भोगनत्वितरे क्षपयित्वा सम्पद्यते॥19॥ आरब्धकार्ययोः पुण्यपापयोः भोगनैव विनाशः, न तु विद्ययेत्युक्तम्। ते किं विद्यायोनिशरीरावसान एवेति नियमः, उत शरीरान्तरावसानेऽपीत्यनियम इति संशये विद्यायोनिशरीरावसान एव ’ धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी ’ ति ’ तस्य तावदेव चिरं यावन्नविमोक्ष्य ’ इति च शरीरमात्रावाधिश्रवणादिति पूरवपक्षः। प्रारब्धस्यैकदेहमात्रभोग्यत्वे तथाेव, अनेकदेहभाग्यत्वे तु तदवसाने पुण्यपापे इति तदनन्तरब्रह्मसम्पत्तिः। ’ धूत्वा शरीर ’ मित्येकवचनं न विवक्षितम्। ’ विधूय पाप ’ मिति तत्रैव दर्शनात्। ’ तस्य तावदेवे ’ ति श्रुतौ ’ यावन्नविमोक्ष्य ’ इति प्रारब्धकर्ममोक्ष एवोक्तः न तु विद्यायोनिशरीरमोक्षः। तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलञ्च पुण्यपापरूपं सर्वं कर्म विद्यामाहात्म्याद्विदुषिस्वस्वफलाजनकं भवति। विद्यारम्भोत्तरकालमनुष्ठितं च्च विद्यार्थकर्मव्यतिरिक्तं सर्वं तत्र फलजननासमर्थं भवति तदिदं विदुषऋ पुण्यपापं सर्वं" कर्म विदुषः सुहृद्द्विषतोस्संक्रामति। प्रारब्धंत्वेकेनानेकेन वा देहेन भुक्तं क्षीयते। तदनन्तरं ब्रह्मसम्पत्तरिति सर्वं निरवद्यम्॥ संग्रहकारिके॥ यस्मिन्देहे विद्याजनि स्तदवसान एव मुक्तिस्स्यात्। धूत्वा शरीरमिति यद्यावन्नविमोक्ष्य इति च यदधीतम्॥ तस्मिन्नन्यस्मिन्वा यस्मिन्निश्शेषतामेति। प्रारब्धं फलभोगैस्तद्देहान्ते भवेन्मुक्तिः॥ धूत्वा शरीरमित्येकवचनं न विवक्षितम्। प्रारब्धस्य विमोक्षश्च विमोक्ष्य इति कीर्तिताः॥ इति इतरक्षपणाधिकरणम्॥11॥ इति श्रीमद्भारद्वाजकुलजलधिकौलस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयुखमालिकाख्ये द्वितीयपरिच्छेदे चतुर्थस्याध्यायस्य प्रथमः पादः॥