मन्वाद्याप्तबहुस्मृत्युपबृंहितवेदमौलिसिद्धतया ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 38 ॥
1 ॥ स्मृत्यधिकरणम् ॥ 1 ॥ प्रथमेऽध्याये जगत्कारणत्वेन वेदान्तप्रतिपाद्यं चिदचिद्वलक्षणं श्रीनिवासाख्यं परं ब्रह्मेति व्यवस्थापितम् । चिदचिद्विलक्षणस्य ब्रह्मणो जगत्कारणतां स्थूपानिखननन्यायेन दृढीकर्तुं तत्पक्षे संभावितसर्वप्रकारदोषपरिहाराय द्वितीयोऽध्याय आरभ्यते ॥ तत्र प्रथमे पादे साङ्ख्यादिभिरुद्भाविता दोषाः परिह्रियन्ते । प्रथमेऽध्याये चतुर्थपादे निरीश्वरसांख्यः सेश्वरसांख्यश्च श्रुतिवाक्यतात्यर्यविवरणेन निरस्तौ । तत्र निरीश्वरसांख्यस्य कपिलस्मृतिविरोधोद््घाटनेन प्रत्यवस्थाननिराकरणाय प्रवृत्तमिदमधिकरणम् ॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चैन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ 2-1-1 ॥ [इतरेषां चानुपलब्धेः ॥ 1 ॥] ‘चिदचिद्विलक्षणस्य ब्रह्मणः कारणत्वाङ्गीकारे, कपिलस्मृतेः निरवकाशत्वं स्यात् इति चेत्’ इत्यन्तेन आशङ्क्य, परिह्रियते ‘न’ इत्यादिना । ‘स्वतन्त्रप्रधानकारणत्वाङ्गकारे अन्यासां मन्वादिस्मृतीनां निरवकाशत्वरूपदोषप्रसः । अतः उक्तशङ्का न युक्ता’ इति सूत्रार्थः ॥ मन्वाद्याप्तबहुस्मृत्युपबृंहितवेदमौलिसिद्धतया । यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 38 ॥ अर्थः । मन्वादीनामाप्तानां; आप्तत्वं च यथावस्थितवस्थुसाक्षात्कर्तृत्वे सति यथादृष्टार्थवादित्वं; तद्वतां इत्यर्थः । बहूनां" स्मृतिभिः वेदान्तार्थविशदीकरणैदम्पर्येण प्रवृत्तैर्ग्रन्थैः, उपबृंहिताः विशदीकृताः याः, वेदमौलयः-उपनिषदः, तत्सिद्धतया, यद्धेतुत्वं-यस्य श्रीनिवासापरनामधेयस्य ब्रह्मणः, हेतुत्वं-जगत्कारणत्वं, अयाल्यं-अन्यथयितुमशक्यं, तद्ब्रह्म इति पूर्ववत् ॥ भावः । स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यैः मनुपराशारप्रभृतिभिः महर्षिभिः वेदान्तार्थविशदीकरणायैव प्रणीतस्मृतिसहकारेण वेदान्तवाक्यैर्निश्चिततया श्रीनिवासापरनामधेयस्य परस्य ब्रह्मणो जगत्कारणत्वं कपिलस्मृतिविरोधेन अप्रामाणिकत्वशङ्कास्पदं न भवति इति ।. पूर्वपक्षः । ‘‘सदेव सोम्य’’ इत्यादिवेदान्तवाक्यानां कि स्वतन्त्रप्रधानकारणत्वे, किं वा चिदचिद्विलक्षणब्रह्मकारणत्वे तात्पर्यमिति संशये, वेदान्तवाक्यतात्पर्यनिर्णयैदंपर्येण प्रवृत्तकपिलस्मृत्यनुसारेण तात्पर्यनिर्णय एव युक्तः ; अन्यथा तस्याः स्मृतेः सर्वथा अप्रामाण्यं" स्यात् । न चैष्टापत्तिः, वेदान्तेषु आप्तत्वेनाभिहितस्य कपिलमहर्षेः भ्रान्त्ययोगेन तत्प्रणीतस्मृतेरब्रामाण्यायोगात् । न चैवं" ब्रह्मकारणत्ववादिनीनां मन्वादिस्मृतिनां अप्रामाण्यप्रसङ्गस्य तुल्यतया कपिलस्मृत्यनुसारेण श्रुतितात्पर्यनिर्णयो न युक्त इति वाच्यम् । मन्वादिस्मृतीनां कर्मकाण्डोक्तकर्मविशदीकरणपरत्वेन प्रामाण्योपपत्तेः । कपिलस्मृतेस्तु ज्ञानकाण्डोक्ततत्तवविशदीकरणैदम्यर्येण प्रवृत्ततया, ब्रह्मकारणत्वाङ्गीकारे प्रधानकारणतावादिन्याः तस्या विषयान्तरालाभेन सर्वथा अप्रामाण्यप्रसङ्गः । अतः तस्या निरवकाशत्वप्रसङ्गपरिहाराय तदुक्तप्रधानकारणत्वा एव श्रुतेः तात्पर्यमास्थेयमितिः" सिद्धान्तः । वेदान्तवाक्यानां तात्पर्यनिर्णये, तत्तात्पर्यनिर्णयाय प्रवृत्तस्मृत्यपेक्षाया आवश्यकत्वेऽपि, स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यमनुपराशराद्यनेकाप्ततममहर्षिप्रणीतस्मृत्यनुसारेण वेदान्तवाक्यतात्पर्यनिर्णय एव न्याय्यः; न त्वेकस्य मन्वाद्यनुपलब्धस्वतन्त्रप्रधानकारणतावादिनः कपिलस्य महर्षेः स्मृत्यनुसारेण । कपिलस्मृतेः मन्वादिस्मृतीनां च परस्परविरोधे, ‘भूयसांस्याद्बलीयस्त्वं’ इति न्यायेन मन्वादिस्मृतीनां च परस्परविरोधे, ‘भूयसांस्याद्बलीयस्त्वं’ इति न्यायेन मन्वादिस्मृतीनां बलीयस्तया तद्विरोधेन कपिलस्मृतेः भ्रान्तिमूलत्वनिर्णयात् । मन्वादिस्मृतिषु श्रीनिवासापरनामधेयब्रह्मणो जगत्कारणत्वं प्रतिपाद्यते । यथा विष्णुपुराणे, ‘‘विष्णोः सकाशादुद्भतं जगत् तत्रैव च स्थितं । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥’’ इति । इवं मनवादिस्मृतिष्वपि द्रष्टव्यम् ॥ 36 ॥ इति स्मृत्यधिकरणम् ॥ 1 ॥
2 ॥ योगप्रत्युक्त्यधिकरणम् ॥ 2 ॥ कापिलस्मृतेः भ्रान्तिमूलकत्वसंभवेऽपि वेदान्तप्रवचनाधिकृतहिरण्यगर्भप्रणीतयोगस्मृतेः भ्रान्तिमूलकत्वासंभवात्, तया वेदान्तोपबृंहणमेव न्याय्यं इत्याशङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ एतेन योगः प्रत्युक्तः ॥ 2-1-3 ॥ एतेन-सांख्यस्मृतिनिराकरणेन योगस्मृतिरपि निराकृता इति सूत्रार्थः । तुल्यन्यायेन हिरण्यगर्भप्रणीतायाः स्मृतेरपि दत्तोत्तरत्वात् मूले पृथक्तदनुक्तिः ॥ भावः । हिरण्यगर्भस्य वेदान्तप्रवचनाधिकृतत्वेऽपि, तेन ईश्वराभ्युपगमेऽपि, अब्रह्मात्मकप्रधानकारणत्वाभ्युपगमेन ईश्वरस्य निमित्तकारणतामात्राभ्युपगमेन च प्रस्फुठवेदान्तार्थविरुद्धवादितया, तत्प्रणीतस्मृतेरपि भ्रान्तिमूलकत्वनिर्णयेन तत्पणीतस्मृत्या श्रीनिवासापरनामधेयस्य ब्रह्मणः" कारणत्वं न विचालयितुं शक्यमिति ॥ 37 ॥ इति योगप्रत्युक्त्यधिकरणम् ॥ 2 ॥
*द्रव्यैक्यमेव नियतं प्रकृतिविकृत्योर्न साजात्यम् ।
चिदचित्-शरीरकस्य ब्रह्मण एवात्र हेतुकार्यत्वात् ॥ 39 ॥
अन्तर्यामिब्राह्मणसिद्धत्वाद्देहदेहिभावस्य ।
अपृथक्सिद्धे जगति ब्रह्म प्रति देहलक्ष्मसत्वाच्च ॥ 40 ॥
देहगतावस्थानां देहिन्यात्मन्यनन्वयाच्चापि ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 41 ॥
