सोऽध्यक्षे तदुपगमादिभ्यः॥4॥ प्राणः किं जीवे सम्पद्यते, उत तेजसीते विशये यथाश्रुति तेजस्येव सम्पद्यते. यथा वाङ्मनसि मनश्च प्राण इति पूर्वपक्षः। वाह्यान्द्रियमनस्संयुक्तः" प्राणो जीवे सम्पद्यते। ’ एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती’ ति तदुपगमश्रवणात् ’ तमुत्क्रामन्तं प्राणोऽनुत्क्रामती ’ ति सप्राणजीवोत्क्रमणश्रवणात्। ’ कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठे प्रतिष्ठास्यामीति स प्राणमसृजते ’ ति प्राणस्य जीवेन संयुज्य जीवेन सह तेजसि सम्प्ततिरस्तीति ’ प्राणस्तेजसी ’ त्यस्यापि न विरोधः॥ यमुनाया गङ्गया संयुज्य सागरप्राप्तावपि हि यमुना सागरं प्राप्नोतीति व्यवहियते॥ संग्रहकारिके॥ प्राणस्तेजसि साक्षात्सम्पद्यत इति यथाश्रुतं युक्तम्। मैवं तस्य तदानीं जीवोपगमादिकश्रवणात्॥ प्रथमं यदि जीवमितस्तेजसि सम्पद्यते स तत्सहितः। एवमपि श्रुतिरुचिता यथैव सागरमुपैति यमुनेति॥ इति अध्यक्षाधिकरणम्॥3॥