तानि परे तथाह्याह॥13॥ सकरणग्रामस्सप्राणश्शरीरेन्द्रियाध्यक्षो जीव उत्क्रान्तौ भूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषओ विद्यत इत्याशङ्क्य परिहृतं च। तानि जीवपरिष्वक्तानि, भूतसूक्ष्माणि किं यथाकर्म यथाविधं च जीवेन सह स्वकार्याय गच्छन्ती, उत परमात्मनि सम्पद्यन्त इति चिन्त्यते। ननु ’ तेजः परस्यां देवतीया ’ मिति चतुर्थवाक्यार्थचिन्तेयम्। सा प्राणस्तेजसीत्यन्तवाक्यत्रयार्थविषयाधिकरणत्रयानन्तरमेव कर्तुमुचिता। चतुर्थावक्यार्थस्याप्युत्क्रान्तिविषयस्य गत्युपक्रमात्प्राचीनत्वात्। एवं सप्रकारोत्क्रान्तिविचारानन्तरमेव सेयुमुत्क्रान्तिर्विदुषोऽपि समानेति ’ समानाचासृत्युपक्रमा ’ दित्यधिकरणेन निरूपणीयम्। सत्यम्। उक्तभंग्यां प्राक्स्ङ्गत्या तस्यास्याधिकरणस्यात्राप्यस्तीत्याक्षेपिकी सङ्गतिः। ब्रह्मविदामुत्क्रान्तिपूर्विका गतिरस्तीति पूर्वाधिकरणोक्तमयुक्तम्। ’ तेज परस्यां देवताया ’ मिति वागादिमनः प्राणसहितस्य सूक्ष्मदेहस्य सर्वप्रकृतिभूतपरब्रह्मणि स्वरूपेणैव लयप्रतिपादनात् देहेन्द्रियादिरहितस्य चन्द्रसंवादाद्यसम्भवेन तद्युक्ताया अर्चिरादिगतेरन्यविषयस्यावश्यव्यक्तत्वादिति। अत्रैवं पूर्वपक्षः। मध्ये परमात्मासम्पत्तौ सुखदुःखोपभोगरूपकार्यादर्शनात्तदुपभोगरूपकार्यानुगुण्येन यथाकर्म यथाविद्यं गच्छन्ति। तेजः परस्यामिति तु परमात्मनस्सर्ववस्तु साधारणं धारकत्वमनुद्यतइति॥ सिद्धान्तस्तु– प्रकृतानि भूतसूक्ष्माणि परमात्मनि सम्पद्यन्ते। तेजः परस्यां देवतायामितिह्याह श्रुतिः। श्रुतोपपत्तयं च फलं परमात्मनि सम्पत्त्या सुषुप्तिप्रळययोरिव विश्रमहेतुस्ततत्संर्गविशेषस्त्रैकसधिगम्यः। एवं ’ तेजः परस्यान्देवताया ’ मित्यस्यापूर्वार्थपरत्वसम्भवात् न सर्ववस्तुसाधारणधारकतानुवादकत्वं कल्पनीयमिति॥ संग्रहकारिके॥ जीवयुक्तानि भूतानि गच्छन्त्येव यथाफलम्। सम्पद्यन्ते फलाभावान्नमध्ये परमात्मनि॥ तेजः परस्यामिति तु सर्वसाधारणीं विभोः। आधारतामनुवदत्येषामन्यत्र गच्छताम्॥ मैवं तेजः परस्यामित्युक्तसाफल्यसिद्धये। स्वीकार्या तत्र सम्पत्तिस्सुप्तिप्रलययोरिव॥ इति परसम्पत्त्यधिकरणम्॥6॥