कार्यं बादरिरस्य गत्युपपत्तेः॥6॥ विशेषितत्वाच्च॥7॥ सामीप्यात्तु तद्वयपदेशः॥8॥ कार्यात्यये तदध्यक्षणे सहातः परमभेधानात्॥9॥ स्मृतेश्च॥10॥ परं जैमिनिर्मुख्यत्नात्॥11॥ दर्शनाच्च॥12। न च कार्ये प्रत्यभिसन्धिः॥13॥ अप्रतीकालसम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च॥14॥ विशेषञ्च दर्शयति॥15॥ गमयतृनिरूपणानन्तरं गन्तृरूपणमिति सङ्गतिः। किमययर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उतः परंब्रह्मोपासरीनानथ परंब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मतयोपासीनांश्चेति संशये कार्यमुपासीनान्नयति। कार्यं हिरण्यगर्भमूपासीनस्यैव गत्युपपत्तेः। न हि परिपूर्णं" परं ब्रह्मोपासीनस्य तत्प्राप्तये देशानन्तरगतिरुपपद्यते। नित्यप्राप्तत्वात्। परब्रह्मविषयाविद्यानिवृत्तिमात्रस्य परविद्याकार्यात्वात्। ’ पुरुषो मानव एत्य ब्रह्मलोकान्गमयती ’ ति, ’ प्रजापतेस्सभां वेश्म प्रपद्य ’ इति च बहुवचनान्तेन लोकशब्देन लोकविशेषेषु तत्रापि प्रजापतिशब्दवाच्यबबहिरण्यगर्भसभायां वर्तमानं हिरण्यगर्भमूपासीनानेव नयतीति विशेषितत्वाच्च। ’ स एनान्ब्रह्म गमयती ’ ति तस्मिन्नपुंसकवलिंगब्रह्मशब्दस्तु तस्य परब्रह्मप्रथमापत्येत्वेन तत्सन्निकृष्टत्वादुपपद्यते। अर्चरादिना हिरण्यगर्भं प्राप्तस्य ’ तयोर्ध्वमायन्नमृतत्वमेती ’ इमं मानवमावर्तं नावर्तन्त ’ इतिचामृतत्वा पुनरावृत्त्युक्तिः कार्यब्रह्मवोकात्यये तदध्यक्षेण हिरण्यगर्भेणावसिताधिकारेण सह कार्यब्रह्मलोकात्परस्य परब्रह्मलोकस्य प्राप्तिविषयत्वेनोपपद्यते। ’ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयश्शुद्धसत्वाः। ते ब्रह्मलोके तु परान्तकाले परमृतात्परिमुच्यन्ति सर्वे ’ इति श्रुत्या ’ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पद ’ मिति स्मृत्याच्च च तथैव प्रतिपादनात्। अथवा परंब्रह्मोपासीनानेव नयति। ’ स एनान्ब्रह्म मगयती ’ ति ब्रह्मशब्दस्य तत्र मुख्यत्वात्, परब्रह्मणस्सर्वगतत्वेऽपि विदुषस्तल्लोकविशेषंप्राप्तस्यैव कर्मतद्वासनादिबन्धनिवृत्तिरिति पर्यङ्कविद्यादिशास्त्रैरवगमात्, ’ अस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणानिष्पद्यत ’ इत्यर्चिरादिनाल गतस्य परब्रह्मप्राप्तिश्रवणाच्च। न च ’ प्रजापतेस्सभां वेश्म प्रपद्य ’ इति विद्वदभिसन्धिप्रतिपादनात्कार्यब्रह्माप्तिश्शङ्कनीया। तत्रैव ’ धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी ’ ति मन्त्रे ’ अकृतं ब्रह्मलोक ’ मिति विशेषितत्वेन तदुनुरोधात् प्रजापतिशब्दस्य योगेन परमपुरुषपरत्वोपपत्तेः। एवं प्रप्ते उच्यते – कार्यमूसीनानेव नयतीतिवा परमीपासीनानेव नयतीति वा न नियमः। उभयथापि दोषात्। कार्यमूसीनान्नयतीति पक्षे " परं ज्योतिरुपसंपद्ये " त्यादिकाः श्रुतयः प्रकुप्येयुः। परमेवोपासीनान्नयतीति पक्षे " तद्य इत् विदु " रिति श्रुतिः प्रकुप्येत्। सा हि श्रुतिः ब्रह्मात्मकत्वेन