वज्ञत्वावगमात् । ऋषिशब्दो हि सर्वज्ञत्ववाची । किञ्च इन्द्रियाणि स्वकार्यकल्प्यानि । सृष्टेः प्राक् वियदादीनां अभावेन व्यवहर्तव्याभावात्, वागादिकार्यं व्यवहारादि, श्रोत्रादिकार्यं" शब्दग्रहणादि च तदानीं न संभवाति । अतः सृष्टेः प्राक्् इन्द्रियकार्याभावात्, इन्द्रियसद्भावकल्पने प्रमाणाभावेन इन्द्रियाणामभावः" सिद्धः ॥ इत्थं च परमात्मनो बहुत्वासंभवात्, तस्यैकस्यैव प्रलयदशायामवस्थानश्रवणात्, प्रलयदशायामिन्द्रियसद्भावकल्पने प्रमाणाभावाच्च, बहुवचनश्रुतिः ‘‘अदितिः पाशान्’’ इति बहुवचनश्रुतिवत् नेया इति ॥ 61 ॥ इति प्रणोत्पत्त्यधिकरणम् ॥ 1 ॥

जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥
करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥81 ॥

27 ॥ सप्तगत्यधिकरणम् ॥ 2 ॥ सप्त गतेर्विशेषितत्वाच्च ॥ 2-4-4 ॥ इदं पूर्वपक्षसूत्रम् । सप्तानामेव इन्द्रियाणां जीवेन सह गमनश्रवणात्, योगदशायां सप्तानामेव विशीष्य उक्तत्वाच्च, इन्द्रियाणि सप्त एव इति सूत्रार्थः ॥ भावः । श्रोत्रादिज्ञानेन्द्रियाणि पञ्च, मनः, बुद्धिश्च इति इन्द्रियाणि सप्तैव । तैत्तिरीयोपनिषदि अंभस्यनुवाके, ‘‘सप्त इमे लोका येषु चरन्ति प्राणा गुहाशय निहिताः सप्त सप्त’’ इति श्रुतौ जीवस्य इहामुत्र च गमनदशायां सप्रानामेवेन्द्रियाणां तेन सह गमनश्रवणात्; कठवल्ल्यां योगस्वरूपनिरूपणपरे ‘‘यद् पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः पस्मां गतिम्’’ इति मन्त्रे मनःसहपाठेन इन्द्रियत्वेनावगतानां पञ्चानां ज्ञानसाधनवाचिना ज्ञानानि इति विशेषणेन ज्ञानेन्द्रियत्वावगमाच्च । ‘‘सप्त इमे लोकाः’’ इति मन्त्रे ‘सप्त सप्त’ इति वीप्सा एकैकस्य पुरुषस्य इन्द्रियाणि सप्त इत्येतत्परा ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ 2-4-5 ॥ इदं सिद्धान्तसूत्रम् । तु शब्दः पक्षव्यावृत्त्यर्थः । जीवस्य शरीरे स्थितिदशायां, हस्तादयः- पाण्यादीन्द्रियाणि, तस्योपकरणानि भवन्ति । अतः सप्तैवेन्द्रियाणीति न मन्तव्यं इति सूत्रार्थः ॥ भावः । यथा चक्षुरादीन्द्रियाणि दर्शनाधिक्रियाकरणत्वेन जीवस्य उपकारकाणि, तथा हस्तादीनि कर्मेनद्रियाण्यप्यादानादिक्रियाकरणत्वेन जीवस्य शरीरे स्थितिदशायां उपकारकाणि । अतः न प्रागुक्तेन्द्रियसंख्यानियमो युक्तः । अतः पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मन एकं इत्येकादशोन्द्रियाणि इति ॥ 62 ॥ इति सप्तगत्यधिकरणम् ॥ 2 ॥

जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥
करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥81 ॥

28 ॥ प्राणामुत्वाधिकरणम् ॥ 3 ॥ अणवश्च ॥ 2-4-6 ॥ पूर्वाक्तान्येकादशेन्द्रियाणि अणुपरिमाणवन्ति । अत्र इन्द्रियाणां उच्यमानमणुत्वं न जीवस्येव अत्यन्ताणुत्वरूपम्, अपि तु परिच्छिन्नत्वमात्रम् । ‘‘प्राणमनूत्क्रामन्तं सर्वे ब्राणा अनुत्क्रामन्ति’’ इति इन्द्रियाणां उत्क्रान्तिश्रवणात्, विभुत्वे उत्क्रान्त्ययोगात् । इन्द्रियाणां ‘‘त एते सर्व एव समाः सर्वेऽनन्ताः’’ इत्यानन्त्यश्रुतिस्तु कार्यबहुत्वाभिप्रायेति भावः ॥ श्रेष्टश्च ॥ 2-4-7 ॥ सुख्यप्राणसंवादे श्रैष्ठ्यगुणकतयोक्तः मुख्यप्राणेऽप्युत्पद्यते, ‘‘एतस्माज्जायते प्राणः’’ इति तस्योत्पत्तिश्रवणात् । ‘‘आनीदवातं" स्वधया तदेकं’’ इति श्रुतिस्तु न जीवसंबन्धिनो मुख्यप्राणस्य प्रलयदशायां प्राणनरूपकार्यसद्भावप्रतिपादनपरा; ‘अवातं’ इत्यनेन तत्रैव वाय्वभावप्रतिपादनात् । अपि तु परमात्मन एकस्यैव तदानीं सद्भावप्रतिपादनपरा इति भावः ॥ 63 ॥ इति प्राणाणुत्वाधिकरणम् ॥ 3 ॥

जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥
करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥81 ॥

29 ॥ वायुक्रियाधिकरणम् ॥ 4 ॥ न वायुक्रिये पृथगुपदेशात् ॥ 2-4-8 ॥ [चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ 9 ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ 10 ॥ पञ्चवृत्तिर्मनोवत् व्यापदिश्यते ॥ 11 ॥] मुख्यप्राणः, वायोः उत्छ््वासनिश्श्वासादिरूपक्रियायाश्च भिन्नः, ‘‘एतस्माज्जायते प्राणो मनस्सर्तेन्द्रियाणि च । खं पायुः’’ इति वायोरुपत्तिवत् मुख्यप्राणस्यापि पृथगुत्पत्तिश्रवणात् । नाप्युच्छ््वासनिश्श्वासक्रिया प्राणः, क्रियायाः पृथङ््निर्देशभावात्; अपि त्ववस्थान्तरापन्नो वायुरेव प्राण इत्युच्यते । प्राणस्य वायुविकारत्वे अग्निवत् भूतान्तरत्वं स्यात् इति तु न शंक्यम् । प्राणसंवादप्रकरणे प्राणस्य इन्द्रियैः सह पाठात्, चक्षुरादीन्द्रियवत् जीवोपकरणविशेषत्वावगमात् । प्राणस्य इन्द्रियैः सह पाठात्, चक्षुरादीन्द्रियवत् जीवोपकरणविशेषत्वावगमात् । प्राणस्य शरीरधारणादिना जीवोपकारकत्वात् तदुपकरणत्वाक्षतेः । यथा इच्छादिज्ञानावस्थाविशेषात्मकार्यमेदेन तद्धेतोर्मनसः ‘‘कामस्सङ्कल्पो विचिकित्सा श्रद्धा’’ इत्यादिसंज्ञाभेदेऽपि मनस्तत्त्वमेकमेव, एवं कार्यभेदेन प्राणापानादिसंज्ञाभेदेऽपि अपानादयो न प्राणात् तत्त्वान्तरणि; अपि तु प्राण एक एव पञ्चधा अवस्थितः ॥ 64 ॥ इति वायुक्रियाधिकरणम् ॥ 4 ॥

