12 वागधिकरणम्

॥श्रीमते हयवदनपरब्रह्मणे नमः॥ ॥चतुर्थास्याध्यायस्य द्वितीयः पादः॥ इह पादे विदुषो मूर्धन्यानाड्योत्क्रान्तिरूपमर्चिरादिगत्या ब्रह्मप्राप्ति हेतुत्वेन विद्याफलभूतं चिन्तनीयम्। तत्र मूर्धन्यनाडीप्रवेशपर्यन्तोत्क्रान्तिर्विद्वविदुषोस्साधारणीति सा प्रथं विचार्यते। उपासनास्वर्चिरादिगतिचिन्तायां" गत्युपक्रमत्वेन तस्या अपि चिन्तनीयत्वात्। वाङ्मनसि दर्शनाच्छब्दाच्च॥1॥ अतएव सर्वाण्यनु॥2॥ छान्दोग्ये श्रूयते – ’ अस्य सोम्येपुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनःप्राणे प्राणस्तेजसि तेजःपरस्यां" देवताया ’ मिति। अत्र किं वाचो मनसि सम्पत्तिरुत वागवृत्तिरिति संशय ’ सता सोम्ये तदा सम्पन्नो भवती ‘सत्यत्र सम्पत्तिशब्दस्य लयार्थात्वावगमात् वाचः स्वाप्रकृतौ मनसि स्वरूपलयासम्भवात् अप्रकृतावपि वृत्तिलयस्य इति पूर्वपक्षः। वाग्व्यापारोपरमानन्तरमपि मनःप्रवृत्तिदर्शनात् ’ वाङ्मनसि सम्पद्यत ’ इति श्रुतेश्च वाचएव मनसि लयः। वाक्छशब्दस्य वृत्तिलक्षणायां कारणाभावात्। लयस्तु वाचऋः व्यापारोपरमपूर्वकमनस्संयोगरूप औपचारिको ग्राह्यः। वृत्तिपक्षेऽपि वाक्प्रकृतिकवृत्तिना मनसि मुख्यलयासम्भवात् वाचि सम्पद्यमानायामन्यान्यपि बाह्येन्द्रियाणि मनसि सम्पद्यते। ’ इन्द्रियर्मनसि सम्पद्यमानै ’ रिति श्रुत्यन्तरात्॥ संग्रहकारिके॥ वागिन्द्रियमप्रकृतौ न मनसि सम्पद्यते मुमुक्षूणाम्। वाङ्मनसीति हि वाक्यं योज्यं वाग्वृत्तिविषयतया॥ वागेव सहान्येन्द्रियमस्मिन्सम्पद्यते दृश्शब्दात्। सम्पात्तिरिह तु न लयः किं तु वायापाररिहतसंयोगः॥ इति वागधिकरणम्॥1॥