3 ॥ विलक्षणत्वाधिकरणम् ॥ 3 ॥ मन्वादिस्मृतीनां तर्कविरुद्धतया तत्कर्तॄणां शतान्धन्यायेन भूयस्त्वमकिञ्चित्करम् । कपिलस्मृतेस्तु तर्कानुगृहीततया वेदान्तवाक्यतात्पर्यनिर्णये सैवाऽऽश्रयणीयेति निरीश्वरसांख्यस्य आक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ 2-1-4 ॥ [अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ 5 ॥] इदं पूर्वपक्षसूत्रम् । अस्य-सत्त्वादिगुणत्रयमयस्य चिन्मिश्रस्य अचित्प्रपञ्चस्य, विलक्षणत्वात्-विजातीयद्रव्यत्वात्, न-ब्रह्मोपादानकत्वं" न संभवतीत्यर्थः । तथात्वं-विजातीयद्रव्यत्वं, शब्दात्-श्रुतेः च अवगम्यते ‘च’ शब्देन प्रत्यक्षादिकं समुच्चीयते इति सूत्रार्थः" ॥ भावः । ‘यत् यत्कार्यं, तत् तत्सजातीयं’ इति व्याप्तिः मृत्कार्ये घटादौ सुवर्णकार्ये कटकादौ च दृष्टा । प्रकृते चिदचिद्रूपप्रपञ्चस्य ब्रह्मसजातीयत्वं न संभवति, चेतनस्य असर्वज्ञत्वात् दुःखित्वाद्यभावात् ज्ञानस्वरूपत्वात् निर्विकारत्वाच्च । तदिदं जगद्ब्रह्मणोर्वैलक्षण्यं" ‘‘सत्यं ज्ञानमनन्तं ब्रह्म,’’ ‘‘विज्ञानं चाविज्ञानं च,’’ ‘‘ज्ञाज्ञौ द्वावजावीशनीशौ,’’ ‘‘समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः,‘‘‘‘यः सर्वज्ञः सर्ववित्’’ इत्यादि श्रुतिसिध्धम् । ‘‘तं पृथिव्यब्रवीत्,’’ ‘‘आपो वा अकामयन्त’’ इत्यादिषु पृथिव्यादिशब्दैः" तत्तदभिमानिदेवतानामेव विवक्षितत्वात्, न तादृशश्रुतिबलात् जडानां चैतन्यगुणसिद्धिः । अतो ब्रह्मविजातीयस्यास्य जगतो ब्रह्मोपादानकत्वं" न संभवति । प्रधानं तु गुणत्रयमयत्वाचेतनत्वविकारित्वादिभिः तथाविधजगत्सजातीयम् । अतस्तदेव जगतुपादानं भवितुमर्हतीति तर्कानुगुहीतत्वात्, प्रधानकारणतावादिकपिलस्मृतिः प्रबला । मन्वादिस्मृतयस्तु तर्कविरुद्धब्रह्मकारणतावादित्वात् दुर्बलाः । अतः कपिलस्मृत्यनुसारेणैव उपनिषत्तात्पर्यस्य निर्णेतव्यतया ब्रह्मणो जगदुपानत्वमप्रामाणिकमेव इति ॥ अत्र सिद्धान्तसूत्रम् । दृश्यते तु ॥ 2-1-6 ॥ [असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ 7 ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ 8 ॥ न तु दृष्टानतभावात् ॥ 9 ॥ स्वपक्षदोषाच्च ॥ 10 ॥ तर्काप्रतिष्ठानादपि ॥ 11 ॥ अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ 12 ॥] तु शब्दः पूर्वपक्षव्यावर्तकः । विलक्षणयोरप्युपादानोपादेयभावो दृश्यते । अतः सजातीययोरेव कार्यकारणभाव इति न नियमः इति सूत्रार्थः । उक्तसूत्रभृतिसिद्धान्तसूत्रार्थसङ्ग्राहकाणीमनि पद्यानि । द्रव्यैक्यमेव नियतं प्रकृतिविकृत्योर्न साजात्यं । चिदचिच्छरीरकस्य ब्रह्मण एवात्र हेतुकार्यत्वात् ॥ 39 ॥ अन्तर्यामिब्राह्मणसिद्धत्वद्देहदेहिभावस्य । अपृथक्सिद्धे जगति ब्रह्म प्रति देहलक्ष्मसच्वाच्च ॥ 40 ॥ देहगतावस्थानां देहिन्यात्मन्यनन्वयाच्चापि । चद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 41 ॥ अर्थः । प्रकृतिविकृत्योः उपादानोपादेययोः साजात्यं न नियतं, व्यभिचारात्; अपि तु एकद्रव्यत्वमेव नियतम् । ततश्च अत्र ब्रह्मकारणतावादिमते चिदचिच्छरीरकस्य एकस्य ब्रह्मण एव हेतुकार्यत्वात् हेतुश्च कार्यं च हेतुकार्ये, तयोर्भावस्तत्त्वं तस्मात्, कार्यकारणभावापन्नत्वात् इत्यर्थः । चिदचितोर्ब्रह्मणश्च शरीरशरीरिभावस्य अन्तर्यामिब्राह्मणे प्रतिपादितत्वेन प्रामाणिकत्वात्, ब्रह्मापृथक्सिद्धविशेषणभूते चिदचिदात्मके जगति ब्रह्मशरीरलक्षणसत्त्वात्, शरीरगतदोषाणां आत्मनि असंस्पर्शस्य लोके दृष्टत्वाच्च यस्य श्रीनिवासनाम्नो ब्रह्मणो हेतुत्वं जगदुपादानकारणत्वं तक्रैश्चलयितुं न शक्यं, तद्ब्रह्मेति पूर्ववत् ॥ भावः । कार्यकारणयेरेकजातीयत्वनियमो न संभवति, गोमयकार्यवृश्चिकादौ व्यभिचारात् । तदेवेदमिति कारणवस्तुप्रत्यभिज्ञापकाकारेण हि सांजात्यं भवता वक्तव्यम् । येन केनचिदाकारेण साजात्यस्यातिप्रक्ततया अप्रयोजकत्वात् । ततश्च गोमयकार्ये वृश्चिके गोमयमिदमिति प्रत्यमिज्ञापकाकारविरहेण उक्तनियमस्य व्यभिचारो दुर्वारः । कार्यकारणयोरेकद्रव्यत्वं परमावश्यकं; अन्यथा असत्कार्यवादप्रसङ्गात् । तत्तु प्रकृतेऽप्यस्त्येव । ब्रह्मण एकस्यैव सूक्ष्मावस्थामन्नचिदाचिच्छररिकत्वेन कारणत्वं, स्थूलावस्थापन्नचिदचिच्छरीरकत्वेन कार्यत्वमिति शरीरगतावस्थाभेदेन कार्यकारणभावोपपत्तेः । यद्यपि कार्यकारणयोरेकजातीयत्वनियमेऽपि प्रकृते न काऽपि क्षतिः, ब्रह्मण एव कार्यत्वात् कारणत्वाच्च, तथाऽपि वस्तुस्थितिमनुरुध्यतयोः" साजात्यनियमनिराकरणम् । जगद्ब्रह्मणोः शरीरशरीरिभावश्च अन्तर्यामिब्राह्मणे सुबारोपनिषदि च स्पष्टमुक्तः । तच्चेतनं प्रति अपृथक्सिद्धविशेषणद्रप्यत्वं, तदवस्थापन्नस्य तं चेतनं प्रति शरीरत्वम् । अस्ति चेदं लक्षणं संप्रतिपन्ने चैत्रादिशरीरे शरीरत्वावस्थापन्नस्य तद्द्रव्यस्य चैत्रात्मानं प्रति अपृथक्सिद्धविशेषणत्वात् । तच्च अपृथक्सिद्धविशेषणत्वं तदात्मसंबन्धसत्तादशायां तय्यरीरसत्तायाः, तदपगमे शरीरत्वावस्थापगमस्य च दर्शनादवसीयते । प्रकृते चिदचिदात्मकस्य प्रपञ्चस्य ब्रह्मापृथक्सिद्धविशेषणत्वं ’’ न तदस्ति विना यत् स्यात् मया भूतं चराचरं’’ इत्याद्यध्यात्मशास्त्रसिद्धम् । अत उक्तलक्षणसत्त्वात् जगतो ब्रह्मशरीरत्वमुपपन्नम् । शरीरगतकृशत्वस्थूलत्वाद्यवस्थानां आत्मनीव ब्रह्मशरीरभूतजगद्रतविकारित्वदुःखित्वादीनां ब्रह्मण्यनन्वयात् तस्य निर्विकारत्वमपि उपपन्नम् ॥ अतो जगद्ब्रह्मणोः सालक्षण्याभाव-द्रव्यैक्यविरह-जगच्छरीरकत्वासंभव-सविकारत्वप्रसङ्गरूपतर्कैः ब्रह्मकारणतावादस्य चालयितुमशक्यत्वात्, स्वतन्त्रप्रधानकारणतावादस्य उत्तरत्र दू षयिष्यमाणत्वात्, केवलतर्काणां परस्परमुत्तरोत्तरतर्कैश्च प्रतिघातेन अप्रतिष्ठिततया केवलतर्कमूलप्रधानकारणतावादस्य अयुक्तत्वाच्च श्रीनिवासापरनामधेयस्य ब्रह्मणः श्रुतिसिद्धं कारणत्वं सुस्थिरमिति ॥ 38 ॥ इति विलक्षणत्वाधिकरणम् ॥ 3 ॥
