द्युपृथिव्याद्याधारं कथयन्त्यमृतस्य सेतुमात्मानम् ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥19 ॥
18 ॥द्यभ्वद्यधिकरणम् ॥ 1 ॥ अदृश्यत्वादिगुणकाधिकरणे प्रस्तुतस्याक्षरपुरुषस्य उवरितनैः कैश्चित्लिङ्गैः चीवत्वशङ्कापरिहारार्थं प्रवृत्तमिदमाधिकरणम् । यद्यपि उक्तशङ्का तस्मिन्नेव अधिकरणे परिहर्तुमुचिता, तथापि शङ्कायाः स्पष्टजीवलिङ्गमूलकत्वात् अस्मिन् पादे तद्विचारः । द््युभ्वाद्यायतनं स्वशब्दात् ॥ 1-3-1 ॥ [मुक्तोपसृप्यव्यपदेशाच्च ॥ 2 ॥ नानुमानमतच्छब्दात्प्राणभृच्च ॥ 3 ॥ ेदव्यपदेशात् ॥ 4 ॥ प्रकारणात् ॥ 5 ॥ स्थित्यदनाभ्यां च ॥ 6 ॥] द्युभ्वाध्यायतनं-द्युपृथिव्यादीनामाधारत्त्रेन उच्यमानः, सः- परमात्मा; खशब्दात्-परमात्मासाधारणधर्मवाचिशब्दस्य श्रूयमाणत्वात् इति सूत्रार्थः ॥ द्युपृथिव्याद्याधारं कथयन्त्यमृतस्य सेतुमात्मानम् । यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 19 ॥ अर्थः । द्युपृथिव्यादीनां उर्ध्वाधोलोकानां आधारतया उच्यमानं आत्मानं, अमृतसेतुं-मोक्षप्रापकं कथयन्ती मुण्डकोक्ताक्षरविद्या यदिति श्रीनिवासापरनामधेयं ब्रह्मेति, व्यनक्ति-प्रकाशयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । मुण्डकोपनिषदि अक्षरविद्याप्रकरणो ‘‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः’’ इति श्रूयते । अत्र द्युपृथिव्याद्याधारत्वेनोच्यमानस्य आत्मनोऽमृतसेतुत्वमुक्तम् । तच्चामृतसेतुत्वं" अमृतत्वप्रपकत्वरूपं ‘‘तमेवं विद्वानमृत इह भवति’’ इति परमपुरुषासाधारणत्वेन पुरुषसूक्ते प्रतिपादितम् । अतः तादृशधर्मवत्त्वात् अयं द्युपृथिव्याद्याधारः पुरुषः श्रीनिवासापरनामधेयं परं ब्रह्मेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘यस्मिन् द्यौः’’ इत्यस्मिन् वाक्ये द्युपृथिव्याद्याधारस्य मनःप्राणेन्द्रियसंबन्धः, ‘‘अरा इव रथनाभौ संहता यत्र नाड्यः स एषो.़न्तश्चरते बहुधा जायमानः’’ इत्यनन्तरवाक्ये नाडीसंबन्धः, शरीरान्तस्सञ्चारः, देव मनुष्यादिभेदेन बहुधा जायमानत्वं च प्रतिपाद्यते । तदेतत् सर्वं जीवस्यैव धर्मः । अतो द्युपृथिव्याद्याधारत्वेन उच्यमान आत्मा जीव एव । तस्य द्युपृथिव्याद्यधारत्वं जीवकर्ममूलकत्वात् द्युभ्वादिसृष्टेः तदीयादृष्टाश्रितत्वाभिप्रायतया कथञ्चिदुपपादनीयम् । न चास्य प्रकरणस्य परमात्मविषयताया अदृश्यत्वादिगुणकाधिकरणे निर्णीततया, कथं अस्य वाक्यस्य जीवात्मविषयत्वं इति वाच्यम् । प्रकरणात् बलीयसा स्पष्टजीवलिङ्गेन अस्य वाक्यस्य जीवविषयकत्वावगमात् प्रकरणं भङ्क्त्वा, जीवविषयकत्वमवश्यमाश्रयणीयमिति ॥ सिद्धान्तः । ‘‘यस्मिन् द्यौः’’ इत्यत्र द्युपृथिव्याद्याधारत्वेन श्रुतस्यात्मनो ‘‘अमृतस्यैष सेतुः’’ इत्यनेन मोक्षप्रापकत्वरूपममृतसेतुत्वं" प्रतिपाद्यते । तेन च मोक्षप्रदत्वं लभ्यते । तच्च परमात्मासधारणं ‘‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’’ इति श्रुतेः । एवं ‘‘तमेव्रैकं जानथात्मानं’’ इत्यत्र घुतमात्मत्वं द्युपृथिव्याद्युपलक्षितसर्वजगदात्मत्वरूपमितिखरसतः प्रतीयते । तच्च नियन्तृतया सर्वस्यान्तर्व्याप्ततवरूपं, आत्मशब्दस्य ‘आप्नोति इति आत्मा’ इति व्युत्पादितत्वात् । तदपि परमात्मासाधारणम्, ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’’ ‘‘अन्तः प्रविष्टः शास्ताजनानां सर्वात्मा’’ इत्यादिश्रुतेः । एवं ‘‘यथा नद्यः" स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरुपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यं’’ इत्युत्तरमन्त्रे अस्य द्युपृथिव्याद्याधारस्य आत्मनः संसारवन्धविनिर्मुक्तैः प्राप्यत्वं श्रूयते । एवं ‘‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमितिवीतशोकः’’ इति मन्त्रे, ‘‘तमेवैकं जानथात्मानं अमृतस्यैष सेतुः’’ इत्यत्र अमृतत्वप्राप्तये ज्ञेयत्वेनोक्तस्य द्युपृथिव्याद्याधारस्यात्मनः संसारबन्धेन शोचते जीवात् भेदो व्यपदिश्यते । एवं ‘‘द्वा सुपर्णा सयुजा सखाय समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’’ इत्यस्मिन् मन्त्रे द्वयोरात्मनोः" एकस्य कर्मफलभूतसुखदुः खभोक्तृत्वं, अन्यस्य कर्मफलभोगस्पर्श विनैव सर्वदा सर्वज्ञत्वादिगुणवत्तया द्योतमानत्वं च प्रतिपाद्यते । तेन तयोरेकस्य हेयसंबन्धार्हत्वं, अन्यस्य तदनर्हत्वं च प्रतीयते । तत्र कर्मपलभोगं विना दीप्यमानत्वेन हेयसंबन्धानर्हतया प्रतीयमानः" परमात्मैव मुक्तये ज्ञेयत्वेनोच्यमानोऽयं द्युपृथिव्याद्यायतनमात्मा भवितुमर्हति । प्रकरणं चेदं ‘‘यद्भूतयोनिं परिपश्यन्ति धीराः’’ इति भूतयोन्यक्षरपुरुषविषयं इत्यदृश्यत्वादिगुणकाधिकरणे निर्णीतम् । तदेवं सर्वात्मत्वस्य, मोक्षप्रदत्वस्य, मुक्तप्राप्यत्वस्य, जीवादन्यत्वस्य, हेयसंबन्धानर्हत्वस्य च श्रवणात्, भूतयोन्यक्षरपुरुषस्य परमात्मनः प्रकृतत्वाच्च, अयं द्युपृथिव्याद्याधारमूत आत्मा परमात्मैव, न जीवः । ‘‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’’ इति श्रीगीतासु सर्वाधारत्वेन स्मृतस्य परमात्मनो मनः-प्रपोन्द्रियाधारत्वोपपत्तेः, ‘‘सन्ततं सिराभिस्तु लम्बत्याकोशसन्निभं’’ इत्यादिना ‘‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’’ इत्यन्तेन तस्य नाड्याधारहृदयदेशस्थितत्वोक्त्या, ‘‘अरा इव रथनाभौ संहता यत्र नाड्यः’’ इत्युक्तनाड्याधारदेशस्थत्वोपपत्तेः, ‘‘अजायमानो बहुधा विजायते’’ इत्यत्र स्वेच्छया देवमनुष्यादिसजातीयतया जायमानत्वेन श्रुतस्य तस्य बहुधा जायमानत्वोपपत्तेश्च, द्युपृथिव्याद्याधारत्वेन श्रूयमाणोऽयमात्मा परमात्मैवेति निर्धार्यते ॥ अत्र ‘‘मुक्तोपसृप्यव्यपदेशाच्च,’’ ‘‘भेदव्यपदेशात्’’ ‘‘स्थित्यदनाभ्यां च ’’ इति सूत्रत्रये, प्रथमेन मुक्तिदशायां जीवात्मपरमात्मनोः" प्रप्तृप्राप्यभावस्य भेदनियतस्य श्रुतौ व्यपदिश्यमानतया मेदः सूत्रितः; द्वितीयेन श्रुतौ तयोः साक्षात् स्वरूपभेदव्यपदेशः सूत्रितः; तृतीयेन तयोः स्वरूपैक्यविरुद्धं हेयसंबन्धार्हत्वतदनर्हत्वरूपस्वभाववैलक्षण्यं सूत्रितम् । अनेन ‘‘स यो हैतत् परं ब्रह्म वेद ब्रह्मैव भवति’’ इति मुण्डकोपनिषदुपसंहारवाक्यस्य जीवस्य ब्रह्मभावापत्तिर्मुक्तिः इत्येतदर्थपरताभ्रमो निरस्तः । मुण्डकोपनिषदि ‘‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते’’ इति मन्त्रे, जीवात्मपरमात्मनोर्हेयसंबन्धार्हत्वतदनर्हत्वरूपस्वभाववैलक्षण्यं, ‘‘समाने वृक्षे पुरुषो निमग्न’’ इति तदनन्तरमन्त्रे तथाविधस्वभाववैलक्षण्यकृतं तयोः स्वरूपमेदं, तृतीयमुण्डकद्वितीयखण्डान्ते ‘‘यथा नद्यः स्यन्दमानाः समुद्रे’’ इति मन्त्रे मुक्तिदशायां जीवात्मपरमात्मनोः प्राप्तृप्राप्यभावभिधानसिद्धं भेदं चोपदीश्य, अनन्तरं ‘ब्रह्म वेद ब्रह्मैव भवति’’ इत्यनेन मुक्तिदशायां जीवब्रह्मणोरैक्यापत्तिप्रतिपादने, पूर्वोत्तरमन्त्राणां परस्परविरोधप्रसङ्गेन, ‘‘ब्रह्म वेद ब्रह्मैव भवति’’ इति वाक्यमन्यपरं इति सूत्रकारैः स्वाभिप्रायस्य स्पष्टीकरणात् ॥ न च सर्वव्याप्तस्य ब्रह्मणः प्राप्यत्वासंभवात्, मुक्तिदशायां तस्य प्राप्यत्वाभिधायकश्रुतेरन्यपरत्वेन नेयतया न विरोध इति वाच्यम् । ‘‘परात् परं पुरुषमुपैति दिव्यं’’ इति श्रुतौ ‘दिव्यं’ इति द्युसंज्ञकलोकविशेषस्थत्वोपस्थापकेन प्राप्यपुरुषविशेषणेन लोकविशेषस्थस्य तस्य प्राप्यत्वोपपादनेन मुश्यप्राप्तिरेव श्रुत्या विवक्षितेति मुख्यप्राप्यत्वं श्रुत्यर्थं ‘‘मुक्तोपसृप्यव्यपदेशाच्च’’ इति सूत्रयतः सूत्रकारस्य तात्पर्यावगमात् । न च द्युसंज्ञकलोकविशेषस्य तत्र परमात्मनो विग्रहविशेषेण अवस्थानस्य चाब्रामणिकत्वेन श्रुतेरुक्तभिप्रायवर्णनं न युक्तमिति वाच्यम् । मुण्डके ‘‘तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो मैक्षचर्यां चरन्तः" । सूर्यद्वारेण ते विरजाः प्रयन्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा’’ इति मन्त्रे लोकविशेषे विग्रहविशेषेणावस्थितस्य परमात्मनः" सूर्यमण्डलोपलक्षितार्चिरादिमार्गेण विधूतपुण्यपापैर्मुक्तैः प्राप्त्यभिधानेन परमात्मनो लोकविशेषे विग्रहविशेषेणावस्थानस्य उक्तोपनिषद्येवोक्तत्वात् । न च ‘अयं लोकः सत्यलोकः, तत्रस्थश्च हिरण्यगर्भः, तस्यापरविद्यानिष्ठैः प्राप्तिरत्राभिधीयते, न तु साक्षात् मुक्ति’ इति वाच्यम् । तत्र अमृतत्वाव्ययात्मत्वविशेषणयोः द्विपरार्धकालमात्रावस्थायिनि कर्मकृतोत्पत्त्यादिविकारवत्तया श्रुते हिरण्यगर्मेऽनुपपन्नत्वेन मन्त्रस्य तत्परत्वायोगात् । ‘‘ऊर्ध्वमेकः स्थितः तेषां यो भित्तवा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिं’’ इत्यर्चिरादिना मार्गेण प्रस्थितस्य सत्यलोकाख्यचतुर्मुखलोकमतिक्रम्य, तदूर्ध्व ‘परगति’ शब्दितस्थानविशेषप्राप्तिप्रातिपादकयाज्ञवल्क्यस्मृतिविरोधाच्चेति दिक् इति ॥ इति द्युम्वाद्यधिकरणम् ॥ 1 ॥
प्राणपदोक्ताज्जीवादर्थान्तरमवगमय्य भूमानम् ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥20 ॥
19 ॥ भूमाधिकरणम् ॥ 2 ॥ पूर्वाधिकरणे परमात्मप्रकरणविच्छेदाभावात्, द्युपृथिव्याद्याधारस्य परमात्मत्वं साधितम् । तद्वत् प्रकरणाविच्छेदात्, ‘भूमा जीवः" स्यात्’ इति शङ्कां परिहर्तुं प्रवृत्तमिदमधिकरणम् ॥ भूमा संप्रसादादध्युपदेशात् ॥ 1-3-7 ॥ [धर्मोपपत्तेश्च ॥ 8 ॥] भूमा-अनल्पसुखत्ववान्, सः-परमपुरुषः; संप्रसादात्–जीवात्मनः, अधि–अधिकतया अर्थान्तरत्वेन उपदिश्यमानत्वात् ईति सूत्रार्थः ॥ प्राणपदोक्ताज्जीवादर्थान्तरमवगमय्य भूमानम् । यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम् भजे ॥ 20 ॥ अर्थः । भूमविद्या भूमानं प्राणपदेन निर्दिष्टात् जीवात् अन्य इति बोधयित्वा, यत् श्रीनिवासापरनामधेयं ब्रह्मेति वोधयति, तद्ब्रह्मोति पूर्ववत् ॥ भावः । छान्दोग्ये भूमविद्याप्रकरणे आत्मस्वरूपजिज्ञासयोपसन्नाय नारदाय सनत्कुमारेण उत्तरोत्तरप्रश्नप्रतिवचनक्रमेण पूर्वस्मात् पूर्वस्मात् उत्तरोत्तरमधिकस्योपदेशप्रकरणे, ‘‘अस्ति भगव आशाया भूय’’ इति प्रश्नस्य ‘‘प्राणो वा आशाया भूयान्’’ इति प्रतिवचनं" दृश्यते । तत्र’प्राण’ शब्दनिर्दिष्टस्य हिसाकरणे निन्दाक्षवणात्, हिसायोग्यः प्रत्यगात्मैव प्राणशाब्दनिर्दिषट निश्चीयते । एवं" प्राणामुपदिश्य, तदुत्तरं ‘‘स वा एष एवं पश्यन्’’ इत्यादिना प्राणोपासकस्य स्वोपास्यवस्तूत्कर्षनिमित्तकमतिवादित्वं उक्त्वा, ‘‘ऐष तु वा अतिवदति यः सत्येनातिवदति’’ इत्यादिना अतिवाद्यन्तरं तस्यातिवदननिमित्तं ‘सत्य’शब्दवाच्यं ब्रह्म चोपक्षिप्य, ‘‘सुशं" त्वेव विजिज्ञासितव्यं’’ इत्यनेन तस्य विपुलसुखरूपता ज्ञातव्या इत्युपदिश्यते । अत्र अपरिच्छिन्नानन्दरूपतावाचिना ‘भूम’ शब्देन आनन्दमयविद्याप्रकरणस्थे ‘‘यदेष आकाश आनन्दो न स्यात्’’ इत्यस्मिन् वाक्ये ‘आकाश आनन्द’ इत्यनेन अपरिच्छिन्नानन्दरूपतयोक्तस्यानन्दमयस्य पुण्डरीकाक्षस्य प्रत्यभिज्ञानात्, अयं भूमात्मा पुण्डरीकाक्षः श्रीनिवासापरनामधेयः परमात्मेति निर्धार्यत इति ॥ पूर्वपक्षः । नारदाय सनत्कुमारेण आत्मोपदेशप्रकरणे ‘प्राण’ शब्दवाच्यं प्रत्यगात्मानं आशातोऽधिकमुपदिश्य, तदनन्तरं ततोऽधिकस्य कस्यचिदनुपदेशात्, तत्रैव आत्मोपदेशसमाप्तिरिति निश्चीयते । अतो जीवप्रकरणाविच्छेदात्, अनन्तरमुपदिष्टो भूमात्मा प्रत्यगात्मैवेति निश्चीयत इति ॥ सिद्धान्तः । ‘‘प्रणो वा आशाया भूयान्’’ इति प्रत्यगात्मन आशातोऽधिकत्वं उक्त्वा, तदुपासकस्य स्वोपास्यवस्तुन उत्कृष्ताप्रयुक्तमतिवादित्वमभिधाय, ‘‘एष तु वा अतिवदति’’ इति ‘तु’ शब्देन अतिवाद्यान्तरमुपक्षिप्य, ‘‘यःसत्येन अतिवदति’’ इति ‘सत्य’ शब्दवाच्यब्रह्मोपासकस्य ततोऽप्यतिशयितातिवादितामभिधाय, तस्यातिवादितानिमित्तभूतं ‘सत्य’शब्दवाच्यं प्रत्यगात्मनोऽर्थान्तरं ब्रह्म ‘‘सत्यं त्वेव विजिज्ञासितव्यं’’ इत्युपदिष्टम् ॥ अत्र ‘सत्य’ शब्दनिर्दिष्टं परं ब्रह्म; ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यादिषु ‘सत्य’शब्दस्य ब्रह्मणि प्रसिद्धेः, स्वमहिमप्रतिष्ठितत्वरूपानन्याधारत्वोपपत्तेश्च । अतो जीवप्रकरणस्य विच्छिन्नत्वात्, उत्तरत्र ब्रह्मप्रकरणस्थ’भूम’ शब्दवाच्यो न प्रत्यगात्मा, अपि तु परमात्मैवेति ॥ इति भूमाधिकरणम् ॥ 2 ॥
अक्षरमस्थूलमनण्वित्याद्युक्तं प्रशासितृत्वाद्यैः ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥21 ॥
20 ॥ अक्षरधिकरणम् ॥ 3 ॥ पूर्वाधिकरणे भूम्नः स्वमहिमप्रतिष्ठितन्वेन परब्रह्मत्वं प्रसाधितम् । प्रह्मव्यतिरिक्तस्यापि स्वप्रतिष्ठितत्वं श्रुयत इति शङ्कापरिहाराय प्रवृत्तमिदम्धिकरणम् ॥ अक्षरमम्बरान्तधृतेः ॥ 1-3-9 ॥ [सा च प्रशासनात् ॥ 10 ॥ अन्यभावव्यावृत्तेश्च ॥ 11 ॥] अक्षरशब्दवाच्यः, सः-परमपुरुषः; अम्बरस्य-भूताकाशस्य, अन्तः-कारणभूतं यत् प्रधानं, तद्धारकत्वास्योच्यमानत्वात् इति सूत्रार्थः ॥ अक्षरमस्थूलमनण्वित्याद्युक्तं प्रशासितृत्वाद्यैः । यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 21 ॥ अर्थः । बृहदारण्यके गार्गिब्राह्मणे ‘‘अस्थूलमनणु’’ इत्यादौ अक्षरशब्दनिर्दिष्टं वस्तु (कर्म), प्रकृष्टशासनवत्त्वप्रमुखैर्धर्मैः" अक्षरविद्या यत् श्रीनिवासापरनामधेयं ब्रह्मेति प्रकाशयति तद्ब्रह्मेति पूर्ववत् ॥ भावस्तु सिद्धान्ते स्पष्टीकरिष्यते ॥ बृहदारण्यके गार्गिप्रश्नस्य प्रतिवचने, ‘‘स होवाचैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायं’’ इत्यादि श्रूयते । अत्रैवं पूर्वपङः । अस्यूलत्त्रादिविशेषितमिदमक्षरं प्रधानं; मुण्डकोपनिषदि ‘‘अक्षरात् परतः परः’’ इत्यादौ ‘अङर’ शब्दस्य प्रधाने प्रयोगदर्शनात् । यद्यपि तत्रैव ‘‘यया तदक्षरमधिगम्यत’’ इत्यत्र ‘अक्षर’ शब्दस्य परमात्मन्यपि प्रयोगो दृष्टः, तथापि शुत्येकसमधिगम्यात् परमात्मनो अनुमानरूपलौकिकप्रमाणगम्यस्य प्रधानस्य शीघ्रबुद्ध्यारोहेण प्रबलत्वात्, ‘‘अस्थूलं’’ इत्यादिना स्थूलत्वादीनां निषेधास्य तत्रोपपत्तेश्च प्रकृताक्षरशब्देन तदेव ग्रहीतुम् उचितम्, न तु परमात्मा; विलम्बितप्रतीतिकादविलम्बितप्रतीतिकस्य प्रबलतायाः श्रुतिलिङ्गादिषु दृष्टत्वात् । परमात्मपरत्वे ‘‘अस्थूलं’’ इत्यादेरप्रसक्तप्रतिषेधापत्तेश्च । वाय्वादिसर्वविकारकारणस्य आकाशस्याप्यधारभूतं कारणं" किमिति पृष्टे, तस्याधारतयोच्यमानमिदमक्षरमाकाशस्यापि कारणभूतं प्रधानमेव भवितुमर्हति इति ॥ सिद्धान्तः । ‘भूतभविष्यद्वर्तमानरूपकृत्स्नकार्यप्रपञ्चस्याधारभूतो य आकाशः, तस्य आधारभूतं वस्तु किं’ इति गार्गिप्रश्नस्य ‘‘एतद्वै तदक्षरं" गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वं’’ इत्यदौ ‘‘एतस्मिन्नक्षरे आकाश ओतश्च प्रोतश्च’’ इत्यन्ते याज्ञवल्क्यप्रतिवचने कृत्स्नकार्याधारतयोच्यमान आकाशो न भूताकाशो भवितुमर्हति; कार्यानतर्गतस्य भूताकाशस्य कृत्स्नकार्याधारत्वासंभवात् । अपि तु प्रधानमेव । अतः तस्याप्याधारतयोच्यमानं अस्थूलत्वदिगुणविशिष्टमक्षरं न प्रधानम्; स्वस्य स्वाधारत्वासंभवात् । नापि जीवः; तस्याक्षरस्य उत्तरत्र प्रशासनेन सर्वधारकत्वस्य, अदृष्टस्यैव सतो द्रष्टृत्वस्य, स्वाज्ञया श्रौतस्मार्तसकलकर्मप्रवर्तकत्वस्य चाभिधानात् । अपि तु प्रधानस्यापि धारकं सर्वप्रशासितृ इदमक्षरं अन्तर्यामिब्राह्मणसुबालोपनिषत्प्रभृतिषु पृथिव्यादीनां तमःशब्दवाच्यप्रधानपर्यन्तानां" अवेद्यतया अन्तःप्रविश्य नियमनेन धारकतया उच्यमानं श्रीनिवासापरनामधेयं नारायणाख्यं परं ब्रह्मैवेति निर्धार्यत इति ॥ इत्यक्षराधिकरणम् ॥ 3 ॥
