समानासृत्युपक्रमादमृतत्वञ्चानुपोष्य॥7॥ तदापीतेस्संसारव्यपदेशात्॥8॥ सूक्ष्मं प्रमाणतश्च तयोपलब्धेः॥9॥ नोपमर्देनातः॥10॥ अस्यैवचोपपत्तेरूष्मा॥11॥ प्रतिषेधादिति चेन्न शारीरात्स्पश्टोह्येकेषाम्॥12॥ एवमुत्क्रान्तिप्रकारो निरूपितः। किमियमुत्क्रान्तिर्विद्वदविदुषोस्समाना, उताविदुष एवेति संशये सत्यविदुष एवेति प्राप्तम्। ’ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुत ’ इति श्रुतेरिति। एवं प्राप्ते उच्यते – विदुषोऽपि ’ तयोर्ध्वमायन्नमृतत्वमेती ’ ति नाडीविशेषरूपप्रवेशरूपग्तयुपक्रमात्प्रागुत्क्रान्तिस्समाना। उत्क्रमणार्थनाडीप्रवेशदशायामेव विद्वदविदुषोर्विशेषः श्रूयते। ’ शतञ्टैकाच हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विषअवङ्ङन्या उत्क्रमणे ङवन्ति ’ इति। विषअवगिति नाडीविशेषनियमाभाव उच्यते। ’ एष आत्मा निषअक्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेब्य ’ इति हि श्रुत्यन्तरम्। एवं च अत्रैवामृतत्वोक्तिश्शरीरेन्द्रियसम्बन्धमदग्ध्वैव यदमृतत्वसत्तरपूर्वाघाश्लेषविनाशस्वरूपं तद्विषया ’ ब्रह्मसमश्रुत ’ इत्यक्तिरप्युपासनाकालभवब्रह्मानुभवरूपब्रह्मप्राप्तिविषया। अवश्यचैवमेवाभ्युपेयम्। अर्चिरादिमार्गेणब्रह्मप्राप्तिपर्यन्तं" देहसम्बन्धलक्षणसंसारस्य व्यपदेशात् सूक्ष्मशरीरानुवृत्तश्चन्द्रसंवादरूपप्राणेनावगमाच्च। श्रूयते हि पथइ चन्द्रसंवादो ’ येवैकेचासमाल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छती ’ त्युपक्तम्य ’ एतद्वैस्वर्गस्य लोकस्य द्वारं" यस्छन्द्रमाः तं यः प्रत्याह तमतिसृजते अथ य एनं न प्रत्याह वा सिहो वा मत्स्यो वा परस्वान्मा पुरुषोवा अन्योवै तेषु स्थानेषु प्रयाजायते यथाकर्म यथाविद्यं तमागतं पृच्छति कोऽस्तीति तं प्रति ब्रूयादित्यादि। अतो ’ यदा सर्वे प्रमुच्यन्त ’ इति श्रुतिर्न शरीरन्द्रियरूपबन्धोपरमर्दविषया सूक्ष्मशरीरस्योत्क्रस्य जीवेन गतेश्चन्दरसंवादार्थे तदन्तरप्रतिपत्ताविति सूत्रोक्तन्यायेनावश्यवक्तव्य्तवात्। एवं विदुषोऽपि सूक्ष्मशरीरस्योत्क्रमणसत्त्वादेव तस्योत्क्रमणोन्मुखस्य ’ सन्तापयति स्वं देहमापातदलमस्तक ’ मिति श्रुतेस्सर्वदेहव्याप्याग्निशिखायाः" क्वचिदेवोपसंह्रियमाणत्ावत्तदूष्मा क्वचिदेवोपलभ्यते। ननु विदुष उत्क्रान्तिर्नसंभवति। यो कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रहम्ैव सन् ब्रह्माप्येती ’ ति तस्योत्क्रान्तिप्रतिषेधात्। न च ’ न तस्मात्प्राणा उत्क्रामन्ती ’ ति मान्धअयान्दिनपाठात् तस्येति काण्वपाठे सम्बन्धसामान्यविहिता षष्ठी ’ नटस्य श्रृणोती ’ ति वदपादानार्थेति मुच्यमानान्नविश्लिश्यन्त इति तदर्थ इति वाच्यम्। शाखाद्वयेऽपि तत्पदस्य शरीरपरामर्शितॉत्वात्। बृहदारण्यक एव ’ यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहोने ’ त्यार्तभागप्रश्नेनेतिहोवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्माथो मृतश्शेत इति प्राणोत्क्रान्त्यपादानस्याध्मानेन वायुपूरणेन दृतिवदुच्छ्वसनस्य शरीरधर्मस्य कीर्तनात् जीवात्प्राणामामुत्कान्तेरप्रसक्तत्वेन तत्प्रतिषेधानुपपत्तेश्च। अतो विदुषश्शरीरदुत्क्रान्त्यभावादर्चिरादिगतिश्चन्धरसंवादस्सरुकगृतदुष्कृतविधूननमित्येतत्सर्वं" सत्यलोकप्राप्त्यर्थविद्याविशेषफलं न तु