कणभक्षादिमतानामन्योन्यं व्याहतत्वेन ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 42 ॥
4 ॥ शिष्टापरिग्रहाधिकरणम् ॥ 4 ॥ प्रधानकारणतावादिन एकस्य सांख्यस्य अप्रतिष्ठितेन तर्केण ब्रह्मकारणतावादस्य अविचाल्यत्वेऽपि, परमाणुकारणतावादिनां कणादगौतमसुगतार्हतादीनां" बहूनां परमाणुकारणतानिर्णायकतर्कैः ब्रह्मकारणतावादः चालयितुं शक्य एव इत्याक्षेपपरिहाराय प्रवृत्तमिदं अधिकरणम् ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ 2-1-13 ॥ एतेन-सांख्यपक्षनिराकरणेन, शिष्टाः-अवशिष्टाः, अपरिग्रहाः-वेदेन अपरिगृहीताः कणादादिपक्षाः, व्याख्यताः-निरस्ताः इत्यर्थः ॥ कणभक्षादिमतानामन्योन्यं व्याहतत्वेन । यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 42 ॥ स्पष्टोऽर्थः । भोवः । कणादप्रभृतीनां परमाणुकारणतायां विवादभावेऽपि परमाणुस्वरुपे नित्यत्वानित्यत्वादिबहुतरविवाददर्शनेन एकविधपरमाणुकारणतावादस्यप्रतिष्ठितत्वेन, तेन ‘‘सदेव सोम्य इदमग्र आसीत्’’ इत्यादिश्रुतिसिद्धं श्रीनिवासापरनामधेयस्य ब्रह्मणो जगदुपादानत्वं चालयितुं न शक्यमिति ॥ 39 ॥ इति शिष्टापरिग्रहाधिकरणम् ॥ 4 ॥ ॥ 5 भोक्त्रापच्यधिकरणम् ॥ 5 ॥ अनन्तरपूर्वधिकरणे चिदचिच्छरीरकस्य ब्रह्ममः जगत्कारणत्वेऽपि शरीरभूतचिदचिद्रतदुःखित्वाविकारित्वादिदोषाः शरीरगतकृशत्वस्थूलत्वादयो जीवात्मनीव परमात्मनि न संबध्यन्त इत्युक्तम् । तेन शरीरं प्रति जीवस्यंव, जगत्रूपशरीरं प्रति परमात्मनः स्वामित्वलाभाच्छरीरस्वाम्यमवलम्ब्य सांख्यस्य प्रत्यवस्थानप्रतिक्षेपार्थ प्रवृत्तमिदमधिकरणम् ॥ भोक्त्रापत्तेरविभागश्वेत् स्याल्लोकवत् ॥ 2-1-14 ॥ भोक्त्रावत्तेः- सुखदुःखभोक्तृत्वापत्तेः, अविभागः- जीवेश्वरयोर्विभागाभावः प्रसज्यते इति चेत् इत्यन्तमाक्षेपप्रकारः । तं परिहरति स्यात् इति । भोक्त्रभोक्तृव्यवस्थोपपत्त्या जीवेश्वरविभागः स्यदिव । लोकवत् लोके शास्यशमकयोः भोक्त्रभोक्तृव्यवस्थावत् ॥ कर्मकृतभोक्तृताया अकर्मवश्ये प्रसक्त्यभावेन । यद्धेतुत्वमयाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 43 ॥ स्पष्टोऽर्थः । पूर्वपक्षः । जीवस्येवेश्चरस्य शरीरवत्त्वाभ्युपगमे, शरीरसंबन्धस्य सुखदुःखभोगप्रयोजकतया जीवस्येवेश्चरस्य सुखदुःखभोक्तृत्वं स्यात् । ततश्च जीवः सुखदुःखभोक्ता नेश्वर इति जीवेश्वरविभागो न सिद्ध्येत् । ततश्च ब्रह्मकारणतावादे ब्रह्मणः शरीरवत्त्वानभयुपगमे, निर्विकारस्य तस्य जगत्कारणत्वानुपपत्तिः । शरीरवत्त्वाभ्युपगमे च जीवेश्वरविभागासिद्धिः । अतो ब्रह्मकारणतावादस्ययुक्ततया प्रधानकारणतावाद एव न्याय्य इति ॥ सिद्धान्तः । यथा शासकस्य राज्ञः शास्यस्य अपराधिनश्च शरीरवत्त्वसाम्येऽपि शास्यस्यापराधिन एव शासनातिलङ्घनप्रयुक्तं दुःखभोक्तृत्वं, न तु शासकस्य राज्ञः इति व्यवस्था लोके दृश्यते, तद्वदिहापि ईश्वराज्ञातिलङ्घनरूपकर्मप्रयुक्तं जीवस्य सुखदुःखभोक्तृत्वं, न तु शासकस्य ईश्वरस्य इति सुखदुःखभोक्तृत्वतदभावव्यवस्था उपपद्यत एव । सुखदुःखभोक्तृत्वस्य शरीरस्वाम्यप्रयुक्तत्वे हि ईश्वरस्य जीवस्येव सुखदुःखभोक्तृत्वापत्तिः । जीवस्य सुखदुःखभोक्तृत्वं न शरीरस्वाम्यप्रयुक्तं, अपि तु कर्मप्रयुक्तम् । ‘‘न ह वै सशरीरस्य सतः" प्रियाप्रिययोरपहतिरस्ति’’ इति श्रुतिस्तु कर्मकृतदेहसंबन्धाभिप्राया । अत एव हि ‘‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । त्योरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति’’ इति श्रुतौ जीवेश्वरयोः द्वयोः एकशरीरसंबन्धे समानेऽपि जीवस्यैव सुखदुःखभोक्तृत्वं, नेश्वरस्य इत्युक्तिरुपपद्यते । शरीरसंबन्धस्य दुःखभोक्तृत्वप्रयोजकत्वाभावे कर्मणः शरीररूपद्वारस्यानपेक्षणीयतापत्त्या शरीरसंबन्धस्य सुखदुःखभोक्तृत्वप्रयोजकत्वमवश्यमाश्रयणीयं इत्याक्षेपस्तु ‘‘न स्थानतोऽपि’’ इत्यधिकरणे परिहरिष्यते । ईश्वरस्योपासकानुग्रहाय तच्छरीरावस्थानेवा शरीरस्वाम्ये वा हेयभूतजीवशरीरसंबन्धे वा नापुरुषार्थसंबन्धः । तस्य नित्यातिरोहितया स्वस्मिन्नपुरुषार्थासंस्पर्शावहशक्त्या नापुरुषार्थसंबन्धगन्धइति ‘‘द्वा सुपर्णा’’ इत्याद्युदाहृतया मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डस्थया श्रुत्या प्रतिपादनात् । तस्याश्च द्वितीयमुण्डके प्रथमखण्डद्वितीयखण्डयोः ‘‘दिव्यो ह्यमूर्तः पुरुषः’’ ‘‘अमृतस्यैष सेतुः’’ इत्यादिना प्रकृतपरमपुरुषपिषयत्वात्, तस्य च परमपुरुषस्य श्रीनिवासापरनामधेयनारायणरूपताया अदृश्यत्वादिगुणकाधिकरणादिषु निर्णीतत्वात्, तथाविधब्रह्मकारमतावादे भोक्तृत्वापत्त्यादितर्काणामनवतारेण श्रीनिवासाख्यब्रह्मकारणतावादः चालयितुं न शक्य इति ॥ 40 ॥ इति भोक्रापत्याधिकरणम् ॥ 5 ॥
कर्मकृतभोक्तृतया अकर्मवश्ये प्रसक्त्यभावेन ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 43 ॥
