तन्मनः प्राणउत्तरात्॥3॥ मनः प्राण इत्यत्र तु मुख्य एव लयः ’ अन्नमयं हि सोम्य मनः आपोमयः प्राण ’ इति श्रुत्या मनोऽन्नशब्दोक्तायाः पृथिव्या विकारः, प्राणस्त्वपां विकार इत्युक्तत्वेन मनसः स्वप्रकृतिभावापन्नस्य प्राणप्रकृतिभावपन्नास्वप्सु मुख्यलयसम्भवादिति पूर्वः पक्षः। मनोऽहङ्कारप्रकृतिकं, प्राणवायूराकाशप्रकृतिक इति तयोर्नास्ति कथमपि प्रकृतिविकृतिभावः। तस्मात् ’ अन्नमयंही ’ त्यादिश्रुतौ मनसोदनीयेन प्राणस्याद्भ्यश्चाप्यायनमात्रं विवक्षितमिति सकलबाह्येन्द्रियसंयुक्तं मनः स्वव्यापारोपरमपूर्वकं प्राणेन संसृज्यत इत्येव तदर्थो ग्राह्यः। मनोवृत्त्युपरमानन्तरमपि हि प्रणवृत्तिर्दृश्यत इति सिद्धान्तः॥ संग्रहकारिके॥ मनस्तु प्राणे स्याल्लयएव प्रकृतिविकृतितासत्तावत्। अन्नमयं हि मनश्श्रुतमम्भोविकृतिस्तथा प्राणाः॥ मैवमहंकृतिगगनप्रकृतिकयोरन्नतोयाभ्याम्। आप्यायनमेव तयोरातस्तत्रापि संयोगः॥ इति मनोऽधिकरणम्॥2॥