योगिवशीकरणीयेष्विन्द्रियपूर्वेषु यस्य मुख्यत्वम् ।
अभिधत्ते कठवल्ली तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 30 ॥
28 ॥ आनुमनिकाधिकरणम् ॥ 1 ॥ प्रथमपादे मुमुक्षुभिर्जिज्ञास्यस्य ब्रह्मणो जगत्कारणत्वं लक्षणमभिधाय, कारणवाक्येषु प्रधानादीनां प्रतिपाद्यत्वशङ्कानिराकरणेन चिदचिद्विलक्षणे ब्रह्मणि लक्षणसमन्वयः कृतः । अनन्तरत्रिपाद्यां उक्तलक्षणस्यातिव्याप्तिनिरासमुपक्रम्य, द्वितीयपादे अस्पष्टचिदचिल्लिङ्गप्रतिपादककारणवाक्यानां, तृतीयपादे स्पष्टचिल्लिङ्गप्रतिपादककारणवाक्यानां च विचारेण तयोःअतिव्याप्तिशङ्का परिहृता । इदानीं चतुर्थपादे अत्यन्तस्पष्टचेतनाचेतनलिङ्गप्रतिपादककारणवाक्याविचारेण तयोरतिव्याप्तिशङ्का परिह्रियते इत्युत्तरोत्तरपूर्वपक्षयुक्तिप्राबल्यात् पादविभागक्रमः । अनन्तरपूर्वाधिकरणे बद्धमुक्तोभयावस्थात् जीवात् विलक्षणः परमात्मेति व्यवस्थापितम् । जीवात्परस्य परमात्मनाम्नः कस्यचिदभावात् तदनुपपन्नमित्याक्षेपश्च परिहृतः । प्रकारान्तरेण तथाविधाक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् । अत्र हि ‘‘इन्द्रियेभ्यःपरा ह्यर्थाः’’ इत्यादिमन्त्रे, ‘‘पुरुषान्न परं किञ्चित्’’ इति बद्धमुक्तोभयावस्थात् सांख्याभिमतपुरुषात् परस्य प्रतिषेधमाशङ्क्य परिह्रियते ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ 1-4-1 ॥ [सूक्ष्मं तु तदर्हत्वात् ॥ 2 ॥ तदधीनत्वादर्थवत् ॥ 3 ॥ ज्ञेयत्वावचनाच्च ॥ 4 ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ 5 ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ 6 ॥ महद्वच्च ॥ 7 ॥] एकेषां-कठानां शाखायां, कठवल्लीप्विति यावत्; आनुमानिकं-स्वतन्त्रं प्रधानं अपि प्रतिपाद्यं दृश्यते इति चेत्, इत्यन्तः शङ्काप्रकारः" । ‘न’ इत्यादिः तत्परिहारप्रकारः । शरीररूपकविन्यस्तगृहीतेः-शरीररूपस्य रूपकविन्यस्तस्य, रथत्वेन रूपितस्य, गृहीतेः- ‘‘इन्द्रियेभ्यः" परा ह्यर्थाः’’ इति विचारविषयवाक्यस्थाव्यक्तशब्देन ग्रहणात् । इन्दियादीनां नियन्तव्यतां दर्शयति च श्रुतिः इति सूत्रार्थः ॥ योगिवशीकरणीयेष्विन्द्रियपूर्वेषु यस्य मुख्यत्वम् । अभिधत्ते कठवल्ली तद्ब्रह्म श्रीनिवासनाम भजे ॥ 30 ॥ अर्थः । ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात्पुरुषः" परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥’’ इति कठवल्लीश्रुतिः वागादीन्द्रियप्रभृतिषु उपासननिष्पत्त्यर्थमुपासकवशीकरणीयेषु अर्थेषु, यस्य-श्रीनिवासापरनामधेयस्य ब्रह्मणो, मुख्यत्वं-प्रधानत्वं, अभिधत्ते, तद्ब्रह्मेति पूर्ववत् ॥ भावः । कठवल्ल्यां, ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।’’ इत्युपक्रम्य, ‘‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥’’ इत्यन्तेन संसाराध्वपारभूतं वैष्णवं परमपदं जिगमिषोरुपासकस्य स्वात्मस्वशरीरबुद्धिमनश्चक्षुरादीन्द्रियताद्विषयेषु गमनपरिकरभूतरथिरथसारथिप्रग्रहस्वगमनमार्गत्वानि परिकल्प्य, वशीकृतोपदर्शितरथिप्रभृतिगमनमार्गपर्यन्तपरिकरेणैव उपासकेन जीगमिषितं वैष्णवं पदं प्राप्तुं शक्यं इत्यभिधाय, उपासकेन वशीकरणीयेषुत्तरोत्तरं प्रधानभूतानि यानि यानि, तानि ‘‘इन्द्रियेभ्यः परा ह्यर्थाः’’ इत्यादिना उच्यन्ते । तत्र वशीकरणीयेषु, इन्द्रियापेक्षया विषयाः शब्दादयः प्रधानभूताः, तेभ्यो मनः, तदपेक्षया अध्यवसायः, तदपेक्षया स्वात्मा, तदपेक्षया उपासकशरीरं, तदपेक्षया अधिगन्तव्यो विष्णवाख्यः परमपुरुषः प्रधानभूतः, तदपेक्षया वशीकरणीय न किञ्चिदस्ति इत्युच्यते ॥ अत्र वशीकार्या इन्द्रियादयः स्वस्वशब्देनैव निर्दिश्यन्ते; रथत्वेन परिकल्पितं शरीरं तु न स्वशब्देन उय्यते । अतः परिशेषात्, उदाहृतश्रुतिवाक्यस्थाव्यक्तशब्देन तदुच्यत इति निश्चीयते । एतदेवेन्द्रियादीनां नियन्तव्यत्वं अनन्तरमन्त्रो दर्शयति ‘‘यच्छेद्वाङ््मनसी प्राज्ञः तद्यच्छेत््ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्् तद्यच्छेच्छान्त आत्मनि’’ इति । प्राज्ञः-उपासकः, वाक्-वाच; द्वितीयालोपः । वाक्छब्दश्च वागादिकर्मज्ञानेन्द्रियेषु लाक्षणिकः । ‘मनसी’ इत्यत्र दीर्घश्चान्दसः; मनसि इत्यर्थः । ततश्च वाक्पूर्वकाणि इन्द्रियाणि मनसि नियच्छेत्-नियमयेत् । इन्द्रियाणां मनसि नियमनं नाम मनःप्रवृत्तिविपरीतप्रवृत्तिवैमुख्यापादनम् । तत् मनः, ‘आत्मनि’ इति विषयसप्तमी; आत्मविषयके ज्ञाने यच्छेत् । ज्ञानशब्देनात्र ‘‘मनसस्तु परा बुद्धिः’’ इत्यत्रोक्ता बुद्धिर्विवक्षिता । सा चाध्यवसायविशेषरूपा । ततश्च, तन्मनः आत्मविषयके अध्यवसाये नियमयेत् इत्यर्थः । मनस आत्मविषयकाध्यवसाये नियमनं नाम आत्मा अहेयः, तदितरत्सर्वं हेयं" इत्येवंविधहेयाहेयविषयकाध्यवसायविषयकत्वापादनम् । तत् ज्ञानं-तं अध्यवसायं, महति आत्मनि-कर्तृत्वेनोत्कृष्टे प्रत्यगात्मनि, नियच्छेत्-नियमयेत् । अध्यवसायस्य प्रत्यगात्मनि नियमनं नाम, स एवोपादेय इत्येवमुपादेयविषयकत्वापादनम् । तत्-तं; लिङ्गव्यत्ययः छान्दसः । तं कर्तारं, शान्ते-ऊर्मिष्ट््करहिते, आत्मनि-परमात्मनि, नियच्छेत् । कर्तुरात्मनः परमात्मनि नियमनं नाम तदेकोपायत्वानुसन्धानं शरणागत्यपरनामधेयम् । अत्र इन्द्रियादीनां जीवात्मपर्यन्तानां निन्तव्यताया उक्तत्वात्, ‘‘इन्द्रियेम्यः परा ह्यर्थाः’’ इति मन्त्रेऽपि वशीकार्येषु उत्तरोत्तरप्राधान्यमुच्यत इति निश्चीयते । ’’ अव्यक्तात् पुरुषः परः’’ इत्यत्र ‘पुरुष’ शब्देन ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः" परमं पदं’‘इत्यत्र प्राप्यतया प्रागुक्तः श्रीनिवासापरनामधेयो विष्णवाख्यः परमपुरुष एव वशीकार्यत्वे प्रधानतया उच्यते । ‘‘पुरुषान्न परं किञ्चित्’’ इत्यनेन च, तदपेक्षया अन्यत् वशीकरणीयं नास्ति, वशीकरणीयेषु सैव काष्ठा इति उच्यते॥ पूर्वपक्षः । ‘‘इन्द्रियेम्यः परा’’ इति मन्त्रे कापिलतन्त्रसिद्धतत्त्वप्राक्रिया प्रत्यभिज्ञायते । ‘इन्द्रियाणि दश, भूतानि दश, अन्तःकरणं, अहङ्कारः, महान्, अव्यक्तं, पुरुषः इति पञ्चविंशतिः पत्त्वानि, तदतिरिक्तं तत्त्वं नास्ति’ इति हि तत्तन्त्रप्रक्रिया । सा च ‘‘इन्द्रियेभ्यः परा ह्यर्थाः’’ इत्यस्मिन् मन्त्रे अर्थशब्देन भूतानां ग्रहणात्, इन्द्रियादीनि पुरुषान्तानि पञ्चविंशतितत्त्वान्यभिधाय, ‘‘पुरुषान्न परं किञ्चित्’’ इति पञ्चविंशातिरिक्ततत्त्वनिषेधेन प्रत्यभिज्ञायते । पञ्चविंशतितत्त्वातिरिक्तस्य ब्रह्मणो निषेधात्, अब्रह्मात्मकत्वमुक्ततत्त्वानां प्रतीयते । अतो अब्रह्मात्मकप्रधानस्यैवेहाभिधानात्, अब्रह्मात्मकप्रधानकारणतावादोऽपि श्रुतिसंमत इति ॥ सिद्धान्तः । अस्मिन् मन्त्रे इन्द्रियादिषु पुरुषान्तेषु उत्तरोत्तरस्य पूर्वस्मात् पूर्वस्मात् परत्वं उच्यते । तच्च परत्वं उत्कृष्टत्वरूपं" वाच्यम् । उत्कर्षश्च न कारणत्वनिबन्धनः सुवचः; अर्थानामिन्द्रियकारणत्वस्य तन्मतेऽप्यनभ्युपगमात् । अपि तु इन्द्रियदीनां पुरुषान्तानां" पुरुषार्थप्राप्तये पशीकार्यत्वे प्राधान्यनिबन्धनः । इन्द्रियाद्यवशीकारे अनर्थस्य, तद्वशीकारे पुरुषार्थप्रप्तेश्च ‘‘यस्त्वविज्ञानवान् भवत्ययुक्तेन मानसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्व इव सारथेः ॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ यस्त्वविज्ञानवान् भवत्यमनस्कः सादाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥’’ इति प्राकरणिकमन्त्रेष्वभिधानेन इन्द्रियादिवशीकार्यत्वे प्रकरणस्य तात्पर्यावगमात्, वशीकार्येषु इन्द्रियादिषु उत्तरोत्तरस्य प्राधान्यमेवास्मिन् मन्त्रे विवक्षितमित्यवगम्यते । ततश्च पूर्वोक्तपारिशेष्यन्यायेन ‘‘इन्द्रियेभ्यः परा ह्यर्था’’ त्यस्मिन् मन्त्रे ‘अव्यक्त’शब्देन पूर्व रथत्वेन रूपितस्य शरीरस्यैव ग्रहणात्, न कापिलतन्त्रसिद्धतत्त्वप्रतयभिज्ञा; न वा ‘‘पुरुषान्न परं किञ्चित्’’ इति पञ्चविंशातिरिक्ततत्त्वप्रतिषेधः । सूक्ष्मावस्थप्रधानवाचिना अव्यक्तशब्देन शरीरस्याभिधानं तु कारणभूतप्रधानवाचिनः तस्य तत्कार्ये शरीरे लाक्षणिकत्वात् उपपद्यते । सूक्ष्मावस्थस्य प्रधानस्य मोङोपायनुष्ठानप्रवृत्त्यनर्हत्वात्, शरीरात्मना परिणतस्यैव तस्य तत्प्रवृत्त्यर्हत्वाच्च, अव्यक्तशब्देन लक्षणया तत्कार्यस्य शरीरस्यैव ग्रहीतुमुचितत्वात् । प्रधानस्य ब्रह्मपरतन्त्रत्वेनैव कार्यकरत्वस्य श्रुतिसिद्धतया सांख्यमते तथा अनभ्युपगमादेव तन्मतप्रतिक्षेपः" ॥ किञ्च प्रधानस्य सांख्यैः ज्ञेयत्वाङ्गीकारात् प्रकृते च प्रधानस्य 5ेयत्वानुक्तेः न प्रकृतमन्त्रस्थाव्यक्तशब्दः स्वतन्त्रप्रधानपर इति निश्चीयते । ‘‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महंतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’’ इति मन्त्रस्तु नाव्यक्तस्य ज्ञेयत्वप्रतिप्रादनपरः । तस्य ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदं ।’’ इति पूर्वमन्त्रप्रकृतविष्ण्वाख्यप्राप्यभूतपरब्रह्मणः साक्षात्कार्यत्वप्रतिपादनपरत्वात्; प्रकरणेन तथाऽवगमात् । ‘‘महतः परं’‘इत्यस्य इन्द्रियादिम्य उत्कृष्टाज्जीवत्मन उत्कृष्टत्वप्रतिपादनपरतयोपपत्तेः ॥ किञ्च अस्मिन् प्रकरणे ‘‘अन्यत्र धर्मादन्यत्राधर्मात् अन्यत्रास्मात् कृताकृतात् । अन्यत्र भूतात् भव्याच्च यत्तत्पश्यसि तद्वद,’’ इति प्राप्यस्य ब्रह्मणः तत्प्राप्त्युपायस्य तत्प्राप्तुश्च त्रयाणामेव स्वरूपजिज्ञासया प्रश्नः, त्रयाणामेव ज्ञेयत्वेन प्रतिवचनं" च दृश्यते; न प्रधानस्य । अतः प्रधानस्य अप्रकृतत्वादेव ‘‘इन्द्रियेभ्यः परा ह्यर्थाः’’ इत्युदाहृतमन्त्रस्थाव्यक्तशब्दो न ज्ञेयत्वेन सांख्याभिमतप्रधानपरः, अपि तु पुरुषार्थसाधनप्रवृत्त्युपयोगितया प्रकृततत्परिणामभूतशरीरपर इति निश्चीयते । एवं यथा उक्तमन्त्रे ‘‘बुद्धेरात्मा महान् परः’’ इत्यत्र महच्छब्दः आत्मेति विशेषणात्, न सांख्यमतसिद्धमहत्तत्त्वपरः, तथा ‘‘महतः परमव्यक्तं’’ इत्यत्र अव्यक्तशब्दोऽपि तदर्थस्य महतः परं इति महच्छब्दोक्तादात्मनः परत्वेनोच्यमानतया न सांख्यमतसिद्धप्रधानाख्यतत्त्वपरः, तस्य आत्मापेक्षया परत्वासंभवादिति निश्चीयते इति ॥ इति आनुमानिकाधिकरणम् ॥ 1 ॥
यत्-कार्यत्वं प्रकृतेः प्रजाः सृजन्त्या अजाश्रुतिर्ब्रूते ।
शखान्तरैककण्ठ्यात् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 31 ॥
29 ॥ चमसाधिकरणम् ॥ 2 ॥ पूर्वाधिकरणे पारिशेष्यन्यायेन अव्यक्तशब्दस्य शरीरपरतासिद्ध्या, स्वतन्त्रप्रधानपरत्वं निराकृतम् । ‘अजा’मन्त्रे तथाविधप्रमाणाभावात्, स्वतन्त्रप्रधानपरत्वमस्तु इत्याक्षेपपरिहाराय प्रवृत्तमिदमाधिकरणम् ॥ चमसवदविशेषात् ॥ 1-4-8 ॥ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ 9 ॥ [कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ 10 ॥] यथा ‘‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न’’ इत्यत्र भक्षणसाधनमात्रवाचिना ‘चमस’ शब्देन भक्षणसाधनविशेषाप्रतिपत्तावपि, प्राकरणिकेन ‘‘यथेदं" तच्छिरः एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न’’ इति वाक्येन शिरोरूपः चमसविशेषः प्रतीयते, तद्वत् इह ‘अजा’मन्त्रे ‘न जायते इत्यजा’ इत्यजात्वमात्रप्रतीतावपि, प्रकृतेः स्वतन्त्रत्वास्वतन्त्रत्वरूपविशेषप्रतिपादकप्रकरणद्यभावात्, अजामन्त्रेण न स्वतन्त्रं प्रधानमुच्यत इति प्रथमसूत्रार्थः ॥ द्वितीयसूत्रे ‘तु’शब्दोऽवधारणार्थः । ‘अजा’मन्त्रे अभिधीयमाना प्रकृतिः ज्योतिरुपक्रमा तु-ज्योतिः-परं ब्रह्म, तदुपक्रमा-तत्कारणिका; तत्कार्यभूतैवेत्यर्थः । एके-तैत्तिरीयशाशिनः, ब्रह्मकार्यत्वेनैव एनां अधीयते हि इति द्वितीयसूत्रार्थः । यत्कार्यत्वं प्रकृतेः प्रजाः सृजन्त्या अजाश्रुतिर्ब्रूते । शाखान्तरैककण्ठ्यात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 32 ॥ ‘‘अचामेकां’’ इति श्वेताश्वतरश्रुतिः शाखान्तरैककश्ठ्यात्-तैतिरीयशाखास्थाजामन्त्रेणैकार्थ्यात्, प्रजाः सृजन्त्याः प्रकृतेः" यत्कार्यत्वं-श्रीनिवासापरनामधेयब्रह्मकार्यत्वं ब्रूते, तद्ब्रह्मेति पूर्ववत् ॥ भावः श्वेताश्वतरोपनिषदि ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजे ह्येको जुषमाणोऽनुशेते जहात्येनां" भुक्तभोगामजोऽन्यः’’ इति श्रूयते । अत्र ‘अजा’शब्देन ‘न जायत इत्यजा’ इति व्युत्पत्त्या अनुत्पन्नत्वमात्रं प्रधानस्य प्रतीयते; न तु स्वतन्त्रत्वं, अस्वतन्त्रत्वं वा, तद््ग्राहकप्रमाणाभावात् । प्रत्युत अजामन्त्रेण शाखान्तरैकार्थ्येन ब्रह्मपरतन्त्र्यमेव प्रतीयते । तैत्तिरीयशाखायां अंभस्यनुवाके हि ‘‘अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्’’ इति प्रकृत्य, ‘‘सप्तप्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः’’ इत्यादिना परमात्मनः सकाशात् विश्वोत्पत्त्यभिधानप्रकरणे, ‘‘अजामेकां’’ इति मन्त्रः पठ्यते । अतो ब्रह्मकार्येषु मध्यपाठात्, प्रकृतेरपि ब्रह्मकार्यत्वं प्रतीयते । अयं च विश्वोत्पादक आत्मा मुण्डकोपनिषदि द्वितीयखण्डे, ‘‘सप्त प्राणाः प्रभवन्ति तस्मात्’’ इत्यादिना विश्वोत्पादकत्वेन अभिहित आत्मेति प्रत्याभिज्ञायते । तत्र च विश्वोत्पादकत्वेनाभिहित आत्मा ‘‘नारायणात् प्राणोजायते’’ इति मन्त्रविवृतार्थकेन ‘‘एतस्माज्जायते प्राण’’ इति तत्प्रकरणस्थमन्त्रेण नारायण एवेति निश्चीयत इति पूर्वमेवोक्तम् । ्तः ‘अजा’शब्दवाच्यप्रधानस्य, परमात्मनः श्रीनिवासापरनामधेयान्नारायणात् उत्पत्तिप्रतीत्या, तत्कार्यत्वं प्रतीयत इति ॥ पूर्वपक्षः । श्वेताश्वतरोपनिषदि ‘‘अजां’’ इत्यादिमन्त्रः पठ्यते । अस्यार्थः-लोहितशुक्लकृष्णा-रजस्सत्वतमोरूपगुणत्रयमयीं, सरूपाः-सत्वरजस्तमोमयीः, प्रजाः-देवमनुष्यादिरूपाः, सृजमानां-उत्पादयन्ती, एकां अजांप्रकृति, एकः अजः-संसार्यात्मा, जुषमाणः-प्रीयमाणः सन्, अनुशेतेअनुसृत्य वर्तते । अन्योऽजः मुक्तात्मा, भुक्तभोगां-अनुभुतशब्दादिविषयां, एनां-प्रकृति, जहाति-त्यजति इति ॥ अत्र ‘‘सृजमानां’’ इत्यत्र कर्त्रर्थविहित’शानच्’प्रत्ययेन, प्रकृतेः सृष्टौ कर्तृत्वं बोध्यते । तच्च कर्तृत्वं ‘‘स्वतन्त्रः" कर्ता’’ इत्यनुशासनेन स्वतन्त्रत्वरूपं प्रतिपन्नम् । अतः प्रकृतेः सृष्टौ स्वातन्त्र्यप्रतीतेः ‘अजां’ इत्याकार्यत्वश्रवणाच्च, कापिलतन्त्रसिद्धा अब्रह्मात्मिका प्रकृतिः कारणं प्रतीयत इति ॥ सिद्धान्तः । ‘‘सृजमानां’’ इति ‘शानच्’प्रत्ययेन स्वातन्त्र्यप्रतीतावापि, ‘रथोगच्छति’ इत्यादौ सारथिप्रेरितस्यापि रथस्य गमने व्यापाराश्रयत्वरूपस्वतन्त्रत्वप्रतीतिवत् इहापि ब्रागुक्तरीत्या ब्रह्मप्रेरिताया अपि प्रकृतेः सृष्टौ व्यापाराश्रयत्वरूपस्वतन्त्रत्वोपपत्तेः, न कापिलतन्त्रसिद्धाब्रह्मात्मकप्रकृतेर्ग्रहणे नियामकमस्ति । प्रत्युत प्रागुक्तरीत्या ब्रह्मकार्यतया ब्रह्मात्मिकाया एव प्रकृतेः तैत्तिरीयशाखायामवगमात्, ब्रह्मात्मकप्रकृतिरेव गृह्यते । यद्यपि प्रधानस्य अजाशब्दाभिहितमनुत्पन्नत्वं सृष्टिप्रकरणावगतमुत्पन्नत्वं च विरुध्यते, तथाऽपि तमःस्वरूपकारणावस्थापन्नायाः" तस्याः अनुत्पन्नत्वं, महदादिकार्यावस्थापन्नायाः तस्या उत्पन्नत्वं चेति अवस्थाभेदात् न विरोधः । यथा मधुविद्यायां आदित्यास्य एकस्यैव कार्यावस्थायां उदयास्तमयौ मधुत्वं च , कारणावस्थायां तेषामभावश्च उक्तौ अवस्थाभेदेन न विरुध्येते, तद्वत् ॥ इति चमसाधिकरणम् ॥ 2 ॥
पञ्चजनशब्दितानामाकाशस्येन्द्रियाणां च ।
यदधीना स्थितिरुक्ता तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 32 ॥