जीवमूपासीनानामप्यर्चिरादिगतिं प्रतिक्तिभंग्या शरीररूपाचिद्वियुक्तजीवस्वरूपोपासनाविधानस् ब्रह्माग्निविदां ब्रह्मप्राप्त्ययोगात्। नचैवमपि तदयोगस्तुल्यः, " आत्मेतितुमपगच्छन्ती " त्याधिकरणे ब्रह्मणो जीवं प्रत्यात्मत्वेनानुसन्दधानस्यैव ब्रह्मप्राप्तिसराधनत्वोक्तेरि वाच्यम्। ब्रह्मात्मकत्वेन जीवानुसन्धानेऽपि ब्रह्मणो जीवं प्रत्यात्मत्वानुसन्धानाक्षतेः लक्ष्मणपूर्वज इत्यतो रामानुज इत्यस्येव विशेषणविशेष्यभावमात्रं हि तत्र भिद्यते। तस्मात् हिरण्यगर्भादिजीवमेव य उपासते केवलमचिद्वस्तु चिद्वस्तु ये वा ब्रह्मदृष्ट्योपासते न तान्प्रतीकालंबनान्नयति अर्चिरादिको गणः। अपि तु परंब्रह्म जीवविशेष्यत्वेन तद्विशेषणत्वेन वा य उपासते तानेव नयति । अत एव ’ यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवती ’ त्यादिका श्रुतिर्नामादिप्रतीकमुपासीनानां ब्रह्मप्राप्त्यर्थर्चिरादिगत्यनपेक्षं" पिरमितफलविशेषं दर्शयतीति। अनया हि श्रुत्या देवमनुष्यादि नाम यावत्सञ्चरति तावत्पर्यन्तमेव नाम ब्रह्मेति प्रतीकालम्बनानां यथाकामं" सञ्चार उच्यते। तेन यत्र ’ तथा विद्वान्नामरूपाद्विमुक्त ’ इति श्रुतिसिद्धो देवादिनामरूपविमोक्षः तत्र सञ्चारो नास्तीति ज्ञाप्यते। ’ वेदान्तविज्ञानसुनिश्चितार्था ’ इति मन्त्रस्तु हिरण्यगर्भोपासनयाऽर्चिरादिना हिरण्यगर्भं प्राप्तस्य तेन सह ब्रह्मप्राप्ति न प्रतिपादयति। किं तु हिरण्यगर्भोपासनया तल्लोकं प्राप्तस्य तत्रैव कृतब्रह्मोपासनस्य स्वदेहावसाने ब्रह्मप्राप्तिम्। तस्यह्ययमर्थः" - श्रवणमननादिभिर्निश्चितवेदान्तार्थतत्वा जितेन्द्रियाः पुरुषधौरेयाः परब्रह्मण्येव लोके वर्तमानान्तन्निष्ठास्सन्तः परस्य चरमदेहस्यान्तकाले अवसाने परामृतात् परब्रह्मणस्सकाशात् तस्यैव प्रसादात् मुच्यन्त इति। तस्मादप्रतिकालम्बनानेव नयतीति सिद्धम्॥ संग्रहकारिके॥ ब्रह्माणमुपासीनान्गमयत्येषोऽर्चिरादिगणः। तस्य परिच्छिन्नत्वाद्गत्वा प्राप्यत्वमुपपन्नम्॥ न ब्रह्मोपासीनान्व्यापित्वेनेह तत्प्राप्तेः। गमनस्य व्यर्थत्वादित्येवं वादरिर्मेन॥ ब्रह्मैवोपासीनान्गमयति तत्र खलु तत्पदं मुख्यम्। तल्लोकविशेषस्थं गत्वा प्राप्यमिति जैमिनिर्मेन॥ ब्रह्मतदुपासते ये ये च ब्रह्मात्मकं जीवम्। तानुभयानपि गमयति दोषात्पक्षद्वयेऽपि पूर्वोक्ते॥ बादरिमतेऽर्चिरादिप्राप्यं ब्रह्म श्रुतं विरुध्ये॥ जैमिनिमतेर्चिरादिः पञ्चाग्निविदां श्रुतो न लभ्येत॥ ये वा हिरण्यगर्भं येवा मनआद्युपासते ब्रह्म धिया। केवलमथवाविधइतस्तस्मात्सर्वान्ननयतिप्रतीकदृशस्ते॥ विशेषणं विशेष्यंवा कृत्वा ब्रह्मनिजात्मनः। उपासीनान्गमयतीत्येवं सिद्धान्तपद्धतिः॥ इति कार्याधिकरणम्॥5॥ ॥इति श्रीमद्भारद्वाजकुलधइकौस्तुभ श्रूमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीररङ्गराध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुरमतसारे नयनमुख" मीलिकाख्ये द्वितदीयपरिच्छेदे चतुर्थस्याध्यायस्य तृतीयः पादः॥