6 ॥ आरम्भणाधिकरणम् ॥ 6 ॥ विलक्षणत्वाधिकरणे कार्यकारणयोः जगद्ब्रह्मणोः अनन्यत्वमाश्रित्य ब्रह्मणो जगत्कारणत्वं स्थापितम् । तदेव कार्यकारणयोरनन्यत्वं" वैशेषिकाक्षेपपरिहारेण साधयितुं प्रवृत्तमिदमधिकरणम् ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ 2-1-15 ॥ [भावे चोपलब्धेः ॥ 16 ॥ सत्त्वाच्चापरस्य ॥ 17 ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च ॥ 18 ॥ पटवच्च ॥ 19 ॥ यथा य प्राणादिः ॥ 20 ॥] जगत इत्यध्याहार्यम् । कार्यस्य जगतः तस्मात्-परमकारणात् ब्रह्मणो अनन्यत्वं-अभिन्नत्वं, आरम्भणशब्दादिभ्यः-अनन्यत्वोपपादकेभ्यः अवगम्यत इति सूत्रार्थः ॥ श्रुतिभिरुपपादितत्वात् प्रकृतिविकृत्योरभेदस्य । यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम् भजे ॥ 44 ॥ अर्थः । प्रकृतिविकृत्योः उपादानोपादेययोः जगद्ब्रह्मणोः, अभेदस्यएक्यस्य, श्रुतिभिः- ‘‘वाचारभणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’’ इति दृष्टान्तविषयश्रुत्या, ‘‘सदेव सोम्येदमग्र आसीत्….तद्रैक्षत बहुस्यां प्रजायेयेति’’ इत्यादिदार्ष्टान्तिकविषयश्रुतिभिश्च, उपपादितत्वेन, यस्य-श्रीनिवासापरनामधेयस्य ब्रह्मणः जगदुपादानकारणत्वं, अयाल्यंचालयितुमशक्यं, तद्ब्रह्मेति पूर्ववत् ॥ भावः । अत्र ‘‘तदैक्षत बहु स्यां प्रजायेय’’ इति बहुभवनसङ्कल्पकर्त्रीदेवता श्रीनिवासापरनामधेयनारायणाख्यदेवताविशेष एवेति पूर्वं" ईक्षत्यधिकरणे निर्णीतमिति ॥ पूर्वपक्षः । संज्ञाभेदात, आकारभेदात, कार्यभेदात्, कालभेदात, काराकव्यापारवैयर्थ्यापत्तेश्च उपादानोपादेययोः एक्यं न संभवति । न हि ‘घटो मृत्पिण्ड’ इति, न वा ‘मृत्पिण्डो घट’ इति व्यवाह्रियते । अतः संज्ञाभेदस्तावत्सिद्धः । ‘घटः पृथुबुध्रोदराकारः, पिण्डस्तु अन्याकार’ इत्याकारभेदः" । घटेनोदकमाह्रियते, न पिण्डेन इति कार्यभेदः । पूर्वं मृत्पिण्डः, पश्चाच्च घट इति कालभेदः । एवं कार्यकारणयोरैक्ये, कार्यस्य घटस्य पूर्वमेव स्थितत्वात् घटोत्पादनार्थकुलालादिव्यापारवैयर्थ्यप्रसङ्गश्च । अतः कार्यकारणयोरैक्यासंभवात् ब्रह्मकार्यं जगत् ब्रह्मणः अन्यदेव इति ॥ सिद्धान्तः । छान्दोग्ये सद्विद्याप्रकरणे, ‘‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति’’ इत्यादिना मृत्पिण्डघटादिदृष्टान्तेन जगद्ब्रह्मणोः" कार्यकारणयोरैक्यं प्रतिज्ञाय, दृष्टान्ते मृत्पिण्डघटादौ उपादानोपादेययोः मृत्पिण्डघटयोः ‘‘वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’’ इत्यनेनैक्यमुपपादितम् ॥ विकारः-घटत्वशरावत्वादिरूपावस्था, नामधेयं-‘घटः शराव’ इत्यादि नाम च, वाचा-अत्र वाक्छब्दस्य अजहल्लक्षणया व्याहारव्यवहारोभयमर्थः" । व्याहारः-‘अयं घटः,‘‘अयं शरावः’ इति शब्दोच्चारणं; व्यवहारः-उदकाहरणादिव्यापारः । ‘वाचा’ इत्यत्र तृतीयाया हेतुत्वमर्थः; तच्च हेतुत्वं प्रयोजनविधया । ततश्च ‘वाचा’ त्यास्य व्याहारव्यवहारोभयार्थमित्यर्थः फलितः । आरंभणं-आरभ्यते-आलभ्यते, स्पृशयते इत्यारंभणं; कर्मणि ल्युडन्तमिदं; स्पृश्यते इत्यर्थ- । ‘‘आरंभः स्पर्शहिंसयोः’‘इत्यनुशासनात् उक्तार्थलाभः । अत्र ‘मृत्पिण्डेन’ इति पूर्ववाक्यादनुषज्यते । ततश्च ‘अयं घटः, अयं शरावः’ इत्यादिव्यवहारसिद्ध्यर्थं, उदकाहरणादिक्रियासाधनत्वसिद्ध्यर्थं" च, घटत्वशरावत्वाद्यवस्थां घटः शाराव इत्यादिनाम च मृत्पिण्ड एव भजते इत्यर्थः पर्यवसितः । ‘‘मृत्तिकेत्येव सत्यं’’ इति पूर्ववाक्यात् मृण्मयं इत्यनुषज्यते । तथा च ‘मृण्मयं घटशरावादि, मृत्तिकेत्येव-मृद्द्रव्यमित्येव, सत्यं-प्रामाशिकं, प्रत्यभिज्ञाप्रमाणसिद्धं’ इत्यर्थः । तथा च ‘मृदयं घटः, मृदयं शरावः’ इत्यादिप्रत्यभिज्ञाप्रत्यक्षेण मृद्घटयोः मृच्छरावयोश्च एकद्रव्यत्वसिद्ध्या मृत्कार्यं" घटशरावादि कारणभूतद्रव्यादनतिरिक्तं, कारणभूतं मृद्द्रव्यमेव घटशरावाद्याकारान्तरं प्राप्नोति । तत्प्राप्तिश्च ‘घटेनोदकमाहर’ इत्यादिलोकव्यवहारसिद्ध्यर्थं जलाहरणादिक्रियासाधनत्वसिद्ध्यर्थं च इत्युक्तं भवति । ्नेन कार्यकारणयोरेकद्रव्यत्वे प्रत्यभिज्ञाप्रत्यक्षं" प्रमाणमुक्तम् । अनेन मृत्पिण्डरूपमेकद्रव्यमेव रूपान्तरं तत्प्रयुक्तनामान्तरं च प्राप्नोति । अतो मृत्पिण्डघटयोः न भेद इत्युपपादितं" भवति ॥ इवं दार्ष्टान्तिकयोर्जगद्ब्रह्मणोरपि द्रव्यैक्यं ‘‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयं’’ इत्यादिना उत्तरग्रन्थेन उपपादितम् । अत्र हि ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यनेन जगतः प्रलयरूपकारणावस्था प्रतिपाद्यते । तत्र सच्छब्दार्थः सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं परं ब्रह्मेति पूर्वं ईक्षत्यधिकरणे निरूपितम् । ‘इदं सदासीत्’ इति सामानाधिकरण्येन तयोरैक्यं प्रतिपाद्य, अनन्तरं" ‘‘तदैक्षत, बहु स्यां प्रजायेयेति’’ इत्यादिना ब्रह्मण एव बहुभवनसङ्कल्पेन देवमनुष्यादिभेदभिन्नजगद्रूपताप्रप्तिः इति एकस्यैव ब्रह्मणः कार्यकारणरूपावस्थाद्वयप्राप्तिप्रतिपादनेन जगद्ब्रह्मणोरैक्यमुपपादितम् । अत्र च ‘निर्विकारस्य ब्रह्ममः न स्वरूपेण देवमनुष्यादिभेदभिन्नजगद्रूपताप्राप्तिः, अपि तु चेतनाचेतनरूपशरीरद्वारा बहुभवनमेव सङ्कल्पविषयः’ इति ‘‘सेयं देवतैक्षत हन्ताऽङमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मना अनुप्रविश्य नामरूपे व्याकरवाणि इति, जीवेनाऽऽत्मना अनुप्रविश्य नामरूपे व्याकरोत्’’ इत्युत्तरवाक्यद्वयेन अवसीयते । अत्र हि ब्रह्मणः तेजोजलपृथिवीषु जीवद्वारा अनुप्रवेशपूर्वकं नामरूपव्याकरणसङ्कल्पः, तथा नामरूपव्याकरणं चाभिधीयते । तत्र ताटस्थ्येन नामरूपव्याकरणे शक्येऽपि, अनुप्रवेशपूर्वकनामरूपव्याकरणस्य प्रयोजनान्तरादर्शनात् सृज्यमाननामरूपयोरचेतनद्वारा चेतने, तद््द्वारा स्वास्मिंश्च संबन्धसिद्ध्यर्थमेव तथा नामरूपयोः सृष्टिरिति प्रतीयते । ततश्च सृज्यमानदेवत्वमनुष्यत्वादिकार्यावस्थानां देवमनुष्यादिनाम्नां च ब्रह्मणः स्वानुप्रविष्टचेतनानुप्रविष्टाचेतनद्वारा स्वसंबन्धसिद्ध्या ब्रह्मैव परंपरया कार्यवस्थावत् नामरूपवच्च अभूदिति प्रतीत्या, देवमनुष्यादयः सर्वे कार्यवाचिनः शब्दाः देवत्वमनुष्यत्वाद्यावस्थाविशिष्टाचेतनवस्तुप्रविष्टचेतनवस्तुप्रविष्टब्रह्मवाचका इति ब्रह्मण उक्तपरंपरया बहुत्वरूपकार्यावस्थाप्राप्तिरिति च उपपादितं भवति । ‘‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयं’’ इत्यत्रापि एकत्वरूपकारणावस्थाप्राप्तिरप्युक्तपरंपरयैव इति निश्चीयते ॥ इत्थं च ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यत्र, कार्यावस्थजगद्वाचीदंशब्दः उक्तपरंपरया कार्यावस्थावद्ब्रह्मवाची । एवं सच्छब्दश्च उक्तपरंपरया कारणावस्थावद्ब्रह्मवाची ति सामानाधिकरण्येन तयोरैक्यं बोध्यत इति निश्चीयमानतया, ‘‘वाचारंभणं’’ इति दृष्टान्तविषयश्रुत्या ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिदार्ष्टान्तिकविषयश्रुत्या च, कार्यकारणयोः जगद्ब्रह्मणोः अनन्यत्वोपपादनात् तयोरैक्यमवगम्यते ॥ एवं ‘मृदयं घटः,’ ‘कुण्डलमिदं हिरण्ये’ इत्यादिप्रत्यभिज्ञाप्रत्यक्षेण, इदं घटशरावादि पूर्वाह्ने मृत्तिकैव आसीत्’ इति व्यवहारेण च, मृद््घटयोः सुवर्णकुण्डलयोश्च उपादानोपादेययोः एक्यसिद्धेः, एकस्यैव द्रव्यस्य अवस्थाभेदेन संज्ञान्तरादीनामुपपत्तेः कारकव्यापारस्य अवस्थान्तरापादनार्थत्वेन सार्थक्योपपत्तेश्च कारणादनतिरिक्तिमेव कार्यम् ॥ ननु ‘इदं घटशारावादिकं पूर्वाह्ने नासीत्’ इति घटादिकार्यस्य पूर्वमसत्त्वय्यपदेशात्, कार्यकारणयोरैक्यमनुपपन्नं; पूर्वह्ने सतः" कारणस्य तदानीं असतः कार्यस्य चैक्यायोगात् । एवं वेदेऽपि ‘‘इदं वा अग्रे नैव किञ्चनाऽऽसीत्,’’ ‘‘अमदेवेदमग्र आसीत्,’’ ‘‘असद्वा इदमग्र आसित्’’ इत्यादिषु कार्यस्य जगतः असत्त्वव्यपदेशादपि कार्यस्य कारणात् अनन्यत्वमनुपपन्नमिति चेत् । उच्यते-‘इदं घटशरावादिकं सर्वं पूर्वाह्ने मृत्कूटमेवासीत्’ इत्यपि प्रतीतिव्यवहारचोः लोके दर्शनेन घटशरावदीनां मृत्तिकात्वेन पूर्वमवस्थानसिद्ध्या ‘इदं" घटशरावादिकं पूर्वाङ्ने नासीत्’ इति व्यावहारो मृद्द्रव्यस्य घटत्वाद्यवस्थाऽभावविषयकः, न तु घटादेस्तुच्छत्वविषयक इत्यवश्यमभ्युपेयम् । अन्यथा पूर्वोक्तप्रतीतिव्यवहारविरेधप्रसङ्गात् । अत एकस्यैव मृद्द्रव्यस्य गृत्कूटत्वाद्याकारेणावस्थानं ‘इदं घटशरावादिकं पूर्वाह्ने मृत्कूटमेवासीत्’ िति व्यवहारस्य विषय इति द्वयोः अविरोधः । घटत्वाद्यवस्थाऽभावश्च मृत्कूटत्वाद्यावस्थैव, अतिरिक्तस्य अनुपलम्भात् । क्लृप्तेन भावरूपावस्थान्तरेणैव प्रतीतिव्यवहारयोरुपपत्तौ अतिरिक्ताभावकल्पने गौरवात् ॥ अत्रेदमवधेयम्-नित्यस्यैव द्रव्यस्य आकन्तुकैः तत्तदाकृतिविशेषयोगरूपैः अवस्थाविशेषैः असत्त्वाव्यवहाराः उत्पत्तिविनाशव्यवहाराश्च प्रवर्तन्ते । तद्यथा मृद्द्रव्यं पिण्डत्वाघटत्वकपालत्वाद्यावस्थाः क्रमेण प्राप्नोति । तत्र पूर्वपूर्वावस्थायामुत्तरीत्तरावस्थापन्नस्य असत्त्वं तस्यैव मृद्द्रव्यस्य पिण्डत्वावस्थापन्नतारूपम् । उत्तरोत्तरावस्थादशायां पूर्वपूर्वास्थापन्नस्य नाश उत्पत्तिश्च व्यवह्रियते यथा मृद्द्रव्यस्य घटत्वावस्थादशायां ‘पिण्डोनष्टः, आट उत्पन्नः’ इति । तत्र प्यवङ्रियमाणं पिण्डस्य नष्टत्वं तस्य घटत्वावस्थापत्तिरूपं; उत्पत्तिरपि आद्यक्षणावच्छिन्ना घटत्वावस्थैव । एवं तत्तदवस्थाभिरेव नित्यस्यैव द्रव्यस्य असत्त्वनाशोत्पत्तिव्यवहाराणां उपपत्तौ, उक्तव्यवहारबलात् तत्र तत्र नानाद्रव्यकल्पनं, पूर्वमसतां तेषां उत्पत्तिकल्पनं, तेषां प्रागभावप्रध्वंसाभावरूपपदार्थान्तरकल्पनं" इत्यादिकं मृद्द्रव्यस्य उत्तरोत्तरानुवृत्तिग्राहकप्रत्यभिज्ञाप्रत्यक्षविलोधात्, अनुपलम्भात्, प्रागभावप्रध्वेसाभावद्रव्यान्तरादिबहुतरकल्पनागौरवञ्च अनादरणीयमिति ॥ ‘‘इदं वा अग्रे नैव किञ्चनाऽऽसीत्’’ इत्यत्र तु ‘‘तदसदेव सन्मनोऽकुरुत’’ इति वाक्यशेषे पूर्वमसच्छब्दनिर्दिष्टस्य मनस्कारशब्दवाच्यसङ्कल्पश्रवणात्, पूर्वमपि तस्य सद्भावलाभात् कार्यावस्थावैशिष्ट्येन अभावः तादृशव्यवहारविष्यः । अन्यथा ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिव्यवहारविरोधप्रसङ्गात् । अनेन हि व्यवहारेण कार्यस्य जगतः पूर्वमपि सद्भावः प्रतीयते । ततश्च एकस्यैव ब्रह्मणो नामरूपशून्यत्वरूपकारणाकारेण सत्त्वं, ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिव्यवहारविषयः । नामरूपभाक्त्वरूपकार्याकारेणासत्त्वं ‘‘असदेवेदमग्र आसीत्’’ इत्यादिव्यवहारविषयः" । इदं च ‘‘तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत’’ इति श्रुत्यन्तरे स्पष्टम् । अत्र हि सृष्टेः प्राक्व्यपदिश्यमानमसत्त्वं" नामारूपशून्यत्वमात्रमिति स्फुटम् । अतः काराणभूतं ब्रह्मैव प्रागुक्तरीत्या अवस्थान्तरापन्नं कार्यमित्युच्यते । यथा कारमभूततन्तुसमुदाय एव परस्परसंयुक्तत्वावस्थां प्राप्तः पट इत्युच्यते; यथा च वायुरेक एव शरीरे अवस्थान्तरं प्राप्तः प्राणापानादिशब्देन व्यवाह्रियते, तद्वत्। न हि पटो नाम तन्तुसमुदायादतिरिक्तं द्रव्यम् । परस्परसंयुक्तैः तन्तुभिः पटाख्यद्रव्यान्तरोत्वादनाभ्युपगमे आरंभकतन्तुसमुदायगुरुत्वस्य आरब्धद्रव्यगतगुरुत्वस्य च, द्वयोरभ्युपगमस्य आवश्यकतया, तोलने गुरुत्वाधिक्योपलब्धिप्रसङ्ग इति ।. 41 ॥ इति आरम्भणाधिकरणम् ॥ 6 ॥