30 ॥ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ 3 ॥ पूर्वधिकरणे ‘अजा’मन्त्रे अजाशब्देन अब्रह्मात्मकप्रकृतिर्गृह्यत इति विशेषनिर्णायकाभावेन, ब्रह्मात्मकप्रकृतिरेव गृह्यत इति व्यवस्थापितम् । ‘‘यस्मिन् पञ्च पञ्चजना’’ इति मन्त्रे विशेषग्रहणहेतुरस्ति इत्यक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ 1-4-11 ॥ [प्राणादयो वाक्यशेषात् ॥ 12 ॥ ज्योतिषैकेषामसत्यन्ने ॥ 13 ॥] सङ्ख्यायाः-पञ्चविंशतिसङ्घयायाः, उपसङ्ग्रहेऽपि-प्रतिपादनाङ्गीकारेऽपि, नानाभावात्-मन्त्रोक्तानामर्थानां कापिलतन्त्रोक्तेभ्यो भिन्नत्वात्, अतिरेकाच्च-आकाशस्य आत्मनश्च अतिरिक्तत्वाच्च, न कापिलतन्त्रसिद्धतत्त्वग्रहणसिति सूत्रार्थः ॥ पञ्चजनशब्दितानामाकाशस्योन्द्रियाणां च । यदधीना स्थितिरुक्ता तद्ब्रह्म श्रीनिवासनाम भजे ॥ 32 ॥ अर्थः । वृहदारण्यके ‘‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतं’’ इति मन्त्रे ‘पञ्चजन’शब्दनिर्दिष्टानां चक्षुरादीन्द्रियाणां आकाशस्य च, यदधीना-श्रीनिवासापरनामधेयब्रह्माधीना स्थितिरुक्ता, तद्ब्रह्मेति पूर्ववत् ॥ भावः । ‘‘यस्मिन् पञ्च प़ञ्चजना’’ इति मन्त्रे पञ्चशब्दविशेषितेन पञ्चजनशब्देन पञ्च ज्ञानेन्द्रियाण्यभिधाय, तेषां आकाशस्य च ‘यस्मिन्’ इति सप्तम्यन्तयच्छब्दनिर्दिष्टे वस्तुनि प्रतिष्ठितत्वमभिधाय, उत्तरार्धे यच्छब्दनिर्दिष्टस्य ब्रह्मत्वेन विवरणात्, इन्द्रियाणां आकाशस्य च ब्रह्माणि प्रतिष्ठितत्वोक्त्या प्रह्मशरीरत्वपर्यवसितब्रह्माधीनस्थितिकत्वमुक्तं भवति । इदं च आकाशस्येन्द्रियाणां" चाधारतया उच्यमानं ब्रह्म मुण्डकोपनिषदि ‘‘यस्मिन््द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथाऽऽत्मानं’’ इत्यत्र आकाशादेः इन्द्रियाणां च आधारतया उच्यमान आत्मैवेति प्रत्यभिज्ञायते । स च आत्मा अमृतत्वप्रापकत्वरूपामृतसेतुत्वादिना श्रीनिवासापरनामधेयो नारायण एवेति द्युम्वाद्यधिकरणे निरूपिततया ‘‘यस्मिन् पञ्च पञ्चजना’’ इति मन्त्रोक्तं ब्रह्मापि श्रीनिवासापरनामधेयो नारायण एवेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘यस्मिन् पञ्च पञ्चजना’’ इति मन्त्रे ‘पञ्चानां जनानां समूहाः पञ्चजना’ इति ‘पञ्चपूल्य’ इतिवत् समासः । पुल्लिङ्गत्वं छान्दसम् । तेन पञ्चानां समूहालभ्यन्ते; तेषां पञ्चत्वसंख्याविशेषणेन समूहपञ्चकं लभ्यते । तेन कापिलतन्त्रसिद्धपञ्चविंशतितत्त्वसंख्या प्रत्यभिज्ञायते । अतः पञ्च माहाभूतानि, पञ्च तन्मात्राणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, प्रकृतिमहदहङ्कारमनांसि पुरुषश्च इति पञ्च, आहत्य पञ्चविंशतितत्त्वसंख्यालाभात्, तावन्त्येव तत्त्वानि इत्यर्थलाभेन, अब्रह्मात्मकान्येव एतानि तत्त्वानि इति निर्धार्यत इति ॥ सिद्धान्तः । उक्तरीत्या पञ्चविंशतिसंख्यालाभाभ्युपगमेऽपि, तेषां ‘‘यस्मिन्’’ इति यच्छब्दनिर्दिष्टपरमात्मप्रतिष्ठितत्वोक्त्या, ब्रह्मात्मकत्वलाभात्, नात्र तन्त्रसिद्धाप्रह्मात्मकातत्तवोक्तिः । यच्छब्दनिर्दिष्टस्य आत्मन आकाशस्य च अधिकस्योक्तेरपि, न तन्त्रसिद्धपञ्चविंशतिसंख्याप्रत्यभिज्ञा । आकाशस्य पृथङ््निर्देशेन, आकाशघटितमहाभूतसमूरस्य ‘पञ्चजन’शब्देन ग्रहणासंभवात्, सूत्रे ‘अपि’शब्देन पञ्चविंशतिसंख्यालाभ एव न संभवति इति द्योत्यते ॥ उक्तमन्त्रे ‘पञ्चजन’शब्दार्थस्तु, ‘‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यं’’ इति वाक्यशोषात्, इन्द्रियाणि इत्यवगम्यते । अत्र मन्त्रे ‘‘चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं’’ इत्यादिना, अस्य मन्त्रस्य ‘‘तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतं’’ इति पूर्वमन्त्रे प्रस्तुतं यत् ब्रह्मणो ज्योतिषां" ज्योतिष्ट््वं इन्द्रियाणां स्वस्वकार्यनिर्वहणशाक्त्याधायकत्वरूपं तद्विवरणाय प्रवृत्तत्वमवगम्यते । ततश्च ‘प्राण’शब्दमुख्यार्थस्य प्राणस्य ‘ज्योतिः’शब्दनिर्देशानर्हत्वात्, वाय्वाप्यायितं त्वगिन्द्रियं प्राणशब्देन लक्ष्यते । ततश्च प्राणस्य-त्वगिन्द्रियस्य, प्राणं-स्पर्शग्रहणशक्त्याधायकमित्यर्थः । ‘‘चक्षुषश्चक्षुः’’ त्यादेरपि चक्षुरादीनां रूपदिग्रहणशक्त्याधायकमित्यर्थः । ‘‘अन्नस्यान्नं’’ इत्यत्र ‘अन्न’शब्देन पृथिव्याप्यायितं घ्राणेन्द्रियं, अन्नभक्षणसाधनं रसनेन्द्रियं च तन्त्रेण गृह्यते । अन्नस्यान्नं-तयोरिन्द्रिययोः" स्वविषयग्रहणशक्त्याधायकमित्यर्थः । एवंविधं ब्रह्म ये विदुः ते ब्रह्म निश्चितवन्त इति श्रुत्यर्थः ॥ अस्मिन् मन्त्रे त्वक्चक्षुःश्रोत्रघ्राणरसनानां पञ्चानां ज्ञानेन्द्रियाणां विशिष्योक्तेः ‘‘यस्मिन् पञ्च पञ्चजना’’ इति पूर्वमन्त्रे ‘पञ्चजन’ शब्दनिर्दिष्टानां पञ्चत्वसंख्योक्तेश्च, पञ्चत्वसंख्याविशेषिताः पञ्चजनाः त्वगिन्द्रियादीनि पञ्च ज्ञानेन्द्रियाणि इति निश्चीयते । यद्यपि काण्वशाखायां ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यं’ इत्येवंरूपे वाक्यशेषे अन्नस्य अग्रहणात्, तेन पञ्चजनशब्दार्थः पञ्च ज्ञानेन्द्रियाणि इति न लभ्यते, तथाऽपि तत्र ‘‘तं देवा ज्योतिषां" ज्योतिः’’ इति पूर्वमन्त्रे षष्ठ्यन्तज्योतिःशब्देन विषयप्रकाशकानां केषाञ्चित् उपात्तत्वात्, ‘‘यस्मिन् पञ्च पञ्चजना’’ इति मन्त्रे पञ्चजनशब्दोक्तेषु पञ्चत्वसंख्यनिवेशाच्च पञ्चत्वसंख्याविशेषिताः पञ्चजनाः पूर्वमन्त्रे ज्योतिःशब्दोक्तानि विषयप्रकाशकानि त्वगादीनि पञ्चज्ञानेन्द्रियाणि इति निश्चीयते । अतस्तेषामपि ‘‘प्राणस्य प्राणं’’ इत्यादिमन्त्रः त्वगादिपञ्चज्ञानेन्द्रियपर एवेति निश्चीयमानतया, सर्वशाखाप्रत्ययन्यायेन तत्र ‘अन्नस्यान्नं’ इति पदमुपसंहर्तव्यमिति ॥ इति संख्योपसङ्ग्रहाधिकरणमा ॥ 3 ॥
सर्वज्ञत्वादिपुरुषं यदेव वियदादिकारणत्वेन ।
श्रुतयो वदन्ति सर्वाः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 33 ॥
31 ॥ कारणत्वाधिकरणम् ॥ 4 ॥ पूर्वाधिकरणे इन्द्रियाणामाकाशादीनां च ब्रह्माश्रितत्वोक्त्या ब्रह्मात्मकत्वलामेन, अब्रह्मात्मकस्य प्रधानस्य कारणत्वं न श्रुतिसंमतमित्युक्तम् । इदानीं वेदान्तेषु कारणवाक्यानां ब्रह्मपरत्वे एककाण्ठ्यासंभवेन, प्रधानपरत्वे एककाण्ठ्यसंभवेन च अब्रह्मात्मकप्रधानकारणत्व एव श्रुतीनां तात्पर्यमवश्यमाश्रयणीयं इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ॥ 1-4-14 ॥ [समाकर्षात् ॥ 15 ॥] आकाशादिषु-आकाशतेजःप्रभृतिषु कार्येषु, कारणत्वेन यथा व्यापदिष्टस्य उक्तेः-सर्वज्ञत्वसर्वशक्तित्वसत्यमङ्कल्पत्वादिपूर्वोक्तप्रकारविशिष्टस्यैव आकाशादिकारणत्वोक्तेरिति यावत्, कारणवाक्यैः ब्रह्मैव कारणमिति निश्चेतुं शक्यमिति सूत्रार्थः ॥ सर्वज्ञत्वादियुतं यदेव वियदादिकारणत्वेन । श्रुतयो वदन्ति सर्वाः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 33 ॥ स्पष्टोऽर्थः । भावः । ‘‘सोऽकामयत बहु स्यां प्रजायेयेति’’ इत्यादिकारणवाक्येषु सर्वेषु सर्वज्ञत्वादिविशिष्टस्य आनन्दमयस्य पुण्डरीकाक्षस्य श्रीनिवासाख्यस्य ब्रह्मण एकस्यैव कारणत्वप्रतिपादनेन सर्वेषां कारणवाक्यानामैककण्ठ्यसंभवात, ब्रह्मकारणतावादे न कश्चित् दोष इति ॥ पूर्वपक्षः । कारणवादिवाक्येषु क्वचित् ‘‘असद्वा इदमग्र आसीत्, ततो वै सदजायत’’ इत्यादिषु असतः कारणत्वाभिधीयते । ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादौ सतः कारणत्वमुच्यते । ब्रह्मकारणत्ववादे प्रह्मणः सत्त्वासत्त्वयोर्द्वयोरसंभवात् वाक्यद्वयैककण्ठ्यं न संभवति । एवं" ‘‘तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत’’ इति ‘अव्याकृत’शब्दनिर्दिष्टस्य कारणत्वमुच्यते । तदपि ब्रह्मकारणत्वपक्षे न घटते । अव्याकृतत्वं हि नामरूपविशिष्टतया व्यक्तत्वाभावः । तच्च प्रलयावस्थापन्नेऽव्यक्तशब्दवाच्ये प्रधान एवोपपद्यते । तस्यानादित्वात् ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिषु सच्छब्देन निर्देशोपपत्तिः; परिणामित्वाच्च ‘‘असद्वा इदमग्र आसीत्’’ इत्यादिषु असच्छब्दव्यपदेशोऽपि कार्यावस्थावैशिष्ट्येन असत्त्वपरतया उपपद्यत इति । एवमव्याकृतसदसच्छब्दैः प्रधानमेव कारणमिति निश्चिते सति, ईक्षणादयः सृष्ट्यौन्मुख्याभिप्रायकतया वर्मनीयाः । अवश्यं च ब्रह्मकारणत्ववादिनापि ईक्षणदीनाममुख्यत्वं आश्रयणीयम् । तत्पक्षे चिदचिद्वशिष्टस्य ब्रह्मणः कारणत्वाभ्युपगमात्, तत्र विशिष्टान्तर्गते विशेषणे अचिदंशे मुख्येक्षणासंभवात्; ततश्च ईक्षणस्य क्वचिदंशे अमुख्यत्वं क्वचिन्मुख्यत्वं इत्याश्रयणस्यान्याय्यत्वात् अचितोऽव्यक्तस्य कारणत्वं स्वरसप्रतिपन्नमभ्युपाम्य, ईक्षणादीनां गौपात्वाश्रयणमेव युक्तमिति ॥ सिद्धान्तः । कारणवाक्येषु सर्वेषु सर्वज्ञत्वादिविशिष्टस्यैव कारणत्वमभिधीयते । यथा ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्युपक्रम्य, ‘‘सोऽश्नुते सर्वान् कामान् सह प्रह्मणा विपश्चितेति’’ इति ब्रह्मणो ‘विपश्चिता’ इति सर्वज्ञत्वारूपं विपश्चित्त्वमभिधाय, ‘‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’’ इति तदेव तच्छब्देन परामृश्य, तस्मात् सर्वज्ञात् ब्रह्मणः आकाशादीनामुत्पत्तिमभिधाय, विपश्चित्त्वविवरणाय प्रवृत्ते ‘‘सोऽकामयत । वहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत’’ इत्यादौ तच्छब्देन आकाशादिकारणभूतं विपश्चितमात्मानं" परामृश्य, तस्य बहुभवनसङ्कल्पं तपःशब्दनिर्दिष्टं स्रष्टव्यप्रकारालोचनं तत्पूर्वकसृष्टिं चाभिधाय, ‘‘तदप्येष श्लोको भवति’’ िति तद्विषयमेव श्लोकमुपक्रम्य, ‘‘असद्वा इदमग्र आसीत्’’ इत्यादिना स एव श्लोकः पठ्यते । अतोत्र बहुभवनसङ्कल्पस्रष्टव्यप्रकारालोचनपूर्वकसृष्टिकर्ता विपश्चदात्मा ‘‘असद्वा’’ इति असच्छब्देन आकृष्यत इति निश्चीयते । तस्य असच्छब्दव्यपदेशस्तु ‘‘ततो वै सदजायत । तदात्मानं स्वयमकुरुत’’ इत्यादिना तस्यैव स्वात्मनः कार्यभूतदेवमनुष्यादिजगदाकारेण करणभिधनेन सृष्टेः पूर्वं तस्य देवमनुष्यादिजगद्रूपकार्याकारेण असत्त्वाभिप्रायेणेति निश्चीयते ॥ एवं ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यत्रापि, ‘‘तदैक्षत बहुस्यां प्रजायेयेति’’ इति बहुभवनसङ्कर्पपूर्वकं तेजःप्रभृतिसृष्टिः, नामरूपव्याकरणसङ्गल्पंपूर्वकं नामरूपसऋष्टेश्चाभिधानात्, सच्छब्दनिर्दिष्टः सर्वज्ञः सत्यसङ्कल्पः चेतनविशेष इति निश्चीयते । ईक्षणस्य गोणत्वे, सङ्कल्पानां तत्तत्प्रकारविशेषोक्तिस्वारस्यभङ्गप्रसङ्गात् । तस्य सच्छब्दनिर्देशस्तु ‘‘एकमेवाद्वितीयं’’ इत्यनेन कारणावस्थतया सत्त्वाभिप्रायेणेति निर्णीयते ॥ बृहदारण्यके ‘‘तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत’’ इत्यत्रापि उत्तरत्र ‘‘स एष इह प्रविष्ट आनस्वाग्रेभ्यः" पश्यन् चक्षुः श्रृण्वन् श्रोत्रं’’ इत्यादिना नामरूपव्याकर्तारं पूर्वप्रस्तुतं ‘‘स एष’’ इत्यादिना परामृश्य, तस्य कार्ये जगति प्रवेशास्य दर्शनश्रवणादिज्ञानविशेषाणां चाभिधानात्, चेतनविशेष एवायं नामरूपव्याकर्तारं पूर्वप्रस्तुतं ’’ स एष’’ इत्यादिना परामृश्य, तस्य कार्ये जगति प्रवेशस्य दर्शनश्रवणादिज्ञानविशेषाणां चाभिधानात्, चेतनविशेष एवायं नामरूपव्याकर्ता िति निश्चीयते । ‘‘तन्नामरूपाभ्यां" व्याक्रियत’’ इत्यत्र कर्मकर्तरिलकारेण स्वयमेव स्वात्मानं नामरूपविशिष्टमकरोत् इति प्रतीत्या, ‘‘तदात्मानं स्वयमकुरुत’’ इति श्रुत्यैकार्थ्यप्रतीतेः सर्वज्ञं सत्यसङ्कल्पं ब्रह्मैव नामरूपव्याकर्तृ नामरूपभाक् च इति निश्चीयते । अतोऽत्रापि अव्याकृतशब्देन नामरूपभाक्त्वरूपकार्यावस्थाशून्यं ब्रह्मैवोच्यत इति निश्चीयते । तस्य ब्रह्मणः कार्ये जगति अनुप्रवेशकथनात्, यथा जीवात्मनः" शरीरे अनुप्रवेशकृतं देवमनुष्यादिरूपभाक्त्वं, तथा ब्रह्मणोऽपि कार्ये जगति आत्मतया अनुप्रवेशकृतं नामरूपभाक्त्वं जगद््द्वारकमिति निश्चीयते । एवमात्मतया चिदचिदन्तःप्रविष्टस्य ब्रह्मणो जगत्स्रष्टृत्वनिश्चयात्, स्रष्टव्यप्रकारालोचनपूर्वकसृष्टेः सर्वज्ञत्वसत्यसङ्कल्पत्वादिकं विना अनुपपत्तेः चेतनाचेतनयोः सार्वज्ञ्यासंभवात्, ईदृशसङ्कल्पादिकर्तृत्वं ब्रह्मण एव, न विशेषणयोश्चेतनाचेतनयोरिति सङ्कल्पस्य न गौणत्वाश्रयणप्रसङ्गः इति ॥ इति कारणत्वाधिकरणम् ॥ 4 ॥
यस्यैतत्कर्मेति श्रुतिरक्षादिप्रमाणसिद्धस्य ।
ब्रूते यत्-कार्यत्वं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 34 ॥
32 ॥ जगद्वाचित्वाधिकरणम् ॥ 5 ॥ पूर्वाधिकरणे सर्वेषु वेदान्तेषु चेतनस्यैव कारणत्वमुच्यत इत्युक्तम् । अस्तु चेतनः कारणं, तथाऽपि स कर्मवश्याज्जीवान्नातिरिच्यत इति तदधिष्ठितं प्रधानमेव जगत्कारणमित्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ जगद्वाचित्वात् ॥ 1-4-16 ॥ [जीवमुख्यप्राणलिङ्गन्नेति चेत् तद्व्याख्यातम् ॥ 17 ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाम्यामपि चैवमेके ॥ 18 ॥] ‘‘न संख्योपसङ्ग्रहात्’’ इति सूत्रात् ‘न’ इत्यनुषज्यते । ततश्च ‘‘यस्य वै,त्कर्म’’ इति वाक्यास्थकर्मशब्दस्य ब्रह्मकार्यभूतजगद्वाचित्वात्, नेह सांख्यमतसिद्धपुरूषस्य ग्रहममिति सूत्रार्थः ॥ यस्यैतत्कर्मेति श्रुतिरक्षादिप्रमाणसिद्धस्य । ब्रूते यत्कार्यत्वं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 34 ॥ अर्थः । ‘‘यस्य वा एतत्कर्म’’ इति कौषीतकी श्रुतिः अक्षादिप्रमाणसिद्धस्य-प्रत्यक्षादिप्रमाणसिद्धस्य सर्वस्य जगतः, यत्कार्यत्वं-श्रीनिवासापरनामधेयब्रह्मकार्यत्वं, ब्रूते-तद्ब्रह्मेति पूर्ववत् ॥ भावः । कौषीतक्युपनिषदि बालाक्यजातशत्रुसंवादे, ‘‘यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’’ इति श्रूयते । इदं च वालाकिना ब्रह्मत्वेन उक्तानमादित्यचन्द्रादीनां ब्रह्मत्वं निराकुर्वतोऽजातशत्रोः तं प्रति वचनम् । त्वदुक्तानामादित्यचन्द्रादीनां" यः कर्ता, अथवा, किं विशिष्य अभिधानेन । एतत् प्रत्यक्षादिप्रमाणासिद्धं कृत्स्नं जगत् यस्य कर्म, क्रियत इति कर्म-कार्यं, सः-जगत्कारणभूतः" पुरुषः वेदितव्यः । वै इत्यवधारणार्थकम् । स एव वेदितव्य इत्यर्थः । इत्थं चानेन वाक्येन जगतो ब्रह्मकार्यत्वमेवोच्यते । ‘‘यो वै बालाके एतेषां पुरुषाणां कर्ता, यस्य वैतत्कर्म’’ इत्यत्र यच्छब्दस्य अनुवादरूपतया, पुरुषसूक्ते ‘‘चन्द्रमा मनसो जातः चक्षोः" सूर्यो अजायत’’ इत्यादिना सकलजगत्स्रष्टृत्वेनोक्तः श्रीनिवासापरनामधेयो महापुरुष एव अत्र यच्छब्देन आदित्यादिकर्तृत्वेन अनूद्यत इति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘यो वै बालाके एतेषां पुरुषाणां कर्ता’’ इत्यत्र आलोकप्रदानादिना स्वभोगोपकरणभूतानामादित्यादीनामदृष्टद्वारकं भोक्तुः कर्तृत्वमुच्यते । अदृष्टद्वारा कर्तृत्वनिर्वाहकं भोक्तृसंबन्धि सुकृतरूपं कर्म, ‘‘यस्य वा एतत्कर्म’’ इत्यत्र कर्मशब्देनोच्यते । इत्थं चात्र सुकृतरूपकर्मसंबन्धी भोक्ता जीव एव यच्छब्देनोच्यते,न परं ब्रह्म; तस्य कर्मसंबन्धानभ्युपगमात् ॥ न च-‘क्रियत इति कर्म’ इति व्युत्पत्त्या कर्मशब्दः कार्यवाची; ततश्च एतत्-परिदृश्यमानं जगत्, यस्य कार्य स वेदितव्य इति वाक्यार्थः" । इत्थं च पूर्ववाक्येऽपि कृत्स्नजगत्कर्तुः ब्रह्मण एव आदित्यादिकर्तृत्वमभिधीयते । न त्वदृष्टद्वारकं भोक्तुर्जीवस्य आदित्यादिकर्तृत्वम् । इत्थं च यच्छब्देन परं ब्रह्माभिधीयते, न जीव इति-वाच्यम् । कर्मशब्दस्य सुकृतदुष्कृतरूपे कर्मणि रूढतया, योगात् रूढेर्बलीयस्त्वेन सुकृतरूपरूढ्यर्थस्यैव ग्राह्यत्वात । इत्थं च यच्छब्दस्य जीवपरत्वमेवोचितम् ॥ किञ्च उत्तरत्र ‘‘तौ ह सुप्तं पुरुषमीयतुः’’ इत्यादिना वेदितव्यतयोक्तस्य प्रकृतस्य पुरुषस्य यष्टिघातेनोत्थापनमभिधीयते । एवं" ‘‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट’’ इत्यादिप्रश्नप्रतिवचनावसरे ‘‘यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति’’ इत्यत्र ‘अस्मिन्’ इति इदंशब्दपरामृष्टस्य तस्यैव पुरुषस्य ‘अस्मिन्’ इत्येतत्समानाधिकरणेन ‘प्राण’शब्देन प्राणसंबन्ध उक्तः । अत्र प्राणशब्दस्य प्राणभृति लक्षणाया अवश्यवक्तव्यत्वात् । अतो यष्टिघातोत्थापनस्वप्नसुषुप्त्याद्यवस्थान्वयप्राणभृत्त्वरूपाणां" जीवलिङ्गानां उपलभ्यमानत्वादपि अयं वेदितव्यतयोक्तः पुरुषो जीव एवेति निश्चियते । तस्य कर्मवियुक्तं शुद्धस्वरूपं प्रकृतिवियुक्ततया वेदितव्यमिति ‘‘स वै वेदितव्य’’ इत्यनेनोपदिश्यते । अतोऽत्र सांख्यतन्त्रसिद्धप्रधानाधिष्ठातृपुरुषस्यैवाभिधानात्, सर्वेषु वेदान्तेषु पुरुषाधिष्ठितं प्रधानमेव जगत्कारणमुच्यत इति ॥ सिद्धान्तः । बालाकिना ब्रह्मत्वेन उक्तानामादित्यादिपुरुषाणां ब्रह्मत्वं निराकृत्य तदज्ञातब्रह्मज्ञापनाय प्रवृत्तेऽस्मिन् अजातशत्रुवचने कर्मशब्दस्य पुण्यापुण्यरूपकर्मपरत्वे, कर्मवश्यस्य आदित्यादिसजातीयपुरुषस्य आदित्यादिवत् तैनैव ज्ञातत्वेन अज्ञातज्ञापनासिद्धेः" नायं कर्मशब्दः पुण्यापुण्यरूपकर्मवाची, अपि तु ‘क्रियत इति कर्म’ इति व्युत्पत्त्या कार्यवाची । एतच्छब्दश्च पूर्ववाक्यप्रस्तुतादित्याद्युपस्थापितजगद्वाची । ततश्च एतत्-कृत्स्नं जगत्, यस्य कर्म-यत्कार्य, स वेदितव्य इत्यर्थः ॥ इत्थं च पुरुषसूक्तादिषु आदित्यादिकृत्स्नजगत्कर्तृत्वेन प्रसिद्धस्य महापुरुषस्य वेदितव्यत्वलाभात्, अज्ञातज्ञापनसिद्धिः । अतो नेदं वाक्यं सांख्याभिमतप्रकृत्यधिष्ठातृक्षेत्रज्ञपुरुषपरं, अपि तु कृत्स्नजगत्कारणभूतब्रह्मपरम् । ‘‘यो वै बालाके एतेषां पुरुषाणां" कर्ता स वै वैदितव्यः’’ इति पुल्लिङ्गेन यच्छब्दोक्तिस्तु, ‘‘चन्द्रमा मनसो जातः । चक्षोः सूर्यौ अजायत’’ इत्यादिना आदित्यचन्द्रादीनामुत्पादकतया, ‘‘तमेवं विद्वानमृत इह भवति’’ इत्यमृतत्वसाधनभूतस्ववेदनतया च पुरुषसूक्तेऽभिहितस्य च श्रीनिवासापरनामधेयस्य लक्ष्मीपतेर्महापुरुषस्य प्रत्यभिज्ञापनार्था । एवमुपसंहारे ‘‘सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यं आधिपत्यं पर्येति य एवं" वेद’’ इत्यनेन उक्तपुरुषवेदनस्य सर्वपापापहतिपूर्वकं स्वाराज्यशब्दितकर्मवश्यत्वाभावरूपमोक्षफलप्रतिपादनादपि ‘‘स वै वेदितव्य’’ इति वाक्योक्तः पुरुषः परं ब्रह्मैवेति निश्चीयते । एवं ‘‘ब्रह्म ते ब्रुवाणि’’ इति ‘ब्रह्म’शब्देनोपक्रमः । मध्ये ‘‘यस्य वैतत्कर्म’’ इति जगत्कारणत्वरूपब्रह्मलक्षणोक्तिः । उपसंहारे मोक्षरूपफलोक्तिः इत्येतैः लिङ्गैः महावाक्यस्य ब्रह्मपरत्वे निश्चिते, ‘‘अथास्मिन् प्राण एवैकधा भवति’’ इत्यत्र, ‘अस्मिन्’ इति पदं ब्रह्मपरमेव । प्राणशब्दश्च प्राणशरीरकपरः इति इन्द्रप्राणाधिकरणोक्तन्यायेन ‘अस्मिन् प्राणे’ इति सामानाधिकरण्यं निर्वाह्यम् । चष्टिघातोत्थापनादिभिः जीवप्रतिपादनं तु जीवसुषुप्त्याधारतया ब्रह्मणः तदतिरिक्तत्वप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते ॥ तथा हि-‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्वैतदभूत् कुत एतदागात्’’ इति जीवस्य स्वप्नसुषुप्तिस्थानयोः, प्रबोधे निर्गमापादानस्य च प्रश्नः ‘‘हिता नाम नाड्यः’’ इत्यादिना जीवस्य स्वप्नस्थानप्रतिवचनम् । ‘‘यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्रापा एवैकधा भवति’’ इत्यादिना सुषुप्तिस्थानप्रश्नस्य प्रतिवचनम् । ‘यदाऽयं जीवः सुषुप्तो भवति, तदा प्राणशरिरके अस्मिन् परमात्मनि, एकधा भवति-लीनो भवति’ इति तदर्थः । ततश्च अत्र परमात्मनो जीवसुषुप्त्याधारत्वोक्त्या, जीवात् व्यतिरेकः प्रतिबोधितो भवति । तदेवं" परमात्मनो जीवसुषुप्त्याधारतया जीवातिरिक्तत्वप्रतिबोधनाय अस्मिन् प्रकरणे जीवोक्तिः । ननु ‘‘क्वैतदभूत्’’ इति द्वितीयप्रश्ने, एतच्छब्दो न जीवपरः, अपि तु वागादिकरणजातपरः । ततश्च वागादीन्द्रियवर्गस्य कुत्र लय इति प्रश्नः ‘‘अथास्मिन् प्राण एवैकधा भवति’’ इति वागादिकरणजातं प्राणसृति जीवेलीनं भवतीति प्रतिवचनम् । इत्येवं प्रश्नप्रतिवचनयोरन्यथैवोपपत्तेः" अस्मिन् प्रकरणे जीवप्रतिपादनं जीवातिरिक्तब्रह्मप्रतिबोधनार्थमेव इति कथं निश्चीयत इति चेत् । उच्यते-बृहदारण्यके बाराक्यजातशत्रुसंवादे ‘‘यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्’’ इति विज्ञानमयशब्दनिर्दिष्टस्य जीवस्य सुषुप्त्याधारविषयकप्रश्नस्य ‘‘य एष विज्ञानमयः पुरुषस्तदैषां प्राणानां विज्ञानेन वि5ानमादाय य एषोऽन्तर्हृदय आकाशास्तस्मिन् शेते’’ इति परमात्मनो जीवसुषुप्त्याधारताप्रतिपादकप्रतिवचनस्य च दर्शनात्, तदैकार्थ्यात् प्रकृते ‘‘क्वैतदभूत्’’ इति प्रश्ने एतच्छब्दनिर्दिष्टो जीव इति, ‘‘अथास्मिन् प्राण एवैकधा भवति’’ इति प्रतिवचने ‘अस्मिन्’ इति इदं शब्देन परमात्मैव विवक्षित इति च निश्वीयते । ‘‘य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते’’ इत्यत्र ‘आकाश’शब्दः परमात्मपरः, ‘‘दहरोऽस्मिन्नन्तर आकाशः’’ इत्यादौ ‘आकाश’शब्दस्य परमात्मनि प्रसिद्धेः । तदेवमस्मिन् प्रकरणे जीवप्रतिपादनस्य परमात्मनो जीवादतिरिक्तत्वप्रतिबोधनार्थत्वात्, ‘‘यस्य वैतत्कर्म स वै वेदितव्य’’ इत्यत्र न प्रकृत्याधिष्ठातृतया सांख्यमतसिद्धभोक्तृपुरुषः" प्रतिपाद्यते अपि तु परं ब्रह्मैवेति ॥ इति जगद्वाचित्वाधिकरणम् ॥ 5 ॥
द्रष्टव्य इति य उक्तस्तस्यामृतहेतुताद्युक्त्या ।
स यदिति गमयति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 35 ॥
33 ॥ वाक्यान्वयाधिकरणम् ॥ 6 ॥ पूर्वाधिकरणे ‘‘यस्य वैतत्कर्म’’ इत्यत्र ‘कर्म’शव्दस्य ‘क्रियत इति कर्म’ इति योगमाश्रित्य जगत्परत्वाश्रयणेन तद्वाक्यस्य भोक्तृपरत्वं" निराकृतम् । मैत्रैयीब्राह्मणे कर्मफलभोक्तुरेव साक्षात्प्रतिपादनेन तद्वाक्यस्य भोक्तृपरत्वमेव युक्तं इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ वाक्यान्वयात् ॥ 1-4-19 ॥ [प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ 20 ॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ 21 ॥ अवस्थितेरिति काशकृत्स्नः ॥ 22 ॥] मैत्रेयीब्राह्मणस्थमहावाक्यान्वयसामञ्जस्यबलात् तद्वाक्यप्रतिपाद्य आत्मा न कर्मफलभोक्ता जीवः, अपि तु परमपुरुष इति सूत्रार्थः ॥ द्रष्टव्य इति य उक्तस्तस्यामृतहेतुताद्युक्त्या । स यतिति गमयति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 35 ॥ अर्थः । ‘‘आत्मा वा अरे द्रष्टव्यः’’ इत्यत्र द्रष्टव्यतयोक्तस्य आत्मनः अमृतहेतुतायाः-मोक्षोपायोपासनविषयतारूपायाः तस्यैकस्य ज्ञानेन सर्वस्य ज्ञाततायाश्च, उक्त्या-अभिधानेन, विद्या-मैत्रेयीविद्या, सः-आत्मा, यदितिःश्रीनिवासभिधानं ब्रह्मेति, गमयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । मैत्रेयीब्रह्मणे ‘‘येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रवीतु’’ इति मैत्रेय्या अमृतत्वोपायोपासनविषयं" पृष्टेन याज्ञवल्क्येन ‘‘आत्मा वा अरे द्रष्टव्यः’’ इत्यमृतत्वार्थिना उपास्यतया उक्त आत्मा ‘‘तमेवं विद्वानमृत इह भवति’’ इत्यमृतत्वोपायोपासनविषयतया पुरुषसूक्तादिप्रतिपादितः श्रीनिवासापरनामधेयो महापुरुष एवेति निर्धार्यते ॥ एवं ‘‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितं’’ इति प्रकृतस्य आत्मन एकस्य विज्ञानेन सर्वस्य ज्ञातत्वं प्रतिज्ञायते । अस्याः प्रतिज्ञायाः साद्विद्याप्रकरणस्थायाः ‘‘येनाश्रुतं श्रुतं’’ इत्यादेः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाश्च एक्यात्, तस्याश्च ‘‘सदेव सोम्येदमग्र आसीत्,’’ ‘‘सेयं देवतैक्षत’’ इत्याद्युत्तरवाक्ये सदादिपदनिर्दिष्टनामरूपव्याकर्तृमहापुरुषलक्ष्मीपतिविषयकत्वादपि सः लक्ष्मीपतिः श्रीनिवास एवायं मैत्रेयीब्राह्मणे द्रष्टव्यतया उक्त आत्मोते निर्धार्यते । इदं च प्रत्यभिज्ञापकं श्लोके ‘आदि’पदेन ग्राह्यमिति ॥ पूर्वपक्षः । बृहदारण्यके मैत्रेयीब्राह्मणे ‘‘न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवतिः न वा अरे जायायै कामाय जाया प्रिया भवति’’ इत्युपक्रम्य, ‘‘आत्मा वा अरे द्रष्ठव्य’’ इत्यमृतत्वोपायं पृष्टवतीं मैत्रेयीं प्रति याज्ञवल्क्यस्य प्रतिवचनं श्रूयते । अत्र ‘जायां प्रति पत्युः प्रियत्वं न पत्युरिष्टसंपत्तये, अपि तु जायाया इष्टसंपत्तये’ इत्याद्यभिधाय ‘‘आत्मा वा अरे द्रष्टव्य’’ इत्यभिधानात्, पतिजायापुत्रवित्तादिसंबन्धिन आत्मनो द्रष्टव्यत्वलाभात्, पतिजायादीनां भोक्ता आत्मा द्रष्टव्य इत्युक्तं भवति । अतो भोक्तृत्वोपलक्षितस्य शुद्धस्वरूपस्य द्रष्टव्यतालाभात्, तस्यैव भोक्तुरुत्तरत्र जगत्कारणत्वाभिधानात्, भोक्तैव प्रकृत्यधिष्ठाता, तदधिष्ठितं प्रधानमेव कारण तया प्रतिपाद्यत इति ॥ सिद्धान्तः । ‘‘न वाऽरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति’’ इत्युपक्रम्य ‘‘आत्मा वा अरे द्रष्टव्य’’ इत्यभिधानात्, ‘‘न वाऽरे पत्युः कामाय पतिः प्रियो भवति’’ इत्याद्यभिधानं पत्यदीनां परित्याज्यतालाभायेति प्रतीयते । ततश्च पत्यादयो यतः स्वात्मेष्टसंपत्तये प्रिया भवन्ति, अतः पत्यातीन् प्रियान् परित्यज्य पत्यादिप्रियवियुक्तं स्वात्मस्वरूपमन्वेष्टव्यं इत्युक्ते, अर्थासङ्गतिः स्यात् । स्वात्मनः प्रिय एव ह्यन्वेष्टव्यो भवति न तु तद्वियुक्तं स्वात्मनः स्वरूपम् । अतोऽत्र आत्मशब्दो न जीवात्मपरः, अपि तु परमात्मपरः" । ततश्च परमात्मनः कामाय-परमात्मसङ्कल्पं निर्वर्तयितुं पत्यादयस्तत्प्रतिसंबन्धिनां प्रिया भवन्ति, न तु पत्यादिसङ्कल्पनिर्वृत्तये इत्यर्थः ॥ इत्थं च ‘अहमस्याः प्रियः स्यां’ इति पतिसङ्गल्पात् पतिर्जायाया न प्रियो भवति; अपि तु ‘अयं पतिः अस्या जायायाः प्रियो भवतु’ इति परमात्मसङ्गल्पात् पतिर्जायायाः प्रियो भवति इत्युक्तं भवति । इत्थं च पत्यादीनां प्रियत्वं कर्मफलप्रदस्य परमात्मनः सङ्कल्पायत्तं" इति पत्यादीनां प्रियत्वस्यौपाधिकत्वलाभात् औपाधिकप्रियान् पत्यदीन् परित्यज्य, निरुपाधिकप्रियः परमात्मा अन्वेष्टव्य इत्यर्थलाभात्, न असङ्गतिः । ततश्च ‘‘आत्मनस्तु कामाय’’ अन्वेष्टव्य इत्यर्थलाभात्, न असङ्गतिः । ततश्च ‘‘आत्मनस्तु कामाय’’ इति, ‘‘आत्मा वाऽरे द्रष्टव्य’’ इत्युभयत्र ‘आत्म’शब्दः ब्रह्मपर एव, न तु पतिजायादिप्रतिसम्बन्धिजीवात्मपरः । अतोऽस्मिन् प्रकरणे न तन्त्रसिद्धपुरुषाभिधानम् ॥ ननु अस्य प्रकरणस्य परमात्मपरत्वे, ‘‘एवं वाऽरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्याति’’ इति उत्तरत्र देहात्मना परिणतभूतोत्पत्तिविनाशानुविधाय्युत्पत्तिविनाशावत्त्वरूपजीवधर्मोक्तिः कथमुपपद्यत इति चेत् ‘‘मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं’’ इत्येकस्य प्रकृतात्मनो विज्ञानेन सर्वस्य विदितत्वप्रतिज्ञासिद्धेन ‘‘यथा मुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः, तथाऽक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’’ इति श्रुत्युक्तेन जीवब्रह्मणोः कार्यकारणभावेन सिद्धस्य तयोरभेदस्य ज्ञापनाय ‘‘महद्भूतमनन्तमपारं’’ इत्युक्तस्य परमात्मनः ‘विज्ञानघन’ शब्दनिर्दिष्टस्य जीवात्मनश्च सामानाधिकरण्येन एक्योक्तिः इत्याश्मरथ्याचार्यमतम् ॥ अस्मिन् मते जीवात्मनः परमात्मसकाशात् उत्पत्तेरम्युपगमात्, ‘‘न जायते म्रियते वा विपाश्चित्’’ इत्यादिजीवोत्पत्तिनिषेधपरबहुश्रुतिविरोधः, जीवस्योत्पत्त्यभ्युपगमे कृतहानाकृताभ्यगमप्रसङ्गः इत्यादिबहुतरदोषप्रसङ्गः । अतो मतमिदमयुक्तं इत्यभिप्रयत औडुलोमेराचार्यस्च तु जीवात्मनो मुक्तिदशायां परमात्मना सममभेदस्य ‘‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंबद्य स्वेन रूपेणाभिनिष्पद्यते’’ इत्यादिश्रुतिसिद्धतया मुक्तिदशाभाविनं जीवात्मपरमात्मनोरभेदमाश्रित्य, ‘‘महद्भूतमनन्तमपारं विज्ञानघन एव’’ इति सामानाधिकरण्यनिर्देश इति मतम् ॥ अस्मिन्नपि मते ‘आमोक्षात् जीवस्य परमात्मतो भेदः, मुक्तिदशायां अभेदः’ इत्यभ्युपगमात्, ‘‘परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यत् द्रव्यं हि नैति तद्द्रव्यतां यतः’’ इति भिन्नयोः द्रव्ययोः ऐक्योत्पत्तिनिषेधपरप्रमाणविरोधः । ‘‘एष संप्रसाद’’ इत्यादिश्रुतिस्तु जीवात्मनो मुक्तिदशायां अपहत्तपाप्मत्वादिस्वरूपाविर्भावपरा, न तु परमात्मना सममैक्यापत्तिपरा इति ‘‘संपद्याऽऽविर्भावः स्वेन शब्दात’’ इति सूत्रे वक्ष्यते । अतः परमात्मनो जीवात्मन्यन्तरात्मतया अवस्थानस्य जीवात्मनः परमात्मशरीरत्वस्य च ‘‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद, यस्यात्मा शरीरं’’ इत्यादिश्रुतिसिद्धतया, शरीरवाचकानां शब्दानां शरीरिपर्यन्तवाचकताया आकृत्यधिकरणन्यायसिद्धत्वेन प्रकृते जीवात्मवाचिनो ‘विज्ञानघन’शब्दस्य जीवान्तर्यामिपरमात्मपर्यन्तवाचकतया, तस्य ‘‘महद्भूतमनन्तमपारं’’ इति परमात्मवाचकशब्देन सामानाधिकरण्योपपात्तिः ॥ ततश्च ‘‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’’ इति वाक्यखण्डोक्तस्य उत्पत्तिविनाशवत्त्वस्य विशेषणीभूतजीवद्वारा परमात्मन्यन्वयात्, नानुपपत्तिः । अत्र जीवस्य उत्पत्तिः देहसंबन्धप्रयुक्तज्ञानविकासरूपा विवक्षिताः विनाशश्च तत्सम्बन्धविनाशप्रयुक्तज्ञानसङ्गोचरूपो विवक्षितः । ‘‘न जायते म्रियते वा विपश्चित्’’ इति जीवात्मन उत्वत्तिविनाशयोः प्रतिषेधात् इति काशकृत्स्नस्याचार्यस्य मतम् । इदमेव मतं सृत्रकारस्याभिमतम्, तदुत्तरं मतान्तरानुपन्यासात् इति ॥ ननु ‘परमात्मन एव जीवभावेन अवस्थानेन तयोरैक्यात्, ‘‘महद्भूतमनन्तमपारं विज्ञानघन एव’’ इति सामानाधिकरण्योपपत्तिः इत्येव ‘‘अवस्थितेरिति काशकृत्स्न’’ इति सूत्राभिप्रायः किं न स्यात्’ इति चेत् । उच्यते-अत्त्रधिकरणे ‘‘गुहां प्रविष्टावात्मानौ हि तद्यर्शनात्’’ इति सूत्रे द्विवचनान्तेन अनुपहितात्मस्वरूपवाचिना ‘आत्मानौ’ इति शब्देन परस्परभिन्नस्वरूपयोः जीवात्मपरमात्मनोः हृदयगुहाप्रवेशः" ‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये’’ इति श्रुत्या प्रतिपाद्यत इत्यभिधानात्, जीवब्रह्मणोः निरुपाधिकभेद एव श्रुत्यभिमत इति सूत्रकाराभिप्रायावगमात्, ‘‘अवस्थितेरिति काशकृत्स्न’’ इति सूत्रानन्तरं मातान्तरानुपन्यासाच्च, जीवब्रह्मणोः" श्रुत्यभिमतस्वरूपभेदाविरोधेनैव तयोः सामानाधिकरण्यनिर्वाहः सूत्राभिमत इत्यवश्यवक्तव्यतया, सूत्रस्य जीवब्रह्मणोः स्वरूपैक्यमाशित्य, तयोः सामानाधिकरण्यनिर्वाहपरत्ववर्णनमनुपपन्नमिति संक्षेपः ॥ इति वाक्यान्वयाधिकरणम् ॥ 6 ॥
यस्यैकस्य ज्ञानात् ज्ञातमिदं भवति सर्वमित्युक्त्या ।
गमयति यदुपादानं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 36 ॥
34 ॥ प्रकृत्यधिकरणम् ॥ 7 ॥ पूर्वाधिकरणे मैत्रेयीं प्रति याज्ञवल्क्यप्रतिवचने द्रष्टव्यतया उक्तस्याऽऽत्मन एकस्य विज्ञानेन सर्व विज्ञातं भवति इत्यभिधानेन तस्यआतम्नः सर्वोपादनतालाभात्, जीवात्मनः चिदचित्समुदायरूपसर्वोपादानत्वासंभवात, न द्रष्टव्यतया उक्त आत्मा जीवात्मा, अपि तु परमात्मेति सिद्धान्तितम् । तत्र परमात्मनो जगदुपादानत्वं यदभ्युपगतं, तन्नोपपद्यत इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ 1-4-23 ॥ [अभिध्योपदेशाच्च ॥ 24 ॥ साक्षाच्चोभयाम्नानात् ॥ 25 ॥ आत्मकृतेः ॥ 26 ॥ परिणामात् ॥ 27 ॥ योनिश्च हि गीयते ॥ 28 ॥ अत्र प्रकृतिः इत्युपादानकारणपरम्; च शब्देन निमित्तकारणत्वं समुच्चीयते । ‘ब्रह्म’ इति प्रकरणसिद्धम् । ततश्च ब्रह्म न निमित्तकारणमात्रं, अपि तु उपादनकारणमपि । प्रतिज्ञायाः-एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः मृत्पिण्डघटादिदृष्टान्तस्य च तथा सत्येवोपपत्तिसिद्धेः" इति मूत्रार्थः ॥ यस्यैकस्य ज्ञानात् ज्ञातमिदं भवति सर्वमित्युक्त्या । गमयति यदुपादानं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 36 ॥ अर्थः । ‘‘उत तमादेशमप्रक्ष्यः येनाश्रुतं श्रुतं भवति’’ इति श्रुतिः, यस्य-श्रीनिवासापरनामधेयस्य ब्रह्मणः ज्ञानात्, इदं सर्व-चेतनाचेतनात्मकं जगत, ज्ञातं भवति इत्युक्त्या, यत्-श्रीनिवासापरनामधेयं ब्रह्म, उपादानं-जगदुपादानकारणं इति, गमयाति, यस्य उपादानकारणतां ज्ञापयति इत्यर्थः, तद्ब्रह्मेति पूर्ववत् ॥ भावः । एकस्यां मृदि प्रथमं पिण्डत्वावस्था जायते; अनन्तरं घटस्वावस्था । तत्र पूर्वावस्थावद्द्रव्यमुपादानं; उत्तरावस्थापन्नं तदेव द्रव्यमुपादेयमित्युच्यते । तत्र पूर्वोत्तरावस्थाद्वयापन्नद्रव्यस्यैकत्वात्, उपादानवस्तुज्ञानस्य उपादेयवस्तुज्ञानरूपत्वेन, उपादाने ज्ञाते सति, उपादेयं ज्ञातं भवति । तद्वत्, प्रकृते ‘ब्रह्मणि ज्ञाते, इदं सर्व ज्ञातं भवति’ इति ‘‘येनाश्रुतं श्रुतं" भवति’’ इति श्रुत्याऽभिधानात्, ब्रह्मणो जगदुपादानत्वं ज्ञायते । यद्यपि दृष्टान्ते मृद्द्रव्यस्यैकस्यैव पिण्डत्वघटत्वाद्यवस्याद्वययोगेन, पिण्डस्य ज्ञानेन घटस्य ज्ञातता युक्ता । प्रकृते जगद्ब्रह्मणोः भिन्नत्वात्, ब्रह्मज्ञानस्य जगज्ज्ञानरूपत्वासंभवात्, न ब्रह्मज्ञानेन जगतो ज्ञाततासंभवः; नाप्युपादानोपादेयभावसंभवः, ब्रह्मणो निर्विकारतया अवस्थारूपविकारवत्त्वासंभवात् । तथाऽपि ब्रह्मज्ञानेन जगतो ज्ञाततामंभवोक्त्या, तयोरुपादानोपादेयभावमन्तरा तदसंभवात्, निर्विकारस्य ब्रह्मणः साक्षाद्विकाररूपावस्थाया असंभवात्, चेतनाचेतनात्मकजगद्रूपशरीरद्वारा विकारवत्त्वं संभवति इति श्रुतेराशयोऽवगम्यते । ततश्च यथा जीवात्मनो निर्विकारस्यसाक्षात् बालत्वयुवत्वाद्यवस्थाविरहेऽपि, तच्छरीरगतवालत्वाद्यवस्थाद्वयमादाय, ‘बालो युवा जात’ इत्यादिव्यवहारसिद्धोपादानोपादेयभावः, तद्वत् इहापि ॥ नन्वेवं ब्रह्मशरीरभूतस्य जगत एव परिणामित्वे ब्रह्मणश्चापरिणामित्वे, ब्रह्मणः किमर्थमुपादानत्वं अङ्गीकरणीयम्? उपदार्शिताया एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः प्राधान्याभिप्रायेणोपपत्तेः, यथा ‘राज्ञिदृष्टे अमात्यादयो दृष्टा भवन्ति’ इत्युक्तिः प्राधान्याभिप्रायेण; तत्र हि ‘यत्किञ्चित्प्रयोजनलाभाय द्रष्टव्येषु राजादिषु, अमात्यादिदर्शनेन यत्प्रयोजनं लब्धव्यं, तत् राजदर्शनेन लभ्यत’ इति राज्ञः प्राधान्याभिप्रायेण तथोक्तिः, दद्वत् इहापि शोतव्येषु ब्रह्मश्रवणेन तदितरश्रवणलभ्यप्रयोजनलाभाभिप्रायेण, ब्रह्मणि श्रुते तदितरत्सर्व श्रुतं भवति इति प्राधान्याभिप्रायेण उक्तप्रतिज्ञानिर्वाहसंभवात् इति चैत् । मैवं- एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः" प्राधान्याभिप्रायेण गौणत्वाङ्गीकारे, तदुपपादनायोपात्तदृष्टान्तानामुपरोधः स्यात् । तत्र हि ‘‘येनाश्रुतं श्रुतं ’’ इत्यादिना ब्रह्मणः श्रवणेन सर्वस्य जगतः श्रुतत्वं प्रतिज्ञाय, कथमन्यस्य श्रवणेन अन्यस्य श्रुतत्वसंभव इति ‘‘कथं नु भगवः स आदेश’’ इत्याक्षेपे, ‘‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्,’’ ‘‘यथा सोम्यैकेन लोहमणिना सर्व लाहमयं विज्ञातं स्यात्’’ ‘‘यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’’ इति दृष्टान्तत्रयेण ब्रह्मणः श्रवणेन सर्वस्य जगतः श्रुतत्वं संभवति इत्युपपदितम् । लोहमणिः- सुवर्णपिण्डः; लोहमयं-सुवर्णमयं कटकमकुटादि । नखनिकृन्तनं-कार्ष्णायसपिण्डः । अत्र उदाहृतेषु दृष्टान्तेषु न प्रधानज्ञानेन अप्रधानस्य ज्ञातत्वं दृष्टान्तीक्रियते; मृत्पिण्डघटादीनां प्रकृतिविकृतिभावं प्रदर्श्य, मृत्पिण्डादिज्ञानेन घटादीनां ज्ञातताया निदर्शितत्वात् । बहूदाहरणप्रदर्शनं दार्ष्टान्तिके जगद्ब्रह्मणोरुपादानोपादेयभावप्रतीतिदार्ढ्यार्थमिति निश्चीयते । अत उक्तदृष्टान्तत्रयोपादानानुरोधेन जगद्ब्रह्मणोः उपादानोपादेयभाव एव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया प्रतिपिपादयिषित इति निर्णीयते ॥ न चोक्तदृष्टान्तत्रयानुरोधेन ब्रह्मणो जगद्रूपेण परिणामोऽभ्युपगन्तुं शक्यः; ‘‘निष्कलं निष्क्रियं शान्तं’’ इत्यादिभिर्ब्रह्मणो निर्विकारत्वप्रतिपादनेन, तद्विरोधप्रसङ्गात् । अतो ब्रह्मणो निर्विकारत्वश्रुतेः जगदुपादानत्वश्रुतेश्च उपपादनाय, जगद्रूपशरीरद्वारा परिणाम एवाङ्गीकर्तव्यः । जगद्ब्रह्मणोः शरीरशरीरिभावश्च अन्तर्यामिब्राह्मणादिषु बहुधा प्रपञ्चितः । दृष्टश्च शरीरद्वारकपरिणाममाश्रित्य, निर्विकारस्यात्मन उपादानोपादेयभावव्यवहारः ‘योऽनभिज्ञो बाल आसीत् स इदानी युवाऽभिज्ञो जात’ इत्यादिः, इत्यलं बहुना ॥ अत्र च ‘‘येनाश्रुतं श्रुतं भवति’’ इत्यादिना ब्रह्मणो जगदुपादानत्वं प्रदर्श्य, तद्विवरणाय प्रवृत्ते ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्याद्युत्तरसन्दर्भे सच्चब्देन पूर्व यच्छब्दनिर्दिष्टं ब्रह्म निर्दिश्य, तस्य ‘‘तदैक्षत’’ इत्यादिना बहुभवनसङ्गल्पादिप्रतिपादनात्, तस्य च श्रीनिवासापरनामधेयलक्ष्मीपति महापुरुषप्रत्यभिज्ञापकतायाः पूर्वोपपदितत्वात्, श्रीनिवासापरनामधेयं ब्रह्मोव जगदुपादानमिति निर्धार्यत इति ॥ पूर्वपक्षः । ब्रह्मणो जगदुपादानत्वं न संभवति, तस्य जगन्निमित्तकारणताश्रवणात् । श्रूयते हि ‘‘सोऽकामयत’’ इत्यारभ्य, ‘‘स तपस्तप्त्वा, इदं" सर्वमसृजत’’ इति ब्रह्मणो जगत्स्रष्टृत्वम् । निमित्तोपादानयोर्भेदश्च लोके नियमेन दृश्यते-यथा घटादिकार्ये तन्निमित्तोपादानयोः" कुलालमृत्पिण्डयोः; श्रुतिषु च ‘‘अस्मान्मयी सृजते विश्र्वमेतत्, तस्मिंश्चान्यो मायया सन्निरुद्धः मायां तु प्रकृतिं विद्यान्मायिनं" तु महेश्वरं’’ इत्यादिषु परमात्मनो जगत्स्रष्टृत्वं प्रकृतेरुपादानत्वं च वदन्तीषु जगन्निमित्तोपादानयोर्भेदो व्यपदिश्यत । न केवलं लोके तयोर्भेददर्शनमात्रेण ब्रह्मणोऽनुपादानत्वं, उपादानलक्षणसंभवादप्यनुपादानत्वमेष्टव्यम् । कार्यात्मना परिणममानत्वं" ह्युपादानत्वं, यथा घटात्मना परिणममानाया मृदो घटं प्रत्युपादानत्वम् । निर्विकारत्वेन श्रुतिसिद्धस्य ब्रह्मणः परिणामाश्रयत्वं" न संभवति । न च साक्षात्परिणामश्रयत्वासंभवेऽपि, अचेतनद्वारा परिणामाश्रयत्वमादाय उपादानत्वसंभवः, अतिप्रसङ्गात् । न हि घटात्मना परिणममानमृदाश्रयस्य भूतलादेर्घटं प्रति उपादानत्वम् । अतः साक्षात्परिणामाश्रयत्वाभावात् नोपादानत्वसंभव इति । सिद्धान्तः । ब्रह्मज्ञानेन जातो ज्ञाततां प्रतिज्ञाय, मृद्धटादिदृष्टान्तैः तदुपपादनेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया ब्रह्मणो जगदुपादानत्वे तात्पर्यावगमात् ‘‘बहु स्यां प्रजायेय’’ इति ब्रह्मण एव बहुभवनसङ्कल्पश्रवणेन तस्यैव जगदूपेण बहुभवनावगमात्, *(तै.सं 2-8-7-8. यतः-यस्मादुपादानात्, द्यावापृथिवी-द्यावापृधिव्यादिकृत्स्रं जगत्, निष्टतक्षुः-निर्मितवान्; बहुत्वमविवक्षितम् । ईश्वर इति शेषः" । स अपदानभूतो वृक्षः, ब्रह्म; वनं-तस्य वृक्षस्य आधारभूतमपि ब्रह्म; भुवनानि धारयन् ईश्वरः, ब्रह्मस्वात्मानमेव, अध्यतिष्ठत्-अधिष्ठितवान्; अधिष्ठेयं उपकरणमपि ब्रह्मौवेत्यर्थः ॥) ‘‘ब्रह्म वनं ब्रह्म स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः । मरीषिणो मनसा विब्रवीमि वः । ब्रह्माध्यतिष्ठत्भुवनानि धारयन्’’ इत्यादिश्रुतिषु ब्रह्मण एव जगदुपादानत्वजगत्सृष्ट्युपकरणाधिष्ठातृत्वयोरुभयोः साक्षाच्छ्रवणात्, ‘‘तदात्मानं स्वयमकुरुत’’ इत्यादिषु ब्रह्मणः स्वात्मन एव स्वयमेव जगद्रूपेण बहुधाकरणश्रवणात् ‘‘तदनुप्रविश्य, सच्च त्यच्चाभवत्’’ इत्यादिना ब्रह्मणः ‘सत’‘त्यत’शब्दितचेतनाचेतनरूपेण भवनस्य अनुप्रवेशपूर्वकत्वाभिधानेन चिदचिदात्मके प्रपञ्चे अनुप्रवेशकृतमेव ब्रह्मणश्चिदचिदात्मना परिणामाश्रयत्वमिति चिदचितोः ब्रह्मणश्च शरीरात्मभावप्रतिपादकश्रुतिभिश्चिदचिद्रूपापृथाक्सिद्धपिशेषणद्वारकं तदाश्रयत्वमिति चावगमेन अतिप्रसङ्गम्य श्रुतयैव परिहृतत्वात्, लाके कुलालादीनां घटाद्युपादानताग्राहकप्रमाणस्य तदुपादानतानिर्वाहकतच्छरीरकत्वादेश्चाभावेन तदुपादानत्वविरहेऽपि ब्रह्मणि जगदुपादानत्वतन्निर्पाहप्रकारयोः द्वयोः बहुशः श्रुतिभिः प्रदर्शितत्वात्, ‘‘यद्भूतयोनिं परिपश्यन्ति धीराः’’ इत्यादिषु ब्रह्मणा जगद्योनित्वशवणात्, ‘‘यथोर्णनाभिः सृजते गृह्णते च, यथा पृथिव्यामोषधयः संभवन्ति’’ इति तदुत्तरमन्त्रे भूतयोनित्वस्य जगदुपादानत्वरूपतया विवरणाच्च ब्रह्मणो जगन्निमित्तत्वं तदुपादानत्वं च दुरपह्नविमिति ॥ इति प्रकृत्याधिकरणम् ॥ 7 ॥
तैस्तैः शिवादिशब्दैरभिहितमपि वस्तु यद्धर्मैः ।
गमयन्ति यदिति विद्याः तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 37 ॥
