21 निशाधिकरणम्

निशिनेतिचेन्न सम्भन्धस्य यावद्देहभावित्वादर्शयतिच॥ विदुषो निशिमृतस्य ब्रह्मप्राप्तिरस्ति नवेति चिन्त्यते। नास्त्येव। ’ दिवा च शुक्लपक्षश्च उत्त्रायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हित ’ मिति निशामरणस्य निन्दितत्वात्। निन्दितेन च परमपुरुषार्थप्राप्त्ययगादिति प्राप्त उच्यते। विदुषो निशि मृतस्यापि ब्रह्मप्राप्तिर्भवत्येव। न तु निशामरणनिन्दया गर्हितगतिप्राप्तिः। कर्मसम्बन्धस्य विद्यादेहावसानत्वेन बन्धहेत्वाभावात्। अनारब्धकार्याणां" प्राचीनकर्मणां विद्यया विनाशादुत्तकर्मणामश्लेषात् प्रारब्धकार्यस्य कर्मणश्चरमदेहावधित्वात् निशामरणं दृश्यते, तेषां तदा प्रबलप्राचीनदुष्कृतकर्मणां" फलोन्मुखता फलबलात्कल्पनीया॥ संग्रहकारिके॥ रात्रौ मृतिश्चेन्नास्त्येव ब्रह्माप्तिस्सा हि गर्हिता। मैवं कर्माभिसम्भन्धे कथं देहावधूनना॥ इति निशाधिकरणम्॥10॥