18 अविभागाधिकरणम्

अविभागो वचनात्॥14॥ सेयं परमात्मनि सम्पत्तिः प्राकृतप्रलयवत् कारणापत्तिरूपाऽस्तु। परमात्मनः सर्वनप्रकृतित्वेन मनादिदेवैषम्यादिति प्राप्त उच्यते। पृथग्व्यवहारानर्हसंसर्गरूपविभागमात्रमेव। ’ तेजः परस्या ‘मित्यत्रापि सम्पद्यत इत्यस्यानुषङ्गात्स्य प्राक्संर्गविश्षाचित्वाक्लृप्तेः। इहानुषक्तस्येहार्थभेदे प्रमाणाभावात्। प्राकृतप्रलयानन्तरं महासर्गादाविव पुनस्सृष्ट्यवचनाच्च॥ संग्रहकारिके॥ सेयं सम्पत्तिस्स्याल्लय एव प्रकृतिगामित्वात्। पूर्ववदेव तदर्थकसम्पद्यनुषङ्गतो भवेदेषः॥ इति अविभागाधिकरणम्॥7॥