सर्वं ब्रह्म यदुक्तं तत्तज्जत्वाद्यनूक्तिसामर्थ्यात् ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 13 ॥

12 ॥ सर्वत्र प्रसिद्ध्यधिकरणम् ॥ 1 ॥ प्रथमे पादे ‘सद्विद्यादिषु अचिद्वस्तु चेतनो वा जगत्कारणत्वेन प्रतिपाद्यते, अतस्तदेव जगत्कारणं, न तदतिरिक्तं किञ्चित् जगत्कारणं’ इत्याक्षेपपरिहारेण जगत्कारणं चेतनाचेतनविलक्षणं श्रीनिवासाभिधानं परं ब्रह्मैवेति समर्थितम् । तेन चिदचिद्विलक्षणत्वेन स्वाभिमते ब्रह्मणि जगत्कारणत्वलक्षणक्यासंभवः परिहृतः । इदानीं अनन्तरपादत्रयेण लक्षणस्य चेतनेऽचेतने चातिव्याप्तिः परिह्रियते ॥ तत्र द्वितीयपादे अस्पष्टचेतनाचेतनलिङ्गप्रतिपादकवाक्यविचारेण तयोरतिव्याप्तिः परिह्रियते । तत्र पूर्वस्मिन्निन्द्रप्राणाधिकरणे प्राणशरीरकस्य जगत्कारणत्वमुपास्यत्वं चोक्तम् । तदुभयं शाण्डिल्यविद्यायां जीवात्मन आम्नातमिति स एव जगत्कारणमित्याशङ्कां परिहर्तुं" प्रवृत्तमिदमाधिकरणम् ॥ सर्वत्र प्रसिद्धोपदेशात् ॥ 1-2-1 ॥ [विवक्षेतगुणोपपत्तेश्च ॥ 2 ॥ अनुपपत्तेस्तु न शारीरः ॥ 3 ॥ कर्मकर्तृव्यपदेशांच्च ॥ 4 ॥ शब्दविशेषात् ॥ 5 ॥ स्मृतेश्च ॥ 6 ॥ अर्मकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ 7 ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ 8 ॥] अस्मिन् पादे ‘‘ईक्षतिकर्मव्यपदेशात्सः’’ इति त्रिपादीमध्यमपाद मध्यमाधिकरणसूत्रात् ‘स’ इति पदं साध्यवाचकमाकृष्यते । ततश्च सर्वस्मिन् वस्तुनि तदात्मतयोपदिश्यमानं ब्रह्म, सः-परमपुरुष एव; प्रसिद्धय-अन्यत्र प्रसिद्धस्य, उपदेशात्-अनुवादात् इत्यर्थः ॥ अर्थः । ‘‘सर्वं खल्विदं ब्रह्म’’ इत्यत्र सर्वात्मकं ब्रह्म यदुक्तं, तत् (इदं कर्म), तज्जन्यत्वस्य, तस्मिन् लयस्य, तदधीनस्थितिकत्वस्य चानुवादसामर्थ्यात्, यत् श्रीनिवासाभिधानं प्रह्मेति शाण्डिल्यविद्या प्रकाशयति, तद््ब्रह्मेति पूर्ववत् ॥ भावः । छान्दोग्ये ‘‘सर्वं खल्विदं ब्रह्म तज्जलान्’’ इत्यदिना शाण्डिल्यविद्या आम्नायते । तत्र ‘तज्जलान् इदं सर्वं ब्रह्म खलु’ इत्यन्वयः । तत्र ‘तज्जलान्’ इति ‘इदं’ इत्यास्य हेतुगर्भं विशेषणम् । तत्र तच्छब्देन ब्रह्म परामृश्यते तज्जं-तस्माज्जातं, तल्लं-तस्मिन् नीयमानं, तदन्-तदधीनस्थितिकमिति तदर्थः । ‘इदं सर्वं ब्रह्म’ इति सामानाधिकरण्यनिर्देशेन जगद्ब्रह्मणोः तादात्म्यं प्रतिपाद्यते । ततश्च ‘ब्रह्मणो जातत्वात् , ब्रह्मणि लीयमानत्वात् , ब्रह्माधिनस्थितिकत्वाच्च सर्वमिदं चेतनाचेतनात्मकं ब्रह्म खलु’ इत्यर्थः" पर्यवसितः । अत्र सामानाधिकरण्यनिर्देशसिद्धं तादात्म्यमुपादानोपादेयभवरूपकार्यकारणभावेन शरीरात्मभावेन च द्वेधा विविक्षितम् । तत्र तज्जत्वतल्लत्वहेतुकं तादात्म्यं कार्यकारणभावनिबन्धनम् । तदधीनस्थितिकत्वहेतुकं तादात्म्यं शरीरात्मभावनिबन्धनम् । इह च मृदो घटात्मना परिणामवत् ब्रह्मणो निर्विकारस्य न खरूपेण जगदात्मना परिणामः । आपि तु ‘बालो युवा जात’ इत्यादौ जीवात्मनः शरीरद्वारा परिणामवत् चिदचिद्रूपशरीरद्वारा परिणामः । ततश्च ब्रह्मण एव सूक्ष्मचेतनाचेतनशरीरकत्वेन स्थूलचेतनाचेतनशरीरकत्वेन च कार्यकारणभावापन्नत्वात्,जगद्ब्रह्मणोः" शरीरशरीरिभावापन्नत्वाज्ज द्विविधं तादात्म्यं पृथक् पृथक् क्वचिदुपदिश्यते । यथा नारायणोपनिषदि ऋग्वेदशिरसि, ‘‘नारायणत् ब्रह्मा जायतेष नारायणात् रुद्रो जायते, नारायणात् इन्द्रो जायते’’ इत्यक्तं ब्रह्मरुद्रेन्द्रादीनां नारायणोपादानकत्वमुपजीव्य, यजुर्वेदशिरसि, ‘‘ब्रह्म च नारायणः, शिवश्च नारायणः, शक्रश्च नारायणः’’ इति तदात्म्यमुक्तम् । इदं चोभयत्र ब्रह्मादीनां क्रमप्रत्यभिज्ञानात् ज्ञायते ॥ ‘‘नारायणात् ब्रह्मा जायते’’ इत्यादौ नारायणस्य चतुर्मुखादिशरीरद्वारा परिणामो विवक्षितः । ‘‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः" परमः स्वराट्’’ इत्यत्र ब्रह्मादीनां परमात्मनश्च शरीरात्मभावनिबन्धनं तादात्म्यम्; पूर्वत्र ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’’ इति परमात्मनः सर्वत्रात्मतया व्यासिमभिधाय तथाभिधानात् । एवं पृथक्पृथक् तत्र तत्रोपदिष्टं द्विविधं तादात्म्यं" ‘‘सर्वं खलु’’ इत्यनेन संभूयोपदिश्यते । अत उभयविधतादात्म्यस्यापि साक्षात् परंपरया च शरीरात्मभावमूलकत्वात् ‘सर्वमिदं ब्रह्म’ इत्यस्य परिदृश्यमानकार्यभूतदेवमनुष्यादिचेतनाचेतनात्मकजगच्छरीरकं ब्रह्मेत्यर्थः ॥ अत्र तज्जात्वादीन् श्रुत्यन्तरसिद्धाननूद्य तद्धेतुकस्य जगद्ब्रह्मणोस्तादात्म्यस्योपदेशत्, अनुवादस्य प्रापकवाक्यसापेक्षत्वात् तानि प्रापकवाक्यानि कानीति जिज्ञासायां, ‘‘नारायणात् ब्रह्मा जायते’’ इत्यादीनि कार्यकारणभावप्रतिपादकवाक्यानि, ‘‘यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरं’’ इत्यारभ्य, पृथिवीप्रभृतितमः पर्यन्तानां नारायणशरीरत्वप्रतिपादकासुबालोपनिषद्वाक्यानि च प्रापकवाक्यानीति निश्चीयमानतया, नारायणस्य जगदुपादानत्वजगच्छरीरकत्वहेतुकमेवेदमुभयविधतादात्म्यमिति निश्चियते । अत उभयविधतादात्म्यवत्तया ‘‘सर्वं" खल्विदं ब्रह्म’’ इत्युच्यमानं ब्रह्म श्रीनिवासापरनामधेयं नारायणाख्यं ब्रह्मेति ॥ पूर्वपक्षः । ‘‘सर्वं. खल्विदं ब्रह्म’’ इति प्रस्तुतस्य ब्रह्मण उत्तरत्र ‘‘एष म आत्माऽन्तर्हृदये’’ इति शरीरान्तवर्तिहृदयस्थितत्वप्रतिपादनात् शरीरस्य तद्भोगायतनत्वं, तस्य च शरीरसंबन्धनिबन्धनसुखदुःखभोक्तृत्वमल्पस्थानकत्वं च प्रतीयते । ‘‘अणीयान् व्रीहेर्वा यवाद्वा’’ इत्यादिना अणुपरिमाणत्वं च प्रतिपाद्यते । तदिदमल्पस्थानकत्वमल्पपरिमाणवत्त्वं सुखदुःखभोक्तृत्वं च परमात्मनो न संभवति; अपि तु जीवात्मन एव । अतो जीवात्मैव ‘‘सर्वं खल्विदं ब्रह्म’’ इत्युपक्रमस्थब्रह्मशब्देन उच्यते । तस्य कर्मवैचित्र्येण देवमनुष्यादिभावेन जननात् ‘सर्वमिदं ब्रह्म’ इति तादात्म्यमुपपद्यत इति ॥ सिद्धान्तः । तज्जत्वतल्लत्वादिकमनूद्य तद्धेतुकतादात्म्यस्यात्र प्रतिपाद्यमानत्वात् जीवात्मनः कर्मकृतदेवमनुष्यादिभावस्य तज्जत्वादिहेतुकत्वाप्रसिद्धेः, चेतनस्य चेतनान्तरं प्रति आत्मत्वासंभवात् ‘सर्वमिदं’ इत्युक्तसर्वचेतनतादात्म्यस्य कस्मिंश्चिदपि जीवात्मन्यसंभवाच्च नात्र ब्रह्मशब्देन निर्दिष्टो जीवः ॥ अपास्यतया उपरिश्रुतानां मनोमयत्वादिगुणानां जीवात्मन्यसंभवादपि नायं जीवः । तथा हि - मनोमयत्वं- ‘‘न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन’’ इत्यादिश्रुतिप्रसिद्धं योगपरिशुद्धमनोग्राह्यत्वम्; ‘मनोमय’ इत्यत्र मयटो ग्राह्यग्राहकरूपसंबन्धपरत्वात् । अनेन हेयसंबन्धानर्हत्वं लभ्यते, हेयसंबन्धार्हस्य परिशुद्धमनोग्राह्यत्वासंभवात् । प्राणशरीरत्वमपि ‘‘यस्य प्राणः शरीरं’’ इत्यन्तर्यामिब्राह्मणसिद्धे प्राणस्य नियन्तृत्वरूपम् । भारूपत्वं- ‘‘आदित्यवर्णं तमसः परस्तात्’’ इत्यादिश्रुतिप्रसिद्धं निरतिशयदीप्तियुक्तविग्रहवत्त्वम् । सत्यसङ्कल्पत्वं–फलाव्यमिचरितसङ्कल्पवत्त्वम् । आकाशात्मत्वं- ‘‘यस्य आकाशः शरीरं’’ इत्यन्तर्यामिब्राह्मणप्रसिद्धमाकाशस्य नियन्तृत्वरूपं आकाशं प्रत्यात्मत्वम् । एवमादय एतत्प्रकरणोक्ता गुणा जीवात्मनो नोपपद्यन्ते । ‘‘एतमितः प्रेत्याभिसंभविताऽस्मि’’ इत्यनन्तरश्रुत्युक्तं ब्रह्मणाः प्राप्यत्वं जीवस्य प्राप्यत्वं च प्रक्रान्तस्य ब्रह्मणो जीवत्वे न घटते, प्राप्तृप्राप्ययोर्भेदावश्यंभावात् । एवं ‘‘एष म आत्मान्तर्हृदये’’ इत्युपासकस्य जीवस्य ‘मे’ इति षष्ठ्यन्तेन, ‘एष’ इत्युपास्यस्य ब्रह्मणः प्रथमान्तेन निर्देशश्च प्रक्रान्तब्रह्मशब्दोक्तात्मनो जीवात्मत्वे न घटते । एवं ‘‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयनु सर्वभूतानि यन्त्ररूढानि मायया’’ इति श्रीकीतावचनेन जीवात्महृदयावस्थितस्य ईश्वरत्वोक्तिरपि विरुद्ध्यते ॥ अतः ‘‘सर्वं खल्विदं ब्रह्म’’ इति प्रकान्तं ब्रह्म न जीवः, अपि तु परमात्मा; अन्तर्यामिब्रह्मणोक्तस्य प्राणशरीरकत्वस्य आकाशशरीरकत्वस्य चात्र प्रत्यभिज्ञानात्, ‘भारूप’ इत्यनेन उत्तरनारयणोक्तस्य आदित्यवर्णवत्त्वस्य प्रत्यभिज्ञानात्, ‘सत्यसङ्कल्प’ इत्यनेन सत्यसङ्कल्पत्वनिमित्तभूतस्य ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मा’’ इति सुबालोपनिषदुक्तस्याकर्मवश्यत्वरूपापहतण प्मत्वस्य प्रत्यभिज्ञानाच्च, अन्तर्यामिब्राह्मणाद्युक्तः" श्रीनिवासापरनामधेयः परमात्मा नारायण एवायमिति निर्धार्यते ॥ नन्वेवं परमात्मनोऽपरिच्छिन्नत्वेनावगातस्य अस्मिन् प्रकरणे ‘‘एष म आत्माऽन्तर्हृदये अणीयान् व्रीहेर्वा’’ इत्याद्यक्तं हृदयरूपाल्पदेशावस्थानं" अल्पपरिमाणवत्त्वं च नोपपद्यते । एवं शरीरसंबन्धप्रयुक्तसुखदुःखभोगश्च प्रसज्यत इति चेत् । उच्यते-स्वतोऽपरिच्छिन्नस्यापि परमात्मन उपासकानुग्रहाय उपासकहृदये सन्निहितस्य हृदयरूपपरिच्छिन्नोपाधिप्रयुक्ताल्पपरिमाणत्वस्यौपाधिकस्य अनुसन्धानार्थमत्रोपदेशात् । कर्मफलभोगार्थस्य शरीरसंबन्धस्यैव सुखदुःखभोगप्रयोजकतया, परमात्मनः स्वेच्छाकृतस्योपासकशरीरसंबन्धस्य सुखदुःखभोगप्रयोजकत्वविरहेण, तस्य सुखदुःखभोगप्रसङ्गविरहच्च, न कश्चिद्दोष इति ॥ इति सर्वत्रप्रसिद्ध्यधिकारणम् ॥ 1 ॥

अत्तारमोदनोक्त्या सिद्धं मृत्यूपसेचनत्वोक्त्या ।
संहर्तृ यदिति गमयति तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 14 ॥

13 ॥ अथ अत्त्रधिकरणम् ॥ 2 ॥ पूर्वस्मिन्नधिकरणे परस्य ब्रह्मण उपासकशरीरान्तर्वर्तित्वेऽपि न तस्य कर्मफलभोक्तृत्वमित्युक्तम् । तर्हि कर्मफलभोक्तृतयोक्तः" परं ब्रह्म न स्यात्; अपि तु जीव एव स्यात् इत्याशङ्कां परिहर्तुं प्रवृत्तमिदमधिकरणम् ॥ अत्ता चराचरग्रहणात् ॥ 1-2-9 ॥ [प्रकरणाच्च ॥ 10 ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ 11 ॥ विशेषणाच्च ॥ 12 ॥] अत्ता-संहर्ता, सः श्रीनिवासापरनामधेयः परमपुरुष एव; चराचरग्रहणात्–कृत्म्नस्य चिदचिदात्मकस्य प्रपञ्चस्य अद्यमानत्वेन श्रुतौ ग्रहणात् इति सूत्रार्थः । अत्तारमोदनोक्त्य सिद्धं मृत्युपसेचनत्वोक्त्या । संहर्तृ यदिति गमयति तद्ब्रह्म श्रीनिवासनाम् भजे ॥ 14 ॥ अर्थः । पूर्वश्लोकात् ‘विद्या’ इति पदमनुषञ्जनीयम् । ततश्च ‘‘यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क" इत्था वेद यत्र सः ।’’ इति मन्त्रे ‘यस्य पुरुषस्य ओदनो भवत्’ इति यच्छब्दनिर्तिषृपुरुषस्यौदनस्य च ‘यस्य’ इति षष्ठ्या अत्त्रदनीयभावसंबन्धप्रतीत्या सिद्धो यो यच्चब्दार्थः अत्ता, तं मृत्युपसेचनत्वोक्त्या-मृत्युः उपसेचनं यस्य, तत्त्वं मृत्यूपसेचनत्वं, तस्य उक्त्या, संहर्तृ-निखिलजगत्संहारकर्तृ यत्-श्रीनिवासख्यं परं ब्रह्मेति, विद्या-नाचिकेतसविद्य, गमयति-ज्ञापयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः । कठवल्लीषु द्वितीयवल्ल्यां ‘‘यस्य ब्रह्म च’’ त्यादिमन्त्रः पठ्यते । तत्र यच्छब्दनिर्दिष्टस्य कस्यचित् पुरुषस्य ब्राह्मणक्षत्रियवर्णयोः" ओदनत्वमुक्त्वा, मृत्योरोदनोपसेचनत्वमुक्तम् । तत्र यथा अद्यमानस्यान्नस्य दध्यादिकमुपसेचनं भवति, तथा अनेन पुरुषेण अद्यमानयोः" ब्रह्मक्षत्रयोः मृत्युरुपसेचनं भवति इत्युक्तं भवति । ‘यत् खयमद्यमानं सत् अन्यस्य वस्तुनोऽदनसाधनं भवति तदुपसेचनं’ इति लोकप्रसिध्धम्, यथा दध्यादिकम् । तद्धि खयमद्यमानं सत् अन्यस्यान्नदेरदनसाधनं भवति । तथा प्रकृते ब्रह्मणक्षत्रिययोरदने मृत्युरुपसेचनमित्युक्तौ, मृत्योरद्यमानत्वं अन्यवस्त्वदनसाधनत्वं च प्रतीयते । मृत्योर्मुश्यस्याद्यमानत्वस्यासंभवात्, संह्रियमाणत्वमेव तत् वक्तव्यम् । ततश्च मृत्योरदनसाधनत्वमपि संहारसाधनत्वं वक्तव्यम् । इत्थं च मृत्योर्न ब्रह्मक्षत्रियवर्णसंहारमात्रे साधनत्वम्; अपि तु कृत्स्नस्यैव चराचरप्राणिसमुदायस्य । अतो येन पुरुषेण, संहारसाधनेन मृत्युना सर्वं चराचरं संह्रियते, मृत्युश्च संह्रयते, स पुरुषो यस्मिन् प्रकारे वर्तते, तं प्रकारं को वेत्ति–तस्य महिमानं को वेत्ति; न कोऽपीत्यर्थः पर्यवसितः ॥ अत्र यच्छब्दनिर्दिषृं पुरुषं ‘‘ऋतं पिबन्तौ’’ इत्यनन्तरमन्त्रे प्क्रम्य, तस्य सुखेनोपास्यत्वसिद्ध्यर्थं उपासकेन चीवेन सह एकस्यां" हृदयगुहायां सन्निहितत्वमभिधाय, उपासनफलभूतप्राप्यवस्तुप्राप्त्युपकरणतया उपासकतच्छरीरादेः रथिरथादिभावं परिकल्प्य, तादृशोपकरणेन प्राप्तव्यवस्तूपदेशप्रकरणे ‘‘सोऽध्वनः पारमाप्नोति’ इति विष्णोः प्राप्यतया निर्देशात्, ‘‘यस्य ब्रह्म च’’ इति मन्त्रे यच्छब्दनिर्दिष्टसंहर्तृ श्रीनिवासावरनामधेयं विष्ण्वाख्यं परं ब्रह्मैवेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘यस्य ब्रह्म च क्षत्रं च ’’ इति मन्त्रे ब्राह्मणक्षत्रियादिजातीयस्त्रीपुंसयोः परस्परभोग्यत्वं प्रतीयते । तेन च यच्छब्दनिर्दिष्टो भोक्ता जीवात्मेति गम्यते, तस्यैव कर्मफलभूतम्त्र्यादिभोगसंभवात् । ‘‘मृत्युर्यस्योपसेचनं’’ इति च मृत्योर्जीवात्मस्वरूपं प्रत्यबाधकत्वाभिप्रायकम् । अतो जीव एव तस्मिन् मन्त्रे प्रतिपाद्यत इति ॥ सिद्धान्तः । ‘‘मृत्युर्यस्योपसेचनं’’ इत्यत्रोक्तस्योपसेचनत्वस्याबाधकत्वरूपत्वे अत्यन्तास्वारस्यप्रसङ्गेन लोकप्रसिद्धस्य स्वयमद्यमानत्वे सत्यदनसाधनत्वरूपस्वरसार्थस्यैव ग्राङ्यतया, प्रागुक्तरीत्या मृत्योः संह्रियमाणत्वसंहारसाधनत्वयोः प्रतीयमानत्वेन, तदनुरोधेन ‘‘उभे भवत ओदन’’ इत्यत्रौदनत्वमपि संहार्यत्वरूपमेव, न तु भोग्यत्वरूपमिति निश्चीयते । अदो नात्र कर्मफलभोक्तुर्जीवस्य प्रसक्तिगन्धः ॥ अपि चास्मिन् प्रकरणे पूर्वत्र कठवल्लीषु द्वितीयवल्ल्यां, ‘‘तंदुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकै जहाति ’’ इत्यत्र परमात्मानं प्रक्रम्य, ‘‘अशरीरंशरीरेष्वनवस्थेष्ववस्थितं’’ इति ‘‘महान्तं विभुमात्मानं" मत्वा धीरो न शोचति’’ इति च तमेव पूर्वप्रस्तुतं परमात्मानं ‘महान्तं विभुं’ इत्यनेन प्रतिबोध्य, अनन्तरं ‘‘यस्य ब्रह्म च क्षत्रं" च उभे भवत ओदनः’’ इत्यादिरयं मन्त्रः पठ्यते । अत्र च ‘‘क इत्था वेद यत्र सः’’ इत्यनेन प्रकृतस्यात्तुः दुर्बोधत्वकथनेन ‘‘तं" दुर्दशं’’ इति पूर्वप्रस्तुतः परमात्मा प्रत्यभिज्ञायते । अतोऽत्र मन्त्रे प्रतिणद्यमानोऽत्ता न जीवः, अपि तु परमात्मैव ॥ ननु ‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः॥’’ इति अव्यवाहित्तोत्तरमन्त्रे कर्मफलभोक्तुर्जीवस्य प्रतिपादनात् परमात्मप्रकरणाविच्छेदोऽवगम्यते । ततश्च ‘‘यस्य ब्रह्म च क्षत्रं" च उभे भवत ओदनः’’ इत्यस्मिन् मन्त्रे प्रतीयमानोऽत्ता जीवः, तस्यैव कर्मफलभोक्तृत्वमनन्तरमन्त्रे प्रतिपाद्यते । ततश्च ‘‘ऋतं" पिबन्तौ’’ इति मन्त्रे ‘ऋतं पिबन्तौ’ इत्यवश्यभाविकर्मफलभोक्तारौ बुद्धिजीवावुच्येते; तत्र बुद्धेः कर्मफलभोक्तृत्वाभावेऽपि, भोगकरणभूताया बुद्धेः कर्तृत्वोपचारात् ‘पिबन्तौ’ इति निर्देशोपपत्तेः । न त्वत्र परमात्मनः प्रतिपाद्यत्वसंभवः; तस्य कथमपि कर्मफलभोगे अन्वयासंभवात् । ततश्च एतदेकप्रकरणत्वेन पूर्वमन्त्रे प्रतिपाद्यमानोऽत्ता जीव एवेति चेत् । उच्यते-‘‘ऋतं पिबन्तौ’’ इति मन्त्रे, ‘‘गुहां प्रविष्टौ’’ इत्यनेन जीवात्मपरमात्मानावेव प्रतिपाद्येते; तयोरुभयेरेवास्मिन् प्रकरणे गुहाप्रवेशस्याभिधानात् । यथा ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं’’ इत्यस्मिन् मन्त्रे परमात्मनो गुहाप्रवेश उक्तः; ‘‘या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत’’ इत्यस्मिन् मन्त्रे जीवात्मनो गुहाप्रवेशोऽभिहितः" । ‘अत्ति इत्यदितिः, कर्मफलभोक्ता जीवः; या अदितिः-जीवात्मा, प्रणेन सह वर्तते, देवतामयी-इन्द्रियाधीनभोगा, गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीककुहरवर्तिनी, भूतेभिः-भूतैः सह, व्यजायत-देवमनुष्यादिरूपेण जायते’ इत्युक्तश्रुत्यर्थः ॥ एवमस्मिन् प्रकरणे जीवात्मपरमात्मनोः द्वयोरेव गुहाप्रवेशश्रवणात्, अस्मिन् मन्त्रे ‘‘गुहां प्रविष्टौ’’ इत्युच्यमानौ तावेव जीवपरमात्मानौ इति निश्चीयते । परमात्मनः कर्मफलभोगे प्रयोजककर्तृत्वात्, जीवस्य प्रयोज्यकर्तृत्वाच्च, तयोः ‘‘ऋतं पिबन्तौ’’ इत्युक्त्युपपत्तेः" ॥ यद्यपि बुद्धेरपि कर्मफलभोगे कथञ्चित् अन्वयः संभवति, तथापि गुहाप्रवेशोक्तिः तत्र न घटते । गुहाप्रवेशो हि ‘‘आत्मा गुहायां निहितोऽस्य जन्तोः,’’ ‘‘सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां’’ इत्यादिषु परमात्मन एव प्रसिद्धः, न तु बुद्धेः । एतदभिप्रयेणैव सूत्रे ‘ऋतं पिबन्तौ’ इति वक्तव्ये, ‘‘गुहां प्रविष्टौ’’ इत्युक्तिरिति द्रष्टव्यम् । किञ्च ‘‘गुहां प्रविष्टौ’’ इत्यास्मिन् मन्त्रे ‘गुहां प्रविष्टौ’ इत्यनेन प्रस्तुतयोर्द्वयोर्मध्ये, एकः कर्मफलभोक्ता जीवात्मा ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव च ’’ त्युपक्रम्य, ‘‘तद्विष्णेः परमं पदं’’ इत्यत्र परमात्मा प्राप्यत्वेन विशेष्यते । ततश्च ‘‘यस्य ब्रह्म च क्षत्रं च’’ इति पूर्वमन्त्रे ‘‘क इत्या वेद यत्र सः’’ इति परमात्मनो दुर्ग्रहत्वे प्रतिपादिते, ‘दुर्ग्रहस्य तस्य कथमुपासनसंभवः, कथं वा तत्प्राप्तिः’ इति तदुपासनान्निवृत्तौ प्रसक्तायां, परमात्मनः स्वोपासनसौकर्याय जीवात्मना सममेकस्मिन् शरीरे हृदयगुहायां सन्निधायावस्थितत्वेन तस्योपासनं सुकरं, उपासनेन तत्प्राप्तिश्च सुघटेत्युपदेशाय प्रवृत्तोंऽयं ‘‘ऋतं पिबन्तौ’’ इति मन्त्रः । अत एवोत्तरत्र ‘‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः । सोऽद्वनः पारमाप्नोति तद्विष्णोः परमं मदं ॥’’ इत्यत्र साराथिप्रग्रहादिप्राप्त्युपकरणं प्रदर्श्य, उपासकेन जीवात्मना उपास्यस्य परमात्मनः प्राप्तिः प्रतिपाद्यते ॥ अतः ‘‘ऋतं पिबन्तौ’’ इति मन्त्रे ‘‘गुहां प्रविष्टौ’’ इत्युक्तौ जीवपरमात्मानावेव, न बुद्धिजीवाविति निश्चीयते । ततश्च ‘‘सोऽध्वनः" परमाप्नोति तद्विष्णोः परमं पदं’’ इत्यत्र प्राप्यतया उक्तः श्रीनिवासापरनामधेयः परमात्मैव ‘‘यस्य ब्रह्म च क्षत्रं च’’ इत्यत्र निखिलजगत्संहर्तृत्वेनोच्यत इति ॥ इति अत्त्रधिकारणम् ॥ 2 ॥

अक्षिपुरुषं प्रसिद्धैश्चक्षुः स्थित्यादिभिर्धर्मैः ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 15 ॥

14 ॥ अन्तराधिकरणम् ॥ 3 ॥ पूर्वाधिकरणे ‘‘क इत्था वेद यत्र सः’’ इत्यनेन परमात्मनो दुर्ज्ञैयत्वमुक्तम् । तर्हि दृश्यत्वेनोच्यमानः परमात्मा न स्यादिति शंकापरिहारार्थं प्रवृत्तमिदमधिकरणम् ॥ अन्तर उपपत्तेः ॥ 1-2-13 ॥ [स्थानादिव्यपदेशाच्च ॥ 14 ॥ सुखविशिष्टाभिधानादेव च ॥ 15 ॥ अत एव च स ब्रह्म ॥ 16 ॥ श्रुतोपनिषत्कगत्यभिधानाच्च ॥ 17 ॥ अनवस्थितेरसंभवाच्च नेतर; ॥ 18 ॥] अन्तरः-अक्ष्यन्तस्स्थः, सः-परमपुरुषः; उपपत्तेः-अभयत्वामृतत्वादीनां तत्रैवोपपत्तेः इति प्रथमसूत्रार्थः । चक्षुषि स्थितिनियमनादीनां" व्यपदिश्यमानत्वादपि अक्षिस्थः परमपुरुष एवेति द्वितीयसूत्रार्थः ॥ अक्षिपुरुषं प्रसिद्धैश्चक्षुःस्थित्यादिभिर्धर्मैः । यदिति व्यनक्ति विद्या तद् ब्रह्म श्रीनिवाकनाम् भजे ॥ 15 ॥ प्रसिद्धैः- ‘‘यश्चक्षुषि तिष्ठन्’’ इत्यादिश्रुतिषु प्रसिद्धैः । विद्या उपकोसलविद्या । शिष्टं स्पष्टम् ॥ भावः । छान्दोग्ये उपकोसलविद्याप्रकरणे, ‘‘य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच, एतदमृतमेतदभयमेतद्ब्रह्म’’ इति श्रुयते । तत्र ‘अक्षिणि पुरुषो दृश्यते’ इत्यनेन अक्षिस्यः पुरुषः कश्चित् प्रतीयते । तेन चान्तर्यामिब्राह्मणे ‘‘यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तर’’ इत्यादिना चक्षुस्स्थतया तन्नियन्तृतया च श्रुतः श्रीनिवासापरनामधेयो नारायणः प्रत्यभिज्ञायते । एवं तत्रैव पूंर्वत्र ’’ प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’’ इत्यत्र, ‘कं ब्रह्म खं ब्रह्म’ इत्यास्य विवरणभूतेन ‘‘यद्वाव कंतदेव खं, यदेव खं तदेव कं’’ इति वाक्येन ‘‘को ह्येवाऽन्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’’ इति आनन्दवल्लीस्थमानन्दमयात्मविषयं वाक्यं" स्मार्यते । स चानन्दमयात्मा श्रीनिवासापरनामधेयः पुण्डरीकाक्ष इत्यानन्दमयाधिकरणे निर्णीतम् । अत एभिः प्रत्याभिज्ञापकैः अयमक्षिपुरुषः" श्रीनिवासापरनामधेयं परं ब्रह्मेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच एतत् अमृतमेतदभयमेतद्ब्रह्मेति’’ इति छान्दोग्ये उपकोसलविद्याप्रकरणे श्रुयते । अत्र अक्षिणि दृश्यमानत्वेन प्रसिद्धवान्निर्दिश्यमानः पुरुषः प्रतिबिम्बो वा, आदित्याख्यदेवताविशेषो वा, जीवात्मा वा भवितुमर्हति, तेष्वेव प्रसिद्धवन्निर्देशोपपत्तेः । प्रतिबिम्बस्य तावत् चक्षुषि दृश्यमानत्वं लोकप्रसिद्धम् । आदित्यस्य चक्षुष्यवस्थानं" ‘‘राश्मिभिरेषोऽस्मिन् प्रतिष्ठितः’’ इति श्रुतिप्रसिद्धम् । चक्षुरुन्मीलनातिना जीवात्मनो देहेऽवास्थितेर्निश्चीयमानत्वत्, तस्यापि चक्षुषि दृश्यमानत्वं संभवति । एवं लोकप्रसिद्धिश्रुतिप्रसिद्धियौक्तिकप्रसिद्धीनां प्रतिबिम्बादिषु त्रिष्वेव संभवात्, तेष्वन्यतम् एवायमक्षिणि दृश्यमानः पुरुषः; न परमात्मा, तस्य चक्षुषि दृश्यमानत्वप्रसिद्ध्यभावात् । एवमुपक्रमस्थेन प्रसिद्धिलिङ्गेन प्रतिबिम्बादिष्वन्यतमस्य अक्षिपुरुत्वे निश्चिते, उत्तरत्र श्रुतानि अमृतत्वाभयत्वादीनि स्तुतिपरतया नेतव्यानि । ‘एष आत्मेति’ इति ‘एतदमृतमेतदभयमेतद्ब्रह्मेति’ इति च ‘इति’ पदश्र्वणेनामृतत्वादिषु तात्पर्याभावश्चावगम्यते । यथा ‘‘नाम ब्रह्मेत्युपासीत’’ त्यादौ ब्रह्मशब्दोत्तरं ‘इति’ करणेन नाम्नो ब्रह्मत्वे तात्पर्याभावः, तद्वदेति ॥ सिद्धान्तः । ‘‘य एषोऽक्षिणि पुरुषो दृश्यते’’ इत्यत्र अक्षिणि दृश्यमानतया अभिधीयमाः; पुरुषः परमात्मैव । तस्मिन्नेव तदुत्तरवाक्यश्रुतानां" आत्मत्वनिरुपाधिकामृतत्वाभयत्वादीनामुपपद्यमानत्वात् । अत्राभिधीयमानमात्मत्वं असङ्कोचात् सर्वान् प्रत्यात्मत्वमिति प्रतीयते । तच्च अन्तः प्रविश्य नियन्तृत्वपमिति ‘‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा’’ इति श्रुत्यन्तरेणागम्यते । तच्च प्रतिबिम्बादीनां" नोपपद्यते । एवं उपाध्यनुसिद्धं निरुपाधिकममृतत्वमभग्रत्वं ब्रह्मत्वं च तेषामनुपपन्नम् । ‘आत्मेति’ ब्रह्मेति’ च ‘इति’करणेन तेषु तात्पर्याभावो गम्यत इंति तु न युक्त । ‘इति ह स्माऽऽहोपाध्याय’ इत्यादिषु ‘इति’करणेऽप्युच्यमानार्थेतात्पर्यदर्शनात् ॥ किञ्च अस्मिन् प्रकरणे उपक्रमे ‘‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’’ इति श्रुतस्य ह्यशब्दस्य ‘‘एतद्ब्रह्म’’ इति अत्रापि श्रवणात्, तदेवेदं ब्रह्मेति प्रत्यभिज्ञायते । तच्च अपरिच्छिन्नसुखरूपमिति ‘‘कं ब्रह्म खं ब्रह्म’’ इत्यनेन ज्ञायते; तत्र आकाशवाचिना ‘ख’शब्देन माकाशवदपरिच्छिन्नत्वस्य, सुखवाचिना ‘क’शब्देन सुखरूपत्वस्य च ब्रह्मणि प्रतिपादनात् । इत्थं चापरिच्चिन्नसुखरूपत्वेन प्रतीयमानोऽयमतिपुरुषः" परमात्मैव; न प्रतिबिम्बादिः, तेषां अपरिच्छिन्नसुखरूपत्वासंभवात् । ननु पूर्व ‘‘कं ब्रह्म खं ब्रह्म’’ इति ब्रह्मप्रकरणस्य ‘‘अथ हैनं गार्हपत्योऽनुशशास’’ त्यग्निविद्योपदेशप्रकरणेन विच्छेदात्, त्थं पुर्ववाक्यप्रकृतस्यापरिच्छिन्नसुखरूपस्य ब्रह्मण इह प्रत्यभिज्ञानमिदं" चेत् । उच्यते —उपकोसलकृतस्वपरिचरणप्रीतैः गार्हपत्याद्यग्निः उपकोसलाय ‘‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’’ इत्यादिना ब्रह्मस्वरूपमग्निविद्यां" चोपदिश्य, ‘‘आचार्यस्तु ते गतिं वक्ता’’ त्यवशिष्टमाचार्यो वक्ष्यतीत्युक्तमिति, आचार्योऽपि ब्रह्मणः संयद्वामत्वादीन् उपास्यगुणान्, अक्षिरूपमुपासनस्थानं, अर्चिरातिकां गतिं चोपदिष्टवान् इति चोक्त्या, यावदर्चिरादिगत्युपदेशं प्रक्रान्तब्रह्मविद्याया असमनत्ववगमात् ब्रह्मविद्याप्रकरणविच्चेदाभावः, अग्निविद्यायाः प्रक्रान्तब्रह्मविद्यास्त्वं च निश्चीयते । ‘‘एषा सोम्य तेऽस्मद्विद्या आत्मविद्या च’’ त्यग्निभिःसमुच्चित्योपदेशादप्यग्निविद्याया ब्रह्मविद्याङ्गत्वमवसीयते ॥ एवं ‘‘कं ब्रह्म खं ब्रह्म’’ इत्यस्यार्थमजानते उक्तकोसलाय, ‘‘यद्वाव कं तदेव खं यदेव खं तदेव कं’’ इत्यनेन स्वरुपस्यापरिच्छिन्नत्वं, अपरिच्छिन्नस्य मुखरूपत्वमग्निभिः उपदिष्टमितिगम्यते ॥ अतोऽपरिच्छिन्नसुखरूपतया प्रक्रान्तं ब्रह्म ‘‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्मेति’’ इत्यनेनोपास्यगुणपिधानार्थं उपासनस्थानविधानार्थं च आयार्येण अनूद्यत इत्युभयत्र ब्रह्मशब्देन प्रत्यभिज्ञानादवगम्यते । अतोऽपरिच्छिन्नसुखरूपत्वस्य जीवात्मानि, प्रतिबिम्बे, आदित्ये वा असंभवात् तेषामक्षिण्यवस्थाताभवाच्च, न प्रतिबिम्बादिषु अन्यतमोऽक्षिपुरुषः । परमात्मनः" ‘‘यश्चक्षुषि तिष्ठन्’’ इत्यन्तर्यामिब्राह्मणादौ अक्षिण्यवस्थानस्य प्रसिद्धत्वात्, निरुपाधिकामृतत्वादीनां परमात्मन्येव उपपद्यमानत्वात्, अक्षिपुरुस्याब्रह्मत्वे अक्षिपुरुषं श्रुतवते उपकोसलाय ब्रह्मविद्भिश्चिन्तनीयायाअर्चिरादिगतेरनुसन्धानार्थमुपदेशायोगाच्च, चक्षुष्यवस्थितत्वेन अन्तर्यामिब्रह्मणादौ प्रसिद्धः श्रीनिवासापरनामधेय परमात्मैवायमक्षिपुरुष इति निर्धार्यत इति ॥ इत्यन्तराधिकरणम् ॥ 3 ॥

अन्तर्यामितयोक्तं युगपत्सर्वस्य नियमनप्रमुखैः ।
यदिति व्यनक्ति विद्या तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥ 16 ॥

15 ॥ अन्तर्याम्यधिकरणम् ॥ 4 ॥ पूर्वस्मिन्नधिकरणे परमात्मनो नारायणस्य चक्षुषि स्तितिमवलम्ब्य सिद्धान्त उक्तः । अन्तर्यामिब्राह्मणे चीवस्यैव चक्षुषि स्थितिः" प्रतिपाद्यते, न तु परमात्मन इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ 1-2-19 ॥ [न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ 20 ॥ उभयेऽपि हि भेदेनैनमधीयते ॥ 21 ॥] काण्वमाध्यन्दिनशाखागते अन्तर्यामिब्राह्मणे श्रूयमाणः अन्तर्यामी, सः-परमपुरुष एव । तद्धर्मस्य-युगपदन्तः प्रविश्य सर्वनियमनरूपस्य परमात्मधर्मस्य व्यपदिश्यमानत्वात् इति सूत्रार्थः ॥ अन्तर्यामितयोक्तं युगपत्सर्वस्य नियमनप्रमुखैः । यदिति व्यनक्ति विद्या तद्ब्रह्म श्रीनिवासनाम भजे ॥ 16 ॥ अर्थः । पृथिव्यादिषु प्रतिपर्यायं अन्तर्यामितया उक्तं पुरुषं, एकदा सर्वस्य अन्तः प्रविश्य नियमनादिभिः अन्तर्यामिब्राह्मणोक्तैः" परब्रह्मासाधारणधर्मैः, यत् श्रीनिवासाभिधानं ब्रह्मेति अन्तर्यामिविद्या प्रकाशयति तद्ब्रह्मोतिपूर्ववत् ॥ भावः । अन्तर्यामिब्राह्मणे पृथिव्यादिषु सर्वेषु वस्तुषु युगपदन्तः प्रविश्य तन्नियमनं अन्तर्यामिणः प्रतिपाद्यते । तच्च सर्वव्याप्तिसार्वज्ञ्यसर्वशक्तित्वादिगुणवत्त्वमन्तरा न घटने । तादृशगुणवत्त्वं च परमात्मन एवेति स एवान्तर्यामितयोच्यत इति; सुबालोपनिषदि ‘‘यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं’’ इत्यादिना ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’’ इन्यन्तेन नारायणाख्यदेवताविशेषस्यैव युगपत् सर्वस्मिन्नन्तः" प्रविश्य तत्तन्नियन्तृत्वप्रतिपादनेन श्रीनिवासापरनामधेयः स नारायण एवायमन्तर्यामिब्राह्मणोक्तोऽन्तर्यामी इति च निर्धार्यत इति ॥ पूर्वपक्षः । अन्तर्यामिब्राह्मणे अन्तर्यामिणं प्रक्रम्य, तस्य ‘‘अदृष्टो द्रष्टा अश्रुतः श्रोता’’ इत्यादिना द्रष्टृत्वश्रोतृत्वादिकं प्रतिपाद्यते । द्रष्टृत्वश्रोतृत्वादिकं चक्षुःश्रोत्रादीन्द्रियजन्यज्ञानवत्त्वरूपम् । तच्च करणायत्तज्ञानवतो जीवस्यैव संभवति, न तु करणान्धीनज्ञानवतः" परमात्मनः, अतो जीवात्मैवास्मिन् प्रकरणे अन्तर्यामितयोच्यते । ‘‘यः पृथिव्यां तिष्ठन्’’ इति च प्रतिपर्यायं यच्चब्दावृत्त्या तत्तद्वस्तुनियन्त्रनेकजीवप्रतिपादनपरत्वं वाक्यस्य निश्चीयते । ‘‘य आत्मनि तिष्ठन्’’ इति चानन्याधारत्वप्रतिपादनपरं निर्वेढुं" शक्यम् । ‘‘स त आत्माऽन्तर्याम्यमृतः’’ इति च तज्जातीयत्वपरम्; ‘पृथिव्या अन्तर्यामी यः अपामन्तर्यामी तज्जातीय’ इत्यादि । अतोऽन्तर्यामितयोक्तो जीव एवेति ॥ सिद्धान्तः । बृहदारण्यके ‘‘य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’’ इत्यादिना ‘एको यः सर्वेषां नियन्ता, तमन्तर्यामिणं" ब्रूहि’ इति प्रश्नस्य प्रतिवचनरूपे ‘‘यः पृथिव्यां तिष्न्’’ इत्यादिवाक्ये आवृत्तस्य यच्छब्दस्य प्रतिपर्यायमेकैकजीवपरत्वे, प्रश्नप्रतिवचनयोरसङ्गतिः स्यात् । एकात्मपरत्वे हि सर्वेषां नियन्तुः एकस्य लाभात्, प्रत्युत्तरं सह्गतं स्यात् । अतः प्रश्नप्रतिवचनयोरुपपत्तये प्रतिपर्यायमावृत्तानां यच्छब्दानामेकात्मपरत्वमेवावश्यं वाच्यम् । ततश्च एकस्यैव आत्मनो युगवत् सर्वस्यान्तः प्रविश्य नियमनलाभात् तथाविधनियमनस्य परमपुरुषादन्यस्य कस्याप्यसंभवात्, स परमपुरुष एवायमन्तर्यामीति निश्चीयते ॥ किञ्च ‘‘य आत्मनि तिष्ठन्’’ इत्यत्र ‘आत्मनि तिष्ठन्’ इत्यस्यानन्याधारत्वपरत्वे अस्वारस्यं दुर्वारम् । एवं “यो विज्ञाने विष्ठन इति माध्यन्दिनशाखायां काश्वशाखास्थ’आत्म’शब्दस्थाने ‘विज्ञान’-शब्दप्रयोगदर्शनेन आत्मशब्दो न स्ववाची, अपि तु जीवात्मवाची इति निश्चीयते । अतो जीवात्मनि अन्तःस्थत्वस्य तन्नियन्तृत्वस्य च लाभेन तस्य जीवात्मन्यसंभवात्, जीवात्मनां नियन्तृत्वेनोच्यमानोऽयमन्तर्यामी जीवात्मम्योऽन्य एवेति निश्चीयते । एवं ‘‘अदृष्टो द्रष्टा’’ इत्यादिवाक्यशेषे अन्तर्यामिणः स्वनियाम्यैरदृष्टस्यैव सतः तद््द्रष्टृत्वमभिधीयते । तच्च जीवात्मनो न घटते । अतोऽप्ययमन्तर्यामी जीवादन्य इति निश्चीयते ॥ उत्तरत्र ‘‘अदृष्टो द्रष्टा’’ इत्यादिषु उच्यमानं द्रष्टृत्वमपि न चक्षुरादीन्द्रियजन्यज्ञानविशेषरूपम्, अपि तु रूपादिसाक्षात्काररूपम् । तच्च परमात्मन उपपद्यत एव । अत एव ‘‘पश्यत्यचक्षुः स श्रुणोत्यकर्णः’’ इत्यादिषु परमात्मनः चक्षुरादीन्द्रियाभावेऽपि दर्शनश्रवणादिमत्त्वोक्तिरुपपद्यते इति दिक् ॥ इदमत्रावधेयम्-‘‘यः पृथिव्यां तिष्ठन्’’ ‘‘योऽप्सु तिष्ठन्’’ इत्यादिः सामान्यनिर्देशरूपतया विशेषनिर्देशसापेक्षः; स च विशेषनिर्देशः ‘‘यः पृथिपीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं’’ इत्यादिः ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’’ इत्यान्त एव वक्तव्यः, अन्यस्य कस्यचिददर्शनात् । इत्थं च तत्र नारायणाख्यदेवताविशेषस्यैव सर्वनियन्तृत्वसर्वान्तरात्मत्वप्रतिपादनात्, स एवायं अन्तर्यामी श्रीनिवासापरनामधेयो नारायण इति निश्चीयते । अतो नात्र ब्रह्मरुद्रेन्द्रदिषु कस्याप्यवकाशः इति ॥ इत्यन्तर्याम्यधिकरणम् ॥ 4 ॥

यद्भूतयोनिरक्षरमुक्तं यज्ज्ञापकैर्धर्मैः ।
विद्या स्फुटयति तद्यत् तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥17 ॥

16 ॥ अदृश्यत्वादिगुणकाधिकरणम् ॥ 5 ॥ पूर्वाधिकरणे ‘‘अदृष्टो द्रष्टा’’ इत्यत्र अदृश्यतयाऽभिहितस्य अचिद्व्यावर्तकैर्द्रष्टृत्वनियन्तृत्वादिधर्मैः एरमात्मत्वमुक्तम् । ‘यत्र द्रष्टृत्वादिधर्मो न श्रुयते, तत्र अदृश्यत्वादिमत्तया श्रुतमचेतनं प्रधानमेवास्तु’ इत्याशङ्कां परिहर्तुं प्रवृत्तमिदमधिकरणम् ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ 1-2-22 ॥ [विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ 23 ॥ रूपोपन्यासाच्च ॥ 24 ॥] अदृश्यत्वादिगुणकः, सः-परमात्मैव, धर्मोक्तेः-निरुपाधिकसर्वज्ञत्वादिपरमात्मासाधारणधर्मस्यात्रोच्यमानत्वात् इति सूत्रार्थः ॥ यद्भूतयोनिरक्षरमुक्तं यज्ज्ञापकैर्धर्मैः । विद्या स्फुटयति तद्यात् तद्ब्रह्म श्रीनिवासनाम भजे ॥ 17 ॥ अर्थः । मुण्डकोपनिपदि अक्षरविद्याप्रकरणे ‘‘अथ पर! यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्हाह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादं” नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’’ इत्यत्र भूतयोनिभूतमक्षरं यतुक्तं, तत् उत्तरत्र त्थाविधाक्षरसंबान्धितया अभिहितैः सर्वज्ञत्वदिव्यपुरुषत्वादिभिः यत्प्रत्यभिज्ञापकैर्धर्मैः यत् श्रीनिवासापरनामधेयं ब्रह्मेति अक्षरविद्या स्फुटयति - विशदयति, तद्ब्रह्मेति पूर्ववत् ॥ भावः सुण्डकोपनिषदि अक्षरविद्याप्रकरणे तद्विद्याप्रतिपाद्यामक्षर शब्दवाच्यमुपक्रय, ‘‘यत्तदद्रेश्यं’’ इत्यारभ्य, ‘‘धीराः’’ इत्यन्तेन यच्चब्देन तदेवाक्षरं परामृश्य, तस्य सर्वभूतोपादानकारणत्वमुत्तवा, ‘‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः" संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्र्वम्’’ इति ऊर्णनाम्यदिदृष्टान्तैः भूतयोनित्वमुपपाद्य, अनन्तरं" ‘‘यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नामरूपमन्नं च जायते’’ इति तदनन्तरमन्त्रे प्रकृतस्यचाक्षरस्य सर्वज्ञत्वमभिधाय, ‘‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रोह्यक्षरात् परतः परः’’ इति मन्त्रे तस्याक्षरपुरुषस्य दिव्यपुरुषत्वं, ‘‘एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’’ इति मन्त्रे प्राणमनःप्रभृतिजनकत्वं, ‘‘अग्निर्मुर्धा चक्षुषी चन्द्रसूर्यो दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदय विश्र्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’’ इत्यत्र सर्वभतान्तरात्मत्वं इत्यादयो धर्मा उक्ताः" । तत्र ‘‘दिव्यः….