19 तदोकोधिकरणम्

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधइकया॥16॥ एवं विद्वदविदुषोस्समानउत्क्रान्तिप्रकार उक्तः। गत्युपक्रमे विदुषो मूर्धन्यनाड्योत्क्रनान्तिनियमरूपो विशेष उच्यते। अत्र मूर्धन्यया ब्रह्मनाड्यैव विदुषो गतिर्नान्येषां तथा गतिरिति नियन्तुं न शक्यते। नाडीनामुत्क्रमणक्लेशक्षुभितहृदयेन जीवेन विवेक्तुमशक्य्तवात्। न च विद्यानुष्ठानकाले स्वयमीदृक्प्रदेशस्थितयैतादृश्या नाड्या निष्क्रम्य ब्रह्म प्राप्नवानीत्यनुस्न्धानाभ्यासपाडवात् स्वनिष्क्रमनाडीपरिज्ञानं" भवेत्, उत््क्रमणक्लेशस्य ब्रह्माणि विश्रमणेन शान्त्या विवेचनकौशलमपि भवेदिति वाच्यम्। तथाऽपिल घनसन्तमसावृतहृदयापवरकगतस्य निरन्तरानेकसूक्ष्मतमनाडीसहस्रेषु स्वनिष्क्रमणनाढ्या विवेक्तुमश्क्यात्वात् तस्मात् ’ तयोर्ध्वमाय ’ न्निति श्रुतिः कदाचिद्यादृच्छिकं विदुषो मूर्धन्यनाड्या निष्क्रमणं तस्याः स्तुत्यर्थमनुवदतीति पूर्वः" पक्षः। सिद्धान्तस्तु – शताधिकया मूर्धन्यनाड्यैव विद्वानूत्क्रामति नान्य इति नियमस्सम्भवत्येव। ‘तयोर्ध्वमायन्नि’ति श्रुतेः पाक्षिकानुवादत्वकल्पनाऽयोगात् । न च नाडीनां दुर्दर्शत्वम्। ’ तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामण काले हृदयस्याग्रप्रकाशश्रवणाद्विदुषो विद्यासामर्थ्यस्य विद्यानुष्ठानकाले तचछेषगतिचिन्तनाभ्यासस्य विद्याराधइतपरमपुरुषप्रसादस्यचाधकस्य सत्त्वाच्च॥ संग्रहकारिके॥ नाड्यो दुर्दर्शाइति विदुषो न ब्रह्मनाडिकानियमः। यादृच्छिकतद्गमनानुवादियत्तत्तयोर्ध्वमिति मैवम्॥ विद्याराधितभगवदनुग्रहविभावितद्वारः। निष्क्रामति मूर्धगया नाड्येत्युपपद्यते नियमः॥ इति तदोकोऽधिकरणम्॥8॥