मुक्तेक्ष्यमाणपुरुषं श्लोकोक्त्या सूरिदृश्यमानतया ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 22 ॥
21 ॥ ईक्षतिकर्माधिकरणम् ॥ 4 ॥ पूर्वाधिकरणे ‘‘अदृष्टं द्रष्टृ’’ इत्यनेन ब्रह्मणो दर्शनार्हत्वाभाव उक्तः । तर्हि दृश्यमानत्वेनोच्यमानः पुरुषः परं ब्रह्म न स्यात् इति शङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ ईङतिकर्म व्यपदेशात्सः ॥ 1-3-12 ॥ ईक्षतिकर्म-ईक्ष्यमाणत्वेनोच्यमानं वस्तु, सः-प्रथमाध्यायप्रथमपादे ईक्षत्यधिकरणादिषु जगत्कारणत्वेन निर्णीतः परमपुरुषः; परमपुरुष साधारणधर्मवत्त्वव्यपदेशात् इति सूत्रार्थः ॥ मुक्तेक्ष्यमाणपुरुषं श्लोकोक्त्या सूरिदृश्यमानतया । यदिति व्यनक्ति विद्या तद्् ब्रह्म श्रीनिवासनाम् भजे ॥ 22 ॥ अर्थः । मुक्तैः- सर्वकर्मविनिर्मुक्तैः, ईक्ष्यमाणं पुरुषं सूरिभिः दृश्यमानत्वेन श्लोके उक्ततया, विद्या-त्रिमात्रप्रणवविद्या यत् श्रीनिवासापरनामधेयं ब्रह्मेति, व्यनक्ति-प्रकाशयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । प्रश्नोपनिषदि, ‘‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि सूर्ये संपन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै पाप्मना विनिर्मुक्तः ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’’ इत्यार्भ्य, ‘‘ऋग्भिरेतं यजुर्भिःअन्तरिक्षं ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्गारेणैवायतनेनान्वेति विद्वान्् यत्तच्चान्तमजरममृतमभयं" परं च’’ इत्यत्र त्रिमात्रप्रणवेन परमपुरुषध्यायिनः सर्वकर्मविनिर्मोकपूर्वकं ब्रह्मलोकप्रप्तिमभिधाय, तल्लोकस्थपुरुषविषयकेक्षणमभिहितम् । अत्र ब्रह्मलोकतत्स्थपुरुषविषये श्लोके ‘‘यत्तत्कवयोवेदयन्ते’’ इत्यनेन ब्रह्मलोकस्य कविशब्दनिर्दिषटसूरिभिर्दृश्यमानत्वाभिधानेन ‘‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’’ इति नित्यसूरिभिः सदा दृश्यमानश्रीवैकुण्ठाख्यभगवल्लोकत्वावगमात्, तत्स्थः मुक्तेक्ष्यमाणतयाऽभिहितः" पुरुषः श्रीनिवासापरनामधेयो वैकुण्ठलोकस्थो नारायण एवेति निर्धार्यत इति ॥ पूर्वपक्षः । प्रश्नोपनिषदि एकमात्रप्रणवोपासकस्य एहिकभोगप्राप्तिं फलमभिधाय, द्विमात्रप्रणवोपासकस्य अन्तरिक्षलोकप्राप्तिं फरमभिधाय, त्रिमात्रप्रणवोपासकस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकः चतुर्मुखलोक एव भवितुमर्हति; तस्यैव लोकस्य अन्तरिक्षादुपरि वर्तमानत्वात् । तं लोकं प्रप्तेन पुरुषेण ईक्ष्यमाणः पुरुषश्च तल्लोकाधिपतिश्चतुर्मुख एव भवितुमर्हति । अतः ‘‘परात््परं पुरिशयं पुरुषमीक्षते’’ इत्यत्र ईक्षणकर्मतयाऽभिधीयमानः" पुरुषश्चतुर्मुखएवेति ॥ सिद्धान्तः । सर्वपापविनिर्मुक्तेन ईक्ष्यमाणत्वमस्य पुरुषस्य श्रूयते । चतुर्मुखं प्राप्नुवतः सर्वकर्मविनिर्मोकासम्भवात्, तदीक्ष्यमाणः चतुर्मुखो न भवितुमर्हति । तद्विषयोत्तरश्लोके ‘‘ससामभिर्यत्तत्कवयो वेदयन्ते’’ इत्यत्र त्रिमात्रप्रणवोपासकस्य प्राप्यतयाऽभिधीयमानस्य लोकस्य ‘कवि’ शब्दनिर्दिष्टैः सूरिभिः दृश्यमानत्वाभिधानेन, तल्लोकस्य, ‘‘तंद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’’ इति श्रुत्यन्तरेण सूरिभिर्दृश्यमानतयाऽभिहितभगवल्लोकत्वं गम्यते । तल्लोकाधिपतित्वं च चतुर्मुखस्य न सम्भवति । एवं तल्लोकस्थस्य ‘‘यत्तच्छान्तमजरममृतमभयं" परं च ’’ इत्युक्ता ये निरुपाधिकशान्तत्वादयो धर्माः तेऽपि चतुर्मुखस्य न सम्भवन्ति ॥ किञ्च अत्र ‘‘परात् परं ….पुरुषमीक्षते’’ इत्यनेन ‘‘नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यं’’ इति मुण्डकोपनिषन्मन्त्रोक्तः" परात् परः पुरुषः प्रत्यभिज्ञायते । स च नारायण एव इत्यदृश्यत्वादिगुणकाधिकरणे ‘‘एतस्माज्जायते प्राणः’’ इति मन्त्रार्थनिरूपणप्रकरणे निरूपितम् । अतः ‘‘परात् परं…….पुरुषमीक्षते’’ इति मुक्तेक्षणकर्मतयाऽभिहितो न चतुर्मुखो भवितुमर्हति इति ॥ इति ईक्षतिकर्माधिकरणम् ॥ 4 ॥
अपहतपाप्मत्वाद्यैर्यद्धर्मैर्यदिति दहरमाकाशम् ।
विवृणोति दहरविद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 23 ॥
22 ॥ दहराधिकरणम् ॥ 4 ॥ पूर्वाधिकरणे पुरिशयस्य परमात्मत्वं साधितम् । पुरिशयस्य भूताकाशे प्रसिद्धाकाशशब्दवाच्यतया अपरमात्मत्वशङ्कानिराकरणार्थं प्रवृत्तमिदमधिकरणम् ॥ दहर उत्तरेभ्यः ॥ 1-3-13 ॥ [गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ 14 ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ 15 ॥ प्रसिद्धेश्च ॥ 16 ॥ इतरपरामर्शात् स इति येन्नासम्वात् ॥ 17 ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ 18 ॥ अन्यर्थश्च परामर्शः ॥ 19 ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ 20 ॥ अनुकृतेश्तस्य च ॥ 21 ॥ अपि स्मर्यते ॥ 22 ॥] दहरः-दहराकाशः, सः परमपुरुषः; उत्तरेभ्यः-उत्तरवाक्योक्तधर्मैः तथाऽपगमात् इति सूत्रार्थः ॥ अपहतपाप्मत्वाद्यैर्यद्धर्मैर्यदिति दहरमाकाशं । विदृणोति दहरविद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 26 ॥ अर्थः । छान्दोग्ये ‘‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तर आकाशः तस्मिन् यदन्तः तदन्वेष्टव्यम्’’ इत्यादिना आम्नाता दहरविद्या, यद्धर्मैः-यस्य श्रीनिवासस्य असाधारणैः धर्मैः-अपहतपाप्मत्वाद्यैः गुणैः, दहरमाकशं-दहराकाशं, यत्-श्रीनिवासापरनामधेयं" ब्रह्मेति, विवृणोति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । उदाहृतदहरविद्याप्रकरणे उत्तरत्र ‘‘एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’’ इति श्रूयते । अत्र, ‘‘एष आत्मा अपहतवाप्मा’’ इत्यनेन ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’’ इति सुबालोपनिषद्वाक्यं" स्मार्यते । तत्रापहतपाप्मत्वसहचरितानां विजरत्वादिसत्यसङ्गल्पत्वपर्यन्तानां गुणानां सिद्धत्वात् तेनास्यात्मनः सर्वभूतान्तरात्मभूतश्रीनिवासापरनामधेयनारायणाख्यदेवताविशेषत्वं" निश्चीयते इति ॥ पूर्वपक्षः । ‘‘दहरोऽस्मिन्नन्तर आकाशः’’ इत्यत्र श्रूयमाणो दहराकाशो न परमात्मा, तस्यैवान्वेष्टव्यतया, तस्य अन्वेष्टव्यान्तराधारत्वासम्भवात्; अपितु ‘आकाश’शब्दस्य भूताकाशे प्रसिद्धिप्राचुर्यात्, भूताकाश एवायं दहराकाश इति निश्चीयते इति ॥ सिद्धान्तः । उदाहृतायां दहरविद्यायां ‘‘दहरोऽस्मिन्नन्तर आकाशः’’ इति दहराकाशं ‘‘तस्मिन् यदन्तस्तदन्वेष्टव्यं’‘इति तदन्तर्वर्ति च प्रस्तुत्य ‘‘तदन्वेष्टव्यं’’ इति तच्चब्देन प्रस्तुतं दहराकाशं तदन्तर्वर्ति चोभयं परामृश्य उभयोरुपास्यतामुक्त्वा, ‘किं तत्र विद्यत’ इति प्रश्नपूर्वकं ‘‘अस्मिन् कामाः समाहिताः । एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो अपिपासः सत्यकामः सत्यसङ्कल्पः’’ इत्यभिहितम् । अनेन पूर्वप्रस्तुतो दहराकाश आत्मेति, तदन्तर्वर्ति च अपहतपाप्मत्वादिगुणाष्टकमिति, स एव दहराकाशो गुणाष्टकविशिष्टतया ‘‘एष आत्मा अपहतपाप्मा’’ इत्यनेन निर्दिश्यत इति चावगम्यते ॥ ननु ‘‘तस्मिन् यदन्तस्तदन्वेष्टव्यं’’ इत्यत्र प्रकृतपरामर्शिना ‘तत्’ इति एकावचनान्तेन तच्छब्देन उभयोः परामर्शासंभवात्, गुणाष्टकस्यैवोपास्यत्वमुक्तं" स्यात्, न परमात्मनः इति चेत्; उच्यते- ‘‘तस्मिन् यदन्तस्तदन्वेष्टव्यं’’ इत्यत्र तच्छब्देन दहराकाशस्य तदन्तर्वर्तिगुणजातस्य चाभिधानात्, द्वयोरन्वेध्टव्यतासिद्धिः । तच्चब्देनोक्तर्थलाभश्च ‘स च तच्च तत्’ इत्येकशेषसमासेन उपपादनीयः । ऐकशेषसमासेनोक्तार्थस्य विवक्षितत्वं तु उत्तरत्र ‘‘तद्य इह आत्मानमनुविद्य त्रजन्ति एतांश्च सत्यान् कामान्’’ इति ‘दहराकाश’शब्दनिर्दिष्टस्य परमात्मनः" ‘सत्यकाम’ शब्दनिर्दिष्टानां गुणानां च उपासनस्यानूदितत्वात् ज्ञायते । अतोऽयं दहराकाशः परमात्मा न भूताकाशः । ‘आकाश’शब्दश्च ‘‘आकाशो ह वै नामरुपयोर्निर्वहिता’’ इत्यादौ परमात्मन्यपि प्रसिद्धः । एवमुत्तरत्र ‘‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति एवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति’’ इत्यस्मिन् वाक्ये ‘एतं’ इति प्रकृतं" दहराकाशं परामृश्य, तस्य हिरण्यनिधिदृध्टान्तेन अवेद्यतया अन्तःस्थत्वं, तदुपरि सर्वासां प्रजानां सर्वदा गमनं चोपदिश्यते । सर्वैः" अवेद्यतया अन्तःस्थत्वं ‘‘य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद’’ इत्यन्तर्यामिब्राह्मणे परमात्मनो दृष्टम् । अतः सर्वैरवेद्यत्वेन अन्तः-स्थिततयाऽभिधीयमानोऽयं दहराकाशः स परमात्मा इति निर्णीयते । अन्यत्र सर्वैरवेद्यतया अन्तःस्थत्वस्य परमात्मनोऽभिधानादर्शनेऽपि, हिरण्यनिधिदृष्टान्तेन निरतिशयपुरुषार्थत्वेनावगम्यमानस्यास्य दहराकाशस्य अभिधीयमानं सर्वैरवद्यतया हिरम्यनिधिवत् अन्तःस्थत्वं" अस्य दहराकाशस्य परमात्मत्वनिश्चये पर्याप्तं लिङ्गम् । उत्तरवाक्यस्थ ‘ब्रह्मलोक’ शब्दश्च निषादस्थपतिन्यायसिद्धेन कर्मधारयसमासेन ‘ब्रह्मैव लोको ब्रह्मलोकः’ इत्येवंरूपेण अस्य दहराकाशस्य परमात्मत्वं निश्चाययति ॥ एवं बृहदारण्यके हार्दविद्याप्रकरणे, ‘‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’’ इत्यत्र परमात्मनः" सेतुवत् सर्वेषां धर्माणामसङ्करेण स्थापकत्वरूपं विधरणं श्रूयमाणं, अत्रापि ‘‘अथ य आत्मा सेतुर्विधृतिरेषां लोकानामसंभेदाय’’ इति प्रकृतदहराकाशस्य श्रूयते । अतोऽनेनापि स परमात्मैवायं दहराकाश इति निश्चीयते ॥ ननु उक्तरीत्या वाक्यशेषवशात् दहराकाशस्य परमात्मत्वनिर्णयो न युक्तः ‘‘अथ यएष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । एष आत्मेति होवाच’’ इति वाक्यशेषे शरीरादुत्थाय परज्योतिरुपसंपत्त्या स्वरूपविर्भावं प्राप्नुवतः" ‘संप्रमाद’-शब्दोक्तस्य जीवस्य परामर्शदर्शनात्, तस्य च ‘‘आ काशत इति आकाश’ इति व्युत्पत्त्या ‘आकाश’शब्दवाच्यत्वोपपत्तेः, प्रत्यगात्मैवायं" दहराकाश इति निश्चीयमानत्वात् इति चेत्, मैवम्-प्रत्यगात्मनः ‘‘एष आत्मा अपहतपाप्मा’’ इत्यादिना अभिहितनिरुपाधिकापहतपाप्मत्वाद्यसंभवात् । प्रजपतिवाक्ये स्वोपासनप्रतिपरमात्मानुग्रहेण स्वरूपाविर्भावं प्राप्तस्य तस्य तदुपाधिकमपहतपाप्मत्वादिगुणाष्टकमभिधीयते, तु निरुपाधिकम्; अतः प्राक््तिरोहितस्वरूपः परमात्मोपासनेन पश्चादाविर्भूतस्वरूपः प्रत्यगात्मा प्रजापातिवक्ये प्रतिपाद्यः । दहरवाक्ये तु कदाचिदप्यतिरोहितापहतपाप्मत्वादिस्वरूपः परमात्मा । परमात्मप्रकरणे ‘‘अथ य एष संप्रसाद’’ इत्यादिना जीवात्मन उपादानं तु तिरोहितस्वरूपस्य जीवात्मनो देशाविशेषावस्थितस्वप्राप्त्या स्वरूपाविर्भावहेतुत्वरूपपरमात्मगुणविशेषप्रतिपादनार्थम् । तस्य परमात्मनोऽल्पपरिमाणोक्तिस्तु तथोपासनार्था ॥ ननु स्यादेतदेवं, यदि ‘दहरविद्योक्त आत्मा सर्वदा अतिरोहितस्वरूपः; प्रजापतिवाक्योक्तस्तु प्राक््तिरोहितस्वरूपः, पश्चात् परब्रह्मप्राप्त्या आविर्भूतस्वरूपो मुक्तात्मा’ इत्यत्र किञ्चित् प्रमाणमुपल्भ्येत । तदेव तु नोपलभ्यते इति चैत्; उच्यते- ‘‘यदा पश्यः पश्यते रुक्मवर्णं" कर्तारमीशं पुरुषं ब्रह्मयोनिं । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’’ इति, ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः" । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’’ इति श्रुतिस्मृत्योः परब्रह्मोपासनेन जीवस्य परब्रह्मसाम्यापत्त्या, अपहतपाप्मत्वादिगुणाष्टकवत्त्वाविर्भावस्य प्रतीयमानत्वात् दहराकाशस्य परमात्मनः सर्वदा अतिरोहितस्वरूपत्वम्, जीवात्मनस्तु मुक्तिदशायां तत्साम्यापत्त्या स्वरूपाविर्भावः" इति निश्चीयते इति ॥ इति दहराधिकरणम् ॥ 5 ॥
अङ्गुष्ठमात्रपुरुषं मनुष्यहृदयस्थमीशितृत्वाद्यैः ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥24 ॥
23 ॥ प्रमिताधिकरणम् ॥ 6 ॥ पूर्वस्मिन्नधिकरणे ‘‘अल्पश्रुतेरिति चेत्तदुक्तं’’ इति सूत्रे परमात्मनो दहरविद्यायां हृदयपुण्डरीकरूपाल्पस्थानवर्तितया अल्पपरिमाणोक्तिः" तथा उपासनार्था इत्युक्तम् । अल्पपरिमाणविशेषो जीवस्य श्रूयते । अतो जीवएवास्तु इति शङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् । अथवा पूर्वाधिकरणे अल्पपरिमाणवत्त्वं परमात्मन उपपादितम्; तस्यैवाङ्गुष्ठपरिमाणवत्त्वमुपपादयितुं प्रवृत्तमिदं अधिकरणम् ॥ शब्दादेव प्रमितः ॥ 1-3-23 ॥ [हृद्यपेक्षया तु मनुष्यधिकारत्वात् ॥ 24 ॥] अङ्गुष्टपरिमितत्वेन श्रुतः, सः-परमात्मा; ‘‘भूतभव्यस्येशानः’’ इति शब्दादेव परमात्मत्वावगमात् इति सूत्रार्थः ॥ अङ्गुष्ठमात्रपुरुषं मनुष्यहृदयस्थमीशितृत्वाद्यैः । यदिति व्यानक्ति विद्या तद्ब्रह्म शीनिवासनाम भजे ॥ 24 ॥ अर्थः । कठवल्ल्यां ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते’’ इति श्रुतिः ‘‘अङ्गुष्ठमात्र’’ इत्यङ्गुष्ठप्रमितत्वेन श्रुतं पुरुषं ईशितृत्वाद्यैः निरुपाधिकसर्वशासितृत्वप्रमुखैः यदसाधारणैर्धर्मैः, यत्-श्रीनिवासाख्यं" परं ब्रह्मेति प्रकाशयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । उदाहृतश्रुतौ हृदयस्थस्य पुरुषस्याङ्गुष्ठपरिमाणस्य भूतभविष्यद्वर्तमानरूपसकलजगदीशितृत्वं श्रूयते । तच्च सकलजगन्नयन्तृत्वरूपमीशितृत्वं" अन्तर्यामिब्राह्मणसुबालोपनिषदादौ ‘‘यः पृथिवीमन्तरो यमयति’’ इत्यादौ परमात्मनो नारायणस्यैव धर्म इत्यवगम्यते । एवं अस्मिन् प्रकरणे ‘‘भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम’’ इत्यग्निसूर्यादीनां सर्वेषामेतस्मादङ्गुष्ठपुरुषात् भीत्या स्वस्वकार्येषु प्रवृत्तिः श्रूयते । अनेन ‘‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति’’ इति वायुसूर्यादीनां भीषयितृत्वेन आनन्दवल्ल्यां श्रुत आनन्दमयः प्रत्यभिज्ञायते । स च आनन्दमयः पुण्डरीकाक्ष इति पूर्वमेव निर्णीतम् । अतोऽङ्गुष्ठमात्रप्रमितः पुरुषः श्रीनिवासापरनामधेयं नारायणख्यं परं ब्रह्मेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।’’ इत्याद्युदाहृतश्रुतौ शरीरान्तः स्थितपुरुषस्यङ्गुष्ठपरिमाणत्वं भूतभव्येशितृत्वं" च श्रुयते । तत्र अङ्गुष्ठपरिमाणत्वं ‘‘प्राणाधिवः सञ्चरति स्वकर्मभिः । अङ्गुष्ठमात्रो रवितुल्यरूपः’’ इति श्वेताश्वतरोपनिषदि कर्मपरवशस्य ‘प्रणाधिप’ शब्दनिर्दिष्टस्य जीवस श्रूयते । परमात्मनस्तु कचिदपि न श्रुतम् । अतोऽत्र श्रुतोऽङ्गुष्ठपरिमाणः पुरुषो जीवात्मैवेति निश्चीयते । तस्य भूतभव्येशितृत्वं यथा कथञ्चिन्नेयमिते ॥ सिद्धान्तः । जीवस्य ‘‘वालाग्रशतभागस्य शतधा कल्पि,स्य च । भागो जीवः स विज्ञेयः’’ इति श्वेताश्वतरोपनिषदि अत्यन्ताणुपरिमाणवत्त्वस्योक्तत्वात् तस्याङ्गुष्ठपरिमाणवत्त्वं हृदयान्तःस्थत्वेन तदुपाधिकं वक्तव्यम् । परमात्मनोऽपि उपासकहृदयान्तः स्थत्वेनोपासकहृदयस्याङ्गुष्ठपरिमाणतया तदुपाधिकमङ्गुष्ठपरिमाणवत्त्वमुपपद्यते । एवमङ्गुष्ठपरिमाणवत्तवस्य जीवात्मपरमात्मनोरुभयोरपि साधारणतया तस्यानिर्णायकतया भूतभव्येशितृत्वस्यासङ्कुचितस्य पूर्वोदाहृतान्तह्यामिब्राह्मणदिश्रुतिषु परमात्मासाधारणतया श्रुतत्वेन असङ्कुचितभूतभव्येशितृत्वेन अङ्गुष्ठप्रमितः पुरुषः परमात्मेति निर्णायते । अङ्गुष्ठप्रमितत्वं तु उपासकहृदयस्थस्य तस्योपासकहृदयोपाधिकमुपपद्यते । खरतुरगादीनां अनङ्गुष्ठानां हृदयस्य अङ्ष्टप्रमितत्वाभावेऽपि मनुष्याणामेवोपासनाधिकारित्वात्, तेषां हृदयस्य तदङ्गुष्ठप्रमितत्वेन, तत्रोपासकानुग्रहाय सन्निहितस्य परमात्मनः तदुपाधिकं तदङ्गुष्ठप्रमितत्वं" उपपद्यत एव ॥ एवं ‘‘अङ्गुष्ठमात्रः पुरुष’’ इत्यस्मान्मन्त्रादुपरितने ‘‘यदिदं किञ्च जगत्सर्वे प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यातमिव य एतद्विदुरमृतास्ते भवन्ति ॥’’ इत्यस्मिन् मन्त्रे पूर्वप्रकृताङ्गुष्ठप्रमितात् पुरुषात् भयेन सर्वस्य जगतः कम्पनं श्रूयते । तद्विवरणाय प्रवृत्ते ‘‘भयादस्याग्निस्तपति भयात्तपति सुर्यः । भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः’’ इति तदुत्तरमन्त्रे प्रकृतस्याङ्गुष्ठपरिमाणस्य पुरुषस्य शासनातिवृत्तौ किं भविष्यति इति भीत्या, अग्निसूर्थादीनां तदाज्ञानुपालनं प्रतीयते । तदिदमग्निसूर्यादीनां" भीषयितृत्वं ‘‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति’’ इति तैत्तिरीयोपनिषदि परमात्मासाधारणत्याऽवगतम् । अतोऽयं अङ्गुष्ठप्रमितः पुरुषः परमात्मेति निश्चियते ॥ उदाहृतप्रथममन्त्रार्थस्तु-यदिदं जगत्, तत् सर्वं, प्राणे- सर्वंप्राणनहेतौ परमात्मनि प्रतिष्ठितं; प्राणात्-परमात्मनः, निस्सृतम् । उद्यतात्वज्रात्-वज्रायुधादिव, प्राणात्-परमात्मनः, महतो भयात् एजते-कम्पते इति । कृत्स्नं जगत् परमात्मनः शासनातिवृत्तौ किं" वा भवेत् इति भीत्या कम्पत इति भावः ॥ एवं कठवल्ल्यां ’’ न तत्र सूर्यो भाति न चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥’’ इति प्रकृताङ्गुष्ठमात्रप्रमितपुरुषविषये मन्त्रे अस्याङ्गुष्ठप्रमितपुरुषस्य सूर्यचन्द्रादिसकलतोजसामाच्छादकं निमित्तभूतमनुग्राहकं च तेजः श्रूयते । तच्च ‘‘तं देवा ज्योतिषां ज्योतिः यस्यादित्यो भामुपयुज्य भाति येन सूर्यस्तपति तेजसेद्धः’’ इत्यादिषु परमात्मासाधारणमवागतम् । मुण्डकोपनिषदि च ‘‘न तत्र सूर्यो भाति’’ इत्यादिरयं मन्त्रः परमात्मप्रकरणे पाठात् परमात्मविषयो निश्चितः । अतस्तथाविधपरमात्मासाधारणतेजोविशेषवत्त्वादप्ययमङ्गुष्ठप्रमितः पुरुषः परमात्मेति निर्धार्यत इति ॥ नन्वस्मिन् सूत्रे ‘शब्द’ शब्दस्य ‘‘ईशानो भूतभव्यस्य’’ इति विषयवाक्यस्थ’ईशान’शब्दरूपक्श्रुतिपरत्वं स्वरसतः प्रतीयते । तस्य पशुपत्याख्यदेवताविशेषे रूढत्वात्, उक्तेशानपदशुत्या अङ्गुष्ठप्रमितस्य पशुपत्याख्यदेवताविशेषरूपत्वं सूत्रकारैः सिषाधयिषितं" इत्यवगम्यते । इत्थं च ‘‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ॥’’ ‘‘अङ्गुष्ठमात्रः" पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्थेण ॥ ’’ इतित्रयाणां मन्त्राणामङ्गुष्ठप्रमितपुरुषविषयकाणां" पशुपत्याश्यदेवताविशेषपरतया तत्प्रकरणस्थानां पूर्वोत्तरमन्त्राणां सर्वेषां पशुपत्याख्यदेवताविशेषपरत्वेसूत्रकारतात्पर्य गम्यते । ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदं’’ इति मन्त्रे ‘विषणोः’ इत्यवधिपञ्चमी, ततश्च ‘विष्ण्वपेक्षया, परमं-उत्कृष्टं, पदं-पशुपत्याख्यं प्राप्यं वस्तु’ इत्यर्थकतया, सोऽपि मन्त्रः पशुपत्यख्यदेवताविशेषपर एव । अतः कृत्स्नाऽपि कठोपनिषत् बशुपतिपरैवेति सूत्रकाराशयावगमेन अस्या उपनिषदः श्रीनिवासापरनामधेयनारायणपरत्ववर्णनमयुक्तमितिचेदत्रोच्यते ।- ‘‘अस्मान् पश्यब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गैः’’ इत्यादौ ‘सरसिरुह’ पदेन बद्मबोधोऽनुभवसिद्धः । ‘‘पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयुखैः’’ इत्यादौ तु ‘सरोरुह’पदेन न तद्बोधः । एवं ‘‘देवीसरोजासनधर्मपत्नी’’ इत्यादौ ‘सरोजासन’शब्देन चतुर्मुखबोधो भवति । ‘‘एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय’’ इत्यादौ तु सरोजासनशब्देन न तद्बोधः । अतो योगरूढिमतां शब्दानां" योगार्थान्वितशार्थबोधकपदान्तरसमभिव्याहारे विद्यमानाया अपि रूढिशक्तेः न रूढ्यर्थोपस्थापनक्षमता । यत्र तु तादृशपदान्तरसमभिव्याहारो नास्ति, तत्र तस्या रूढ्यर्थोपस्थापनक्षमता । अत एवोपदर्शितोदाहरणेषु ‘पद्मानि’ इति ‘ब्रह्माणं’ इति च रूढ्यर्थोपस्थापकपदान्तरोपादानं" केषुचित् दृश्यते, केषुचिन्नेति निश्चींयते ॥ इत्थं च ‘‘ईशानो भूतभव्यस्य’’ इति प्रकृतमन्त्रे ‘ईशान’ पदयोगार्थेशितृत्वकर्मबोधकस्य ‘भूतभव्यस्य’ इति पदस्योपादानात्, ‘ईशान’ पदस्य न रूढ्यर्थोपस्थापनक्षमता । इत्थं च प्रकृतमन्त्रस्थेशानशब्दस्य श्रुतित्वासंभवात्, सूत्रस्थ’शब्द’पदं न ईशानशब्दरूपश्रुतिपरम्; अपि तु ‘भूतभव्यस्येशान’ इति वाक्यपरमेव । अत एव प्रकृतसूत्रे ‘‘शब्दोदेव’’ इत्येवकारोपादानम् । तस्य चायमभिप्रायः-यद्यपि लिङ्गाद्वाक्यं" दुर्बलं, तथापि प्रकृते अङ्गुष्ठप्रमितत्वस्य जीवात्मपरमात्मोभयसाधारणत्वेन अर्थानिर्णायकत्वेन, ‘‘इशानो भूतभव्यस्य’’ इति पाक्यादेव तयोरन्यतरन्निर्णेयम् । तदर्थस्यासङ्कुचितभूतमव्येशितृत्वस्य परमात्मासाधारणत्वात् अङ्गुष्ठप्रमितोऽयं पुरुषः परमात्मैवेति निर्धार्यते इति ॥ यदुक्तं ‘‘तद्विष्णोः परमं पदं’’ इत्यत्र ‘विष्णोः’ इत्यवधिपञ्चमी, ततश्च विष्णोरुत्कृष्टत्वं ‘पद’शब्दार्थे प्राप्ये पशुपत्याख्यदेवताविशेषे बोध्यत इति, तदसत्; तत्र ‘‘तद्विष्णोः परमं सदा पश्यन्ति सूरयः’’ इति श्रुतिप्रत्यभिज्ञानात्, तस्याः श्रुतेः ‘‘एकान्तिनः सदा प्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः ॥’’ इति श्रीविष्णुपुराणे नित्यसूरिभिर्दृश्यमानवैष्णवस्थानविशेषपरतयोपबृंहितत्वेन, प्रकृते ‘‘तद्विष्णोः परमं पदं’’ इत्यस्य विष्णुसंबन्धिस्थानविशेषपरत्वावगमादिति ॥ इति प्रमिताधिकरणम् ॥ 6 ॥
दुःखत्रयाभिभूतैरात्यन्तिकतन्निवृत्तिकामनया ।
देवैरपि यदुपास्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 25 ॥
