15 भूताधिकरणम्

भूतेषु तच्छ्रतेः॥5॥ नैकसमिन्दर्शयतो हि॥6॥ जीवस्युक्तस्य प्राणस्य तेजसि श्रुता सम्पत्तिः किं तेजोमात्रे, उत सर्वेषु भूतेष्विति संशये यथाश्रुति तेजोमात्र इति पूर्वपक्षः। सर्वेषु भूतेषु सम्पद्यते ’ पृथिवीमय आपोमयस्तेजोमय ’ इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुतेः। न च तेजः प्रभृतिषु क्रमिकसञ्चारेण तदुपपत्तिः। ’ तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ’ ‘नानावीर्याः पृथक्भूतास्ततस्ते संहर्तिं विना। नाशक्नुवन्प्रजाः स्त्रःष्टुमसमागम्य कृत्स्नशः॥ समेत्यान्योन्यसंयोगं परस्परसमायाः। महदाद्या विशेषान्तह्यण्डमुत्पादयन्ति त ’ इति श्रुतिस्मृतिभ्यामेकैकस्य कार्याक्षमतद्वप्रदर्शनात्। अतस्तेजश्शब्दो भूतान्तरसंसृष्टं तेजोऽभिधत्त इति सर्वेषु भूतेषु सम्पत्तिरिति सिद्धान्तः॥ संग्रहकारिके॥ सा सम्पत्तिस्तेजोमात्रे प्राणस्य जीवसहितस्य। अन्येष्वपि सा भूतेष्वपेक्ष्यते चेत्क्रमेण साऽप्यस्तु॥ मेवं भूतगणस्य प्रत्येकसमर्थताभावात्। नैकस्मिन्सा युकता तस्मात्सर्वेषु भूतेषु॥ इति भूताधिकरणम्॥4॥