जीवोपकारकतया तत्करणानामणूनां च ।
एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥
करणस्याणोर्यस्मादुत्पत्तेः श्रूयमाणतया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥81 ॥

30 ॥ श्रेष्ठाणुत्वाधिकरणम् ॥ 5 ॥ अणुश्च ॥ 2-4-12 ॥ मुख्यप्राणोऽपि अणुरेव; ‘‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’’ इत्युत्क्रान्तिश्रवणात् इति सूत्रार्थः । ‘‘सर्वं हीदं प्राणेनाऽऽवृतं’’ इत्यादिश्रुतिस्तुसर्वस्य प्राणाधीनस्थितिकत्वप्रदर्शनपरा; न तु मुख्यप्राणस्य महापरिमाणप्रतिपादनपरा इति भावः ॥ पञ्चानामधिकरणानामर्थविवरणाय प्रवृत्तमिदं पद्यद्वयम्– जीवोपकारकतया तत्करणानामणूनां च । एकादशेन्द्रियाणां प्राणस्य च वायुतोऽन्यस्य ॥ 80 ॥ करणस्याणोर्यस्मादुत्पत्तेः श्रयमाणतया । यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 81 ॥ अर्थः । दर्शनादानादिक्रियाकरणभूतानां अणुपरिमाणानामेकादशेन्द्रियाणां वायुतो भिन्नस्य शरीरेन्द्रियादिधारकत्वेनोपकरकस्यणुपरिमाणस्य मुख्यप्राणस्य च ‘‘एतस्माज्जायते प्राणो मनस्सर्तेन्द्रियाणि च ’’ इति श्रीनिवासदुत्पत्वेः श्रूयमाणतया श्रीनिवासापरनामधेयब्रह्मकार्यत्वमभग्नमिति । अत्र यस्मादुत्पत्तेः श्रूयमाणतया इत्यनेन ‘‘तथा प्राणाः,‘‘‘‘श्रेष्ठश्च’’ इति सूत्रयोः, अणूनां इत्यनेन ‘‘अणवश्च’’ इति सूत्रस्य, एकादश इत्यनेन ‘‘हस्तादयस्तु स्थितेऽतो नैवं’’ इति सूत्रश्य, वायुतोऽन्यस्य इत्यनेन ‘‘न वायुक्रिये’’ इति सूत्रस्य, करणस्य इत्यनेन ‘‘अकरणत्वाच्च न दोषः’’ इति सूत्रस्य, अणोः इत्यनेन ‘‘अणुश्च’’ इति सूत्रस्य च अर्थः सङ्गृहीत इति बोद्ध्यम् । ‘‘ऐतस्माज्जायते प्राण’’ इत्यादिश्रुतौ प्राणद्युत्पात्तिहेतुत्वेन श्रुतस्य ‘एनस्मात्’ इति एतच्छब्दपरामृष्टस्य अक्षरपुरुषस्य श्रीनिवासापरनामधेयनारायणरूपताया अदृश्यत्वादिगुणकाधिकरणादिषु निरूपितत्वात, अत्र यतकार्यत्वमभग्नं इत्युक्तम् ॥ 65 ॥ इति श्रेष्ठाणुत्वाधिकरणम् ॥ 5 ॥

अग्न्यादिदेवतानां जीवानां चेन्द्रियाद्यधिष्ठानम् ।
यत्सङ्कल्पायत्तं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 82 ॥

31 ॥ ज्योतिरद्यधिष्ठानाधिकरणम् ॥ 6 ॥ एवमिन्द्रियाणां प्राणानां च उत्पत्त्यादिकं निरूपितम् । इदानीमग्न्यादिदेवतानामिन्द्रियाधिष्ठाने परमात्मनिरपेक्षत्वशङ्कापरिहारार्थ प्रवृत्तमिदमधिकरणम् ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् प्राणवाता शब्दात् ॥ 2-4-13 ॥ [तस्य च नित्यत्वात् ॥ 