24 ॥ देवताधिकरणम् ॥ 7 ॥ पूर्वाधिकरणे मनुष्याणामुपासने अधिकारात्, तद्धदयस्याङ्गुष्ठप्रमितत्वात्, उपासकानुग्रहाय तत्र स्थितस्य परमात्मनोऽङ्गुष्ठप्रमितत्वोक्तिः" इति ‘‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’’ इति सूत्रे उक्तम् । तेन देवानामुपासनेऽधिकारो नास्तीति शङ्काजननात्, तत्परिहाराय प्रवृत्तमिदमाधिकरणम् ॥ तदुपर्यपि बादरायणः संभवात् ॥ 1-3-25 ॥ [विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ 26 ॥ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ 27 ॥ अत एव च नित्यत्वम् ॥ 28 ॥ समाननामरूपत्वाच्चवृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ 29 ॥] तत्-परमात्मोपासनं, उपर्यपि-मनुष्येभ्य उपरितनेषु देवेष्वपि संभवति । तेषां अर्थित्वसामर्थ्यरूपोपासनाधिकारस्य संभावात् इति भगवान् बादरायणो मन्यते इति मूत्रार्थः ॥ दुःखत्रयाभिभूतैरात्यन्तिकतन्निवृत्तिकामनया । देवैरपि यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 25 ॥ अर्थः । आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखत्रयेण आक्रान्तैः देवैरपि-इन्द्रादिभिरपि, आत्यन्तिकी-पुनरावृत्तिरहिता य तन्निवृत्तिः-दुःखत्रयनाशः, तत्कामनया, यत्-श्रीनिवासापरनामधेयं ब्रह्म, उपास्यं, तद्ब्रह्मेति पूर्ववत् ॥ भावः । इन्द्रादीनामपि सांसारिकाध्यात्मिकादिदुःखवत्तायाः श्रुतीतिहासपुराणादिषूक्ततया तेषामपि संसारबन्धनिवृत्तिरूपमोक्षेच्छारूपार्थित्वस्य, पदुतरदेहेन्द्रियादिमात्तायाः श्रुतीतिहासपुराणादिषु सिद्धतया, उपासनानुष्ठानसामर्थ्यस्य च संभवात्, तेषामपि परमात्मोपासने अधिकारसंभवेन, देवैरपि श्रीनिवासाभिधानं परं ब्रह्मोपास्यं इति ॥ पूर्वपक्षः । पूर्वमीमांसायां अर्थवादाधिकरणे कर्मकाण्डादिषु श्रुयमाणानां अर्थवादवाक्यानां मन्निङितविधिवाक्यविहितकर्मसु प्ररोजनाजननाय तत्प्राशस्त्यमात्रपरतायाः" स्वार्थे तात्पर्याभावस्य च सिद्धान्तितया, देवादीनां विग्रहवत्तवे तत्परप्रमाणाभावेन तेषां देहवत्म्वासिद्ध्या, देहवत्त्वं विना उपासननिर्वहणसामर्थ्यं न संभवति । देहवत्त्वाभावादेव तत्प्रयुक्तदुःखासंभवेन तज्जिहासया मोक्षार्थित्वमपि न संभवति । अत उपासनानुष्ठानसामर्थ्यस्य उपासनफलभूतमोक्षार्थित्वस्य चासंभवात्, तेषां ब्रह्मविद्यासु नाधिकार इति ॥ सिद्धान्तः । मन्त्राणामर्थवादानां च स्वार्थे तात्पर्यमवश्यमाश्रयणीयम् । तथा हि ‘‘वायव्यं श्र्वेतमालभेत भूतिकाम’’ इति इष्टिविशेषविध्यनन्तरं, ‘‘वायुर्वैक्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’’ इति तदर्थवादः श्रूयते । अत्र विधिवाक्येन भूतिरूपफलार्थिना वायुदेवताकेष्टिविशेषः कर्तव्यतया विधीयते । तत्र तथाविधेष्टेः क्षणध्वंसितया, कथंकालान्तरभाविभूतिरूपफलसाधनत्वमित्याकांक्षा नियमेन जायते । तदुत्तरार्थवादवाक्येन ‘तादृशेष्टिविशेषेणाराधितो वायुः प्रसन्नः सन्, भूतिरूपं फलं यच्छति’ इत्यभिधानात्, इष्टेः" क्षणध्वंसित्वेऽपि तदाराधितवायुदेवताप्रसादद्वारा फलसाधनत्वं उक्तेष्टेः संभवति इत्याकांक्षानिवृत्तिः क्रियते । अतो विधिवाक्यापेक्षितफलसाधनभूतदेवताप्रसादरूपद्वारेऽप्यर्थवादवाक्यस्य तात्पर्यमवश्यमभ्युपगन्तव्यम् । अन्यथा पूर्वोक्ताकांक्षाया निवृत्त्यसंभवेन, निरागांक्षप्रतिपत्त्यसंभवात् । ‘तथाविधेष्ट्या तत्कर्तरि अपूर्वं किञ्चिज्जायते; तच्च फलपर्यन्तावस्थायि; अतः तेन फलमुत्पाद्यत’ इति कल्पने तु, श्रुतस्य देवताप्रसादरूपद्वारस्य त्यागः, अश्रुतस्य अबूर्वरूपद्वारस्य कल्पनं चेति दोषः प्रसज्यते । अतो निरुक्तार्थवादवाक्यस्य वायुदेवतायां तस्याः फलप्रदत्वे च तात्पर्यमवश्यमाश्रयणीयम् । एवमन्येषामर्थवादवाक्यानां स्वार्थे तात्पर्यमवश्यमङ्गीकरणीयम् । तेषां स्तुतिपरत्वेऽपि, अविद्यमानार्थाभिधानेन स्तुत्यनुपपत्तेः । अतो देवानामपिविग्रहवत्त्वं प्रमाणसिद्धमेव । एवं इन्द्रादीनां स्वस्थानच्युत्यादिबहुविधापत्प्रतिपादनात्, तेषामपि सांसारिकफलेषु निर्वेदसंभवेन मुमुक्षाऽपिसंभवति । अतोऽर्थित्वसामर्थ्यरूपाधिकारसंभवात्, देवानामपि ब्रह्मविद्यायामधिकारोऽस्ति ॥ ननु यागेषु ‘‘इन्द्र आगच्छ’’ इत्यादिना इन्द्रादिदेवताह्वानं, तेषां यागे सन्निधानं च श्रूयते । ततश्च इन्द्रादीनां विग्रहवत्त्वाभ्युपगमे, एकस्य इन्द्रस्य युगपदनेकेषु यागेषु सन्निधानासंभवात्, तत्सन्निधानबोधकश्रुतिविरोधः । एवमिन्द्रादीनां शरीरवत्त्वाभ्युपगमे तच्छरीराणां" सावयवानां विनाशस्य अवश्यंभावेन, तादृशेन्द्रदीनां देवानामुत्पत्तेः पूर्व, नाशादनन्तरं च, देवे श्रूयमाणानामिन्द्रादिशब्दानां" अर्थशून्यत्वं स्यादिति चेत् । मैवम्सौभरिप्रभृतीनां तपः प्रभावजनितशक्तिविशेषेण युगपदनेकशरीरपरिग्रहवत्, ततोऽप्यधिकशक्तिमतां" देवानामनेकशरीरपरिग्रहेण युगपदनेकेषु यज्ञेषु सन्निधानोपपत्तेः । वैदिकानामिन्द्रादिशब्दानां, गवादिशब्दानामिव, आकृतिविशेषविशिष्टवाचितया, एकैकस्येन्द्रादेः नाशेऽपि, चतुर्मुखेन आकृतिविशेषवाचिवैदिकेन्द्रादिशब्दैः तत्तदाकृतिविशेषस्मरणपूर्वकं पूर्वपूर्वेन्द्रादिसमानकृतिविशिष्टस्य उत्तरोत्तरस्य इन्द्रादेः सृष्ट्युपपत्तेश्च, न वैदिकानां इन्द्रादिशब्दानां अर्थशून्यताप्रसङ्गः । ‘‘मनत्रकृतो वृणीते’’ इत्यादिषु वसिष्ठादीनां वैदिकमन्द्रकृत्त्वश्रवणेन, वसिष्ठादिकृतानां मन्त्राणां अनित्यत्वस्य दुर्वारतया, वेदस्य अनित्यत्वं स्यात् इत्याशङ्गाऽप्यनेनैव दत्तोत्तरा । वसिष्ठादिशब्दानमाकृतिविशेषविशिष्टवाचितया, पूर्वपूर्ववसिष्ठादिनाशेऽपि, वसिष्ठादिशब्दवाच्याकृतिविशेषस्मरणपूर्वकं तत्तदाकृतिविशिष्टोत्तरोत्तरवसिष्ठादीनां चतुर्मुखमृष्टानां तन्नियुक्तानां तपःप्रभावेन पूर्वपूर्ववसिष्ठादिदृष्टवैदिकमन्त्रसाक्षात्कारपूर्वकं तत्तन्मन्त्रप्रवर्तनस्य ‘‘मन्त्रकृतो वृणीते’’ इत्यादिना अभिधानात्, न वेदस्यानित्यत्वप्रसङ्गः । महाप्रलये चतुर्मुखस्यापि नाशे,तदुत्तरसृष्टौ भावता पुरुषोत्तमेन समष्टिमहाभूतसृष्टिपूर्वकं तत्सृष्टे ब्रह्माण्डे ‘‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’’ इति श्रुत्युक्तरीत्या चतुर्मुखं सृष्ट्वा, पूर्वसृष्टिप्रवर्तितवेदानुपूर्वीसमानानुपूर्वीकान् वेदान् तस्मै चतुर्मुखाय उवदिश्य तन्मुखेन वेदानां देवादिसृष्टीनां च प्रवर्तनात्, समानानुपूर्वीकाणां वेदानां सर्वदा संभवात्, न वेदनित्यत्वविरोधः । वेदनित्यत्वं हि न वैदिकशब्दानां स्वरूपेण नित्यत्वं, शब्दानां अहङ्काराख्यतत्त्वजन्यत्वेन महाप्रलये तन्नाशस्यावश्यंभावात्; अपि तु पूर्वपूर्वानुपूर्वीसमानानुपूर्वीकतयोच्चारणीयत्वमेव तन्नित्यत्वमिति ॥ इति देवताधिकरणम् ॥ 7 ॥
वसुरुद्रादिपदस्थैर्भूयस्तत्-प्राप्तिकामनावद्भिः ।
स्वावस्थं यदुपास्यं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 26 ॥
25 ॥ मध्वधिकरणम् ॥ 8 ॥ पूर्वाधिकरणे देवतानामपि ब्रह्मविद्यायामधिकारोऽस्तीति निरूपितम् । प्रह्मविद्याविशेषे तासामधिकारासंभवाशङ्कापरिहाराय प्रवृत्तमिदमधिकरणम् ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ 1-3-30 ॥ [ज्योतिषि भावाच्च ॥ 31 ॥ भावं तु बादरायणोऽस्ति हि ॥ 32 ॥] मधुविद्यादिषु देवानामर्थित्वसामर्थ्ययोः असंभवात्, तेषां ब्रह्मविद्यायां अधिकारश्रवणेन तस्य विद्यान्तरेष्वधिकारनिषेधार्थत्वाच्च, तेषां तासु विद्यासु नाधिकार इति चैमिनिः आचार्यो मन्यत इति प्रथमद्वितीय सूत्रार्थः । तास्वपि अर्थित्वसामर्थ्ययोः संभवात्, देवानामधिकारसद्भावं बादारायण आचार्यो मन्यत इति तृतीयसूत्रार्थः ॥ एषु तृतीयसूत्रार्थविवरणपरमिदं पद्यम्- वसुरुद्रादिपदस्थैर्भूयस्तत्प्राप्तिकामनावद्भिः । स्वावस्थं यदुपास्यं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 25 ॥ अर्थः । भूजः- भाविकल्पे, तत्प्राप्तिकामनावद्भिः-वस्वादिपदप्राप्तिकामैः, वसुरुद्रादिपदस्थैः-इदानीं वस्वादिपदं प्राप्तैः, स्वावस्थं-स्वशरीरकं, यत्-श्रीनिवासनामकं ब्रह्म उपस्यं, तद्ब्रह्मेति पूर्ववत् ॥ भावः । मधुविद्यायां कार्यकारणोभयावस्थवस्वादिशरीरकपरमात्मन एवोपास्यत्वात्, इदानीं वस्वादिपदं प्राप्तानामपि कल्पान्तरे वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तीच्छायाः" संभवाच्च मधुविद्यायां अर्थित्वसामर्थ्ययोः संभवात्, वस्वादीनामपि तास्वधिकारोऽस्ति । अतः तैः स्वशरीरकं श्रीनिवासाभिधानं परं" ब्रह्मैवोपास्यमिति ॥ पूर्वपक्षः । मधुविद्यायां वसुरुद्रादित्यमरुत्साध्याख्यदेवतापञ्चकभोग्यपञ्चामृताश्रयदित्योपासनं विधाय, ‘‘वसुनामेवैको भूत्वा’’ इत्यादिना मधुविद्यानिष्ठस्य वसुत्वद्यधिकारप्राप्तिः फलत्वेनाभिधीयते । तत्र ततक्ररतुन्यायेन वस्वाद्युपासनं विना पसुत्वादिप्राप्त्यसंभवात्, वस्वादीनामप्युपास्यत्वं सिद्धम् । ततश्च आदित्यवस्वाद्यधिकारस्थानामादित्यवस्वद्युपासनं न संभवति । स्वस्मादुत्कृष्टस्यैव स्वोपास्यत्वसंभवेन स्वस्य स्वस्मातुत्कृष्टत्वासंभवात् । एवमादित्यवस्वाद्यधिकारस्य प्राप्ततया तेषां तत्प्रप्तीच्छाऽपि न संभवति । अत आदित्यवस्वाद्युपासनरूपमधुविद्यायां" तदुपासनानुष्ठानसामर्थ्यस्य तत््फलकामनारूपार्थित्वस्य चासंभवात्, तद्विद्यायां आदित्यवस्वाद्यधिकारस्थानां नास्त्यधिकार इति ॥ सिद्धान्तः । मधुविद्याया ब्रह्मविद्यात्वस्य ब्रह्मप्राप्तिरूपफलस्य च छान्दोग्ये ‘‘न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति, य एतामेवं ब्रह्मोपनिषदं वेद’’ इत्यत्र श्रवणात्, तत्र ब्रह्मण उपास्यत्वं विना ब्रह्मविद्यात्वासंभवात्, आदित्यवस्वादिशरीरकब्रह्मण एव तत्रोपास्यत्वमङ्गीकरणीयम् । ततश्च आदित्यवस्वाद्यधिकारस्थस्यापि स्वशरीरकब्रह्मोपासनं संभवति । एवमेतत्कल्पे आदित्यवस्वाद्यधिकारं" प्रप्तस्यापि भाविकल्पे आदित्यवस्वाद्यधिकारप्राप्तिपूर्वकब्रह्मप्राप्तिकामनाऽपि संभवति । अतोऽर्थित्वसामर्थ्ययोः संभवात्, आदित्यवस्वादीनामपि मध्वादिब्रह्मविद्यास्वधिकारः अस्त्येवेति ॥ अत्रेदं बोद्ध्यम्-वसुरुद्रादित्यमरुत्साध्यावस्थब्रह्मोपजीव्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रयादित्यावस्थब्रह्मोपासनं मधुविद्या । अत्र ब्रह्मण उपजीवकत्वं विशेषणीभूतवस्वादिद्वारकम् । तच्चोपासनं द्विविधम्-कार्यावस्थब्रह्मोपासनं कारणावस्थब्रह्मोपासनं चेति । तत्र वस्वादिनामरूपोदयास्तमयादिविशिध्टजीवशरीरकब्रह्मोपासनं कार्यावस्थब्रह्मोपासनम्; तत्पूर्वावस्थापन्नजीवशरीरकब्रह्मोपासनं" कारणावस्थब्रह्मोपासनं, इत्येकः पक्षः । वस्वादिनामरूपोदयास्तमयादिविशिष्टजीवशरीरकब्रह्मोपासनं,कार्यावस्थब्रह्मोपासनं, वस्वादिनामरूपादिप्रहाणात्मकमुक्त्यवस्थापन्नजीवशरीरकब्रह्मोपासनं" कारणावस्थब्रह्मोपासनमिति बङान्तरम् । अत्र ‘कारणावस्थब्रह्म’ इति भाष्यग्रन्थेन कार्यावस्थाशून्यत्वं विवक्षितमिति द्वितीयपक्षाभिप्राय इति ॥ इति मध्वधिकरणम् ॥ 8 ॥
शुश्रूषुं प्रति गुरुणा शूद्रेत्यामन्त्रणस्य दृष्टस्य ।
शोचननिमित्तकतया शूद्रेष्वधिकारगमकताविरहात् ॥ 27 ॥
*शूद्रस्यापि मुमुक्षोर्वेदाध्ययनादिरहिततया ।
नाधिकृतिर्यदुपास्तौ तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 28 ॥
26 ॥ अपशूद्राधिकरणम् ॥ 9 ॥ पूर्वाधिकरणे देवानां अर्थित्वसामर्थ्ययोः संभवात्, ब्रह्मविद्यायामधिकारोऽस्तीति वर्णितम् । एवं तर्हि शूद्रस्याप्यर्थित्वसामर्थ्ययोः" संभवात्, ब्रह्मविद्यायामधिकारोऽस्तु इति शङ्कापरिहाराय ब्रवृत्तमिदमधिकरणम् ॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ 1-3-33 ॥ [क्षत्रियत्वगतेश्च ॥ 34 ॥ उत्तरत्र चैत्रर्थेन लिङ्गात् ॥ 35 ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ 36 ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ 37 ॥ श्रवणाध्ययनार्थप्रतिषेधात् ॥ 38 ॥ स्मृतेश्च ॥ 39 ॥] अस्य-जानश्रुतिनाम्नः क्षत्रियस्य, तदनादरश्रवणात्-हंसोक्तनिन्दावाक्यश्रवणात्, तदैव रैक्वं ब्रति आद्रवणात्-दुतगमनात्, शुक्-शोकः, उत्पन्नेति ‘शूद्र’ इति संबोधनेन सूच्यते हि इति सूत्रार्थः ॥ शुश्रूषुं प्रति गुरुणा शूद्रेत्यामन्त्रणस्य दृषटस्य । शोचननिमित्तकतया शूद्रेष्वधिकारगमकताविरहात् ॥ 27 ॥ शूद्रस्यापि मुमुक्षोर्वेदाध्ययनादिरहितस्य । नाधिकृतिर्यदुपास्तौ तद्ब्रह्म श्रीनिवासनाम भजे ॥ 28 ॥ अर्थः । पद्यद्वयमेकान्वयम् । संवर्गविद्याप्रकरणे, दृष्टस्य-श्रूयमाणस्येत्यर्थः ।गुरुणा-आयार्येण रैक्वेण, शुश्रूषुं-ब्रह्मविद्यां" श्रोतुकामं जानश्रुतिनामानं क्षत्रियं प्रति, शूद्रेत्यामन्त्रणस्य-‘शूद्र’ इति संबोधनस्य, शोजननिमित्तकतया-हंसोक्तानादरवाक्यश्रवणजनितशोचितृत्वबोधकतया, शूद्रजातीयेषु अधिकारसद्भावज्ञापकत्वासिद्धेः, वेदाधिकाररहितस्य मुमुक्षोरवि शूद्रस्य-चतुर्थवर्णस्य, यदुपास्तौ-यस्य श्रीनिवासनाम्नः" परब्रह्मणः, उपास्तौ-उपासने, अधिकृतिः-अधिकारः, न अस्ति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । छान्दोग्ये संवर्गविद्याप्रकरणे जानश्रुतिनाम्नः क्षत्रियस्य ब्रह्मविद्यायामप्रवृत्तिमुपलभ्य तस्य ब्रह्मविद्याश्रवणेच्छोत्पिपादयिषया हंसरूपेण तत्समीपमागतयोः कयोश्चिन्महात्मनोर्मध्ये, एकस्य जानश्रुतिस्तुतिवाक्यं, अन्यस्य रैक्वाख्यब्रह्मवित्स्तुतिरुपं जानश्रुतिनिन्दारूपं" च वाक्यं श्रुत्वा, स्वस्य ब्रह्मविद्यावैधुर्यप्रयुक्तनिन्दाश्रवणेनोत्पन्नशोकं, तदानीमेव रैक्वसमीपं प्रति ब्रह्मविद्याश्रवणाय गतवन्तं, स्वकन्यादिबहुवस्तूपहृतवन्तं जानश्रुतिं प्रति, ‘‘आजहारेमाः शूद्र अनेनैव मुखेनालापयिष्यथाः’’ इति ‘शूद्र’ इत्यामन्त्रणपूर्वकं ब्रह्मविद्योपदेशः श्रूयते । अतस्तत्र ‘शूद्र’ इति संबोधनस्य हंसकृतनिन्दाश्रवणजनितजानश्रुतिशोकमीचनार्थत्वेन चतुर्थवर्णाभिधायकताविरहात्, शूद्रस्य वेदाध्ययनाधिकारनिषेधाच्च मुमुक्षुत्वरूपार्थित्वसंभवेऽपि, अधीतवेदान्तवाक्यजन्यब्रह्मज्ञानस्यासंभवेन, तत्पूर्वकब्रह्मोपासने नास्त्यधिकार इति ॥ पूर्वपक्षः । शूद्रजातीयस्य वेदाधिकारविरहेऽपि, इतिहासपुराणादिश्रवणेन ब्रह्मस्वरूपतदुपासनप्रकारज्ञानसंभवात् मुमुक्षुत्वसंभवाच्च, अर्थित्वसामर्थ्ययोः" संभवेन, ब्रह्मविद्यायामस्त्यधिकारः । अत एव रैक्वेण शुश्रूषुं जानश्रुतिं प्रति ‘शूद्र’ इत्यामन्त्र्य, तस्य ब्रह्मविद्योपदेशः" संवर्गविद्याप्रकरणे श्रूयते इति ॥ सिद्धान्तः । अध्ययनगृहीतवेदान्तवाक्यजन्यब्रह्मस्वरूपतदुपासनप्रकारज्ञानमेव वेदान्तविहितब्रह्मोपासनानुष्ठानाङ्गम्; यथा कर्मकाण्डवाक्यजन्यकर्मस्वरूपतदनुष्ठानप्रकारज्ञानं" कर्मकाण्डविहितकर्मानुष्ठानाङ्गं, तद्वत् । ततश्च वेदाध्ययननधिकृतस्य शूद्रस्य वेदान्तवाक्यजन्यब्रह्मस्वरूपज्ञानाद्यसंभवात्, इतिहासपुराणयोरपि वेदान्तोपबृंहणार्थत्वेन शूद्रस्य तत्राप्यनधिकारात्, इतिहासपुराणश्रवणाम्यनुज्ञानस्य पापक्षयमात्रार्थत्वेन, इतिहासपुराणाध्ययनाधिकारगमकताविरहाच्च, शूद्रस्यार्थित्वसंभवेऽपि सामर्थ्यासंभवात्, न ब्रह्मविद्यायामधिकारः ॥ संवर्गविद्यायां ‘शूद्र’ इत्यामन्त्रणं तु न शूद्रजात्यभिप्रायकम्, आमन्ञ्यमाणस्य जानश्रुतेर्जनपदाधिपतित्वादिना क्षत्रियत्वावगमात् । एवं संवर्गविद्यायामुत्तरत्र श्रूयमाणाख्यायिकायां,शौनकाभिप्रतारिनाम्नोः संवर्गविद्यान्वयिनोरेकस्य ब्रह्मणत्वं अन्यस्य क्षत्रियत्वं" चावगम्यते । अतो ब्रह्मणेतरेषु क्षत्रियस्यैव प्रकृतविद्यान्वयावगमेन तत्ब्रायपाठात्, अत्रापि रैक्वजानश्रुत्योः एकस्य रैक्वस्य ब्रह्मणत्वात्, अन्यस्य जानश्रुतेः क्षत्रियत्वं गम्यते । तस्य ‘शूद्र’ इत्यामन्त्रणाभिप्रायस्तु प्रागेव विवृतः । ब्रह्मविद्याप्रकरणेषु उपनयनसंस्कारपूर्वकमेव ब्रह्मविद्योपदेशदर्शनात्, शूद्रस्योपनयानसंस्कारनिषेधात्, शूद्रत्वाभावनिश्चयानन्तरमेव ब्रह्मविद्योपदेशस्य श्रुतिषुश्रूयमांणत्वात्, शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानां श्रुतिस्मृतिषु निषेधाच्च, न तस्य ब्रह्मविद्यायामधिकार इति ॥ इति अपशूद्राधिकरणम् ॥ 9 ॥ [कम्पनात् ॥ 40 ॥ ज्योतिर्दर्शनात् ॥ 41 ॥] (इदं सूत्रद्वयं प्रमिताधिकरणशेषत्वात् तत्रैव व्याख्यातम्)
