ज्ञाते ब्रह्मणि सर्वं ज्ञातं भवतीति या प्रतिज्ञोक्ता ।
उत्पत्त्यनभ्युपगमे तदनिर्वाहान्निषेधविरहाच्च ॥ 69 ॥
स्वीकर्तव्योत्पत्तिः ब्रह्मत एवेति निश्चयात् वियतः ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 70 ॥
19 ॥ वियदधिकरणम् ॥ 1 ॥ प्रथमाध्याये कारणवाक्यानां श्रीनिवासापरनामधेये ब्रह्मणि समन्वयप्रदर्शनेन चिदचिद्विलक्षणस्य ब्रह्मणो जगत्कारणत्वं निर्धारितम् ॥ द्वितीयेऽध्याये प्रथमपादेन ब्रह्मणो जगत्कारणत्वपक्षस्य निर्दोषतायाः, द्वितीयपादेन ब्रह्मेतरप्रधानादिकारणतावादिपक्षाणां तर्काभासमूलकत्वेन दुष्टतायाश्च प्रदर्शनेन ब्रह्मणो जगत्कारणत्वं स्थिरीकृतम् ॥ इदानीं उत्तरेण पादद्वयेन ब्रह्मणो जगत्कारणतायाः जगदन्तर्गतानां वियदादीनां ब्रह्मकार्यतानिर्वाह्यतया श्रुतिषु कासुचित् वियदादीनां" उत्पत्तेः, कासुचित् तदभावस्य च प्रतिपादनेन परस्परव्याहतिदल्शनन वियदादीनां ब्रह्मकार्यताया निर्धारयितुं ्शक्यतया, ब्रह्मणो जगत्कारणत्वं दुरुपपादं इत्याक्षेपपरिहारपूर्वकं वियदाद्यचेतनानां चेतनानां च तत्तदनुगुणब्रह्मकार्यत्वनिर्वाहप्रकारप्रदर्शनेन ब्रह्मणो जगत्कारणत्वं उपपाद्यते । तत्र वियत उत्पत्त्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ न वियदश्रुतेः ॥ 2-3-1 ॥ इदं पूर्वपक्षसूत्रम् । ‘उत्पद्यते’ इत्यध्याहार्यम् । ततश्च, वियत्-आकाशः, न उत्पद्यते; तदुत्पत्तिप्रतिपादनसमर्थश्रुत्यभावात् इति सूत्रार्थः ॥ अयं भावः-यद्यपि ‘‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशात् वायुः वायोरग्निः’’ इति तैत्तिरीयश्रुतौ, ‘‘आत्मन आकाशः संभूतः’’ इत्यत्र आकाशस्य ब्रह्मणः सकाशादुत्पत्तिः प्रतीयते, तथाऽपि तत्र ‘‘संभूतः’’ इति श्रुतिः आकाशस्य उत्पत्तिप्रतिपादने न समर्था, आकाशस्य निरवयवद्रव्यत्वेन उत्पत्त्यसंभवात् । असंभवतोऽर्थस्य श्रुत्याऽपि प्रतिपादनायोगात् । निरवयवद्रव्यत्वादेव ह्यात्मन उत्पत्त्यभावः इति ॥ अत्र सिद्धान्तमाह- अस्ति तु ॥ 2-3-2 ॥ [गौण्यसंभवाच्छब्दाच्च ॥ 3 ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ 4 ॥ प्रतिज्ञाऽहानिख्यतिरेकात् ॥ 5 ॥ शब्देभ्यः ॥ 6 ॥ यावद्विकारं तु विभागो लोकवत् ॥ 7 ॥ एतेन मातरिश्वा व्याख्यातः ॥ 8 ॥ असंभवस्तु सतोऽनुपपत्तेः ॥ 9 ॥] तुशब्दः पक्षव्यावृत्त्यर्थः । आकाशस्य उत्पात्तिः अस्ति/एव इति सूत्रार्थः ॥ अयं भावः- निरवयवद्रव्यत्वस्य उत्पत्त्यभावं प्रति अप्रयोजकत्वेन आकाशस्य उत्पात्तिसंभवेन अयोग्यताविरहात् ‘‘आत्मन आकाशः संभूतः’’ इति संभूतश्रुतिः आकाशस्योत्पत्तिं प्रतिपादयितुं समर्थैव । आत्मन उत्पत्त्यभावस्तु न निरवयवद्रव्यत्वप्रयुक्तः; अपि तु ‘‘न जायते म्रियते वा विपाश्चितं’’ इत्यादितदुत्पत्तिप्रतिषेधकश्रुतिसिद्धः । इह तु उक्तश्रुत्या आकाशस्य उत्पत्तिप्रतिपादनेन तस्योत्पत्तिः" अस्त्येव, अतीन्द्रियेऽर्थे श्रुतेरेव प्रमाणत्वेन तस्य यथाश्रुति प्रतिपत्तव्यत्वात् इति ॥ ननु ‘‘आत्मन आकाशः संभूतः’’ इत्यत्र संभूतश्रुतेः गौणत्वमवश्यमाश्रयणीयम् । अन्यथा छान्दोग्ये ‘‘तत्तेजोऽसृजत’’ इति सिसृक्षुणा ब्रह्मणा तेजसः प्रथमसृष्टिप्रतिपादनेन तद्विरोधप्रसङ्गात् । अत्र हि तेजसः पूर्वमेव ब्रह्मणः सकाशात् आकाशोत्पत्तिः प्रतीयते । ‘‘वायुश्चान्तरिक्षं च, एतदमृतं’’ इति श्रुत्यन्तरे आकाशस्य नित्यत्वपर्यवसितामृतत्वप्रतिपादनेन तद्विरोधप्रसङ्गादपि संभूतश्रुतेः" गौणत्वमाश्रयणीयम् । न च ‘‘आत्मन आकाशः संभूतः’’ इत्यत्र संभूतशृतेः गौपात्वे, ‘‘वायोरग्निः’’ इत्यत्र अनुषक्तायाः संभूतश्रुतेरपि गौणत्वं स्यादिति शंक्यम् । ‘‘आत्मन आकाशः संभूतः’’ इत्यत्र श्रुतस्य संभूतशब्दस्य गौणत्वेऽपि ‘‘वायोराग्निः’’ इत्यत्र अनुषक्तस्य तस्य मुख्यत्वे बाधकाभावात् । यथा मुण्डकोपनिषदि एकस्मिन्नेव प्रकरणे ‘‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते’’ इत्यत्र ब्रह्मणि मुख्यस्यापि ब्रह्मशब्दस्य ‘‘तस्मादेतत् ब्रह्म नामरूपमन्नं च जायते’’ इत्यत्र प्रधाने गौणत्वं तद्वत् ।इयास्तु विशेषः-तत्र ब्रह्मशब्दस्य द्विः श्रुतिः; इह त्वनुषङ्ग इति । अतः सकृदुच्चरितस्य शब्दस्य युगपत् वृत्तिद्वयासंभवेऽपि श्रुतस्य अनुषक्तस्य च पदस्य वृत्तिद्वयविरोधाभावात् ‘‘आत्मन आकाशः संभूतः’’ इति श्रुतेः गौणत्वात्, आकाशस्योत्पत्तिः अप्रामाणिकी इति चेत् । उच्यते-छान्दोग्य एव यथा मृत्पिण्डज्ञानेन तत्कार्यभूतघटादीनां ज्ञातता, एवमेकस्य ब्रह्मणो ज्ञानेन सर्वं जगत् ज्ञातं भवति इति प्रतिज्ञया जगद्ब्रह्मणोः कार्यकारणभावसिद्ध्या, जगदन्तर्गतस्य आकाशस्यापि ब्रह्मणः सकाशात् उत्पत्तिः सिद्धैव । एवं तत्रैव ‘‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयं’’ इत्यत्र सृष्टेः प्राक् ब्रह्मण एकत्वावधारणेन तदानीं आकाशाद्यभावलाभेन, आकाशस्याप्युत्पत्तिः" तत्र अङ्गीकृतैव । तत्र ‘‘तत् तेजोऽसृजत’’ इत्यत्र ब्रह्मणा तेजःसृष्टिमात्रं प्रतिपादितं, न तु प्रथमसृष्टत्वम् । अतः तद्विरोधाभावात्, ‘‘वायुश्चन्तरिक्षं चैतदमृतं’’ इत्यत्र ‘अमृत’शब्दस्य चिरकालावस्थायित्वभिप्रायेणाप्युपपत्त्या तद्विरोधाभावाच्च, ‘‘आत्मन आकाशः" संभूतः’’ इत्यत्र संभूतशब्दस्य न गौणत्वं न्याय्यम् । ‘‘वायुश्चन्तरिक्षं च’’ इत्यत्र ‘अमृत’शब्दस्य नित्यत्वपरत्वे, वायोरप्यनुत्पत्तिप्रसङ्गात्, तस्य चिरकालावस्थायित्वपरताया ्वश्यवक्तव्यत्वात् ॥ एवं छान्दोग्ये ‘‘ऐतदात्म्यमिदं सर्वं’’ इत्यनेन सर्वस्य जगतो ब्रह्मकार्यतया ब्रह्मात्मकत्वप्रतिपादनाधपि आकाशस्योत्पत्तिः सिद्धा । यथा लोके, ‘एते सर्वे देवदत्तपुत्राः’ इत्युक्त्वा तेषु केषाञ्चित् विशिष्य देवदत्तपुत्रत्वाभिधानेऽपि, अन्येषां देवदत्तपुत्रत्वमुक्तप्रायं; एवमिहापि ‘‘ऐतदात्म्यमिदं सर्वं’’ इत्यादिना आकाशादेः सर्वस्य ब्रह्मकार्यतया ब्रह्मत उत्पत्तिमभिधाय, तेजोजलपृथिवीनां ब्रह्मत उत्पत्त्यभिधानेऽपि, अन्येषामपि ततः उत्पत्तिः उक्तप्रायैव । वायोरप्यत एव उत्पत्तिःसिद्धा ॥ किं बहुना-परमाकारणस्य ब्रह्मण एकस्यैव उत्पत्त्यभावः; तद्व्यतिरिक्तस्य सर्वस्य अव्यक्तमहदहङ्कारतन्मात्रेन्द्रियाकाशवाय्वादेः" एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिविरोधप्रसङ्गेन उत्पत्त्यभावो दुर्वच इति ॥ ज्ञाते ब्रह्मणि सर्वं ज्ञातं भवतीति या प्रतिज्ञोक्ता । उत्पत्त्यनभ्युपगमे तदनिर्वाहान्निषेधविरहाच्च ॥ 69 ॥ स्वीकर्तव्योत्पत्तिः ब्रह्मत एवेति निश्चयात् वियतः । यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 70 ॥ भावः । ‘‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति’’ इति ब्रह्मज्ञानेन सर्व ज्ञातं भवतीति सद्विद्याप्रकरणे प्रतिज्ञाय, मृत्पिण्डघटादिदृष्टान्तेन तदुपपादितम् । अतो घटमृत्पिण्डयोरिव जगद्ब्रह्मणोः कार्यकारणभावलाभात् ब्रह्मकार्यत्वं कृत्स्नस्य जगतोऽभ्युपगन्तव्यम् । अतो जगदन्तर्गतस्य आकाशस्यापि ब्रह्मकार्यत्वमवश्यमाश्रयणीयम् । अन्यथा ब्रह्मज्ञानेन सर्वस्य ज्ञातताया अनिर्वाहात् । छान्दोग्यश्रुतौ तेजसः प्रथमसृष्टिवचनं, तैत्तिरीयके, ‘‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’’ इति श्रुतिसिद्धां" तेजसः प्रागाकाशस्य उत्पत्तिं न निरोद््धुमलम् ‘प्रथमं तेजोऽसृजत’ इत्यनुक्तेः । अतः उक्तप्रतिज्ञासिद्धास्य जगद्ब्रह्मणोः कार्यकारणभावस्य उपपत्तये आकाशस्य वायोश्च ब्रह्मणः सकाशादुत्पत्तिः अङ्गीकर्तव्या । सा चोत्पत्तिः ‘‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’’ इत्यत्र श्रुतात् आदित्यमण्डलस्थपुण्डरीकाक्षश्रीनिवासापरनामधेयानन्दमयात्मन एवेति निर्धार्यत इति ॥ 54 ॥ इति वियदधिकरणम् ॥ 1 ॥
स्वस्य बहुत्वोत्पत्ती संकल्प्य समस्तमसृजदिति सिद्ध्या ।
ब्रह्मैव वायुरूपात्तस्मादजनिष्ट वह्निरूपमिति ॥ 71 ॥
अर्थावगतेः सिद्धा श्रुत्यन्तरतश्च सर्वस्य ।
यत उत्पत्तिः साक्षात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 72 ॥
20 ॥ तेजोधिकरणम् ॥ 2 ॥ पुर्वस्मिन्नधिकरणे ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मकार्यत्वसमर्थनेन ब्रह्मणः सर्वकारणत्वमुपपादितम् । तच्च कारणत्वं, न साक्षात्; अपि तु परंपरया इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ तेजोऽतस्तथा ह्याह ॥ 2-3-10 ॥ आपः ॥ 11 ॥ पृथिवी ॥ 12 ॥ अधिकाररूपशब्दान्तरेभ्यः ॥ 13 ॥ इमानि पूर्वपक्षसूत्राणि । एतेषामयमभिप्रायः-‘‘वायोरग्निः, अग्नेरापः अद्भ्यः पृथिवी’’ इति तैत्तिरीयश्रुतौ तेजःप्रभृतीनां वाय्वादिभ्यः" पूर्वपूर्वेभ्यः उत्पत्तिः श्रूयते । तथा छान्दोग्ये, ‘‘तत्तेज ऐक्षत; तदपोऽसृजत ।’’ ‘‘ता आप ऐक्षन्त; ता अन्नमसृजन्त’’ इति तेजसः अप्स्लष्टृत्वं, अपा पृथिवीस्रष्टृत्वं चाभिहितम् । ‘‘ता अन्नमसृजन्त’’ इत्यत्र महामूतसृष्ट्युक्तिप्रकरणस्थेन अन्नशब्देन मुख्यार्थस्य ओदनादेः उक्त्ययोगात्, उत्तरत्र महामूतानां त्रिवृत्कृतत्वप्रदर्शनप्रकरणे पृथिवीरूपस्योक्त्यवसरे ‘‘यत्कृष्णं तदन्नस्य’’ इति अन्नशब्देन वृथिवीशब्दप्रयोगाच्च प्रकृतान्नशब्देन पृथिवीकार्यवाचिना कारणभूतपृथिवी उपचर्यते इति निश्चीयते ॥ ततश्च उदाहृततैत्तिरीयछान्दोग्यश्रुत्योः तेजःप्रभृतेरेव अबाद्युत्पत्तिप्रतिपादनेन, पृथिव्याः जलं साक्षात्कारणं; जलस्य तेज:; तेजसो वायु: इति लाभात्, परमात्मा पृथिव्यादिकं प्रति परंपरयैव कारणमिति ॥ अत्र सिद्धान्तमाह- तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ 14 ॥ इत्यादिना । [विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ 15 ॥ अन्तरा विज्ञानमनसी क्रमेण ताल्लिङ्गादिति चेन्नाविशेषात् ॥ 16 ॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् ॥ 17 ॥] तदभिध्यानात्, तस्य-बहुभवनस्य, अभिध्यानात्; ‘‘बहु स्यां’’ इति सङ्कल्पादित्यर्थः । तद््रूपात् तल्लिङ्गात्-परमात्मलिङ्गात्, सः-परमात्मैव सर्वेषां अव्यवहितकारणं इति सूत्रार्थः ॥ स्वस्य बहुत्वोत्पत्ती संकर्प्य समस्तमसृजदिति सिद्ध्या । ब्रह्मैव वायुरुपात्तस्मादजनिष्ट वह्निरूपमिति ॥ 71 ॥ अर्थावगतेः सिद्धा श्रुत्यन्तरतश्च सर्वस्य । यत उत्पत्तिः साक्षात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 72 ॥ अर्थः । स्वस्य-ब्रह्मणः, बहुत्वं, तदर्थं उत्पत्तिं च संकल्प्य, समस्तं अव्यक्तादिपृथिव्यन्तं, असृजत् इति अर्थस्य सिद्ध्या, ब्रह्मैव, वायुरूपात् तस्मात्-ब्रह्मणः, वह्निरूपं अजनिष्ट-उत्पन्नं इति ‘वायोरग्निः’ ‘संभूतः’ इति श्रुतेः अर्थस्य अवगमात्, ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुः ज्योतिरापः पृथिवी विश्वस्य धारिणी’’ इति श्रुत्यन्तराच्च, सर्वस्य जगतः" यतः श्रीनिवासापरनामधेयात् ब्रह्मणः साक्षात् उत्पत्तिः सिद्धा, तद्ब्रह्मेति पूर्ववत् ॥ भावः । छान्दोग्ये सद्विद्याप्रकरणे, ‘‘सदेव सोम्येदमग्र आसीत्’’ इति प्रस्तुत्य, ‘‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत ता आप ऐक्षन्त ब्रह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त’’ इति स्वत्मनो बहुत्वस्य तदर्थमुत्पत्तेश्च संकल्पपूर्वकं तेजःप्रभृतिसृष्ट्युक्त्या संकल्पयोग्यं ब्रह्मैव उक्तसंकल्पपूर्वकं तेजः-प्रभृतेः सृष्टिकर्तृ इति, सृष्टिरपि ब्रह्मण एव तेजःप्रभृतिरूपेण उत्पत्तिरिति, सर्वशाखाप्रत्ययन्यायेन अव्यक्तमहदहङ्कारादीनां पृथिव्यन्तानां सर्वेषां" उक्तसंकल्पपूर्वकमेव सृष्टिरिति चावगम्यते । अतः तैत्तिरीयके ‘‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’‘इत्यादिजगदुत्पत्तिप्रतिपादकवाक्ये ‘‘वायोरग्निः संभूतः’’ इत्यनेन वाक्येन वायुरूपात् ब्रह्मणः अग्निरूपं ब्रह्म उत्पन्नं; अग्निरूपात् ब्रह्मणः अब्रूपं ब्रह्म; अब्रूपात् ब्रह्मणः पृथिवीरूपं ब्रह्म इत्यर्थोऽवगम्यते । ‘‘आकाशाद्वायुः’’ इत्यत्रापि अक्तन्यायेन आकाशरूपात् ब्रह्मणोवायुरूपं" ब्रह्म उत्पन्नं इत्यवगम्यते । एवं तमोरूपात् ब्रह्मणः अव्क्तरूपं ब्रह्म उत्पन्नमित्यादि य उक्तन्यायादेवावगम्यते ॥ एवं छान्दोग्ये ‘‘तत्तेजोऽसृजत’’ इत्यादेरपि, वायुरूपं ब्रह्म देजारूपमुत्पन्नं इत्यदिरर्थः इत्यवगम्यते । अत्र सर्वत्र तमआदेः" अचेतनस्य ब्रह्मणश्च स्वरूपैक्यासंभवात्, अन्तर्यामिब्राह्मणे सुबालोपनिषदि च ‘‘यस्य पृथिवी शरीरं’’ इत्यारभ्य, ‘‘यस्य तम-शरीरं’’ इत्यन्तेन आम्नातं पृथिव्यादितत्तच्छरीरकत्वमेव ब्रह्मणः तत्तद्रूपत्वं इति, अजत्वेन श्रुतस्य ब्रह्मणः उत्पत्तिरपि शरीरभूतपृथिव्यादितत्तद््द्वारा इति च निश्चीयते । अतःपूर्वपूर्वतत्त्वशरीरकात् ब्रह्मण एव उत्तरोत्तरतत्तवशरीरकस्य ब्रह्मण उत्पत्तिः इति तैत्तिरीयच्छान्दोग्ययोः" प्रतीयते । अत एव मुण्डकोपनिषदि पूर्वोदाहृते ‘‘एतस्माज्जायते प्राणः’’ इति मन्त्रे प्राणमनःप्रभृतीनां पृथिव्यन्तानां ब्रह्मणःसाक्षादुत्पत्तिवचनमुपपद्यते ॥ ननु अस्मिन् मन्त्रे, ‘‘खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’’ इत्यत्र, ‘‘आकाशाद्वायुः, वायोरग्निः’’ इति तैत्तिरीयश्रुत्युक्तः" आकाशादीनामुत्पत्तिक्रमः प्रतीयते । तत्साहचर्यात् मनसः इन्द्रियाणां च उत्पत्तिक्रमो अत्र अभिधीयते इति निश्वीयते । अतः नेयं" श्रुतिः सर्वेषां आकाशादीनां साक्षात् ब्रह्मणः सकाशात् उत्पत्तिप्रतिपादनपरा इति चैत् । मैवं-‘‘एतस्माज्जायते’’ इत्यस्मिन् मन्त्रे ‘‘एतस्माज्जायत’’ इत्यस्य प्राण इव मनःप्रभृतिषु पृथिव्यन्तेषु सर्वेषु अन्वयेन प्रणस्येव मनःप्रभृतीनां पृथिव्यन्तानां परमात्मनः" साक्षात् उत्पत्तेरविशेषेण प्रतीयमानत्वात्, प्रणस्य वायुकार्यस्य आकाशादिभूतोत्पत्तेः पूर्वं उत्पत्त्यसंभवेन अस्य मन्त्रस्य उत्पत्तिक्रमपरताया असंभवाच्च ॥ ननु ‘‘आकाशाद्वायुः वायोरग्निः’’ इत्यादौ ‘‘तत्तेज ऐक्षत’’ इत्यादौ च आकाशतेजःप्रभृतिशब्दानां परमात्मवाचकत्वे, तेषां तत्र तत्र परमात्मनः उत्पत्तिप्रतिपादकता स्यात् । आकाशतेजःप्रभृतिशब्दानां परमात्मवाचकत्वं न संभवति, व्युत्वत्तिविरोधात् इति चैत्, न ; ‘‘सेयं देवता इमास्तिस्रो देवता अनेन जीवेनाऽऽत्मना अनुप्रविश्य नामरूपे व्याकरोत्’’ इति श्रुत्या आकाशवायुतेजःप्रभृतीनां" नाम्नां सृजयमानवस्तुषु स्वानुप्रवेशपूर्वकं परमात्मना सृष्टत्वप्रतिपादनेन, सर्वेषामेव नाम्नां परमात्मपर्यन्तवाचकताया; उक्तनामरूपव्याकरणश्रुतिसिद्धत्वात् । सृज्यमानवस्तुषु अनुप्रवेशमन्तराऽपि नामरूपव्याकरणसंभवेन, अनुप्रवेशपूर्वकं तत्सृष्टेः प्रयोजनान्तरासंभवात्, सृज्यमाननाम्नां" स्वपर्यन्ततासिद्धेरेव तत्प्रयोजनत्वस्य अवश्यवक्तव्यत्वात् । लोके गवादीनां नाम्नां तत्तद्वम्तुमात्रपरतया व्यवहारस्तु वेदान्तश्रवणात् प्राक् परमात्मपर्यन्ततया व्युत्पत्तेरपूर्णत्वात् । अतो न कश्चित् दोषः इति ॥ ‘‘सदेव सोम्य इदमग्र आसीत्’’ इत्यत्र सच्छब्देन ‘‘तस्माद्वा एतस्मादात्मनः’’ इत्यादौ तच्छब्देन, ‘‘एतस्माज्जायते प्राणः’’ इत्यादौ एतच्छब्देन च निर्दिष्टस्य परमकारणस्य घीनिवासापरनामधेयनारायणरूपतायाः ईक्षत्यधिकरण-आनन्दमयाधिकरण-अदृश्यत्वादिगुणकाधिकरणादिषु निर्णीतत्वात्, तदभिप्रायेण अत्र ‘‘तद्ब्रह्म श्रीनिवासनाम भजे’’ इत्युक्तम् ॥ 55 ॥ इति तेजोऽधिकरणम् ॥ 2 ॥
उत्पत्तिप्रतिषेधात् नित्यत्वोक्तेश्च जीवस्य ।
नास्त्युत्पत्तिरथापि प्रतिज्ञया प्रागुदाहृतया ॥ 73 ॥
संकोचादिविकारिज्ञानाख्यगुणप्रणाडिकया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥74 ॥
21 ॥ आत्माधिकरणम् ॥ 3 ॥ एवं ‘‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’’ इति सूत्रे प्रस्तुतयोः जीवपरमात्मनोः अन्यतरस्य परमात्मनः एकस्य विज्ञानेन सर्वस्य ज्ञातताप्रतिज्ञाऽन्यथाऽनुपपत्त्या सिद्धाया वियदादेः अचित्प्रपञ्चस्य ब्रह्मकार्यतायाः स्वरूपान्यथाभावरूपविकारवत्त्वेन निर्वाहः" पूर्वाधिकरणयोः प्रदर्शितः । इदानीं तयोरन्यतरस्य जीवात्मनः उक्तप्रतिज्ञान्यथाऽनुपपत्तिसिद्धब्रह्मकार्यतानिर्वाहकतया वियदादेरिव प्रसक्तां उत्पत्तिं श्रुतिविरोधेन प्रतिषिद्ध्य प्रकारान्तरेण ब्रह्मकार्यतामुपपादयितुं प्रवृत्तमिदमधिकरणम् ॥ नात्मा श्रुतेः नित्यत्वाच्च ताभ्यः ॥ 2-3-18 ॥ आत्मा न उत्पद्यते, ‘‘न जायते म्रियते वा विपश्वित्’’ इत्यादिश्रुतिषु तस्य उत्पत्त्यभावश्रवणात् ‘‘नित्यो नित्यानां चेतनश्चेतनानां" एको ब्रह्मनां यो विदधाति कामान्’’ इत्यादिभिः घुतिभिः तस्य नित्यत्वावगमाच्च इति सूत्रार्थः । अत्र सूत्रे ‘आत्मा’ इति जातावेकवचनम् । सूत्रोदाहृतायां ‘‘नित्यो नित्यानां’’ इत्यादिश्रुतौ ‘‘एको बहूरां’’ इति जीवात्मबहुत्वोक्तेः ॥ उत्पत्तिप्रतिषेधात् नित्यत्वोक्तेश्च जीवस्य । नास्त्युत्पत्तिरथापि प्रतिज्ञया प्रगुदाहृतया ॥ 73 ॥ संकोचादिविकारिज्ञानाश्यगुणप्रणाडिकया । यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 74 ॥ अर्थः । ‘‘न जायते म्रियते वा विपश्वित्’’ इत्यादिषु जीवस्य उत्पत्तिः नास्ति इत्युक्तम् । ‘‘नित्यो नित्यानां चेतनश्चेतनानां" एको बहूनां यो विदधाति कामान्’’ इत्यादिषु जीवात्मनां नित्यत्वं चोक्तम् । तच्च जन्ममरणशून्यत्वम् । अतो जीवस्य आकाशादिवत् उत्पत्तिः" यद्यपि नास्ति, तथाऽपि जीवस्य ब्रह्मकार्यत्वानभ्युपगमे पूर्वोक्ताया ब्रह्मज्ञानेन सर्वज्ञातताप्रतिज्ञाया अनिर्वाहप्रसङ्गात्, तस्यापि ब्रह्मकार्यत्वमङ्गीकार्यम् । ततश्च जीवात्माऽपृथक्सिद्धविशेषणभूतज्ञानाख्यद्रव्यस्य संकोचविकासरूपावस्थाविशेषात्मकोत्पत्तिमत्त्वेन तस्य ब्रह्मकार्यतया तादृशावस्थावज्ज्ञानद्वारा जीवात्मनोऽपि परब्रह्मभूतश्रीनिवासकार्यत्वमक्षतमिति ॥ अत्रैवं पूर्वपक्षः- प्रागुदाहृताया एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः जीवस्योत्पत्तिं विना अनिर्वाहात् ‘‘यतो वा इमानि भूतानि जायन्ते’’ इत्यत्र भूतशब्दनिर्दिष्टस्य अचित्संसृष्टचेतनस्य उत्पत्तिश्रवणात्, ‘‘तोयेन जीवान् विससर्ज भूम्यां’’ इति जीवस्य दोयोपलक्षितपृथिव्यादिभिः" समं सृष्टत्वश्रवणाच्च तस्य उत्पत्तिरस्त्येवेति ॥ सिद्धान्तः । ‘‘न जायते म्रियते वा विपश्वित्,’’ ‘‘अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे’’ इत्यादिश्रुतिषु जीवात्मनः उत्पत्तिप्रतिषेधात्, उत्पत्तिनाशारहितत्वरूपनित्यत्वश्रवणाच्च नास्त्युत्पत्तिः । ‘‘यते वा इमानि भूतानि जायन्ते’’ इत्यादिषु जीवात्मनो जातत्वोक्तिस्तु देवमनुष्यादिदेहविशेषसंयोगाभिप्राया इति ॥ यद्यपि सूत्रे जीवात्मनः श्रुतिषु उत्पत्तिनिषेधात् तन्नित्यत्वाभिधानाच्च, उत्पत्तिर्नास्तीति सिद्धान्तितं, न तु जीवात्मनो ब्रह्मकार्यत्वप्रकारो निरूपितः; न चैतावता जीवस्य ब्रह्मकार्यत्वाभावे सूत्रकाराणां तात्पर्य वक्तुं शक्यम्; ब्रह्मज्ञानेन सर्वस्य ज्ञातताप्रतिज्ञया ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मकार्यत्वमवश्यमभ्युपगान्तव्यमिति पूर्वाधिकरणे ‘‘प्रतिज्ञाऽहानिरव्यतिरेकात्’’ इति सूत्रे सिद्धान्तितत्वात् । अतः सूत्रस्य जीवोत्पत्तिनिषेध एव तात्पर्यं, न तु कार्यत्वाभावे । अतः तस्य ब्रह्मकार्यत्वनिर्वाहेऽपि तात्पर्यमस्त्येव । अनन्तराधिकरणे ‘‘ज्ञोऽत एव’’ इत्यत्र जीवात्मनः ज्ञानाश्रयत्वस्य व्यवस्थापनात्, ‘‘पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्’’ इति सूत्रे जीवात्मधर्मभूतज्ञानस्य सुषुप्तौ संकोचावस्थायाः जाग्रद्दशायां विकासावस्थायाश्च व्यवस्थापितत्वात्, ‘‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’’ इति सूत्रे तन्नित्यताया व्यवस्थापितत्वाच्च संकोचविकासरूपविकारवद्धर्मभूतज्ञानद्वारा जीवात्मनो विकारवत्त्वेन ब्रह्मकार्यत्वमुपपादनीयमित्यत्र सूत्रकाराणां तात्पर्यं गम्यते । ततश्च यथा ब्रह्मणः स्वरूपतो निर्विकारत्वेऽपि शरीरभूताचेतनद्वारा विकारश्रयत्वमादाय कारणत्वं, ‘‘न तु दृष्टान्तभावात्’’ इति सूत्रे समर्थितम्; तथा जीवात्मनः स्वरूपतो निर्विकारत्वेऽपि तद्धर्मभूतज्ञानद्वारा विकारवत्त्वमादाय कार्यत्वं निर्वहणीयमिति सूत्रकाराणामभिप्रायः । अत एव अनन्तराधिकरणे जीवात्मनो ज्ञानधर्मकत्वव्यवस्थापनं" संगच्छते इति दिक् ॥ नामरूपव्याकरणश्रुतेः, प्रलयदशायां अत्यन्तसंकुचितस्य जीवात्मधर्मभूतज्ञानस्य देवमनुष्यादिशरीरसंबन्धेन विकासावस्थापादनार्थतायाः" अनन्तराधिकरणे वक्ष्यमाणतया नामरूपस्रष्टुः श्रीनिवासापरनामधेयमहापुरुषतायाः ईक्षत्यधिकरणादिषु निर्णीतत्वात्, तदभिप्रायेण अत्र यत्कार्यत्वमभग्नं इत्युक्तम् ॥ 56 ॥ इति आत्माधिकरणम् ॥ 3 ॥
