24 वाय्वधिकरणम्

वायुमब्दादविशेषविशेषाभ्याम्॥2॥ अर्चिरादिनैकेनैव मार्गेण सर्वे विद्वांसो गच्छन्तीत्युक्तम्॥ तस्मिन्मार्गे छान्दोगा मासादित्ययोरन्तराळे देवलोकमधीयते। ’ मासेभ्यस्संवत्सरं" संवत्सरादादित्य ’ मिति। वाजसनेयिनस्तु तयोरन्तराळे देवलोकमधईयते। ’ मासेभ्यो देवलोकं देवलोकादादित्य ’ मिति। मार्गैक्यात्तावुभावपि उभयत्रोपसंहार्यौ। तयोः पञ्चम्यभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि मासानन्तरं लसंवत्सरो निवेशनीयः। अहरापूर्यमाणपक्षमासानामुत्तरोत्तरमधिककालाना- मुत्तरोत्तरपर्वभावदर्शनेननोदगयनरूपषण्मासानन्तरं निवेशनौचित्यात्। अतस्संवत्लरादूर्ध्वं देवलोक इति निश्चीयते। अत्र च वाजसनेयिनो ’ यदा वै परुषोऽस्माल्लोकत्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छती ’ त्यादित्यात्पूर्वं वायुमधीयते। कौषितकिनस्तु ’ स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक ’ मित्यग्निलोकशब्दनिरिदिशष्टादर्चिषः परं वायुमधीयते। तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां" ’ तेनोर्ध्व आक्रमते स आदित्यमागच्छती ’ त्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसाऽऽदित्यात्पूर्वं निवेशः। एवं संवत्सरादूर्ध्वमादित्यात्पूर्वं" वायुदेवलोकयोः प्राप्ताविदं चिन्त्यते। किं वायुदेवलोकौ भिन्नाविति तौ यथेष्टक्रमेण विद्वान् गच्छति। उताभिन्नाविति संवत्सरादुर्ध्वं" वायुं सन्तं देवलोकं गच्छतीति। किं युक्तम्। भिन्नार्थत्वप्रसिद्धेरूर्ध्वशब्देन पञ्चम्याचोभयोरपि संवत्सरादित्यान्तराळे श्रुतिक्रमेण प्राप्तेव विशेषाभावाच्च यथेष्टं गच्छति। न च ’ यो।डयं पवते एष देवानां ग्रह ’ इति श्रवणान्न वायुदेवलोकौ भिन्नाविति वाच्यम्। ’ संवत्सरः स्रव्गो लोक ’ इत्यर्थवादान्तरश्रवणात् संवस्तर एव देवलोक इत्यपि कल्पनासम्भवेन मासादित्ययोर्मध्ये संवस्तरदेवलोकौ निवेशनीयौ उत देवलोकवायु इत्यत्र विनिगमाभावप्रसङ्गादिति। एवं प्राप्ते उच्यते। संवस्तरादूर्ध्व विद्वान्वायुं गच्छति। देवलोकशब्देन देवानां लोकि इत्यविशेषणोक्तस्य ’ स वायुमागच्छती ’ ति विशइषअय वायुरूपेण विधानात् ’ वायुरेव हि देवानां लोकः योऽयं पवत ’ इति श्रवणात्। न च ’ संवत्सरः स्वर्गो लोक ’ इतिवत्तदर्थमादमात्रं दिव्यानां विमानानां वायुपाशधृतत्वेन वायोः स्तम्भादिवत् देवगृहान्तर्भावोपपतत्त्या स्वारथपरत्वसम्भवात्॥ संग्रहकारिके॥ श्रुत्यैव संवत्सरदेवलोकयोर्मासेभ्य ऊर्ध्व झटिति प्रसक्तयोः। संवत्सरो माससमन्वयाद्भवेदादौ तदूर्ध्व निविशेतचेतरः॥ तत्रैव मारुतोऽपि प्राप्नोत्यूर्ध्वपदरूपया श्रुत्या। कौषीतकिनामर्चिस्समनन्तरपाठतो बलीयस्या॥ तयोर्न पूर्वोत्तरस्तानियामकं ततो यथेष्टं विनिवेशनं भवेत्। तदेव वोकोह्यविसेषमीरितस्सवायुरेवात्र मितस्तथा श्रुतेः॥ श्रुतमपि देवगृहत्वं वायोरिव तत्पुर्वमब्दस्यापि। स्तुतदरेव तद्यथार्थं विमाननिवहस्य वायुपाशधृतत्वात्॥ इति वाय्वधिकरणम्॥2॥