20 रश्म्यनुसाराधिकरणम्

रश्म्य्नुसारी॥17॥ विदोषो ह-यात् ब्रह्मनाड्या निर्गतस्यादित्यरश्मीननुसृत्य तन्मण्डलगतिः श्रूयते। ’ यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत ’ इति। अतो रश्मिभिरेवेत्यवधारणमुपपद्यते नवेति संशये नोपपद्यते। निशिमृतस्यादित्यरश्म्यनुरणासम्भावत् निशास्वनुभूयमानस्यष्मण आग्नेयत्वेनाप्युपपत्तेः। ज्योतिषप्रक्रियया चन्द्रमण्डल्परविष्टास्सूर्यरश्म्य एव चन्द्रकिरणा इत्यङ्गीकारेऽपि दर्शादिरीत्रिषु तेषामप्यभावात्। न च निशि मृतस्य विदुषो मूर्धन्यनाड्या निष्क्रान्तस्य यावदुदयं सूर्यरश्मिप्रतीक्षणेन ऊर्ध्वगतिर्वाच्या। रयावत्क्षिप्येन्मनस्तावदादित्यं" गच्छेदि ’ ति शैध्न्यवचनविरोधात्। तस्माद्रश्मिवाक्यं पाक्षिकानुवादकमित्येव वाच्यमिति॥ सिद्धान्तस्तु – निश्यपि विद्वान्सूर्यरश्म्यनूसारी गच्छित। ग्रीष्मेदिवा सौरातपोष्मप्रकर्षेस्त्येव निशइ सिकतादीषूष्मदर्शनेन तस्य सूर्यरश्मिसम्बन्धित्वावगत्या रात्रावपि तत्सत्त्वावगमात्। एवं च रश्मिवाक्यमप्यर्थवद्भवतीति॥ संग्रहकारिके॥ रश्म्यनुसारि न गमनं नियतं रजनीषू तदभावात्। श्रुतिरेतैरेवेति तु पाक्षइकमनुवदति तल्लाभम्॥ एवं सत्यवधारणमनर्थकत्वं प्रपद्यते। तसक्मान्नियतं रजनिष्वपि ते सन्त्युष्मदर्शनाल्लिंगात्॥ इति रश्म्यनुसाराधिकरणम्॥9॥