आतिवाहिकास्तल्लिङ्गात्॥4॥ वैद्युतेनैव ततस्तच्छ्रुतेः॥5॥ अर्चिरादीनां क्रमो निरूप्तः। तेषां स्वरूपं चिन्त्यते। किमर्चिरादयो मार्गचिह्नभूताः, उत बोगभूमयः, अथवा विदुषामतिवोढार इति तत्र वननदीपर्वतादिमार्गचिह्नोपदेशकलौकिकवाक्यच्छायापन्नवाक्यबोध्यत्वत्। अथवा भोगभूमयः एत एव लोकः। ’ यदहोरात्राण्यर्धमासा ऋतवस्संवत्सरा ’ इत्यहरादीनां लोकत्ववचनात्, कौषीतकिशाखायामग्निलोकमागच्छतीति लोकशब्दश्रवणाच्च। नत्वतिवोढारः। अमानवपुरुषस्यैव विशिष्यातिवोढृत्वश्रवणाच्चेति। विद्युतनन्तरममानवपुरुषस्यातिवोढृत्वेन वरुणादीनामतिवोढृत्वासम्भावाच्चेति। एवं प्राप्ते उच्यते– विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः एतेऽर्चिरादयः। ’ स एनान्ब्रह्म गमयती ’ त्यमानवपुरुषस्य श्रूयमाणो यः प्राप्यप्रापकभावसम्न्धः स एव पूर्वेष्विर्चिरीदिष्वपि लसम्बन्धइत्यवगमात् सामान्यतो निर्दिष्टस्य सम्बन्धस्य विशे,पर्यवसानापेक्षत्वात्। नचाचेतनानामातिवाहिकत्वानुपपत्तिः, अर्चिरादीनां तदभिमानिदेवतापरत्वात्। यद्येते सर्वेऽप्यानितिवाहिकाः तदा कथं विद्युतनन्तरं श्रुतानामिन्द्रादीनामातिवाहिकत्वोपपत्तिः। तत्रामानवपुरुशस्यैवातिवाहिकत्वश्रवणदितिचेन्मैवम्। तत्र वरुणादीनामपि तदनुग्राहकत्वेनातिवाहिककोट्यन्तर्भावोपपत्तेः॥ संग्रहकारिके॥ मार्गचिह्नानि विदुषां पठिता येऽर्चिरादयः। सर्वत्र लोकशब्दाद्वा भवेयुर्भोगभूमयः॥ वर्ण्यते ह्यतिवोढृत्वं वैद्युतस्योपसंहृतौ। ततस्सएव सम्बन्धः पूर्वेषामपि सिध्यति॥ इति आतिवाहिकाधिकरणम॥4॥