॥श्रीः॥ श्रीमते हयवदपरब्रह्मणे नमः॥ ॥चतुर्थाध्यायस्य तृतीय पादः॥ अर्चिरादिना तत्प्रथितेः॥1॥ ब्रह्मप्राप्तिफलो विदुषो मार्ग इह पादे चिन्त्यचे। छान्दोग्ये तावदुपक्रमोसलविद्यायां – ’ अर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसा विद्युतं" तत्पुरुषो मानवस्स एनान्ब्रह्यगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपाद्यमना इमं मानवमावर्त नानर्तन्त ’ इति श्रूयते। बृहदारण्यके पञ्चाग्निविदद्यायां – ’ तेर्चिषमभइशम्भवन्त्यर्छिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासामुदङ्ङादित्य एति मासेभ्यो जेवलोकं देवलोकोकादीत्यमादित्याद्वेद्युतं वैद्युतात्पुरुषोऽमानच स्स एत्य ब्रह्मलोकान्गमयती ’ ति। तत्रैव पुवरन्यथा मार्गः श्रूयते – ’ यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुलोकमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य स्वं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहिते यथाळंतेन स ऊर्ध्वआक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुंदुभेः खंतेनसऊर्ध्वआक्रमते स लोकमागच्छत्येशोकमहिमं तस्मिन्वसति शाश्वतीस्ममा ’ इति श्रूयते। कौषीतकिनामुपनिषदि – ’ स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोक ’ मिति मार्गः श्रूयते। तत्र पुनर्दहरविद्यायां – ’ अथैतैरेव रश्मिभिरूर्ध्व आक्रमत ’ इति श्रूयते। तत्र संशयः। किमर्चिरादिक एकएव मार्ग एताभिः श्रुतिभिः प्रतिपाद्यते उत तस्मादन्योऽपि मार्गः प्रतिपाद्यत इति मार्गानियम इति। अनिययम इति तावत्प्राप्तम्। मार्गपर्वभेदेन च भेदप्रतीतेः। नचोपसंहारेणाबेदोपपादनं युक्तम्। ’ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत ’ इत्यवदारणविरोधात्। ’ सयावत्क्षिप्येन्मनस्तावदादित्यं गच्छे ’ दिति शैध्न्यवचनविरोधात्। भिन्नभिन्नविद्याम्नातानां मार्गपर्वणां ब्रह्मगुणानामिवोपसंहारानपेक्षणाच्चचि प्राप्ते उच्यते। अर्चिरादिनैकेनव मार्गेण विद्वान् गच्छति। तस्यैव सर्वत्र प्रत्यभीज्ञानात्। आवधारणस्यायोगव्यवच्छेदानुवादत्वात्। एकस्य वाक्यस्य रश्मिप्रापणे तदितरव्यवच्छेदे च तात्पर्यायोगात्। शैन्ध्यवचनस्य पितृयाणमार्गापेक्षयोपपत्तेः। ’ स यावत्क्षिप्येन्मन ’ इत्यस्य केवलमतिशयोक्तिरूपत्वात्। छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायां ’ तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धातप उत्युपासत ’ इति ’ तद्यइत्थंविदुर्येचामी अरण्ये श्रद्धां सत्यमुपासत ’ इति च पञ्चाग्निविदामिव विद्यान्तरनिष्ठानामप्यार्चिरादिकस्यैव मार्गस्योपदेशाच्च॥ संग्रहकारिके॥ भिन्ना मार्गा विदुषामाम्नातास्तत्र तत्र विद्यायाम्। विद्यारूपगुणभेदात्तत्तत्पूर्वक्रमान्यत्वात्॥ सर्वोऽर्चिरादिको मार्गोऽयं प्रत्यभिज्ञानात्। तत्सत्त्वेऽपि त सर्वाविद्या नैका गुणानन््यात्॥ इति अर्चिराद्यधिकरणम्॥1॥