आकाशस्य वदन्ती श्रुतिरन्या नामरूपकर्तृत्वम् ।
यदिति व्यनक्ति तमिमं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 29 ॥
27 ॥ अर्थान्तरत्वाधिकरणम् ॥ 10 ॥ पूर्वं दहराधिकरणे, ‘‘दहरोऽस्मिन्नन्तर आकाशः’’ इत्यत्र श्रुतस्य दहराकाशस्य परमात्मत्वं निर्णीतम् । तत्र अल्पश्रुतिप्रसङ्गेन अङ््गुष्ठप्रमितस्य परमात्मत्वं साधितम् । अनन्तराधिकरणत्रयं प्रासङ्गिकम् । इदानीं दहरविद्याशेषवाक्यस्याकाशशब्दवाच्यस्य अपरमात्मत्वमाशङ्क्य, परमात्मत्वं स्थाप्यते ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ 1-3-42 ॥ [सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ 43 ॥ पत्यादिशब्देभ्यः ॥ 44 ॥] आकाशः-‘‘आकाशो ह वै नामरूपयोर्निर्वहिता’’ इति श्रुतिस्थ’आकाश’शब्दवाच्यः, सः-परमात्मा; अर्थान्तरत्वादिव्यपदेशात्-जीवात्मव्यावर्तकधर्मविशेषव्यपदेशात् इति सूत्रार्थः ॥ आकाशस्य वदन्ती श्रुतिरन्या नामरूपकर्तृत्वम् । यदिति व्यनक्ति तमिमं तद्ब्रह्म श्रीनिवासनाम भजे ॥ 29 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य घीदेशिकाचार्यस्य कृतिषु शारीरकाधिकरणरत्नमालायां" प्रथमाध्यायस्य तृतीयः पादः ॥ अर्थः । अन्या श्रुतिः- ‘‘आकाशो ह वै नामरूपयोः निर्वहिता’’ इति श्रुतिः, नामरूपयोः कर्तृत्वं-स्रष्टृत्वं, आकाशस्य-आकाशशब्दवाच्यस्य, वदन्ती सती, तमिमं आकाशं, यत्-श्रीनिवासाख्यं परं ब्रह्मेति प्रकाशयति, तद्ब्रह्मेति, पूर्ववत् ॥ भावः । छान्दोग्ये दहरविद्यान्ते अष्टमप्रपाठके द्वादशखण्डे, ‘‘अश्व व रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानि’’ इत्युपक्रम्य, ‘‘आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्यतरा तद्ब्रह्म तदमृतं स आत्मा’’ इति श्रूयते । अत्र ‘आकाश’शब्दवाच्यस्य ‘‘नामरूपयोर्निर्वहिता’’ इत्यनेन नामरूपकर्तृत्वमभिधीयते । पुरुषसूक्ते तदेतन्नामरूपकर्तृत्वं" ‘‘वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते ।’’ इति ‘महापुरुष’ शब्दनिर्दिष्टस्य श्रीनिवासपरनामधेयस्य लक्ष्मीपतेः श्रुतम् । अतः स एवेदं ब्रह्मेति निश्चीयते ॥ पूर्वपक्षः । ‘‘अश्व इव रोमाणि’’ इत्यस्मिन् मन्त्रे पुण्यपापरूपकर्मविनिर्मोकपूर्वकं शरीरं परित्यज्य, ब्रह्मलोकं प्राप्नुवन् मुक्तात्मा प्रस्तुतः । तस्यैवमुक्तात्मनो बद्धावस्थारूपपूर्वावस्था तदनन्तरकालिकमुक्तावस्था च ‘‘आकाशो ह वै नामरूपयोः निर्वहिता’’ इति तदनन्तरवाक्ये प्रतिपाद्यते । अत्र ‘आकाश’शब्देन ‘आ काशते इति आकाश’ इति व्युत्पत्त्या प्रकाशस्वरूपो जीव उच्यते । नामरूपयोः-देवमनुष्यादिरूपस्य नाम्नश्च, निर्वहिता-नितरां वोढा, नामरूपभागित्यर्थः । ते अन्तरा-नामरूपे विना, यत वर्तते, तत्-मुक्तावस्थं, ब्रह्म-बृहत्तवगुणयोगी, तत्, अमृतं-मरणरहितं, सः-आत्मा इति श्रुत्यर्थः । अत्र प्रत्यगात्मनो ‘‘नामरूपयोर्निर्वहिता’’ इति अनेन देवमनुष्यादिनामभाक्त्वरूपबद्धावस्थोच्यते; ‘‘ते यदन्तरा’’ इत्यादिना च नामरूपविनिर्मुक्तत्वरूपमुक्त्यवस्था प्रतिपाद्यत इति, अत ‘आकाश’- शब्दवाच्यो जीव एवेति ॥ सिद्धान्तः । ‘‘नामरूपयोर्निर्वहिता’’ इत्यत्र वहनरूपयोगार्थापेक्षया निर्वोढृत्वरूपरूढ्यर्थस्यैव शीघ्रापस्थितिकतया प्रबलत्वेन स एव ग्राह्यः" । ‘‘ते यदन्तरा’’ इत्यत्र, ‘ते अन्तरा-तयोर्नामरूपयोर्मध्ये वर्तत’ इत्यनेन नामरूपाभ्यामस्पृषृत्वमुच्यते । अतो नामरूपकर्तृत्वरूपं" तन्निर्वोढृत्वं ताभ्यामसंस्पृषृत्वं च परमात्मन एव धर्म इति, पूर्वमन्त्रे ‘‘ब्रह्मलोकं’-इत्यत्र ‘ब्रह्म’शब्देन प्राप्यतयाऽभिहितः" परमात्मैवास्मिन् मन्त्रे ‘आकाश’शब्देन प्रतिपाद्यते, न तु प्राप्ता मुक्तात्मा । एवं च सति, निरूपधिकबृह’त्तवममृतत्वमात्मत्वं" च स्वरसतः सङ्गच्छत । अतोऽत्र ‘आकाश’ शब्दवाच्यः परमात्मैव ॥ ननु नामरूपकर्तृत्वादिना परमात्मनो जीवादर्थान्तरत्वस्य आपाततः प्रतीतावपि, परमात्मा जीवादर्थान्तरमेवेति निर्धारणमयुक्तम् । बृहदारण्यके ‘‘कतम् आत्मा’’ इति वैदेहप्रश्नस्य याज्ञवल्क्याप्रतिवचने, ‘‘योऽयंविज्ञानमयः प्राणेषु’’ इत्यादिना विज्ञानमयशब्दनिर्दिष्टं" जीवात्मान प्रस्तुत्य, प्रतिवचनान्ते ‘‘एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः’’ इत्यत्र, ‘ब्रह्मलोक’शब्देन ‘‘धूत्वा शरीरमकृतं" कृतात्मा ब्रह्मलोकमभिसंभवानि’’ इत्यादिषु ‘ब्रह्मलोक’शब्देन निर्दिष्टं प्राप्यं वस्तु प्रत्यभिज्ञाप्य, तस्य ‘‘ऐष’’ इति एतच्छब्दपरामृष्टबूर्वप्रकृतजीवात्मना प्राप्त्रा सममैक्योपदेशात्, तस्मिन्नेवाध्याये चतुर्थब्रह्मणे, ‘‘मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन….एकधैवानुद्रष्टव्यं’’ इत्यत्र द्वैतनिषेधाच्च इति चेत् । मैवं-तत्रैव तृतीयब्रह्मणे सुषुप्तिनिरूपणप्रकरणे, ‘‘एवमेवायं पुरुषः प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरं’’ इत्यनेन सुषुप्तस्य जीवस्य प्राज्ञशब्दोक्तस्य परमात्मनश्च परिष्वज्यपरिष्वञ्जकभावस्य अभिहितत्वेन, तदवस्थायां परिष्वज्यपरिष्वञ्जकयोरज्ञप्रज्ञयोर्भेदस्यावश्यंभावात्, तत्रैव जीवस्य देहात् उत्क्रान्त्यभिधानप्रकरणे, ‘‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन््याति’’ इत्यत्र शकटसारथ्योरिव जीवपरमात्मनोरन्वारोहरूपसंबन्धविशेषस्य प्रतिपादनेन तेनापि तयोर्भेदावश्यंभावाच्च । ‘‘एष ब्रह्मलोकः सम्राट्’’ इति इदं वाक्यं तु न उक्तरीत्या प्राप्यप्राप्त्रोः परमात्मप्रत्यगात्मनोः" स्वरूपैक्यपरं, अपि तु ‘‘एष’’ इति सुषुप्त्याधारतया पूर्वप्रकृतस्य परमात्मनः ‘‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’’ इति सुषुप्तिप्रकरणवाक्यस्थब्रह्मलोकशब्दवाच्यत्वप्रतिपादनपरम् । ततश्च एषः-प्रत्यगात्मनः सुषुप्त्याधारः परमात्मा छान्दोग्ये अष्टमाध्याये ‘‘ऐवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’’ इत्यत्र ‘ब्रह्मलोक’ शब्दवाच्य त्यर्थः" ॥ एवं ‘‘नेह नानास्ति किञ्चन’’ ‘‘एकधैवानुद्रष्टव्यम्’’, इत्यनयोरनन्दरं ‘‘सर्वस्याधिपतिः स न साधुना कर्मणा भूयान् नो एवासाधुना कर्मणा कनीयान् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’’ इत्यादिना परमात्मनो मुक्तात्मन्यसंभावितस्याकर्मायत्तैश्वर्यादेः" प्रतिपादनेन तयोर्भेदावश्यंभावेन, ‘‘नेह नानास्तिकिञ्चन’’ इत्यस्य आत्मद्वैतनिषेधपरत्वायोगात्, बद्धान्मुक्ताच्च जीवात््परमात्मनोऽर्थान्तरत्वं" दुरपह्न्वमिति ॥ इति अर्थान्तरत्वाधिकरणम् ॥ 10 ॥ इति श्रीकौशिककुलतिलकस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यस्य कृतिषु शरीरकाधिकरणरत्रमालाप्रकाशे प्रथमाध्यायस्य तृतीयः पादः ॥