22 दक्षिणायनाधिकरणम्

अतश्चायनेऽपि दक्षिणे॥19॥ योगिनः प्रतिस्मर्यते स्मार्तेचैते॥20॥ निशि मृतस्य विदुषो ब्रह्मप्राप्तिहेतुनैव दक्षिणायनमृतस्यापि तस्य सा सिद्धा। अतिदेशाधिकरणस्यास्येयमधिका शङ्का ’ य एवंविद्वानुदमयने प्रमीयते देवानामेव महिमानं दत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं" सलोकतामाप्नोती ’ ति तैत्तिरीयाणामुपनिषदि श्रूयते। तेन विदुषोऽपि दक्षिणायनमृतस्य चन्द्रं प्राप्य पित्र्यभोगाननुभूय ’ यावत्सम्पातनुषित्वे ’ ति शास्त्रानुसारेण पुनरावृत्तिर्वविक्षिततेत्यवसीयते। तत्र पुरुषविद्यावसाने पूर्वानूवाकविहितब्रह्मविद्यावत एव हि उत्तरदक्षिणायनमरण्योः" फलविशेष उक्तः। सत्यम्। तत्र ब्रह्मप्राप्तिरेव प्रितपिपादयिषिता ’ ब्रह्मणो महिमानमाप्नोती ’ ति वाक्यशेषात्। तस्मात् तत्रोत्तरायणमृतस्यादित्यलोके दिव्यभोगो दक्षिणायनमृत्सय पित्र्यभोगश्च मार्गे विश्रान्तिहेतुत्वेन विवक्षित इति योजनीयम्। अन्यथा विदुष उत्तरायणमृतस्यापि ब्रह्मप्राप्तिर्नास्तीति ततस्सिद्धिप्रसङ्गात्। ननु विदुषो मुमूर्षून्प्रति पुनकावृत्तिमावृत्तिमा- वृत्तिञ्चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ। अग्निर्ज्योतिरहश्शुक्लस्षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ धूमो रात्रिस्तथा कृष्णष्णण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥ शुक्लकृष्णे गतीह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते। पुनः ’ इति। अतो दक्षिणायनमृतस्य न ब्रह्मप्राप्तः। अत एव भीष्मस्योत्तरायणप्रतीक्षणमुक्तं भारत इति चेत्। उच्यते। नात्र मुमूर्षुन्प्रति मरणकालविशेषः स्मर्यते। किं तु योगानिष्ठैः" स्मर्तव्यदेवयानपितृयाणाख्ये गती स्मर्यते। तथाह्युपसंहार ’ नैते सृती पार्थजानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योग्ययुक्तो भवार्जुने ’ ति। ’ अग्निर्ज्योतिः, धूमो रात्रिरि ’ ति च श्लोकाभ्यां देवयानपितृयानगती प्रत्यभिज्ञायेते। भीष्मस्य तु योगप्रभावात् स्वपितृप्रसादप्रभावाच्च प्राप्तं स्वच्छन्दमरणं" ख्यापयितुमुत्तरायणप्रतीक्षणम्। तस्माद्विदुषो दक्षिणायनमृतस्यापि ब्रह्मप्राप्तिस्तीति सिद्धम्॥ संग्रहकारिके॥ न तथाऽपि दक्षिणायनं मृतस्य सा तस्य चन्द्रसायुज्योक्तेः। भीष्मस्य ब्रह्मविदोऽप्युदगयनागमनिरीक्षणस्याप्युक्तेः॥ मैवं तस्यापि स्यात्पूर्वोक्ताद्बन्धहेत्वभावादेव। तस्यैन्दवसायुज्यं कालविशेषात्पथीन्द्रुतः पूजाप्तिः॥ अत एव वाक्यशेषे ब्रह्मप्राप्तिस्तत्र वर्ण्यते तस्य। भीष्मस्य तत्प्रतीक्षा माहात्म्यख्यापनायैव॥ इति दक्षिणायमनाधिकणम्॥11॥ इति श्रीमद्भारद्वाजकुलजलधिकास्तौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरवरसुनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे नयनमुखमालिकाख्ये द्वितीयपिरच्छेदे चतुर्थाध्यायस्य द्वितीय पादः॥