न ज्ञानमात्रमात्मा नापि च विज्ञातृतैकरूपो वा ।
ज्ञानस्वरूपतायाः श्रुतिभिर्विज्ञातृतायाश्च ॥ 75 ॥
तस्य बहुशोऽभिधानादुक्तज्ञानप्रणाडिकया ।
यत्-कार्यत्वमभग्नं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 76॥
22 ॥ ज्ञाधिकरणम् ॥ 4 ॥ पूर्वस्मिन्नधिकरणे जीवात्मन उत्पत्त्यभावेऽपि, धर्मभूतज्ञानद्वारा तस्य ब्रह्मकार्यत्वं निर्वहणीयमित्यभिप्रेत्य, जीवात्मास्वरूपनिरूपणपरश्रुतिपर्यालोचनया जीवात्मनः उत्पत्तिरूपविकारः प्रतिषिद्धः । तत्र जीवात्मनः ज्ञानधर्मकत्वे धर्मभूतज्ञानद्वारा ब्रह्मकार्यत्वं संभवदुक्तिकम् । तस्य ज्ञानधर्मकत्वमेव न संभवति इत्यक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ ज्ञोतऽएव ॥ 2-3-19 ॥ [उत्क्रान्तिगत्यागतीनाम् ॥ 20 ॥ स्वात्मना चौत्तरयोः ॥ 21 ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ 22 ॥ स्वशब्दोन्मानाभ्यां च ॥ 23 ॥ अविरोधस्चन्दनवत् ॥ 24 ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ 25 ॥ गुणाद्वाऽऽलोकवत् ॥ 26 ॥ व्यतिरेको गन्धवत्तथा च दर्शयति ॥ 27 ॥ पृथगुपदेशात् ॥ 28 ॥ तद््गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ 29 ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ 30 ॥ पुंस्त्वादिवत्तवस्य सतोऽभिव्यक्तियोगात् ॥ 31 ॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ 32 ॥] ‘आत्मा’ इति पूर्वसूत्रात् अनुषज्यते । अत एव - श्रुतेरेव, आत्मा, ज्ञः- ज्ञाता; न ज्ञानमात्रस्वरूप इति सूत्रार्थः ॥ न ज्ञानमात्रमात्मा नापि च विज्ञातृतैकरूपो वा । ज्ञानस्वरूपतायाः श्रुतिभिर्विज्ञातृतायाश्च ॥ 75 ॥ तस्य बहुशोऽभिधानादुक्तज्ञानप्रणडिकया । यत्कार्यत्वमभग्नं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 76 ॥ अर्थः । तस्य-जीवात्मनः । उक्तज्ञानप्रणाडिकया-पूर्वोक्तधर्मभूतज्ञानद्वारेण । शिष्टं स्पष्टम् ॥ भावः प्रश्नेपनिषदि, ‘‘एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’’ इति श्रुतौ जीवात्मनः" चक्षुरादितत्तदिन्द्रियजन्यज्ञानवत्ताया ‘द्रष्टा’ इत्यादिना अभिधानात्, ‘विज्ञानात्मा’ इति ज्ञानस्वरूपतायाश्च पृथगभिधानात्, आत्मनो ज्ञानस्वरूपत्वमिव ज्ञातृत्वमपि स्वाभाविकं इत्यावगम्यते । तथा ‘‘न विज्ञातुर्विज्ञतिर्विपरिलोपो विद्यते अविनाशित्वादात्मनः’’ इत्यादिश्रुतिषु आत्मनो ज्ञानस्य च धर्मधर्मिभावं षष्ठ्या अभिधाय, आत्मनो नित्यत्वेन तद्धर्मस्य ज्ञानस्याविनाशित्वप्रतिपादनात्, आत्मधर्मभूतज्ञानस्य नित्यत्वेन तद्धर्मस्य ज्ञानस्याविनाशित्वप्रतिपादनात्, आत्मधर्मभूतज्ञानस्य नित्यत्वं च अवगम्यते । अतः" आत्मा ज्ञानस्वरूपः, नित्यज्ञानवांश्च इति निश्चीयते । एवं नित्यस्यापि तदीयज्ञानस्य सुषुप्तिदशायामनुपलम्भात्, जग्रद्दशायामुपलम्भाच्च, नित्यस्यैव सतः तस्य ज्ञानस्य सुषुप्तिदशायां संकोचस्य जाग्रद्दशायां विकासस्य च अङ्गीकार्यत्वात् सङ्गोचविकासरूपविकाराश्रयधर्मभूतज्ञानद्वारा जीवात्मनः कार्यत्वमुपपादनीयमिति ॥ पूर्वपक्षः । जीवात्मा ज्ञानस्वरूप एव, न ज्ञानगुणकोऽपि; अन्तर्यामिब्रह्मणे ‘‘य आत्मनि तिष्ठन्’’ इति माध्यन्दिनशाखायां श्रुतस्य आत्मशब्दस्य स्थाने काण्वशाखायां ‘‘यो विज्ञाने तिष्ठन्’’ इति विज्ञानशब्दप्रयोगेण आत्मनो ज्ञानस्वरूपत्वावगमात् ‘‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’’ इति यज्ञादिकर्मकर्तुः आत्मनः विज्ञानशब्देन व्यपदेशादपि ज्ञानस्वरूपत्वावगमाच्च तस्य ज्ञानस्वरूपस्य ज्ञानाश्रयत्वायोगात् इत्येकः पूर्वपक्षः ॥ अपरस्तु, आत्मा न ज्ञानस्वरूपः; नापि स्वाभाविकज्ञानाश्रयः; अपि तु घटादित् जडस्वरूपः विषयेन्द्रियसन्निकर्षादिजन्यज्ञानवान्; सर्वगतस्य तस्य ज्ञानरूपताया नित्यज्ञानवत्तायाश्च अभयुपगमे ज्ञानस्य विषयावगाहित्वनियमात् सर्वत्र सर्वदा विषयोपलब्धिप्रसङ्गात् । भोक्तुर्जीवस्य अदृष्टेन दूरदेशे तद्भोग्यवस्तुरूपकार्योत्पत्त्या तस्याणुत्वे कार्योत्पत्तिदेशे कारणस्य तददृष्टस्य असन्निहितत्वप्रसङ्गेन तस्य सर्वगतताया अवश्याश्रयणीयत्वात् । नित्यज्ञानवत्त्वे सुषुप्त्यादावपि विषयोपलंभप्रसङ्गात्, चक्षुरादिकरणवैयर्थ्यप्रसङ्गाच्च इति ॥ सिद्धान्तः । ‘‘एष हि द्रष्टा स्प्रष्टा’’ इत्यादिपूर्वोदाहृतश्रुतिषु ज्ञानस्वरूपत्वस्य नित्यज्ञानाश्रयत्वस्य चाभिधानात्, जीवात्मा ज्ञानस्वरूपः" स्वाभाविकज्ञानवांश्च । न चैवं सर्वगतस्य तस्य सर्वदा विषयोपलब्धिप्रसङ्गः इति वाच्यम्; तस्य अणुत्वेन सर्वगतताया अप्रामाणिकत्वात्, अदृष्टस्य ईश्वरीयफलदित्सारूपत्वेन दूरदेशेऽपि तया कार्योत्पत्तिनिर्वाहात् ॥ जीवस्याणुत्वं तु ‘‘तेन प्रद्योतेनैष आत्मा निष्क्रामति; ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति । तस्माल्लोकात् पुनरेति अस्मै लोकाय कर्मणे’’ इत्यादिषु श्रुतिषु उत्क्रान्तिगामनागमनानां श्रवणात् अवसीयते । यद्यपि जीवस्य विभुत्वेऽपि देहवियोगभिप्रयकतया उत्क्रान्तिश्रुतिः कथञ्चिदुपपादयितुं शक्या, तथाऽपि विभोः गमनागमनासंभवेन तस्याणुत्वामपश्यमभ्युपगन्तव्यम् ॥ ननु बृहदारण्यके षष्ठाध्याये चतुर्थब्रह्मणे जीवात्मप्रकरणे, ‘‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’’ इत्यत्र विज्ञानमयशब्दनिर्दिष्टस्य जीवात्मनः ‘महान्’ इति विभुत्वश्रवणेन तस्याणुत्वं उक्तश्रुतिविरुद्धं इति चेन्न । ‘‘यस्यानुवित्तः प्रतिबुद्ध आत्मा’’ इत्यादिना जीवप्रकरणस्य विच्छिन्नत्वेन उक्तश्रुतेः परमात्मविषयत्वेन तदविरोधात् । मुण्डके ‘‘एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः" पञ्चधा संविवेश’’ इति श्रुतौ पञ्चवृत्तिप्राणाश्रयस्य जीवात्मनोऽणुशब्देन अणुपरिमाणोक्तेः, श्वेताश्वतरीये ‘‘वालाग्रशातभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः’’ इति तस्य आत्यन्ताणुपरिमाणोक्तेश्च तस्य अणुत्वसिद्धिः । हृदयादौ देहैकटेशे स्थितेन चन्दनबिन्दुना सकलदेहव्यापिसुखानुभवजननवत् अणोरपि जीवस्य हृदयदेशे स्थितस्य सकलशरीख्यापिसुखदुःखानुभवे न विरोधः । वस्तुतस्तु यथा एकदेशे स्थितोऽपि दीपः स्वप्रभया देशान्तरं व्याप्नोति, तद्वत् अणुरपि जीवः स्वगुणभूतेन ज्ञानेन स्वदेहावयवान् सर्वान् व्याप्नोति । अतः सर्वावयवेषु सुखदुःखोपलब्धौ नानुपपत्तिः । एतेन सौभर्यातेरेकस्मिन् देहे स्थितस्यापि बहुषु देहान्तरेषु सुखदुःखोपलब्धौ अनुपपत्तिरपि निरस्ता; तदीयधर्मभूतज्ञानस्य तदीयसर्वदेहेषु व्याप्त्या कार्यकरत्वोपपत्ते. ॥ यथा पृथिव्या गुणत्वेन उपलभ्यमानस्य गन्धस्य पृथिवीतो भेदः, तथा ‘अहं जानमि’ इति आत्मनो गुणत्वेन अनुभवसिद्धस्य ज्ञानस्य ततो भेदावश्यम्भावात्, ‘‘जानात्येवायं पुरुषः’’ इति श्रुत्या आत्मनो ज्ञानस्य च धर्मधर्मिभावोक्तैः, ‘‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’’ इति श्रुतौ विज्ञातिशब्दोक्तस्य ज्ञानस्य विज्ञातृशब्दनिर्दिष्टादात्मनः षष्ठ्या व्यतिरेकनिर्देशाच्च प्रभाया दीवधर्मत्ववत्, ज्ञानस्य ज्ञानस्वरूपात्मगुणत्वमुपपन्नम् ॥ ज्ञातुरपि जीवात्मनः ‘‘विज्ञानं यज्ञं तनुते,’’ ‘‘यो विज्ञाने तिष्ठन्’’ इत्यादिश्रुतिषु ज्ञानशब्देन व्यपदेशस्तु, यथा परमात्मनो गुणेषु आनन्दस्य प्रधानत्वेन ‘‘आनन्दो ब्रह्मेति व्यजानात्’’ इत्यादिषु तद्वाचिना आनन्दशभ्देन व्यपदेशः, तद्वत् जीवात्मनो गुणेषु ज्ञानगुणस्य प्रधानत्वेन ब्रधानभूतज्ञानरूपगुणवाचिना विज्ञानशब्देन व्यपदेशसंभवात् उपपद्यते । प्रधान्यं चोभयत्र स्वरूपनिरूपकत्वं; इतरव्यावर्तकत्वमिति यावत् । परमात्मा हि निरुपधिकेन आनन्देन जीवात्मनो व्यावर्त्यते । यथा गवादीनां स्वरूपनिरूपकगोत्वादिवाचकैः" गवादिशब्दैः विनाऽपि लक्षणां गौरित्यादिव्यपदेशः, तद्वत् आत्मनः स्वरूपनिरूपकज्ञानरूपधर्मवाचिना विज्ञानशब्देन लक्षणां विनैव व्यपदेशोपपत्तिः । आत्मनो ज्ञानस्वरूपत्वेनापि ज्ञानशब्देन व्यापदेशोपपत्तिः ॥ सुषुप्त्यादौ विद्यमानस्यापि ज्ञानगुणस्य सङ्कोचावस्थप्राप्त्या विषयानुपलंभस्य, जाग्रद्दशायां विकासावस्थाप्राप्त्या विषयोपलंभस्य च नानुपपत्तिः । यथा पुरुषस्य पुस्त्वधातोः बाल्यावस्थायामनभिव्यक्तस्य युवत्वावस्थायामभिव्यक्तिः, तद्वत् सुषुप्त्यवस्थायामनभिव्यक्तस्य ज्ञानस्य जाग्रद्दशायां अभिव्यक्तिरुपपन्नैव । अतो जीवात्मनोऽणुस्वरूपत्वेन ज्ञानस्वरूपतायाः नित्यज्ञानवत्तायाश्च अभ्युपगमे, न कश्चित् दोषः प्रसज्यते । ज्ञानस्वरूपस्य जीवात्मनः सर्वगतत्वे देह इव सर्वत्र अहमित्युपलब्धिप्रसङ्गः । यदि अयमात्मा अनुपलब्धिस्वभावोऽङ्गीक्रियते, तर्हि देहेऽपि अहमित्युपलंभो न स्यात् । उपलब्ध्यनुपलब्ध्युभयस्वभावाङ्गीकारे युगपदुपलब्ध्यनुपलब्धिप्रसङ्ग इति ।जीवात्मनः स्वाभाविकज्ञानवत्त्वेऽपि जाग्रद्दशायां विकासावस्थापन्नस्य ज्ञानस्य इन्द्रियद्वारा प्रसृतस्य विषयैः समं संबन्धादेव तत्तद्विषयोपलब्धेः न चक्षुरादीन्द्रियवैयर्थ्यमपि ॥ इदमत्रावधेयम्-छान्दोग्ये, ‘‘येनाश्रुतं श्रुतं’’ इत्यादिना जगद्ब्रह्मणोः मृद्घटयोरिव कार्यकारणभावं प्रतिज्ञाय, तदुपपादनाय प्रवृत्ते ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिजगत्सृष्ट्यभिधानप्रकरणे ‘‘सेयं देवतैक्षत हन्ताऽङमिमास्तिस्रो देवता अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि’’ इति, ‘‘अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरोत्’’ इति च नामरूपव्याकरणसङ्गल्पप्रकारः, तव्द्याकरणप्रकारश्च श्रूयते । अत्र ‘अनेन जीवेन’ इति जीवात्मनः प्रलयदशायां दयनीयावस्थाविशेषः, तस्य परदेवतया साक्षात्करणं, ‘हन्त’ इत्यनेन तस्य तद्विषये दया च सूच्यते । ‘हन्त हर्षेऽनुकम्पायां’’ इत्यानुशासने दयायामनुशिष्ठेन ‘हन्त’ इत्यानेन दयाद्योतनात् । स चावस्थाविशेषः ‘‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः’’ िति प्रलयावस्थानिरूपणप्रकरणे ‘प्रसुप्तमिव सर्वतः’ इति मनुना दर्शितः । अत्र हि ‘अविज्ञेयं’ इत्यनेन अचेतनस्यावस्थाविशेषमभिधाय, ‘प्रसुप्तमिव सर्वतः’ इत्यनेन चेतनस्य सुषुप्तिदशायामिव अत्यन्तज्ञानसङ्गोचेन अचिदविशिष्टतारूपावस्थाविशेषः प्रदर्शितः । अनेन प्रलयदशायां परदेवाता जीवात्मनो ज्ञानस्य अत्यन्तसङ्कुचिततां तेन प्रवृत्त्य क्षमतां चावलोक्य, दयया नामरूपव्याकरणं सङ्कल्प्य, ‘नामरूपे व्याकरोत्’ इति, तदीयज्ञानविकासर्थमेव देवमनुष्यादिशरीरात्मकरूपव्याकरणमिति च प्रतियते । अत्र पूर्वप्रतिज्ञातायाः चिदचिदात्मकप्रपञ्चस्य ब्रह्मकार्यताया उपपादनाया प्रवृत्ते सृष्टिप्रकरणे अचिद्वस्तुनः तेजःप्रभृतिरूपेण देवमनुष्यदिशरीररूपेण च परदेवतया परिणामकरणाभिधानात् अचिद्वस्तुनः स्वरूपान्यथाभावेन ब्रह्मकार्यत्वमिति, जीवात्मनः सङ्कुचितज्ञानस्य ज्ञानविकासापादनाय देवमनुष्यादिशरीरसृष्टिः इति प्रतिपादनेन ज्ञानरूपस्वभावान्यथाभावेन तस्य ब्रह्मकार्यत्वं इति च स्फुटं प्रतीयते इति ॥ अत्र नामरूपव्याकर्त्र्या देवतायाः ‘‘सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते’’ इति पुरुषसूक्तोक्तमहापुरुषत्वप्रत्यभिज्ञानात्, तस्य च श्रीनिवासापरनामधेयलक्ष्मीपतिरूपत्वेन अत्र ‘यत्कार्यत्वं’ इत्युक्तम् ॥ 57 ॥ इति ज्ञाधिकरणम् ॥ 4 ॥
यच्चोदितेषु कर्मस्वात्मा कर्ता तदाऽस्य च विधेश्च ।
फलवत्तायाः सिद्धेः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 77 ॥
23 ॥ कर्त्रधिकरणम् ॥ 5 ॥ पूर्वाधिकरणो जीवात्मनो ज्ञातृत्वं व्यवस्थापितं; तस्य कर्तृत्वदृष्टान्तेन अध्यस्तत्वावादनिरासाय प्रवृत्तमिदमधिकरणम् ॥ कर्ता शस्त्रार्थवत्त्वात् ॥ 2-3-33 ॥ [उपदानात् विहारोपदेशाच्च ॥ 34 ॥ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ 35 ॥ उपलब्धिवदनियमः ॥ 36 ॥ शक्तिविपर्ययात् ॥ 37 ॥ समाध्यभावाच्च ॥ 38 ॥ यथा च तक्षोभयथा ॥ 39 ॥] ‘आत्मा’ इत्यनुषज्यते । आत्मैव कर्ता इत्यर्थः । तत्र हेतुः शास्त्रर्थवत्त्वात् इति । शास्त्रर्थः-शास्त्रफलं, शाश्त्रविहितकियाजन्यफलमिति यावत्; तद्वत्त्वात्-तद्भाक्त्वात् इत्यर्थः । आवृत्त्या अन्योऽप्यर्थः-शास्त्रस्य ‘यजेत,’ ‘उपासीत’ इत्यादिविधिरूपशास्त्रस्य, अर्थवत्त्वात्-तथा सत्येव साफल्योपपत्तेः इति ॥ यच्चोदितेषु कर्मस्वात्मा कर्ता तदाऽस्य च विधेश्च । फलवत्तायाः सिद्धिः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 77 ॥ अर्थः । यच्चोदितेषु-यदाज्ञया प्रवृत्तेषु, कर्मसु-यागदानादिषु, आत्मा-चेतनः, कर्ता; तदा-आत्मनः कर्तृत्वपक्ष एव, अस्य-आत्मनः" विधेश्च-‘यजेत’ इत्यादिशास्त्रस्य च, फलवत्तायाः स्वर्गादिक्रियाफलभोक्तृतायाः प्रवर्तनरूपफलवत्तायाश्च सिद्धेः इति ॥ बृहदारण्यके, ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति, यजमानं देवा दर्वीं पितरोऽन्वायत्ताः’’ इति स्वशासनेन यागदानहोमादिश्रौतस्मार्तक्रियणां प्रवर्तकतया श्रुतस्याक्षरस्य श्रीनिवासापरनामधेयपरब्रह्मरूपताया अक्षराधिकरणे निरूपितत्वाभिप्रयेण अत्र यच्चोदितेषु कर्मसु इत्युक्तम् ॥ भावः । स्वर्गादिफलकामनावतः पुरुषस्य तत्फलप्राप्तये कर्तव्यतया ‘यजेत स्वर्गकामः’ इत्यादिशास्त्रेण यागादिकं कर्म विधीयते। पुरुषस्य तत्फलप्राप्तिश्व तत्कर्मकर्तृत्व एव स्यात् ‘शस्त्रफलं प्रयोक्तरि’ इति न्यायात् । प्रकृतेः तत्परिणामस्य अन्तःकरणस्य वा कर्मकर्तृत्वे, पुरुषस्य तत्फलभोक्तृत्वं नोपपद्यते । न ह्यन्यः कर्ता, अन्यः फलभोक्ता इत्युपपद्यते । अतः स्वर्गादिफलभोक्ता आत्मैव कर्ता इति युक्तम् । एवं यागादानादिकर्मविधायकं शास्त्रं पुरुषस्य तत्कर्मणि प्रवर्तनाय प्रवर्तते । तत्प्रवर्तनं च न वायूदकादिवत् नोदनेन; अपि तु कर्मणः फलसाधनत्वबोधनेन । अतो बोधनार्हस्य चेतनस्य कर्तृत्व एव तद्बोधनेन प्रवृत्तिजनकतया शास्त्रं सफलं स्यात्; न त्वचेतनस्य अन्तःकरणादेः कर्तृत्वे, तस्य बोधनानर्हत्वात् । अतः फलभोक्तुः चेतनस्य कर्तृत्व एव तस्य फलभोक्तृतायाः, शास्त्रस्य प्रवृत्तिजननेन सफलतायाश्च उपपत्तेः बोद्धा आत्मैव कर्ता इति ॥ प्रकृतिः तत्परिणामभूतमन्तःकरणं वा क्रियासु कर्तृ, न त्वात्मा; निर्विकारस्यात्मनः कृतिरूपविकारवत्त्वायोगात्, अध्यात्मशस्त्रे तस्य कर्तृत्व निषेधाच्च । यथा कठवल्ल्यां, ‘‘हन्ता चेन्मन्यते हन्तुं हतश्चेत्मन्यते हतं । उभौ तौ न विजानीते नायं हन्ति न हन्यते’’ इति । अस्यार्थः- हन्ताहननकर्तृत्वाभिमानवात्, आत्मानं हन्तुं मन्यते, हन्तारं मन्यते चेत्, हतःहननकर्मत्वाभिमानवान्, आत्मानं, हतं हननकर्मभूतं मन्यते चैतु, तावुभौन विजानीतः । अयमात्मा न हन्ति-हननक्रियायां न कर्ता; न हन्यते हननक्रियायां न कर्म िति । अत्र हननग्रहणं क्रियान्तरस्याप्युपलक्षणं । श्रीगीतासु, ‘‘प्रकृतेः क्रियमाणानि गुणौः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्तऽहमिति मन्यते’’ इति स्मरणात्; सर्वाणि कर्माणि प्रकृतेर्गुणैः सत्त्वादिभिः क्रियमाणानि भवन्ति । पुरुषस्तु अहङ्कारविमूढात्मा अहं कर्ता इति मन्यते इति । अत्र हि प्रकृतिरेव कर्त्री, पुरुषस्य अहं कर्ता इति प्रतीतिस्तु भ्रान्तिरिति स्पष्टमुक्तम् । अतो लौकिको वैदिकश्च सर्वोप्यात्मनः कर्तृत्वव्यवहारः अन्तःकरणगतस्य कर्तृत्वस्य पुरुषेण स्वस्मिन्नध्यरततादिषय इति ॥ सिद्धान्तः । प्रकृतेः अन्तः करणस्य व कर्तृत्वं प्रगुक्तरीत्या पुराणस्य फलभोक्तृतायाः शास्त्रस्य प्रवर्तकतायाश्च असिद्धिप्रसङ्गात्, ‘आत्मेव कर्ता’ इत्यास्थेयम् । यतुक्तं निर्विकारस्य आत्मनः कृतिरूपविकारवत्त्वं नोपपद्यते रोकिको वैदिकश्च कर्तुत्वव्यवहारः पुरुषस्य कर्तृत्वाध्यासविषय इति, तन्न । अध्यासस्यापि विकाररूपत्वेन तस्यापि निर्विकारे आत्मनि असंभवेन, लौकिकस्य वैदिकस्य च सर्वस्याप्यात्मनः कर्तृत्वव्यवहारस्य निर्विषयत्वप्रसङ्गात् । अतः प्रागुक्तफलभोक्तृत्वसिद्ध्यादिप्रसङ्गरूपतर्कानुगृहीताग्रिमसूत्रोदाहरिष्यमाणश्रुतिबलात् आत्मनः कर्तृत्वं पारमार्थिकमेवाभ्युपगन्तव्यम् । कृतियनकं ज्ञानमपि पारमार्थिकमिति, तच्च ज्ञानं आत्मस्वरूपविकारानात्मकं द्रव्यान्तरं प्रभाप्रभावन्न्यायेन आत्मनो धर्मभूतमिति च श्रुतिबलादङ्गीकार्यम् ॥ ‘‘हन्ता चेन्मन्यते हन्तुं’’ इति श्रुतिस्तु आत्मनो नित्यत्वेन तं प्रति हननक्रियाकर्तृत्वं आत्मनो नास्ति इत्येतदर्थपरा, न तु क्रियाकर्तृत्वनिषेधपरा; श्रुतिष्वेव आत्मनः तत्तत्क्रियाकर्तृत्वव्यपदेशस्य वक्ष्यमाणत्वात् । ‘‘प्रकृतेः क्रियमाणानि’’ इत्युदाहृतगीतावचनं तु संसारदशायां आत्मना यद्यत् कर्म क्रियते, तत्सर्वं सत्त्वरजस्तमोरूपप्रकृतगुणसंसर्गकृतं" इति सांसारिकक्रियाकर्तृत्वस्य औपाधिकत्वप्रदर्शनपरं, न तु कर्तृत्वसामान्यनिषेधपरम् । ‘‘शरीरवाङ्चनोभिर्यत्कर्म प्रारभते नरः" । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधं । विविधा च पृथक्येष्टा दैवं चैवात्र पञ्चमम् ॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः’’ इति पञ्चानां देहात्मादीनां कर्तृत्वं" साधारणं इत्युपदिश्य, स्वात्ममात्रस्य कर्तृत्वज्ञानं आन्तिः इति तत्रैवोपदेशात् ॥ बृहदारण्यके, ‘‘एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते’’ इति श्रुतौ आत्मनः प्राणशब्दोक्तानां इन्द्रियाणां" शरीरस्य च प्रेरणे कर्तृत्वाव्यपदेशात् ॥ ‘‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’’ इति श्रुतौ आत्मनः वैदिकलौकिकक्रियाकर्तृत्वस्य उपदेशाच्च आत्मैव कर्ता । न चात्र विज्ञानशब्देन अन्तःकरणमुच्यते, न त्वात्मा इति वाच्यं-अन्तःकरणस्य क्रियासु करणत्वेन, तत्परत्वे ‘विज्ञानेन’ इति तृतीयया निर्देशप्रसङ्गात् । किञ्च प्रकृतेः कर्तृत्वाभ्युपगमे केनचित् कर्मणा कस्यचिदेव पुरुषस्य सुखदुःखोपभोगो नान्यस्य इति नियमासिद्धिप्रसङ्गः । तस्याः" सर्वपुरुषसाधारणतया, तया क्रियमाणकर्मणां सर्वपुरुषसाधारणत्वात् । तत्कर्मणां पुरुषभोगजनकत्वानभ्युपगमे, कस्यापि पुरुषस्य भोगाभावप्रसङ्गः । तत्तत्पुरुषनियतेन प्रकृतिपरिणामविशेषेण अन्तःकरणेन क्रियमाणकर्मभिः तत्तत्पुरुषभोग इति व्यवस्था न वक्तुं शक्या । अन्तःकरणानामपि सर्वपुरुषसाधारणप्रकृतिपरिणामत्वेन प्रतिपुरुषव्यवस्थितत्वासिद्धेः ॥ किञ्च प्रकृतिपरिणामस्यान्तःकरणस्य कर्तृत्वाभ्युपगमे, अकर्तुःपुरुषस्य कर्मफलभोगानुपपत्या, तस्य भोक्तृत्वमपि न स्यात् । तत्श्च पुरुषसद्भावे प्रमाणाभावप्रसङ्गः, कर्मफलभोक्तृत्वस्यैव पुरुषसद्भावे प्रमाणतया सांख्यैरभ्युपगमात् ॥ किञ्च प्रकृतेः सर्वक्रियाकर्तृत्वाभ्युपगमे ‘प्रकृतेरन्योऽस्मि’ इति समाधिकर्तृत्वं तस्या न संभवति, स्वस्य स्वान्यत्वानुसन्धानायोगात् । ततश्च सम्धेः तत्साध्याया मुक्तेश्च अभावप्रसङ्गः ॥ ननु आत्मनः कर्तृत्वाभ्युपगमपक्षेऽपि कदावित् कर्मकरणं, कदाचिन्न इत्यत्र नियामकाभावेन सर्वदा कर्मकरणं स्यात्, वागाद्यपकरणानां" सर्वदा सत्त्वात् इति चैन्न-कर्मकरणे इच्छाया नियामकत्वे, सत्यमिच्छाया कर्म करोति, असत्यां न इति नियमोपपत्तेः । यथा तक्षादेः" वास्याद्युपकरणसत्त्वेऽपि सत्यामिच्छायां तक्षणादिकर्मकरणं, नान्यदा इति नियसः, तद्वदिति । प्रत्युत प्रकृतेः कर्तृत्वाभ्युपगन्तृसांख्यपक्ष एव कदाचित् कर्मकरणं, कदाचिन्नेत्यत्र इच्छादिनियामकाभावात् सर्वदा कर्मकरणप्रसङ्गो दुर्वार इति । आस्मिन् पद्ये ‘यच्चोदितेषु कर्मसु’ इति कर्मविशेषणं न लौकिकक्रियाव्यवच्छेदाय; अपि तु यागादिविधीनां भगवदाज्ञारूपत्वलाभाय इति मन्तव्यम् ॥ 58 ॥ इति कर्त्रधिकरणम् ॥ 5 ॥