मुक्त्यर्थब्रह्मविद्याफलमिति नेतव्यम्। ब्रह्मविदो मरणकाले क्वाचित्कोष्मदर्शनं तु तेजश्शब्दोक्तस्य सूक्ष्मदेहस्य परदेवतासम्पत्तेः प्राचीनत्वेनोपपद्यत इति चेदुच्यते। आर्तभागप्रश्ने शरीरादुत्क्रान्तिर्न प्रतिषिध्यते किं तु शरीरादेव तत्रोत्क्रान्तिप्रतिषेधस्याविद्वाद्विषयत्वेन अविदुषः प्राणीनां" शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यात्वत्। अविद्वद्विषयत्वं कथमवसीयत इति चेत्,उतरस्दर्भात्। उत्तरसंदर्भे ’ यत्रास्य पुरुषस्यमृतस्याग्निंवागप्येति वातं प्राणश्चक्षुरीदित्यं मनश्चन्द्रंदिशश्क्षत्रं पृथइवीं शरीरमाकशमात्मैषधीर्लोमानि वनस्पतीन् केशा अप्सुसोहितं च रेतश्च निधीयते क्वायं तदापुरुषो भवती’ त्यार्तबागप्रश्ने याज्ञवल्क्येनार्तभागेन च रहलि सम्मन्त्रणेन पुण्यपापरूपं करम तदाश्रयत्वेन निश्चितमिति तदनन्तरसन्दर्भे श्रुत्यैवप्रतिपादनात्। चतत्र हि श्रूयते ’ तौहोत्क्रम्य मन्त्रयांचक्राते तौहयदूच्यतिः अथ यत्प्रशशंसतुः पुण्योवैपुण्येन कर्मणा भवति पापः पापेनेति ’ ति। न च ’ अपपुनर्मृत्युंजयती ’ ति पूर्ववाक्ये ससारसंतरणरूपं" फलमुच्यते तेन प्रकृतिविद्वद्विषयमुत्क्रान्तिप्रकतिषेधस्यावसीयत इति वाच्यम्। ’ अग्निर्वै मृत्युस्सोपामन्न ’ मित्यपामग्न्यन्नत्वोपासनामुक्त्वा हि तस्य फलं ’ अपपुनर्मृत्युञ्जीयती ’ त्युपच्यते। तस्मादग्निजयएवात्र मृत्युजयो न संसारतरणं जीवात्प्राणानामुक्रान्तिपप्रसक्ता न प्रतिषेध्येति चेत् न। विद्वद्विषये ’ तस्य तावदेव चिर ‘; मिति शरीरवियोगकालएव विश्लेष इति शङ्कारूपप्रसक्तिसत्त्वात्। एवं प्रसक्त्या विशिष्य विदुषो जावीत्प्राणानामुत्क्रान्तिप्रतिषेधेनाविदुषस्तर्हि जीवात्प्राणानामुत्क्रान्तिरस्तिमित्यविद्वद्विषयेऽपि शङ्कारूपप्रसक्तिसत्त्वाच्च। तस्मादस्ति विदुषोऽप्युत्क्रान्तिः। स्मर्यते च तस्य मूर्थन्ययाड्योत््करान्तिः ’ ऊर्ध्वमेकस्स्थितस्तेषां भित्वा सूर्यमण्डसम्। ब्रह्मलोकमतिक्रम्यतेन याति परां गति ’ मिति नाडीविसेषाणां मध्ये यस्सरूर्यमण्डसं भित्वोर्ध्वं स्थइतः तेन मूर्द्धसम्ब्धइनाडीविशेषाणानां मध्येऽपि सूर्यमण्डलपर्यन्तप्रसृतिनाडीविशेषण ब्रह्मलोकातीतिं परमं पदं प्राप्नोतीत्यर्थः। तस्य याज्ञवल्क्यवचनस्योदाहरणेन ’ चक्षुषो वा मूर्ध्नोवे ’ त्यविद्वद्विषये मूर्धग्रहणं मूर्धसम्बन्धिनाड्यन्तरविषयमित्यपि सूचितम्॥ संग्रहकारिकाः॥ उत्क्रान्तिर्नास्ति विदुषां तत्रैवामृतताश्रुतेः। नतस्य प्राणा इति च तदुत्क्रान्तेर्निषेधनात्॥ मैवमस्त्येव तेषामप्येषा श्रुतिशु व़ञ्चिता। आगत्युपक्रमात्तेषां समानाचेतरैरसा॥ कर्महाणरूपात्र तेषाममृतता श्रुता। देहबन्धदग्ध्वैव ब्रह्माप्तिरब्रह्माचिंतनम्॥ न तु तदुभयं मुख्यं ब्रह्मर्चिरादिपथेन हि स्थितिमदुपरि प्राप्तं तत्रैव बन्धविधूननम्। तदवधिवपूस्सूक्ष्मं येनेन्दुसंवदनादिकं विपुषि विदुषः क्वाचित्कोष्मा च यस्य विनिष्क्रमे॥ प्राणोत्क्रान्तिनिषेधनं न वपुषः कित्वात्मनः प्रस्तुतात् ब्रह्माविद्विषयार्तबागविहितप्रश्नोत्तरे तद्यथा। षष्ठीचात्र वजत्यपेक्षितमपादनत्वमेवात्मनः" किञ्चात्र स्फुटमामनन्ति वचने माध्यन्दिनाः पञ्चमीम्॥ प्राणोत्क्रातिनिषेधो विदुषोऽविदुषश्च वर्ण्यत जीवात्। देहवियोग तेषामपि शङ्केरन्नतो वियोगमिति॥ इति आसृत्युपक्रमाधिकरण्॥5॥