25 वरुणाधिकरणम्

तटितोऽधिवरुणस्सम्बन्धात्॥3॥ कौषीतकिनां ’ स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छती ’ त्यादिश्रवणे अग्निलोकशब्दस्यार्चिःपर्यायत्वेन प्राथम्यवविगीतम्। तत्र तदनन्तरष्ठितस्य वायोस्संवत्सरादूर्ध्व निवेश उक्तः। आदित्यास्यापि तत्र वरुणानन्तरपठितस्य पाठक्रममबाधेन देवनलोकदादित्यमिति वाजसनेकोक्तश्रुतिक्रमाद्देवलोकशब्दाभिहितात् वायोरुपरि निवेशस्सिद्धः। वरुणेन्द्रप्रजापतिषु चिन्ता– किं तेषां वायोरूर्ध्वं" निवेशः उत विद्युत ऊर्ध्वमिति वायोरुर्ध्वमिति तावत्प्राप्तम्। अन्यत्र क्वाप्यवकाशाभावात्। अर्चिरादिविद्युत्पर्यन्तानां सर्वेषामपि श्रौतक्रमवत्त्वात्तदनन्तरममानवपुरुषस्यैव ब्रह्मप्रापयितृत्वश्रवणाच्च। ततश्च सर्वत्रावकाशाभावेन तेषां निवेशाप्राप्तौ तदुपदेशावैयर्थ्यायावश्यं" क्व न श्रौतक्रमे बाधनीये ’ स वायुलोकं स वरुणलोक ’ मिति पाठक्रमेण वायोरनन्तरं वरुणो निवेशनीयः। क्रमिबाधात् क्रमबाधस्य न्याय्यत्वात्। एवं वाय्वादित्ययोश्क्षौतक्रमबाधे सति इन्द्रप्रजापती अपि वरुणानन्तरं निवेशनीयाविति। एवं प्राप्त उच्यते– वरुणस्तावद्विद्युत ऊर्ध्वं निवेशनीयः। सम्बन्धात् विद्युत उपरि सनीरनीरदर्शनेन नीराधिपतेर्वरूणस्य तत उपरिभावौचित्यात् तदनन्तरभिन्द्रप्रजाप्योर्निवेशः" परिशेषात्, ’ आगन्तुकानामन्ते निवेश ’ इति न्यायाच्च। अमानवपुरुषस्य ब्रह्मप्रापकत्वं वरुणादिव्यवधानेन तत्साहित्येनवोपपद्यत इति न विरोधः॥ संग्रहकारिके॥ वरुणाद्या निविशेरन्मध्ये वायोश्च भानोश्च। अन्यत्रापि निवेशे श्रौतः कश्चित्क्रमो बाध्यः॥ इत्युपरि निवेशे भवति स एनानिति श्रुतेर्बाधः। उपदिष्टानां तेषां क्वचिन्निवेश्च वक्तव्यः॥ तस्माद्वायोरूर्ध्व वरुणस्स्यात्त पठितत्वात्। तदनन्तरमितरावपि वाय्वादित्यक्रमस्य भग्नत्वात्॥ मैवं विद्युत उपरि श्रौतक्रमबाधितस्य वरुणस्य। सम्बन्धाद्विनिवेशस्तदुपर्यवशिष्टयोर्यथापाठम्॥ वैद्युतपुरुषस्य न हि व्यवधिवहीनमश्रुतं गमयतितृत्वम्। तेन स एनामिति श्रुतेर्विहाधस्य शङ्काऽस्ति॥ इति वरुणाधिकरणम्॥3॥