14 ॥] प्राणवता-जीवेन सह, ज्योतिरादीनां- अग्न्यादिदेवतानां, अधिष्ठानं इन्द्रियादिप्रवर्तनं, तदामननात्-परमात्मसङ्कल्पात् भवति । ‘‘योऽग्नौ तिष्ठन् योऽग्निमन्तरो यमयति, य आत्मनि तिष्ठन् य आत्मानमन्तरो यमयति’’ इत्यादिश्रुतेः इति सूत्रार्थः ॥ अग्न्यादिदेवतानां जीवानां चेन्द्रियाद्यधिष्ठानं । यतसङ्कल्पायत्तं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 82 ॥ स्पष्टोऽर्थः । भावः । ‘‘य आत्मानमन्तरो यमयति’’ इत्यादिषु जीवात्मनः सत्तास्थिति प्रवृत्तीनां परमात्मायत्तत्ववत् ‘‘योऽग्निमन्तरो यमयति’’ इत्यादिषु अग्न्यादेः सत्तास्थितिप्रवृत्तीनामपि परमात्मायत्तत्वश्रवणात्, यदा तेषां सत्ता परमात्मसङ्कल्पायत्ता, तदा तत्प्रवृत्तीनां" परमात्मसङ्कल्पायत्ततायाः कैमुत्यन्यायसिद्धत्वात्, अग्न्यादिदेवताकर्तृकमिन्द्रियादिप्रवर्तनं परमात्मसङ्कल्पायत्तमिति । जीवग्रहणं" दृष्टान्तार्थमिते बोद्ध्यम् । ‘‘योऽग्नौ तिष्ठन्’’ इत्यादिश्रुतौ अग्न्यादीनां नियन्तृत्वेन श्रुतस्य सुबालोपनिषदैकार्थ्येन श्रीनिवासापरनामधेयनारायणत्वावगमात् अत्र यत्सङ्कल्पायत्तं इत्युक्तम् ॥ 66 ॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥ 6 ॥

मनसा सहेन्द्रियत्वं वागादीनां च चक्षुरादीनाम् ।
गीतासु येन गीतं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 83 ॥

32 ॥ इन्द्रियाधिकरणम् ॥ 7 ॥ चक्षुरादीनां मुख्यप्राणस्य च जीवोपकरणत्वेन तेषां सर्वेषां इन्द्रियत्वशङ्कापरिहारार्थं प्रवृत्तमिदमधिकरणम् ॥ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ 2-4-15 ॥ [भेदश्रुतेर्वैलक्षण्याच्च ॥ 16 ॥] श्रेष्ठादन्यत्र-मुख्यप्राणव्यतिरिक्ताः, ते-प्राणाः, इन्द्रियाणि; तेषामेव इन्द्रियत्वव्यपदेशात् इति सूत्रार्थः ॥ मनसा सहेन्द्रियत्वं वागादीनां च चक्षुरादीनां । गीतासु येन गीतं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 83 ॥ भावः । श्रीगीतासु, ‘‘इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ’’ इत्यादिषु ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां मनसश्चैकादशानामेव इन्द्रियत्वव्यवहारात् मुख्यप्राणव्यतिरिक्तानामेवेन्द्रियत्वम् । ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ’’ इति श्रुतौ प्राणस्य इन्द्रियाणां च पृथङ्निर्देशदपि प्रागुक्तानामेकादशानामेव इन्द्रियत्वमवगम्यते । उक्तश्रुतौ मनसः पृथग्ग्रहणेऽपि ‘‘मनष्षष्ठानिन्द्रियाणि प्रकृतिस्थानि कर्षति’’ इतिश्रीगीतावचने मनस इन्द्रियान्तर्भावस्योक्तत्वात् इन्द्रियत्वमाश्रीयते । एवं मुख्यप्राणस्य शरीरेन्द्रियधारणादि, चक्षुरादिज्ञानेन्द्रियाणां दर्शनादि, वागादिकर्मेन्द्रियाणां व्यवहारादि, कार्यमिति इन्द्रियाणां प्राणस्य च कार्यवैलक्षण्यादपि प्राणव्यतिरिक्तानामेवेन्द्रियत्वमिति निश्चीयते । ‘‘इन्द्रियाणि दशैकं च,’’ ‘‘मनष्षष्ठानीन्द्रियाणि’’ इति वक्तुः श्रीनिवासापरनामधेयभगवद्रूपत्वात्, अत्र येन गीतं इत्युक्तम् ॥ 67 ॥ इति इन्द्रियाधिकरणम् ॥ 7 ॥

तेजोजलपृथिवीनामण्डादिव्यष्टिसृष्ट्यर्थम् ।
अन्योन्यं यन्मिश्रीकरणं तत्कर्तृकर्तृकत्वेन ॥ 84 ॥
देवादिनामरूपव्याकरणं व्याहरन्निगमः ।
यत्-कार्यं तत् कथयति तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 85 ॥

33 ॥ संज्ञामूर्तिक्लृप्त्याधिकरणम् ॥ 8 ॥ तृतीयपादमारभ्य एतावता श्रीनिवासापरनामधेयब्रह्मकर्तृकसमाष्टिसृष्टिनिरूपणेन वियदादीनां ब्रह्मकार्यत्वं निर्धारितम् । इदानीं" देवमनुष्यादिव्याष्टिसृष्टेश्चतुर्मुखकर्तृकत्वशङ्कापरिहारेण देवमनुष्यादीनां ब्रह्मकार्यत्वनिर्धारणाय प्रवृत्तमिदमधिकरणम् । अण्डसृष्टिपूर्वभाविनी सृष्टिः समष्टिसृष्टिः, तदनन्तरभाविनी व्यष्टिसृष्टिरिति बोद्ध्यम् ॥ संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ 2-4-17 ॥ [मांसादि भोमं यथाशब्दमितरयोश्च ॥ 18 ॥ वैशैष्यात्तु तद्वादस्तद्वादः ॥ 19 ॥] तुशब्दः पक्षव्यावृत्त्यर्थः । संज्ञामूर्तिकॢप्तिः-देवमनुष्यादिनामरूपव्याकरणं, त्रिवृत्कुर्वतः-त्रिवृत्करणकर्तुरेव । यस्त्रिवृत्करणकर्ता स एव नामरूपव्याकरणकर्तेत्यर्थः । तत्र हेतुमाह उपदेशात्-त्रिवृत्करणकर्तृनामरूपव्याकरणकर्तोरैक्योपदेशात् इति सूत्रार्थः ॥ तेजोजलपृथिवीनामण्डादिव्यष्टिसृष्ट्यर्थ । अन्योन्यं यन्मिश्रीकरणं तत्कर्तृकर्तृकत्वेन ॥ 84 ॥ देवादिनामरुपव्याकरणं व्याहरन्निगमः । यत्कार्य तत् कथयति तद्बह्म श्रीनिवासनाम भजे ॥ 85 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" द्वितीयाध्यायस्य चतुर्थः पादः । अर्थः । अण्डसृष्ट्यर्थ-ब्रह्माण्डोत्पादनार्थं, तेजोजलपृथिवीनां-तेजःप्रभृतिमहाभूतानां, परस्परं यन्मिश्रीकरणं-श्रुतौ त्रिवृत्करणशब्देन विवक्षितं, तत्कर्तृकर्तृकत्वेन-त्रिवृत्करणसमानकर्तृकत्वेन इत्यर्थः, देवमनुष्यादिनामरूपव्याकरणं वदन् निगम्ः- ‘‘अनुप्रविश्य नामरूपे व्याकरोत्; तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’’ इति श्रुतिरित्यर्थः, तत्-देवादिनामरूपव्याकरणं, यस्य श्रीनिवासस्य कार्यं कथयति, तद्ब्रह्म इति पूर्ववत् ॥ भवः । छान्दोग्ये सद्विद्याप्रकरणे तेजोजलपृथिवीनां त्रयाणां महाभूतानां सृष्ट्यभिधानानन्तरं, ‘‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवाता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’’ इति, ‘‘सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत्; तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’’ इति च श्रूयते । अत्र तेजोजलपृथिवीरूपाणां" त्रयाणां महाभूतानां त्रिवृत्करणनामरूपव्याकरणयोरेककर्तृकत्वमभिधीयते । तेषां अन्योन्यमिश्रिकरणरूपं त्रिवृत्करणं ब्रह्माण्डोत्पादनार्थमिति, ‘‘नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजाः स्रष्टुं असमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः" । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ’’ इति श्रीविष्णुपुराणवचनेनावगम्यते । ‘‘तस्मिन्नण्डेऽभवद्ब्रह्म सर्वलोकपितामहः’’ इगति तत्रत्यवचनेन अण्डान्तर्जातत्वेनाभिहितस्य चतुर्मुखस्य अण्डसृष्ट्यर्थत्रिवृत्करणकर्तृत्वासंभवात् प्रागुक्तत्रिवृत्करणं" परमात्मकर्तृकमेवेति निश्चीयते । अतस्तत्समानकर्तृकं देवमनुष्यादिनामरूपव्याकरणमपि श्रीनिवासापरनामधेयब्रह्मण एव कृत्यं इति निर्धार्यते इति । ‘‘सेयं देवता’’ इति नामरूपव्यकर्तृत्वेनाभिहिताया देवतायाः ‘‘सर्वाणिरूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते’’ इति पुरुषसूक्तोक्तलक्ष्मीपतिमहापुरुषरूपतया अत्र यत्कार्य तत् कथयति इत्युक्तम् ॥ पूर्वपक्षः । छान्दोग्ये सद्विद्याप्रकरणे, ‘‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि,’’ इति ‘‘सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत्’’ इति च श्रूयते । अत्र ‘अनेन जीवेनात्मनाऽनुप्रविश्य’ इत्यत्र, ‘जीवेन,‘‘आत्मना’ इति तृतीयया प्रवेशोक्रियायां जीवात्मनः कर्तृत्वबोधनात् प्रवेशक्रियायां जीवात्मा कर्तेत्यवगम्यते । अतः ‘अनुप्रविश्य’ इति क्त्वाप्रत्ययेन प्रवेशक्रियासमानकर्तृकत्वेन श्रुते नामरूपव्याकरणेऽपि जीवात्मैव कर्ता। जीवात्मनः" परदेवताशतया तत्कर्तृकं नामरूपव्याकरणे परदेवताकर्तृकमेवेति ‘‘नामरूपे व्याकरवाणि’’ इति परदेवताया नामरूपव्याकरणकर्तृत्वश्रुत्यपपत्तिः" । अतः परब्रह्मांशभूतचतुर्मुखाख्यजीवकर्तृकमेव नामरूपव्याकरणम् । अत एव स्मृतिषु ‘‘नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनं" । वेदशब्देभ्य एवादौ देवादीनां चकार सः’’ इत्यादिषु चतुर्मुखस्यैव नामरूपव्याकर्तृत्वं स्मर्यते इति ॥ सिद्धान्तः । ‘‘सेयं देवतैक्षत, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’’ इति, ‘‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’’ इति च श्रुतस्य त्रिवृत्करणस्य अण्डसृष्ट्यर्थत्वेन अण्डसृष्टितः पूर्वभावित्वमवश्याश्रयणीयम् । ततश्च ‘‘तस्मिन्नण्डेऽभवद्ब्रह्मा सर्वलोकपितामहः’’ इत्यादिषु अण्डसृष्ट्युत्तरं अण्डान्तरुत्पन्नत्वेन प्रतिपादितस्य चतुर्मुखस्य अण्डसृष्टिपूर्वभावित्रिवृत्करण कर्तृत्वानुपपत्त्या परदेवताया एव त्रिवृत्करणकर्तृत्वं वाच्यम् । ततश्च ‘‘नामरूपे व्याकरवाणि,’’ ‘‘त्रिवृतं त्रिवृतमेकैकां करवाणि’’ इति त्रिवृत्करणसमानकर्तृकतया श्रुतं नामरूपव्याकरणमपि परदेवताकर्तृकमेवेति अवश्यमभ्युपगन्तव्यम् । ततश्च ‘‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’’ इत्यत्र, ‘आत्मना’ इत्यस्य स्वेन इति, ‘जीवेन’ इत्यस्य जीवशरीरमेण इति च अर्थः । इत्थं च परदेवता जीवशरीरकेण स्वेनानुप्रविश्य नामरूपव्याकरणसंकल्पमकरोत् इत्येव श्रुत्यर्थः । इत्थं च प्रवेशो नामरूपव्याकरणे च परदेवताया एव सर्तृत्वं श्रुतिसिद्धम् ॥ न च ‘‘नामरूपे व्याकरवाणि’’ इत्यत्र लकारेण व्याकरणक्रियाकर्तुरभिधानेन तदुपसर्जनभूतप्रवेशक्रियाकर्तुरप्यभिहिततया ‘अनेन जीवेन आत्मना’ इति कर्त्रर्थतृतीयाया अनुपपत्तिः; ‘‘अनभिहिते कर्तरि तृतीया’’ इत्यनुशासनेन कर्तुरनभिधान एव तृतीयाविधानादिति वाच्यम् । ‘आत्मना’ इत्यत्र तृतीयायाः करणार्थत्वाश्रयणेन, करणत्वस्यानभिधानात् करणे तृतीयाया उपपत्तेः । ‘विवक्षातः कारकाणि भवन्ति’ इति न्यायेन कर्त्र्याः परदेवतायाः साधकतमत्वरूपकरणत्वविवक्षया तृतीयोपपत्तेः ॥ ननु त्रिवृत्करणस्य अण्डसृष्ट्यर्थत्वमसंभवदुक्तिकम् । अण्डसृष्ट्यनन्तरं चतुर्मुखसृष्टेषु पुरुषेषु त्रिवृत्करणस्य श्रुत्यैव प्रतिपादनात् । ‘‘यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवाति, तन्मे विजानीहीति’’ इत्युपक्रम्य ‘‘अन्नमशितं त्रेधा विधीयते’’ इत्यादिना पृथिव्यादिभूतत्रयस्य त्रिवृत्करणप्रकारप्रदर्शनं हि श्रूयते । ततश्च अण्डसृष्ट्यनन्तरभावित्रिवृत्करणकर्तृत्वं" चतुर्मुखस्या संभवत्येव । ‘‘यदग्ने रोहितं रूपं’’ इत्यादिना अण्डान्तर्गतेषु अगन्यादिषु त्रिवृत्करणप्रकारप्रदर्शनादपि त्रिवृत्करणमण्डसृष्ट्यनन्तरभावीति निश्चीयते । एवं ‘‘नामरूपे व्याकरोत् त्रिवृतं त्रिवृतमेकैकामकरोत्’’ इति पाठक्रमादपि पूर्वं नामरूपव्याकरणं, पश्चात् त्रिवृत्करणमिति क्रमो निर्धार्यते । अतस्त्रिवृत्करणे चतुर्मुखस्य कर्तृत्वोपपत्त्या तत्समानकर्तृकनामरूपव्याकरणमपि