पुरुषः’’ इत्यनेन ‘‘पादोऽटस्य विश्र्व भूतानि त्रिपादस्यामृतं दिवि’’ इति मन्त्रोक्तो दिव्यपुरुषः प्रत्यभिज्ञायते । स च दिव्यपुरुषो लक्ष्मीपनिरिते उत्तरनारायणैकार्थ्यात्क अवगम्यते । एवं ’’ एतस्माज्जायते प्राण’’ इत्यनेन ‘‘नारायणत् प्राणो जायते मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’’ इति नारायणोपनिषदि प्राणमनःप्रभृतिजनकत्वेन अभिहितस्य नारायणस्य प्रत्यभिज्ञानेन ‘‘एतस्मात्’’ त्यत्र एतच्छब्दार्थस्य नारायणत्वमवगम्यते । ‘‘अग्निर्मूर्धा’’ इति मन्त्रे ‘‘एष सर्वभूतान्तरात्मा’’ इत्यनेन ‘‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’’ इति सुबालोपनिषद्वाक्यप्रत्यभिज्ञापनेन ‘एष’ इत्येतच्छब्दार्थस्य नारायणत्वमवगम्यते । अत एदैः प्रत्यभिज्ञापकैः धर्मैः अक्षरविद्यावेद्यं भूतयोनिरक्षरं श्रीनिवासापरनामधेयं नारायणाख्यं परं ब्रह्मैवेति निर्धार्यत इति ॥ पूर्वपक्षः । ‘‘यत्तदद्रेश्यमग्राह्यं’’ इत्यत्र अदृश्यार्थकेन ‘अद्रेश्य’ पदेन दृश्यस्यावस्थान्तरापन्नता झटिति प्रतीयते । ततश्च रूपवत्त्वेन यत् पृथिव्यादिरूपं दृश्यं अभूत् तदेव रूपापगमेन अदृश्यत्वरूपावस्थाप्राप्त्या अदृश्यमभूत् इति प्रतीत्या, अव्यक्तं प्रधानमेव इह ‘अदृश्य’ शब्देन उच्यते । चेतनधर्मश्चात्र न कश्चिदपि श्रूयते । अतोऽदृश्यत्वादिगुणकतयोक्तमक्षरं प्रधानमेव । उत्तरत्र ‘‘अक्षरात् परतः परः’’ इत्यत्र ‘परतोऽक्षरात् पर’ इत्यन्वयात्, स्वकार्यवर्गापेक्षया परादक्षरात्अव्यक्तात् परोजीव उच्यते । एवं सति ‘‘यया तदक्षरमधिगम्यते’’ इति, ‘‘अक्षरात् परतः पर’’ इति चौभयत्राक्षरशब्दार्थयोरवैरूप्यमपि सङ्गच्छते । अतः प्रधानपुरुषावेवात्र प्रतिपाद्येते, न ब्रह्म इति ॥ सिद्धान्तः । अदृश्यत्वादिमत्तया प्रतिपादितस्याक्षरस्य ‘‘यः सर्वज्ञः सर्ववित्’’ इति मन्त्रे सर्वज्ञत्वरूपचेतनधर्मस्य प्रतिपादनात्, नेदमक्षरमव्यक्तम् । एवमुत्तरत्र ‘‘अक्षरात् परतः परः’’ ईत्यत्र ‘परतोऽक्षरात्’ इत्यन्वयङ्गीकारे स्वारस्यभङ्गप्रसङ्गात्, ‘परत’इत्यस्य प्रयोजनालाभाच्च ‘‘अक्षरात् परत’’ इत्यत्र परत्वस्यावधिसाकाङ्क्षतया ‘अक्षरात्’ इत्यस्य आकाङ्क्षितावध्युपस्थापकत्वस्य औचित्याच्च ‘‘अक्षर’शब्दनिर्दिष्टात् प्रधानात् परो यो जीवः तस्मादपि परो योऽक्षरपुरुष’ इत्यर्थस्यैव ग्राह्यत्वात् ‘‘अक्षरात् परतः पर’’ इत्यनेन न जीवात्मा प्रतिपाद्यते, अपि तु परमात्मैव । किञ्च अस्याक्षरपुरुषस्य ‘‘अघ्निर्मूर्धा चक्षुषी चन्द्रसुर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः" प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’’ इत्यस्मिन् मन्त्रे द्युललोकप्रभृतिपृथिव्यन्तत्रैलोक्यशरीरकत्वमुपदिश्यते । तच्च जीवात्मनो न घटते । अतोऽप्ययमक्षरपुरुषः परमात्मैव इति ॥ इति अदृश्यत्वादिगुणपाधिकरणम् ॥ 5 ॥

वैश्वानरात्मविद्या द्युप्रभृतीनां तदङ्गताकथनात् ।
यदिति व्यनक्ति तमिमं तत् ब्रह्म (श्रीनिवास-नाम) भजे ॥18 ॥

17 ॥ वैश्वानराधिकरणम् ॥ 6 ॥ पूर्वाधिकरणे ‘‘रूपोपन्यासाच्च’’ इति मूत्रे त्रैलोक्यशरीरकत्वेन परमात्मत्वं समर्थितम् । तत् त्रैलोक्यशरीरकत्वं परमात्मनोऽन्यस्यापि दृश्यत इत्याक्षेपपरिहाराय प्रवृत्तमिदमधिकरणम् ॥ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ 1-2-25 ॥ [स्मर्यमाणमनुमानं स्यादिति ॥ 26 ॥ शब्दादिम्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसंभवात् पुरुषमपि चैनमधीयते ॥ 27 ॥ अत एव न देवता भूतं च ॥ 28 ॥ साक्षादप्यविरोधं चैमिनिः ॥ 29 ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ 30 ॥ अनुस्मृतेर्बादरिः ॥ 31 ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ 32 ॥ आमनन्ति चैनमस्मिन् ॥ 33 ॥] वैश्वानरः- वैश्वानरशब्दवाच्यः, सः-परमात्मा नारायणः, साधारणस्य-अग्न्यादिषु प्रयुज्यमानस्य वैश्वनरशब्दस्य, तदुपस्थाप्यस्येति यावत्, विशेषात्-परमात्मासाधारणैर्धर्मैर्विशेष्यमाणत्वात् इति सूत्रार्थः ॥ वैश्वानरात्मविद्या द्युप्रभृतीनां तदङ्गताकथनात् । यदिति व्यनक्ति तमिमं तद्ब्रह्म शीनिवासनाम् भजे ॥ 18 ॥ इति कौशिककुलतिलकस्य महामहोपद्यायस्य श्रीरामानुजसिद्धान्तविजयध्वचस्य श्रीदेशिकाचार्यस्य कृतिषु शारीरकाधिकारणरत्नमालायां" प्रथमाध्यायस्य द्वितीयः पादः ॥ तमिमं-वैश्वानरात्मानमित्यर्थः । भावः । वैश्वानरविद्यायां वैश्वानरात्मनः ‘‘मूर्धा त्वेष आत्मन’’ इति द्युलोकः शिरस्त्वेन, ‘‘चक्षुस्त्वेतदात्मन’’ इति आदित्यो नेत्रत्वेन, ‘‘प्रणस्त्वेष आत्मन’’ इति वायुः प्राणत्वेन, ‘‘सन्देहस्त्वेष आत्मन’’ इति आकाशो मध्यकायत्वेन, ‘‘वस्तिस्त्वेष आत्मन’’ इत्यापो वास्तित्वेन ‘‘पादौ त्वेतावात्मन’’ इति पृथिवी पादत्वेन जाभिधीयन्ते मुण्डकोपनिषदि ‘‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरहात्मा’’ इति मन्त्रे द्युमूर्धत्वादिकं यद्रूपमाम्नातं तदेवेदं" वैश्वानरात्मन इहाभिघीयमानं रूपमिति प्रत्यभिज्ञायते । तत्र ‘‘पृथिवी ह्येष सर्वभूतान्तरात्मा’’ इत्यनेन ‘‘एष सर्वभूतान्तरातम् अपहतपाप्मा दिव्यो देव एको नारायणः’’ इति सुबालोपनिषद्वाक्यप्रत्यभिज्ञानेन ‘‘अग्निर्मूर्धा’’ इत्यादिमन्त्रश्रुतद्युमूर्धत्वादिरूपवतो नारायणत्वावगमात्, स श्रीनिवासापरनामधेयो नारायण एवायं द्युमूर्धत्वादिमान् वैश्वानरात्मेति निर्धार्यत इति ॥ अत्र ‘‘सन्देहस्त्वेष आत्मन’’ इत्यत्र ‘सन्देह’शब्देनपूर्वोत्तरकाययोः क्व प्रविष्ट इति सन्दिह्यमानत्वात् मध्यकाय उच्यते । तेन च नाभिदेशो विवक्षितः । ‘‘अग्निर्मूर्धा’’ इति मन्त्रे ‘अग्नि’-शब्देन द्युलोक उच्यते । झान्दोग्ये वैश्वानरविद्याप्रकरणे, ‘‘को न आत्मा, किं ब्रह्म’’ इत्युपक्रम्य, ‘‘आत्मानमेवैनं वैश्वानरं संप्रत्यध्येषितमेव नो ब्रूहि’’ इति ‘‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं" वैश्वानरमुपास्ते’’ इति प्रश्नप्रतिवचने श्रुयेते ॥ अत्रैवं पूर्वपक्षः-अत्र ‘वैश्वानरशब्दार्थः परमात्मा’ इति न निर्णेतु शक्यम् । वैश्वानरशब्दस्य अग्नौ, महाभूततृतीये, देवताविशेषे, पस्मात्मनि च चतुर्ष्वर्थेषु प्रयुज्यमानत्वेन, तस्य साधारणत्वात् । न च उपक्रमे ‘‘को न आत्मा किं ब्रह्म’’ इति ‘ब्रह्म’शब्दश्रुत्या उत्तरवाक्यस्थवेश्र्वानरशब्दार्थः परमात्मा इति निर्णोतुं शक्यमिति वाच्यम् । वाजसनेयके ‘‘वैश्वानरं ह वै भगवान् संप्रति वेद, तं नो ब्रूहि’’ इत्युपक्रमे साधारणस्य वैश्वानरशब्दस्य श्रवणात्, उत्तरत्र ‘‘स एषोऽग्निर्वैश्वानर’’ इति वैश्वानरशब्दस्य अग्निशब्दसामानाधिकरण्याच्च जाठराग्नेरपि प्रतीत्या, ब्रह्मशब्दोपक्रममात्रेण परमात्मत्वनिर्णयायोगात् इति॥ सिद्धान्तः । उपक्रमे ‘‘को न आत्मा’’ इति सर्वेषां जीवात्मनां य आत्मा तस्य जिज्ञासितत्वं प्रतीयते । एवं ‘‘यस्त्वेतमेवं प्रादेशामा त्रमभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भुतेषु सर्वेष्वात्मसु अन्नमत्ति’’ इति वैश्वानरोपासकस्यानवधिकातिशयानन्दरूपतया निरतिशयभोग्यभूतब्रह्मानुभवः फलं श्रुयते । ‘सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मासु वर्तमानं, यदन्नं-निरतिशयभोग्यभूतं परं ब्रह्म, तदत्ति-तदनुभवति’ इति तदर्थः । अत्र ‘अन्नं’ इत्यनेन ‘अद्यतेअनुभूयते’ इति व्युत्पत्त्या ‘‘रसो वै सः’‘इत्यादिश्रुतिषु निरतिशयभोग्यत्वेन श्रुतं परं ब्रह्माभिधीयते; न तु प्राकृतान्नं, तस्य मुमुक्षून् प्रति हेयत्वातु ॥ ‘‘तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’’ इति सर्वबाब्मप्रदाहो वैश्वानरात्मोपासनफलं श्रूयते । द्युप्रभृतिपृथिव्यन्तत्रैलोक्यशरीरकत्वं च वैश्वानरातम्नः श्रुयते । अतः सर्वेषां आत्मत्वं, त्रैलोक्यशरीरकत्वं इत्येतैः धर्मैः" वैश्वानरात्मा परमात्मेति निर्णीयते ॥ ननु वाजसनेयके, ‘‘स एषोऽग्निर्वैश्वानरः’’ इति वैश्वानरशब्दस्याग्निशब्दसामानाधिकरण्येन ‘‘हृदयं गार्हपत्य’’ इत्याद्यश्नित्रयपरिकल्पनासिद्धहोमाधारत्वेन ‘‘तद्यद्भक्तं प्रथममागच्छेत्’’ इत्यादिना आम्नातप्राणाहुत्याधारत्वेन ‘‘स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः" प्रतिष्ठितं वेद’’ इत्यत्र उक्तेन शरीरान्तःप्रतिष्ठितत्वेन च वैश्वानरस्य जाठराग्नित्वमपि प्रतीयते । अतोऽयं वैश्वानरः परमात्मैवेति न मिर्णेतुं शक्यमिति चेत् । मैवं-त्रैलोक्यशरीरकत्वस्य ‘‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’’ इति श्रुतनिरुपाधिकपुरुषशब्दवाच्यत्वस्य च जाठराग्नावसंभवात्, जाठराग्निविषयतया प्रतीयमानोऽयमग्निशब्दः न केवलं जाठराग्निमात्रपरः, अपि तु जाठराग्निशरीरकपरमात्मपरः । पुरुषशब्दो हि निरुपाधिकः परमात्मानमेवाचष्टे, ‘‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाघी च वर्तेते वासुदेवे सनातने ॥’’ इति स्मरणात् । ततश्च जाठराग्निशरीरकत्वेन परमात्मन उवासनमत्र विधित्सितमिति न काप्यनुपपत्तिः ॥ एतेन देवताया महाभूततृतीयस्य च प्रकृतवैश्वानरत्वशङ्का निरस्ता । तयोस्त्रैलोक्यशरीरकत्वनिरुपाधिकपुरुषशब्दवाच्यत्वाद्यसंभवात् । अग्निशब्दस्य ‘अग्रं नयति’ इति व्युत्पत्त्या अग्रप्रापकत्वरूपगुणयेगेन साक्षात् परमात्मवाचकत्वमपि संभवति । अतो नाग्निशब्दसामानाधिकरण्यं वैश्वानरस्य परमात्मत्वनिर्णयविरोधीति जैमिनिराजार्यो मन्यते ॥ खतोऽपरिच्छिन्नस्य परमात्मनः ‘‘यस्त्वेतमेवं प्रादेशमात्रमभिविमारं वैश्वानरमुपास्ते’’ इति द्युप्रभृतिपृथिव्यन्तैः प्रदेशैः" परिच्छिन्नत्वोक्तिः उपासकस्य बुद्ध्यारोहार्था । द्युप्रभृतीनां मूर्धाद्यवयवत्वकल्पनं तु तथोपासनार्थम् । ‘‘उर एव वेदिर्लोमानि बर्हिर्हृदयम् गार्हपत्य’’ इत्यादिना उपासकस्य उरःप्रभृतीनां वेद्यादित्वकल्पनं तु वैश्वानरात्मोपासकेनाहरहः क्रियमाणायाः प्राणाहुतेः" परमात्माराधनमूताग्निहोत्रत्वसंपादनार्थम् ॥ ततश्च वैश्वानरात्मोपासकः खशिरःप्रभृतिपादान्तावयवेषु परमात्मशिरःप्रभृतिपादान्तावयवमूतद्युलोकत्वादीन् अनुसन्धाय, द्युमूर्धत्वादिविशिध्टं" वैश्वानरं परमात्मानं खस्मिन् सन्निहितं ध्यात्वा, खीयान् उरःप्रभृतीनवयवान् अग्निहोत्राङ्गभूतवेद्यादीन् ध्यावा, अहरहः क्रियमाणां" प्राणाहुतिं परमात्माराधनभूताग्निहोत्रं ध्यात्वा, एवंभूताग्निहोत्रेण परमात्मानं अहरहराराधयेत् इति श्रुत्यर्थः । तदिदमेवंविधाग्निहोत्रस्य सर्वपाप्मप्रदाहादिरूपफलश्रवणात् अवसीयत इति ॥ इति वैश्वानराधिकरणम् ॥ 6 ॥ इति कौशिककुलातिककस्य महामहोपाध्यायस्य श्रीरामानुजसिद्धान्तविजयध्वजस्य श्रीदेशिकाचार्यम्य कृतिषु शारीरकाधिकरणरत्नमालाप्रकाशे प्रथमाध्यायस्य द्वितीयः पादः ॥