35 ॥ सर्वव्याख्यानाधिकरणम् ॥ 8 ॥ प्रथमे जिज्ञासाधिकरणे ब्रह्मणो जिज्ञास्यत्वं प्रतिज्ञाय, द्वितीये तस्य जगत्कारणत्वलक्षणेन इतरव्यावृत्ततया प्रतिपत्तुं शक्यातां, तदुत्तराधिकरणद्वयेन अज्ञातत्वबुभुत्सितत्वाभ्यां शास्त्रेण प्रतिणद्यत्वसंभवं च प्रसाध्य, विचारमारभ्य, त्रिशता अधिकरणैः सद्विद्यानन्दमयविद्यान्तराधित्यविद्यादिपरविद्यामु जगत्कारणतया मुमुक्षूपास्यतया च प्रतिपादितं परं ब्रह्म श्रीनिवासापरनामधेयो नारायणख्यो देवताविशेष एवेति तत्तद्विद्यासु तत्तत्प्रत्यभिज्ञापकलिङ्गविशेषैर्निर्धारितम् । तदिदं निर्धारणमयुक्तं रुद्राख्यदेवताविशेषस्य कासुचिदुपनिषत्सु जगत्कारणत्वमुमुक्षुपास्यत्वयोः प्रतिपादनादिति शह्काया उक्तत्रिंशदधिकरणोक्तन्यायैः" प्रत्युक्तता दर्शयितुं प्रवृत्तमिदमधिकरणम् ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ 1-4-29 ॥ एतेन- बहुभवनसङ्कल्पनामरूपव्याकर्तृत्वापहतपाप्मत्वपरायणत्वदिव्यत्वरूपद्युसंबन्धित्वामृतत्वोपासनपिषयत्वादिभिः देवताविशेषप्रत्यभिज्ञापकलिङ्गैः" जगत्कारणस्य वस्तुनः श्रीनिवासापरनामधेयनारायणाख्यदेवताविशेषत्वनिर्धारणेन सर्वे जगत्कारणवाचिनः विचारितवाक्यतरवेदान्तवाक्याविशेषाः" श्रीनिवासाख्यदेवताविशेषपरतया निर्धारिता इति सूत्रार्थः ॥ तैस्तैः शिवादिशब्दैरभिहितमपि वस्तु यद्धर्मैः । गमयन्ति यदिति विद्याः तद्ब्रह्म श्रीनिवासनाम भजे ॥ 37 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यस्य कृतिषु शरीरकाधिकरणरत्रमालायां" प्रथमाध्यायस्य चतुर्थः पादः ॥ अर्थः । श्वेताश्वतराद्युपनिषत्सु शिवरुद्रेशानादिशब्दैः मुमुक्षूपास्यत्वेन अभिहितमपि वस्तु, यस्य श्रीनिवासापरनामधेयस्य नारायणस्य असाधारणैः धर्मैः प्रत्यभिज्ञापकैः तास्ता उपनिषदः, यदिति श्रीनिवासाख्यं ब्रह्मेति गमयन्ति, तद्ब्रह्मोति पूर्ववत् ॥ भावः । ‘सद्’ ‘आनन्दमय’ ‘पुरुष’ ‘आकाश’ ‘प्राण’ ‘इन्द्र’ आदिशब्दैः साधारणैः अचेतनविशेषे चेतनविशेषे च रूढैः निर्दिष्टस्य कारणवस्तुनः" पूर्वोक्तप्रत्यभिज्ञापकलिङ्गैः योगेन वा अचेतनविशेषस्य चेतनविशेषस्य वा असाधारणधर्मश्रवणे, तत्तत्पदरूढ्यर्थशारीरकतया वा देवताविशेषपरताया निर्धारिततया, येषु कारणवाक्येषु अर्थान्तररूढशब्दैः सामान्यशब्दैर्वा कारणवस्तु निर्दिश्यते, तेषु पूर्वोक्तप्रत्यभिज्ञापकलिङ्गेषु अन्यतमस्य जगत्कारणत्वस्य वा दर्शने, अर्थान्तररूढशब्दानां रूढ्यर्थासाधारणधर्माश्रवणे योगेन तच्छ्रवणे तत्तद्रूढ्यर्थशरीरकतया श्रीनिवासाख्यदेवतापरत्वं निर्धारणीयमिति ॥ पूर्वपक्षः । श्रीनिवासापरनामधेयो नारायणाख्यदेवताविशेष एव जगत्कारणं मुमुक्षूपास्यश्चेति निर्धारणमनुपपन्नम्; श्वेताश्वतरोपनिषदि रुद्रस्य जगत्कारणत्वमुमुक्षूपास्यत्वयोः प्रतिपादनात् । तथा हि - श्वेताश्वतरोपनिषदि चतुर्थाध्याये, ‘‘यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासत् शिव एव कवेलः’’ इति श्रूयते । ‘यस्मिन् काले अहोरात्रविभागः नासीत्, तमःशब्दनिर्दिष्टं सुक्ष्मदशापन्नं प्रधानं परमासीत्, तदा केवलः-एकः, शिवः-रुद्रः, आसीत्’ इति श्रुत्यर्थः । अत्र ‘यदा’ ‘तम’ इत्यादिना जगतः प्रलयमभिधाय, तत्काले एकस्य शिवस्यावस्थानमभिहितम् । ‘शिव’ शब्दश्च रुद्राख्यदेवताविशेषे रूढः । अतोऽस्मिन् मन्त्रे प्रलयकाले रुद्रादन्येषामवस्थानं प्रतिषिध्य, एकस्य रुद्रस्यैव अवस्थानप्रतिपादनात्, तस्यैव कारमत्वं गम्यते ॥ एवं तस्यामेवोपनिषदि ‘‘अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्वान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’’ इत्यत्र मायिना विश्वस्य सृष्टत्वमभिधाय, महेश्वरस्य मायित्वमभिहितम् । ‘महेश्वर’शब्दश्च रुद्रे रूढः । अतो रुद्रस्यैव जगत्कारणत्वं प्रतीयते । एवं तत्रैव ‘‘यो योनिर्योनिमधितिष्ठत्येको यस्मिन्निदं स च वि चैति सर्वं । तमीशानंवरदं देवमीड्यं निचाय्येमां" शान्तिमत्यन्तमेति’’ इत्यत्र ईशानोपासनस्य मोक्षोपायत्वमभिहितम् । ‘ईशान’शब्दश्च रुद्रे रूढः । अतो रुद्रस्य मोक्षोपयोपासनविषयत्वं" सिद्धम् ॥ एवमथर्वशिशायां ‘‘कश्च ध्येयः’’ इति प्रश्नस्य ‘‘कारणं तु ध्येय’’ इति प्रतिवचनमभिधाय, ‘‘सर्वैश्वर्यसंपन्नः शंभुराकाशमध्ये ध्येयः’’ इत्यमिधानात, रुद्रस्य कारणत्वं मुमुक्षुध्येयत्वं च सीद्धम; ‘शंभु’शब्दस्य रुद्रे रूढत्वात् । अतो नारायण एव जगत्कारणं मुमुक्षूपास्यश्चेति निर्धारणमनुपपन्नमिति ॥ सिद्धान्तः । जगत्कारणस्य वस्तुनो बहुभावनसङ्कल्पनामरूपव्याकर्तृत्वादिरिंङ्गैः नारायणाख्यदेवताविशेषत्वस्य निर्धारितत्वेन, उपदर्शित’शिव’ईशान’ ‘महेश्वर’‘शंभु’आदिशब्दाः रूढिभङ्गेन ‘आकाश’‘इन्द्र’आदिशब्दवत् नारायणपरा नेतव्याः । न च रुद्रादिपदरूढ्यनुसारेण बहुभवनसङ्कल्पनामरूपव्याकरणदीनां" रुद्रासाधारणतां रुद्रप्रत्यभिज्ञापकतां च आश्रित्य, नारायणादिशब्दानामेव रुद्रपरता किं न स्यात् इति शङ्कनयिम् । नारायणशब्दस्य योगेन रूढ्या वा रुद्रपरताया असंभवात् । रुद्रपरत्वे ‘नारायण’ इति ‘ण’त्वासंभवात्; संज्ञायामेव णत्वविधानात् । एवं तस्य लक्ष्मीपतित्वासंभवाच्च न नामरूपव्याकर्तृत्वमोक्षोपायोपासनविषयत्वादिसंभवः । विम्तरस्तु अस्मत्कृतव्याससिद्धान्तमार्ताण्डे द्रष्टव्यः । ननु अन्तरधिकरणे आदित्यादिदेवताविशेषाणां, इन्द्रप्राणाधिकरणे देवाधिपतेरिन्द्रस्य, ईक्षतिकर्माधिकरणे अण्डाधिपतेश्चतुर्मुखस्य च कारणत्वमाशङ्क्य निराकृतम् । न तु कस्मिंश्चदप्यधिकरणे रुद्रस्य कारणत्वं निराकृतम् । यदि सूत्रकाराणां रुद्रस्य कारणत्वं निराचिकीर्षितं" स्यात्, तर्हि प्रधानमल्लनिबर्हणन्यायेन रुद्रकारणतावादिवाक्याविचारेण तत् निराकृतं स्यात् । तथा क्वचिदप्यधिकरणे तन्निराकरणादर्शनात्, सूत्रकारणां न तत् निराचिकीर्षितामित्यवगम्यते । तत् कथं ‘‘एतेन सर्वे व्याख्याता’’ इत्यस्पष्टाभिप्रायस्याधिकरणस्य तन्निराकरणपरतोक्तिरिति चेत । उच्यते यदि कश्चित रुद्रादिपदानां रूढिमाश्रित्य ‘रुद्र एव जगत्कारणं’ इति प्रत्यवतिष्ठेत, तदा स इन्द्रादिपदरूढ्या प्रतिवक्तव्यः, यदि रूद्रादिपदरूढ्या रुद्रस्य कारणत्वमङ्गीक्रियते, तर्हि इन्द्रादिपदरूढ्या इन्द्रादेरेव कारणत्वमङ्गीक्रियतामिति । यदि इन्द्रादेः" कर्मवश्यत्वावगमात्, न तस्य कारणत्वं इति ब्रूयात्, प्रतिब्रूयादेनं रुद्रस्यापि कर्मवश्यत्वावगमात्, न कारणत्वमिति इन्द्रादिप्रतिबन्द्य रुद्रकारणतावदिनिराकरणार्थमिन्द्रादीनां कारणत्वं निराकृतमिति ॥ इदमत्रावधेयं-जगत्कारणत्वं मुमुक्षूपास्यत्वं च अकर्मवश्यत्वनिबन्धनं; कर्मवश्यस्य तदुभयायोगात् । जगत्कारणत्वं हि सर्वज्ञत्वसर्वशक्तित्वमत्यसङ्कल्पत्वादिसापेक्षम् । न च कर्मवश्यस्य सर्वज्ञत्वादिसंभवः; तस्य कर्मणा ज्ञानशक्त्यादिसङ्कोचस्य अवश्यंभावात् । एवं मुमुक्षूपास्यात्वमपि कर्मवश्यस्य न संभवति; कर्मवश्यस्य कर्मनिर्मोक्षरूपमोङोपायत्वासंभवात् । अतः तदुभयमप्यकर्मवश्यत्वरूपापहतपाप्मत्वनिबन्धनम् । अपहतपाप्मत्वमूलकाश्च विजरत्वविमृत्युत्वाविजिघत्सत्वापिपासत्वसत्यकामत्वसत्यसङ्कल्पत्वगुणाः । ततश्च अपहतपाप्मत्वं यस्य स्वाभाविकं सर्वदैवातिरोहितं" च , तस्यैव अजरत्वादयः सत्यसङ्कल्पत्वान्ता निरुपाधिका अतिरोहिताश्च । स्वाभाविकमपहतपाप्मत्वं च नारायणस्यैकस्यैव, ‘‘एष सर्वभूतान्तरात्मा उपहतपाप्मा दिव्यो देव एको नारायण’’ इति श्रुतेः । अत्र हि एकस्य नारायणस्यैव निरुपाधिकमपहतपाप्मत्वं श्रूयते । तस्यौपाधिकत्वे, जीवानामपि मुक्तिदशायामपहतपाप्मत्वादीनामाविर्भावस्य प्रजापतिविद्यायां श्रुतत्वात्, एकस्य नारायणस्य अपहतपाप्मत्वोक्तेरथुक्ततापत्तेः" । अतः तत्प्रयुक्तमजरत्वादिकमपि निरुपाधिकं नारायणस्यैव । रुद्रस्य तु अनपहतपाप्मत्वरूपं कर्मवश्यत्वं ‘‘अनपहतपाप्मा वाऽहमस्मि नाम धेहि’’ इत्यादिशतपथब्राह्मणस्थरुद्रवचनसिद्धम् ॥ अतः सूत्रकारैः ईक्षत्याद्यधिकरणेषु सत्यसङ्कल्पत्वान्तर्भूतबहुभवनसङ्कल्पादिभिः जगत्कारणस्य मुमुक्षूपास्यस्य च देवताविशेषत्वनिर्धारणं" मुष्ठूपपन्नम् । एतदभिप्रेत्यैव सूत्रकारैः महाभारते आनुशासनिके पर्वणि पुण्डरीकनारदसंवादे, आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥’’ इत्युक्तमिति ॥ ॥ इति सर्वव्याख्यानाधिकरणम् ॥ 9 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुचसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे प्रथमाध्यायस्य चतुर्थः पादः ॥ ॥ प्रथमाध्यायः संपूर्णः ॥