लौकिकवैदिककर्मसु कर्तृत्वं प्रत्यगात्मनो यत्तत् ।
यदधीनमाह निगमः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥78॥
24 ॥ परायत्ताधिकरणम् ॥6॥ पूर्वाधिकरणे गुहासूत्रे प्रस्तुतयोर्जीवपरमात्मनोः एकस्य जीवात्मनः कर्तृत्वं पारमार्थिकम् इति व्यवस्थापितम् । तस्य कर्तृत्वस्य परमात्मायत्तत्वव्यवस्थापनेन नियाम्यनियामकभावेन तयोर्भेदस्य निरुपाधिकताया दृढीकरणाय प्रवृत्तमिदमधिकरणम् ॥ परात्तु तच्छ्रुतेः ॥2-3-40॥ [कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥41॥] तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तत् - गुहासूत्रे (1-2-11) प्रस्तुतयोरात्मनोः एकस्य जीवस्य कर्तृत्वं, परात् - तदन्यपरमात्मायत्तं; तच्छ्रुतेः - परमात्मायत्तत्वश्रवणात् इति सूत्रार्थः ॥ लौकिकवैदिककर्मसु कर्तृत्वं प्रत्यगात्मनो यत्तत् । यदधीनमाह निगमः तद्ब्रह्म श्रीनिवासनाम भजे ॥78॥ अर्थः । पूर्वाधिकरणे व्यवस्थापितं जीवात्मनः यत् कर्तृत्वं तत् यदधीनं - श्रीनिवासापरनामधेयब्रह्माधीनं आह निगमः । शिष्टं स्पष्टम् ॥ भावः । ‘‘य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्माऽन्तर्याम्यमृतः’’, ‘‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा’’ इत्यादिश्रुतिषु परमात्मनः तत्तत्कर्मसु जीवात्मप्रेरकत्वश्रवणात्, जीवात्मनः कर्तृत्वं परमात्मप्रेरणाधीनम् । अयं च परमात्मा सुबालोपनिषदैकार्थ्यात्, श्रीनिवासापरनामधेय एवेति निर्धार्यते इति ॥ पूर्वपक्षः । परमात्मनो जीवकर्तृककर्मसु तत्प्रेरकत्वाभ्युपगमे विधिनिषेधशास्त्रयोः वैयर्थ्यापत्तिः । विधिनिषेधशास्त्राणि हि इष्टानिष्टफलसाधनताबोधमुत्पाद्य, प्रवृत्तिं निवृत्तिं वा कुर्वन्ति । प्रवृत्तिनिवृत्त्योरन्याधीनत्वे तद्बोधस्य अकिञ्चित्करत्वेन, वैयर्थ्यापत्तिः दुर्वारैव । अतो जीवस्य कर्तृत्वं नान्यायत्तमिति ॥ सिद्धान्तः । ‘‘य आत्मनि तिष्ठन्’’ इत्यादिप्रागुदाहृतश्रुतिषु परमात्मनः तत्तत्कर्मसु जीवात्मप्रेरकत्वश्रवणात्, जीवात्मनः कर्तृत्वं परमात्मायत्तमेव ॥ यदुक्तं जीवात्मनः कर्तृत्वस्य परमात्मायत्तत्वे, विधिनिषेधशास्त्रवैयर्थ्यप्रसङ्गः इति, तन्न । जीवः स्वबुद्ध्या यत्कर्मणि प्रवर्तते, परमात्मा स्वानुमतिदानेन तत्कर्म कारयतीति प्रथमप्रवृत्तौ जीवस्य स्वातन्त्र्यस्य, द्वितीयादिप्रवृत्तिष्वेव परमात्मपारतन्त्र्यस्य चाभ्युपगमात्, न विधिनिषेधशास्त्रवैयर्थ्यप्रसङ्गः ॥ अत्रेदं बोद्ध्यम् - ईश्वरस्य उदासीनत्वं, अनुमन्तृत्वं, प्रेरकत्वम् इत्याकारत्रयमस्ति । तत्र जीवस्य प्रथमप्रवृत्तौ ईश्वरस्य औदासीन्यमेव । द्वितीयादिप्रवृत्तौ तु अनुमन्तृत्वं; तदभावे जीवस्य प्रवृत्त्यनिर्वाहात् । यस्तु परमात्मन आनुकूल्ये प्रातिकूल्ये वा अत्यन्तव्यवसायवान्, तद्विषये प्रेरकत्वमिति ॥59॥ इति परायत्ताधिकरणम् ॥6॥
गोत्वादिरिव गवादेरादित्यादेः प्रभादिरिव ।
यस्यांशोऽसौ जीवः तत् ब्रह्म (श्रीनिवास-नाम) भजे॥ 79 ॥
25 ॥ अंशाधिकरणम् ॥ 7 ॥ एवं जीवात्मनः परमात्मायत्तकर्तृत्वं निरूपितम् । तेन राजभृत्ययोरिव जीवब्रह्मणोः अत्यन्तभेदस्य प्रतीत्या, श्रुतिषु तदभेदव्यवहारस्यामुख्यत्वप्रसङ्गमाशंक्य, तत्परिहाराय प्रवृत्तमिदमधिकरणम् ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ 2-3-42 ॥ [मन्त्रवर्णात् ॥ 43 ॥ अपि स्मर्यते ॥ 44 ॥ प्रकाशादिवत्त नैवं परः ॥ 45 ॥ स्मरन्ति च ॥ 46 ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ 47 ॥ असन्ततेश्चव्यतिकरः ॥ 48 ॥ आभास एव च ॥ 49 ॥ अदृष्टानियमात् ॥ 50 ॥ अभिसन्ध्यादिष्वपि चैवम् ॥ 51 ॥ प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ 52 ॥] अत्रापि ‘आत्मा’ इति, ‘परात्’ इति सूत्रात् विभक्तिविपरिणामेन ‘परस्य’ इति चानुषज्यते । इत्थं च, प्रत्यगात्मा परस्य अंशः-अपृथक्सिद्धविशेषणं" इत्यर्थः । अत्र हेतुमाह नानाव्यपदेशात्-भेदव्यपदेशात् इत्यर्थः । अन्यथा च-अभेदव्यपदेशात् इत्यर्थः । एके शाखिनः, परस्य दाशकितवादित्वमपि, दाशाः-कैवर्ताः, कितवाः-धूर्ताः, तत्प्रभृतिरूपत्वमपि, अधीयते आमनन्ति इति सूत्रार्थः । भावः । घुतिषु ‘‘ज्ञाज्ञौ द्वावजावीशनीशौ’’ इत्यादिषु जीवात्मपरमात्मनोः ईशत्वानीशत्वादिना भेदो व्यपदिश्यते; ‘‘तत्त्वमसि’’ इत्यादिषु अभेदोऽपि । अतः तयोरत्यन्तभेदाङ्गीकारे अभेदश्रुतीनां, स्वरूपैक्याङ्गीकारे भेदश्रुतीनाममुख्यत्वप्रसङ्गः । अभेदश्रुतीनां अभेदोपचारेण स्तुतिपरतया निर्वाहोऽप्यनुपपन्नः; निकृष्टैः दाशादिभिः समं अभेदोक्तेः स्तुतिरूपत्वासंभवात् । अतः उभयविधव्यवहारमुख्यत्वोपपत्तये जीवो ब्रह्मंश इत्यङ्गीकार्यम् । अंशत्वं च अपृथक्सिद्धविशेषणत्वपर्यवसितम् विशेष्टवस्त्वेकदेशत्वम् । यथा गोत्वविशिष्टस्य गोः" अपृथक्सिद्धविशेषणत्वेन गोत्वं अंशः, तद्वत् चिदचिद्विशिष्टस्य ब्रह्मणः अपृथक्सिद्धविशेषणत्वेन जीवोंऽशभूतः । ततश्च अपृथक्सिद्धविशेषणभूतगोत्वादिवाचिनां" शब्दानां गवादिव्यक्तिपर्यन्तवाचित्ववत्, परमात्मापृथक्सिद्धविशेषणभूतजीवात्मवाचिनां त्वमादिशब्दानां विशेष्यभूतपरमात्मपर्यन्तवाचकताया आकृत्यधिकरणन्यायसिद्धतया ‘‘तत्वमसि’’ इत्या द्यभेदश्रुतीनां मुख्यत्वनिर्वाहः, विशेषणविशेष्यभूतयोः जीवपरमात्मनोः स्वरूपभेदात् भेदश्रुतीनां मुख्यत्वनिर्वाहश्च उपपद्यत इति ।. गोत्वादिरिव गवादेरादित्यादेः प्रमादिरिव । यस्यांशोऽसौ जीवस्तद्ब्रह्म श्रीनिवासनाम् भजे ॥ 79 ॥ इति श्रीकौशिककुलतिलकस्य महामहोणध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वचस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" द्वितीयाध्यायस्य तृतीयः पादः । अर्थः । यथा गोत्वादिविशिष्टस्य वस्तुनोऽपृथक्सिद्धविशेषणतया गोत्वादिरंशः, यथा वा प्रभाविशिष्टस्य सूर्यादेः प्रभा अपृथक्सिद्धविशेषणत्वेन तदंशः, तथा ‘‘पादोऽस्य विश्वा भूतानि’’ इत्यादिभिः चेतनाचेतनविशिष्टस्य यस्य श्रीनिवासापरनामधेयस्य ब्रह्मणोऽपृथक्सिद्धविशेषणत्वेन जीवोंऽशभूत इत्युच्यते, तद्ब्रह्मेति पूर्ववत् ॥ अत्र द्वितीयदृष्टान्तोपादानं द्रव्यस्य द्रव्यान्तरं प्रति अपृथक्सिद्धविशेषणत्वे दृष्टान्तप्रदर्शनाय । अत्र ‘‘पादोऽस्य विश्वा भूतानि ’’ इति पुरूषसूक्तमन्त्रे श्रुतस्य पुरुषस्य श्रीनिवासापरनामधेयलक्ष्मीपतिमहापुरुषरूपत्वात् तदभिप्रायेणात्र यस्यांशोऽसौ जीव इत्युक्तम् ॥ पूर्वपक्षः । जीवः परमात्मतोऽत्यन्तभिन्नः, ‘‘ज्ञाज्ञौ द्वावजावीशनीशौ’’ इत्यादिश्रुतिषु ईशत्वानीशत्वाभ्यां राजभृत्ययोरिव तयोः स्वरूपभेदोक्तेः" । ‘तत्त्वमसि’ इत्याद्यभेदश्रुतयस्तु औपचरिक्यः अथवा अज्ञत्वावस्थापन्नं ब्रह्मैव जीवः, ‘‘तत्त्वमसि’’ इत्यादिश्रुतिषु अभेदोक्तेः" । भेदश्रुतयस्तु लोकसिद्धभेदानुवादरूपाः । उपाध्यवच्छिन्नं ब्रह्मैव वा जीवः, उदाहृतश्रुतेरेव । भेदश्रुतय औपाधिकभेदपराः । न तु ब्रह्मणोंऽशो जीवः, अंशत्वस्य दुरुपपादत्वात् । एकवस्त्वेकदेशो हि अंशः । स च वस्तुनः छेदनभेदनादिना संभवति । ब्रह्मणः छेदनभेदनानर्हत्वात् तदंशत्वं दुरुपपादमिति ॥ सिद्धान्तः । तत्त्वमस्यादिश्रुतीनां मुख्यत्वानिर्वाहात्, संभवति मुख्यत्वे, तत्परित्यागस्यान्याय्यत्वात्, प्रथमपक्षस्तावन्न युक्तः । नापि द्वितीयः-नित्यनिर्दोषत्वेन सर्वदा सर्वज्ञत्वेन च श्रुतस्य ब्रह्मणः अज्ञत्वावस्थाया एवासंभवात् । ‘‘यस्सर्वज्ञः सर्ववित्’’ इत्यादिश्रुतिषु कालविशेषानुक्त्या, सर्वज्ञत्वस्य हि सार्वकालिकत्वं सिद्धम् । नापि तृतीयः-प्रह्मण एव सांसारिकसुखदःखाद्यनन्तापुरुषार्थाश्रयत्वप्रसङ्गात् । अतो ब्रह्मणोंऽशो जीव इत्येव युक्तम् । अंशत्वं च विशिष्टवस्त्वेकदेशत्वम् । विशिष्टे वस्तुनि, ‘विशेषणांशोऽयं,’ ‘विशेष्यांशोऽयं’ इति प्रामाणिकव्यवहारात् । प्रकृते चिदचिद्वशिष्टे ब्रह्मणि जीवात्मनो विशेषणांशत्वात् तदंशचमुपपन्नम् । अंशत्वं च प्रकृते अपृथक्सिद्धविशेषणत्वम् । तच्च ‘‘य आत्मनि तिष्ठन् यस्यात्माशरीरं’’ इत्यादिश्रुतिसिद्धम् । शरीरत्वं हि चेतनं प्रति आपृथक्सिद्धविशेषणभूतद्रव्यत्वम् । अतो जीवात्मनः परमात्मशरीरत्वोक्त्या तदपृथक्सिद्धविशेषणत्वं सिद्धम् । इत्थं च अपृथक्सिद्धविशेणवाचिनां शब्दानां विशेष्यपर्यन्तवाचिताया आकृत्यधिकरणन्यायसिद्धत्वात् गवाद्यपृथक्सिद्धविशेषणगोत्वादिवाचकगवादिशब्दानां गवादिव्यक्तिपर्यन्तवाचकताया अनुभवसिद्धत्वाच्च ब्रह्मापृथक्सिद्धविशेषणभूतजीवात्मवाचिनां" त्वमादिशब्दानां विशेष्यभूतपरमात्मवाचकताया लक्षणां विनैव निर्वाहात्, भेदश्रुतीना स्वरूपभेदविषयकत्वेनोपपत्तेश्च सिद्धान्ते सर्वश्रुतीनां मुख्यत्वोपपत्तिः । ‘‘पादोऽस्य विश्वा भूतानि’’ इति पुरुषसूक्तमन्त्रे भूतशब्दोक्तस्य चेतनस्य परमात्मानं प्रति पादत्वोकत्या पादशब्दस्यांशवाचित्वात्, ‘‘ममैवांशो जीवलोके जीवभूतः सनातनः’’ इति श्रीगीतावचनाच्च अंशत्वं सिद्धम् । ‘एकवस्त्वेकवेशस्यैव अंशपदार्थत्वात् जीवस्य ब्रह्माशत्वपक्षेऽपि जीवगता दोषा प्रह्मयेण्व स्युः’ इति तु न शङ्कनीयम् । यथा प्रभादिविशिष्टस्य आदित्यादेः" प्रभादिः अपृथक्सिद्धविशेषणतया अंशः, यथा वा देहविशेष्टस्य जीवात्मनो देहोंऽशभूतः, एवं चिदचिद्विशष्टस्य ब्रह्मणो विशेषणतया अंशत्वस्यैव जीवात्मनि विवक्षितत्वात्, विशेषणभूतदेहगतानां दोषाणां जीवात्मनीव, विशेषणभूतजीवगतानां देषाणां विशेष्ये ब्रह्मणि अप्रसक्तेः ॥ शरीरात्मभावेन जगद्ब्रह्मणोः अंशांशित्वं, ‘‘यत्किञ्चित् सृज्यते येन सत्त्वजातेन वै द्विज । यस्य सृज्यस्य संभूतौ तत्सर्व वै हरेस्तनुः’’ इति श्रीविष्णुपुराणवचनादपि सिद्धम् ॥ एवं सर्वेषां जीवात्मनां ब्रह्मांशतायाः तुल्यत्वेऽपि ब्रह्मणक्षत्रिय वैश्यदिषु केषाचित् शास्त्रेषु वेदाध्ययनाभ्यनुज्ञा, केषांचिन्निषेधश्च तत्तज्जातीयशुच्यशुचिदेहसंबन्धनिबन्धनतया उपपद्यते । यथा अग्न्यादेः श्रोत्रियागारादिसंबन्धे उपादेयता, श्मशानादिसंबन्धे परिहार्यता तद्वत् ॥ किञ्च ‘अज्ञत्वावस्थापन्नं ब्रह्म जीवः, उपाध्युपहितं ब्रह्म जीवः’ इति पक्षद्वयेऽपि सुखदुःखप्रतिसन्धानतदप्रतिसन्धानव्यवस्थाया असिद्धिप्रसङ्गात्, ब्रह्मापृथक्सिद्धविशेषणतया तदंशत्वपक्ष एव युक्तः। एकस्मिन् शरीरे बाल्ये अनुभूतस्य सुखादेः यौवने प्रतिसन्धानं" तावत् अनुभवासिद्धम् । तत्र च आत्मैक्यमेव नियामकमास्थेयम् । ततश्च पक्षद्वयेऽपि आत्मन एकत्वात् नानाशरीरावच्छेदेन उत्पन्नानां" सुखदुःखादीनां सर्वस्मिन् शरीरे प्रतिसन्धानं स्यात् । तत्प्रतिसन्धानभावात् प्रतिशरिरं जीवात्मनां स्वरूपभेदः तेषामणुत्वं च अवश्याश्रयणीयम् । तथासति, कस्यचित् जीवात्मनः पूर्व तदनुभूतसुखदुःखप्रतिसन्धानं, कस्यचिन्नेति व्यवस्थोपपत्तेः ॥ ननु अज्ञत्वावस्थापन्नं ब्रह्म जीवः इति पक्षे अविद्यातिरोहितस्य प्रह्मणः अविद्यापरिकल्पितैः अपरमार्थैः परस्परभिन्नैरत्तःकरणरूपोपाधिभिः" संबन्धाभ्युपगमात् उपाधिभेदात् प्रतिसन्धानव्यवस्था उपपद्यत इति चेत्, मैवम्-प्रकाशस्वरूपस्य ब्रह्मणः स्वहूपतिरोधानतत्पूर्वकोपाधिसंबन्धसाधकहेतूनां" आभासत्वेन अभिमातासाधकत्वात्, अननुभवितॄणां उपाधीनां भेदेऽपि अनुभवितुरात्मन ऐक्यात् प्रतिसन्धानापत्तेः दुर्वारत्वाच्च । पारमार्थिकोपाध्युपहितं" ब्रह्म जीव इति पक्षेऽप्ययं दोषः समानः । तत्पक्षे पारमार्थिकोपाधिभेदहेतुभूतादृष्टनियमात् प्रतिसन्धानव्यवस्था उपपद्यते इति तु न युक्तम्; तत्तदुपाधिहेतुभूतादृष्टानामाश्रयस्य आत्मनः एकत्वेन, अदृष्टानामपि नियमासिद्धेः । एतेन ‘तत्तदुपाधिहेतुभूतादृष्टजनकसङ्कल्पनियमात् व्यवस्था’ इत्यपि निरस्तम्; सङ्कल्पाद्याश्रयस्य आत्मन एकत्वेन अदृष्टानामपि नियमासिद्धेः ॥ ननु आत्मन एकत्वेऽपि तत्तदुपाध्यवच्छिन्नानां आत्मप्रदेशानां भेदात् सङ्कल्पादृष्टादिव्यवस्थया प्रतिसन्धानव्यवस्था उपपद्यत इति चेन्नअन्तःकरणरूपाणामुपाधीनां सञ्चरणस्वभावत्वेन तत्र तत्र गमनदशायां सर्वैः ब्रह्मप्रदेशौस्संबन्धेन अन्तःकरणरूपावच्छेदकभेदेन जीवभेदस्यैवासिद्धेः, उपाधिभेदेऽप्युपहितस्य आत्मन ेकत्वेन जीवगतानामपुरुषार्थानां ब्रह्मणि प्रसङ्गस्य दुर्वारत्वाच्च । अतः" चिदचिद्विशिष्टे ब्रह्मणि विशेषणतया अंशोजीव इत्येव युक्तं इति सिद्धम् ॥ तदेवं तृतीयपादे वियदादेरचेतनस्य ब्रह्मणः सकाशात् साक्षादुत्पत्तिमत्तया ब्रह्मकार्यत्वं, चेतनस्य तु तदीयधर्मभूतज्ञानस्य सङ्कोचविकासरूपविकारवत्तया तद््द्वारा ब्रह्मकार्यत्वं चोपपदितम् । चेतनस्य ज्ञातृत्वं, कर्तृत्वं, भोक्तृत्वं च परमार्थिकमिति व्यवस्थापितम् । अणुत्वमहत्वरूपत्त्वाभाविकपरिमाणभेदेन, नियन्तृनियाम्यभावेन, अपृथक्सिद्धविशेषणविशेष्यभावेन च. गुहासूत्रोक्तं जीवात्मपरमात्मनोर्भेदस्य निरुपाधिकत्वं दृढीकृतं इति ॥ 60 ॥ इति अंशाधिकरणम् ॥ 7 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य कलाप्रपूर्णस्य श्रीदेशिकाचार्यस्य कृतिषु शरीरकाधिकरणरत्नमालाप्रकाशे द्वितीयाध्यायस्य तृतीयः पादः ॥