श्रुतिभिरुपपादितत्वात् प्रकृतिविकृत्योरभेदस्य ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 44 ॥
7 ॥ इतरव्यपदेशाधिकरणम् ॥ 7 ॥ एतावता ब्रह्मणो जगदुपादानत्वे सांख्यवैशेषिकाद्युक्ततर्कविरोधः परिहृतः । इदानीं ब्रह्मणो निमित्तकारणत्वे तर्कविरोधः परिह्रियते ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ 2-1-29 ॥ इदं पूर्वपक्षसूत्रम् । ब्रह्मणाः इतरव्यपदेशात्-इतरत्वव्यपदेशात्, जीवत्वव्यपदेशात् इत्यर्थः । हिताकरणं अहितकरणं चेति दोषद्वयं" प्रसज्यते इति सूत्रार्थः ॥ भावः । सद्विद्याप्रकरणे ‘‘तत्त्वमसि’’ इत्यादिश्रुतिभिः जीवब्रह्मणोरैक्यं प्रतिपाद्यते । ब्रह्मणः सर्वज्ञत्वं, सर्वशक्तित्वं, सत्यसङ्कल्पत्वं, चेत्यादयोगुणाः भवद्भिः अभ्युपगम्यन्ते । तथाविधस्य ब्रह्मणो जगत्स्रृष्टृत्वाङ्गीकारे स्वेष्टाकरणं स्वानिष्टकरणं" चेति दोषद्वयं प्रसज्यते । जगत् खलु आध्यात्मिकादिदुःखहेतुत्वात् जीवस्य प्रतिकूलं दृश्यते । ततश्च जीवानतिरिक्तस्य सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मणः ईदृशजगत्सृष्टिः स्वानिष्टसंपादनमेव । ततश्च सर्वज्ञस्य सर्वशक्तेस्तस्य स्वानुकूलजगदकरणं स्वप्रतिकूलजगत्करणं" चेति दोषद्वयं दुर्वारमिति आक्षेपप्रकारः । अक्ताक्षेपपरिहाराय प्रवृत्तमिदं सूत्रम्- अधिकं तु भेदनिर्देशात् ॥ 2-1-22 ॥ [अशम्दिवच्च तदनुपपत्तिः ॥ 23 ॥] अत्र ‘जीवात्’ इति, ‘ब्रह्म’ इति चाध्याहार्यम् । ‘तु’ शब्दः पूर्वपक्षव्यावृत्त्यर्थः । तथा च ब्रह्म, जीवात् अधिकं-अर्थान्तरं, भेदनिर्देशात्;- अत्र मेदपदं भेदकधर्माणां, भेदस्य च प्रदर्शकं; तदुभयनिर्देशात् अर्थान्तरत्वमवगम्यते इति सूत्रार्थः ॥ तत्त्वमसीत्यादीनामन्यपरत्वाज्जगत्स्रष्टुः । सृज्यस्य च जीवस्य स्वरूपभेदस्य दुष्प्रकम्पतया ॥ 45 ॥ जीवाहितकरणेऽपि स्वाहितकरणप्रसङ्गविलहेण । यद्धेतुत्वमचाल्यं तद्ब्रह्म घीनिवासनाम भजे ॥ 46 ॥ अर्थः । ‘‘तच्वमसि,’’ ‘‘अयमात्मा ब्रह्म’’ इत्यादिश्रुतिवाक्यानां जीवब्रह्मणोः शरीरात्मभावरूपतादात्म्यपरतया जगत्स्रष्टुः ब्रह्मणः" तत्सृज्यस्य च जीवस्य स्वरूपभेदस्य दुरपह्नवत्वात्, सृज्यस्य जीवस्य प्रतिकूलभूतजगत्करणेऽपि, ततोऽन्यस्य स्लष्टुः ब्रह्मणः" स्वप्रतिकूलकरणस्वानुकूलाकरणरूपदोषद्वयप्रसङ्गाभावात्, यस्य श्रीनिवासस्य हेतुत्वं-निमित्तकारणत्वं चालयितुमशक्यं, तद्ब्रह्मेति पूर्ववत् ॥ भावः । ‘‘ज्ञाज्ञौ द्वावजावीशनीशौ’’ इत्यादिषु जगत्स्रष्टुः ईश्वरस्य सर्वज्ञत्वं, जीवस्याल्पज्ञत्वं ‘‘द्वा सुपर्णा सयुजा सखाया’’ इत्यादिषु जीवस्य सुखदुःखादिकर्मफलभोक्तृत्वं, ब्रह्ममस्तु तदभोक्तृत्वं इत्यादिवैधर्म्याणां ‘‘तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः;’’ ‘‘पृथगात्मानं प्रेरितारं च मत्वा’’ इत्यादिषु साक्षात् भेदस्य च बहुशः प्रतिपादनात्, जीवब्रह्मणोर्भेदो दुरपह्नवः । ‘‘तत्त्वमसि’’ इत्यादिसामानाधिकरण्यनिर्देशस्तु ‘‘ऐतदात्म्यमिदं सर्वं’’ इत्यादिसामानाधिकरण्यनिर्देशवत् अन्यपरः" । तत्र हि ‘इदं सर्वं’ इति सर्वपदोक्तानां काष्ठलोष्टपाषाणादीनां ‘ऐतदात्म्यं’ इति श्रुतं ब्रह्मतादात्म्यं स्वरूपैक्यरूपं नोपपद्यते, जडाजडयोः स्वरूपैक्यायोगात् । अतः ‘‘स आत्मा’’ इत्यानन्तरवाक्यश्रुतशरीरात्मभावरूपं वाच्यम् । ‘‘स आत्मा’’ इत्यत्र हि पूर्वप्रस्तुतस्य तच्छब्दपमृष्टस्य ब्रह्मणः पूर्ववाक्ये ‘‘इदं सर्वं’’ इति निर्दिष्टं चिदचिदात्मकं सर्वं प्रति शरीरप्रतिसंबन्धित्वरूपमात्मत्वमुपदिश्य, ‘‘ऐतदात्म्यमिदं सर्वं’’ इति पूर्ववाक्योक्तं सर्वस्य ब्रह्मतादात्म्यं शरीरात्मभावरूपमिति विवृतम् । तद्वदेव ‘‘तत्त्वमसि’’ इतितदनन्तरवाक्ये श्रुतं जीवब्रह्मणोस्तादात्म्यपि शरीरात्मभावरूपमेव, हेयसंबन्धार्हतदनर्हयोः जीवब्रह्मणोः स्वरूपैक्यायोगात् । अतश्च जीवब्रह्मणोः" स्वरूपैक्यस्याप्रमाणिकत्वेन ब्रह्मणः स्वस्मादन्यस्य जीवस्य तत्तत्कर्मानुसारेण स्वसङ्कर्पेन तत्प्रतिकूलजगत्सृष्टावपि न स्वप्रतिकूलकरणदिदोषप्रसङ्ग" इति दिक् ॥ अत्र साद्विद्याया ‘‘तत्तेजोऽसृजत’’ इत्यत्र तच्चब्देन ‘‘सदेव सोम्येदमग्र आसीत्’’ इति पूर्ववाक्ये सच्चब्देन निर्दिष्टं ब्रह्म परामृश्य, तस्य जगत्स्रष्टृत्वरूपनिमित्तकारणत्वोक्त्या तस्य सच्चब्दवाच्यस्य ब्रह्मणः श्रीनिवासाख्यदेवताविशेषरूपताया ईक्षत्यधिकरणे निर्णीतत्वात्, अत्र ‘‘यद्धेतुत्वं’’ इति शीनिवासस्य निमित्तकारणत्वमुक्तम् ॥ 42 ॥ इति इतरव्यपदेशाधिकरणम् ॥ 7 ॥
तत्वमसीत्यादीनामन्यपरत्वाज्जगत्स्रष्टुः ।
सृज्यस्य च जीवस्य स्वरूपभेदस्य दुष्प्रकम्पतया ॥ 45 ॥
जीवाहितकरणेऽपि स्वाहितकरणसङ्गविरहेण ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 46॥