चतुर्मुखकर्तृकमेवेति चेत् । मैवम्– ‘‘अन्नमाशितं त्रेधा विधीयते’’ इत्यादिर्न पृथिव्यादिभूतत्रयस्य त्रिवृत्करणप्रदर्शनपरः । तथा सति ‘‘अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः’’ इत्यस्य पृथिव्यास्त्रिवृत्करणप्रकारप्रदर्शनपरता स्यात् । ततश्च त्रिवृत्कृतपृथिवीस्थूलांशस्य पुरीषस्य पृथिवीरूपतायाः, तन्मध्यमाशस्य मांसस्य जलीयतायाः, तदणिष्ठांशस्य मनसस्तैजसतायाश्च प्रसङ्गः; अत्रिवृत्कृतानां पृथिव्यप्तेजसां क्रमेण स्थूलत्वाणुत्वाणीयस्त्वस्वभावतया, त्रिवृत्कृतपृथिव्यां स्यूलाशस्य पृथिपीरूपतायाः" मध्यमांशस्य अणोः अब्रूपताया अणिष्ठांशस्य तेजोरूपतापाश्च आवश्यकत्वात् । मांसमनसोः आप्यत्वतैजसत्वापत्तौ नेष्टापत्तिः सुवचा । ‘‘अन्नमशितं त्रेधा विधीयते’’ इत्युपक्रमेण मांसमनसोः पर्थिवत्वावगमात् । अतो नेयं श्रुतिस्त्रिवृत्करणप्रदर्शनपरा । अपि तु पुरुषेणोपभुक्तस्य अन्नपानीयादिरूपस्य त्रिवृत्कृतभूतत्रयस्य त्रेधा परिणामप्रदर्शनपरा । ‘‘अन्नमशितं त्रेधा विधीयते’’ इत्यादिश्रुतिषु ‘अन्नं,’ ‘आपः,’ ‘तेजः’ इति पदत्रयस्य त्रिवृत्कृतपृथिव्यादिपरत्वेऽप्येकैकास्मिन् पृथिव्यादेर्बाहुल्यात् अन्नमित्यादिनिर्दैशः" । अतो न तद्विरोधः । अण्डान्तर्गताग्न्यादौ त्रिवृत्करणप्रकारप्रदर्शनं तु श्वेतकेतुं प्रति अण्डबहिर्भूते पृथिव्यादौ त्रिवृत्करणप्रकारप्रदर्शनासंभवात् अण्डान्तर्गताग्न्यादौ कृतमिति न तावता त्रिवृत्करणस्य अण्डसृष्ट्यनन्तरभावितासिद्धिः । ‘‘नानावीर्याः पृथग्भूतास्ततस्ते संहतिं" विना । नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयान्ति ते ’’ इति श्रीवीष्णुपुराणवचनेन त्रिवृत्करणस्य अम्डसृष्ट्यर्थतावगमेन पूर्वं त्रिवृत्करणं पश्चात् त्रिवृत्कृतभूतैर्देवमनुष्यादिनामरूपव्याकरणं" इत्यर्थक्रमावगमात्, बलीयसा अर्थक्रमेण ‘‘नामरूपे व्याकरोत् त्रिवृतं त्रिवृतमेकैकामकरोत्’’ इति पाठक्रमो बाध्यते । यथा ‘अग्निहोत्रं" जुहोति’ ‘यवागूं पचति’ इत्यत्र यवागूपाकस्य अग्निहोत्रहोमार्थत्वेन पूर्वभावित्वात् अर्थक्रमेण पाठक्रमो बाध्यते, तद्वत् । इत्थं च त्रिवृत्करणसमानकर्तृकं नामरूपव्याकरणं न चतुर्मुखकर्तृकं, अपि तु श्रीनिवासापरनामधेयपरदेवताकर्तृकमेव । ‘‘नामरूपं च भूतानां’’ इत्युदाहृतस्मृतिवचनं तु चतुर्मुखशरीरकपरमात्मनो नामरूपव्याकरणप्रदर्शनपरमिति ॥ 67 ॥ इति संज्ञामूर्तिक्लृत्प्यषिकरणम् ॥ 8 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे द्वितीयाध्यायस्य चतुर्थः पादः ॥ द्वितीयध्यायाः संपूर्णः ॥