8 ॥ उपसंहारधिकरणम् ॥ 8 ॥ पूर्वाधिकरणे सत्यसङ्कल्पत्वादिभिः ब्रह्मणो जीवात् वैलक्षण्यमुपपादितम् । ब्रह्मणो जगत्सृष्टौ स्वसङ्कल्पमात्रपरिकरत्वमनुपपन्नं" इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ उपसंहारदर्शनान्नेति चेन्न क्षीरवाद्धि ॥ 2-1-24 ॥ उपसंहारदर्शनात् सहकारिकारणसंपादनदर्शनात्, न-असहकृतस्य ब्रह्मणः कारणत्वं नोपपद्यते इति चेत्, तत न; क्षीरवत्-क्षीरस्येव; असहकृतस्य ब्रह्मणः कारणत्वसंभवात् । हि इति प्रसिद्धिद्यातेकं; लोकप्रसिद्धं इति सूत्रार्थः ॥ असहकृतक्षीरादेर्दध्याद्यारंभदर्शनाल्लोके । सहकारिनियमविरहात् शक्तिमतां तेषु तेषु कार्येषु ॥ 47 ॥ सहकारमन्तरैवं जगदारंभस्य संभवात् प्रकृते । यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 48 ॥ स्पष्टोऽर्थः । भावः । यथा क्षीरं सहकार्यन्तरनैरपेक्ष्येण दध्यात्मना परिणामते एवं सर्वशक्तं ब्रह्मापि सङ्कल्पमात्रेण जगदात्मना परिणामत इति ब्रह्मकारणतावादे न कश्चित् दोषः । क्षीरस्याऽऽतञ्चनं तु रसविशेषोत्पादनाय, न तु दध्यात्मना परिणामाय इति न दृष्टान्तासिद्धिः" ॥ पूर्वपक्षः । लोके तत्तत्कार्यकरणशक्तानामपि कुलालादीनां दण्डचक्रादिसहकारिकारमसमवधान एव कार्योत्पादनदर्शनात् जगदारंभशक्तस्य सत्यमङ्कल्पस्यापि ब्रह्मणः सृष्ट्यादौ एकत्वावधारणेन सहकार्यभावस्य लाभात् असहकृतस्य जगदारंभकत्वं नोपपद्यत इति ॥ सिद्धान्तः । ‘कार्यकरणशक्तस्य सहकारिसमवधान एव कार्यरंभकत्वं, नान्यथा’ इति नियमस्य क्षीरादौ व्यभिचारात्, नायं नियमः । अपि च यथा देवानां" ऋष्यादीनां च शक्तिविशेषवतां सङ्कल्पमात्रेण स्वाभिमतार्थसद्धिः, तदूत् असहकृतस्यापि ब्रह्मणः सङ्गर्पमात्रेण जगदारंभकत्वमुपपन्नं" इति । श्रीनिवासस्योभयविधजगत्कारणतायाः प्रकृत्यधिकरणे निर्णीतत्वाभिप्रायेण अत्र ‘‘यद्धेतुत्वं’’ इत्युक्तम् ॥
असहकृतक्षीरादेर्दध्याद्यारंभदर्शनाल्लोके ।
सहकारिनियमविरहात् शक्तिमतां तेषु तेषु कार्येषु ॥47॥
सहकारमन्तरैवं जगदारंभस्य संभवात् प्रकृते ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 48 ॥
43 ॥ इत्युपसंहारदर्शनाधिकरणम् ॥ 8 ॥
धर्मिग्राहकमानात् यद्वस्तु यथैव सिद्ध्यति तथैव ।
तत्स्वीकार्यं सर्वैः ब्रह्मैकं निष्कलं च बहु भवति ॥ 49 ॥
*इत्यागमसिद्धेऽर्थे लौकिकचोद्यस्य निरवकाशत्वात् ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 50 ॥
9 ॥ कृत्स्नप्रसक्त्यधिकरणम् ॥ 9 ॥ पूर्वाधिकरणे क्षीरदृष्टान्तेन ब्रह्मणः सहकारिनैरवेक्ष्येण जगदारंभकत्वमुपपादितम् । तत्र दृष्टान्तवैषम्यशङ्कापरिहाराय प्रवृत्तमिदमाधिकरणम् ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ 2-1-26 ॥ इदं पूर्वपक्षसूत्रम् । ब्रह्मण इति प्रकरणसिद्धम् । निरवयवस्य ब्रह्मणो जगदात्मना परिणामे कृत्स्नस्य ब्रह्मणः कार्यभूतजगदात्मना परिणामप्रसङ्गः; एकदेशेन परिणामाभ्युपगमे तस्य निर्वयवत्वश्रुतिविरोधः । अतो ब्रह्मणः कारणत्वमनुपपन्नमिति सूत्रार्थः ॥ भावः । क्षीरदृष्टान्तेन ब्रह्मणो जगदारंभकत्वोपपादनमयुक्तं; ब्रह्मणः क्षीरवत् सावथवत्वे निरवयवत्वश्रुतिविरोधः; निरवयवत्वे कार्त्स्न्येन परिणामः स्यात् । ततश्च ब्रह्मणः कार्त्स्न्येनैककार्यात्मना परिणामे कार्यन्तरात्मना परिणामासंभवः । यद्यपि ब्रह्मणः" चिदचिद्रूपशरीरद्वारा परिणामस्य ‘‘न तु दृष्टान्तभावात्’’ इत्यत्रोक्तत्वात् नोक्तशङ्कावकाशः, तथाऽपि चिदचिद्विशिष्टस्य ब्रह्मणः" कारणत्वाङ्गीकारात् विशेष्यांशस्यापि विशेष्यांशात्मना परिणामस्याऽऽवश्यकतया निरवयवस्य तस्यैकस्मिन् कार्ये आत्मत्वेन पूर्णत्वे कार्यान्तरस्य निरात्मकत्वप्रसङ्गो दुर्वारः । अतो ब्रह्मकारणतावादो न युक्त इति ॥ उक्तशङ्कापरिहाराय प्रवृत्तमिदं सिद्धान्तसूत्रम्– श्रुतेस्तु शब्दमूलत्वात् ॥ 2-1-27 ॥ [आत्मनि चैवं विचित्राश्च हि ॥ 28 ॥ स्वपक्षदोषाच्च ॥ 29 ॥ सर्वोपेता च तद्दर्शनात् ॥ 30 ॥ विकरणत्वान्नेति चैत् तदुक्तम् ॥ 31 ॥] तु शब्दः पूर्वपक्षव्यावर्तकः । ब्रह्मणो निरवयवत्वस्य, कार्यात्मना बहुभवनस्य च श्रुतत्वात्, ब्रह्मणः शब्दैकसमधिगम्यत्वाच्च, नोक्तदोष इति सूत्रार्थः ॥ धर्मिग्राहकमानात् यद्वस्तु यथैव सिद्ध्यति तथैव । तत्स्वीकार्यं सर्वैः ब्रह्मैकं निष्कलं च बहु भवति ॥ 49 ॥ इत्यागमसिद्धेऽर्थे लौकिकचोद्यस्य निरवकाशत्वात् । यद्धेतुत्वमयाल्यं तद्ब्र्हम श्रीनिवासनाम भजे ॥ 50 ॥ अर्थः । येन प्रमाणेन यत् वस्तु यथा सिद्ध्यति तत्प्रमाणसिद्धं तद्वस्तु तथैवाङ्गीकार्यम् । प्रकृते ब्रह्म श्रुतिप्रमाणेनैकेन सिद्धम् । तच्च प्रमाणं ‘ब्रह्म निरवयवं बहु भवति’ इति चोपदिशत । अतः कथं निरवयवस्य ब्रह्मणो बहुधा भवनं नत्याक्षेपस्य नावकाशाः" । अतो ‘‘निष्कलं निष्क्रियं शान्तं’’ इत्यादिना निरवयवत्वेन प्रतिपादितस्य ब्रह्मणः श्रीनिवासस्य सद्विद्यायां बहुधाभवनस्य प्रतिपादितत्वात् तस्य कारणत्वं तर्कैश्चालयितुं न शक्यमिति ॥ भावः । लोके ययोर्धर्मयोः साहचर्यं नियमेन दृश्यते, तयोर्धर्मयोः श्रुत्येकसमधिगम्ये ब्रह्मणि एकस्य असद्भावे अनन्यथासिद्धश्रुतितः" सिद्धे तत्र ब्रह्मान्यत्वमन्तर्भाव्यैव व्याप्तिः कल्पनीया । प्रकृते ब्रह्मणो बहुभवितृत्वस्य निरवयवत्वस्य च श्रुतिसिद्धत्वात् ब्रह्मान्यस्यैव बहुभवितुः सावयवत्वं इत्येव व्याप्तिः कल्पनीया । अतः ‘सावयवत्वाभावात् ब्रह्मणो बहुभवितृत्वं न स्यात्’ इत्यापादनस्य नावकाशः । अत एव रूपसाक्षात्कारे जक्षुषः, शब्दसाक्षात्कारे श्रोत्रस्य च लोके नियमेनापेक्षादर्शनमात्रेण रूपसाक्षात्कर्तृत्वं" यस्य तस्य चक्षुष्मत्त्वं, शब्दसाक्षात्कर्तृत्वं यस्य तस्य श्रोत्रवत्त्वं इत्यादिव्याप्तिमाश्रित्य ब्रह्मणः चक्षुः-श्रोत्रयोरभावे, रूपशब्दसाङात्कारयोरसंभवेन चक्षुःश्रोत्रादिमत्तवं स्यादित्यापादनस्य नावकाशः, ‘‘पशयत्यचक्षुः स श्रृणोत्यकर्णः’’ इत्यादिश्रुतौ रूपशब्दसाक्षात्कर्तु ब्रहमणः चक्षुःश्रोत्राद्यभावश्रवणेन तादृशासामान्यव्वाप्त्यसिद्धेः ॥ न चैतावता लोके अन्धबधिरादेः रुपशब्दसाक्षात्कारादर्शनेन रूपशब्दयोः साङात्कारे चक्षुःश्रोत्रयोरपेक्षानियमस्याभावः, ब्रह्मान्यकर्तृकरूपादिसाक्षात्कारे चक्षुराद्यपेक्षानियमस्य कल्पनीयत्वात, अनन्यथासिद्धत्वस्य श्रुतौ विशेषणात् यद्बोधकश्रुतेरन्यथासिद्धिः तत्र तादृसक्षुतिपालात् ब्रह्मणो न तादृसधर्मवत्त्वसिद्धिः । अन्यथा भेदाभेदयोरपि विरुद्धत्वेन लोके दृष्टयोः, ब्रह्मणि तद्बोधकशुतिबलेन अङ्गीकारप्रसङ्गात्;तादृशश्रुतेः" अन्यथासिद्धत्वेन तद्बलात् न तत्र भेदभेदयोः समावेशप्रसङ्गः । किञ्च लोके दर्शनमात्रेण ब्रह्मणि कस्यचित् धर्मस्य प्रसञ्जने घटादौ दृष्टस्य जडत्वादेः क्षेत्रज्ञेऽपि प्रसञ्जनं सुकरम् । तदप्रसङ्गश्च क्षेत्रज्ञस्वभाववैचित्र्यात् इति परिहरणीयम् । तद्वदेव ब्रह्मण्यपि लोकविसजातीये विचित्रशक्तिमाति लोके दृष्टधर्मणां न प्रसङ्गः । अतो निरवयवस्यापि ब्रह्मणः प्रतिवस्तु आत्मत्वेन पूर्णतया अवस्थानं श्रुतिसिद्धं नानुपपन्नम्; प्रत्युत निरवयवमेकं प्रधानं" महदहङ्कारादिरूपेण अनेकधा परिणामत इति कल्पयतः सांख्यस्य पक्ष एव निरवयवस्यान्कधा परिणामासंभवदोषः प्रसज्यते । अस्मन्मते तु निरवयवस्यैकस्य ब्रह्मणो बहुभवनस्य धर्मिग्राहकप्रमाणसिद्धत्वेन विचित्रशक्तिमत्वस्य कल्पनीयतया नानुपपत्तिः ॥ न केवलं ‘‘बहु स्या’’ इति सङ्कल्पकर्त्र्याः परस्या देवताया विचित्रशक्तिमत्त्वस्य कल्पनीयता; ‘‘पराऽस्य शक्तिर्विविधैव श्रूयते’’ इत्यादिश्रुतिसिद्धा च विचित्रशक्तिमत्ता । करणकलेबररहितस्यापि लोकविसजादीयस्य ब्रह्मणो विचित्रशक्तिमत्त्वेनैव सङ्कल्पमात्रेण कार्यारंभोपपत्तेः न काऽप्यनुपपत्तिः । सद्विद्याप्रकरणे ‘‘तदैक्षत बहु स्यां प्रजायेय’’ इत्यत्र श्रुतस्य बहुभवनसङ्कल्पस्य, तथा बहुभवनस्य च श्रीनिवासाख्यदेवतापिशेषप्रत्यभिज्ञापकताया इक्षत्यधिकरणे निर्णीततया तदभिप्रायेण अत्र पद्ये यद्वेतुत्वं इत्युक्तमिति ॥ 44 ॥ इति कृत्स्नप्रसक्त्यधिकरणम् ॥ 9 ॥
लीलाप्रवृत्तसृष्टावसंभवान्निष्प्रयोजनत्वस्य ।
यद्धेतुत्वमचाल्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 51 ॥
10 ॥ प्रयोजनवच्वाधिकरणम् ॥ 10 ॥ ब्रह्मणः सर्वशक्तित्वात् सत्यसङ्कल्पत्वाच्च सङ्कल्पमात्रेण जगत्स्रष्टृत्वं संभवतीत्युक्तम् । इदानीं सृष्टेः प्रयोजनासंभवात् स्रष्टृत्वं न संभवतीत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ न प्रयोजनवत्त्वात् ॥ 2-1-32 ॥ इदं पूर्वपक्षसूत्रम् । ‘सृष्टेः’ इत्यध्याहार्यम् । सृष्टेः प्रयोजनवत्तानियमात्, न-जगत्स्रष्टृत्वं ब्रह्मणो नोपपद्यत इति सूत्रार्थः ॥ भावः । ब्रह्मणो जगत्सृष्टौ केनचित्प्रयोजनेन भाव्यम् । तच्च प्रयोजनं स्वस्य वा परस्य वा द्वेधा संभावितम् । प्रकृते च अवाप्तसमस्तकामस्य सृष्टिलभ्यं न किञ्चिदपि प्रयोजनं संभवति । संभवे च अवाप्तसमस्तकामत्वं न संभवति । जगत्सृष्टेः जीवात्मन आध्यात्मिकादिदुःखैकहेतुत्वेन जीवात्मप्रयोजनार्थत्वं च न संभवति । प्रत्युत तस्य दुःखसंपादकत्वेन सृष्टेःविषमत्वेन च, ब्रह्मणः पक्षपातित्वनिर्दयत्वरूपदोषद्वयप्रसङ्गः । अतः स्लध्टृत्वं न संभवति इति ॥ उक्तक्षेपपरिहाराय प्रवृत्तमिदं सिद्धान्तसूत्रम्- लोकवत्तु लीलाकैवल्यम् ॥ 2-1-33 ॥ [वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ 34 ॥ ि कर्मविभागादिति चेन्न अनादित्वादुपपद्यते चाप्युपलभ्यते च ॥। 35 ॥ सर्वधर्मोपपत्तेश्च ॥ 36 ॥] यथा लोके सार्वभौमस्य प्रयोजनान्तरभावेऽपि लीलारूपप्रयोजनायैव कन्दुकादिविहारः, तद्वत् ब्रह्मणोऽपि लीलार्थमेव जगत्सृष्टिः इति सूत्रार्थः ॥ लीलाप्रवृत्तसृष्टावसंभवान्निष्प्रयोजनत्वस्य । यद्धेतुत्वमचाल्यं तद्ब्रह्म श्रीनिवासनाम् भजे ॥ 51 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यस्य कृतिषु शरीरकाधिकरणरत्नमालायां" द्वितीयाध्यायस्य प्रथमः पादः ॥ अर्थः । लीलार्थ प्रवृत्तायां सृष्टौ लीलारूपप्रयोजनसद्भावेन निष्प्रयोजनत्वासंभवात्, यस्य-श्रीनिवासस्य, जगत्कारणत्वं अचाल्यं तद्ब्रह्म इति पूर्ववत् ॥ भावः । सृष्टेः लीलारूपत्वेन प्रयोजनान्तरानपेक्षणात्, विषमसृष्टेश्च तत्तज्जीवकर्मनुगुणफलप्रदानरूपतायाः ‘‘पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा’’ इति, ‘‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः’’ इत्यादिश्रुतिस्मृतिसिद्धत्वाच्च, ब्रह्मणो न वैषम्यनैर्घृण्यदोषप्रसङ्गः । सृज्यानां-देवमनुष्यादीनां सृष्टौ, असौ-परमपुरुषः, निमित्तमात्रं-सामान्यकारणमात्रम् । सृज्यानां-देवमनुष्यादीनां, शक्तयः- तत्तद्देवादिजन्मानुगुणकर्मणि, प्रधानकारणीभूताः-विशेषकारणानि; यथा सस्यस्य जलं सामान्यकारणं, तत्तद्बीजं तु विशेषकारणं, तद्वत् इति श्लोकार्थः ॥ ननु ‘‘सदेव सोम्येदमग्र आसित्’’ इत्यादिश्रुतौ प्रलयदशायां क्षेत्रज्ञानां ब्रह्मणा एक्यश्रवणेन तदानीं क्षेत्रज्ञानामेवाभावसिद्धेः" सुतरां तत्कर्मणामभावात्, कथं विषमसृष्टेः जीवकर्मानुगुणत्वं इति चेत् । मैवं-क्षेत्रज्ञानां अनादितायाः ‘‘न जायते म्रियतते वा विपश्चित्, ’’ ‘‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’’ इत्यादिश्रुतिस्मृतिसिद्धतया तत्कर्मप्रवाहाणामनादित्वसिद्धेः; कृतहानाकृताभ्यागमप्रसङ्गपरिहाराय क्षेत्रज्ञकर्मप्रवाहाणामनादिताया अभ्युपगन्तव्यत्वाच्च । अविभागश्रुतिस्तु क्षेत्रज्ञानां नामरूपप्रहाणेन ब्रह्मणः सकाशात् विभागानर्हातिसूक्ष्मदशापत्तिपरेति न विरोधः । अतो ब्रह्मणः रीलार्थजगत्सृष्टौ न कश्चिद्दोषः ॥ किं बहुना? प्रधानपरमाण्वादौ अनुपपद्यमानानां सर्वेषां कारणत्वोपपादकधर्माणां ब्रह्मण्युपपत्त्या ब्रह्मकारणत्वमेव युक्तमिति ॥ 45 ॥ इति प्रयोजनवत्त्वाधिकरणम् ॥ 10 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे द्वितीयाध्यायस्य प्रथमः पादः ॥