10 अग्निहोत्राद्यधिकरणम्

अग्निहोत्रादितु तत्कार्यायैव तद्दर्शनात्॥16॥ अयोऽन्यपिह्येकेषामुभयोः॥17॥ यदेव विद्ययेति हि॥18॥ इतरस्याप्येलमसंश्लेष इत्यधिकरणे विद्याबलात् सुकृतस्याप्यसंश्सेष उक्तः। अतोऽग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वाविशेषेण फलाश्लेषादनिच्छतोऽननुष्ठानं प्राप्तम्। न हि निष्फलं कश्चिच्चिर्षति। यदि नित्यनेमित्तिकानां फलवत्त्व स्यात्, तदानीमश्लेषवचनमेव निर्विषयं स्यात्, तदनीमश्लेषवचनमेव निर्विषयं स्यात्। तस्य विषयान्तरकल्पनेऽपि तेषां फलमपि न पशामः। नचाप्रायणमहरहरविच्छेदेन विद्यानुवृत्तिस्तत्फलम्। कमर्ण इव विद्याया अप्यनुतिष्ठासामात्रेणाविच्छिन्नानुवृत्तिसिद्धेः। न च विद्यानुवृत्तिप्रतिबन्धकदुरितनिवृततिस्तत्फलम्। विद्याप्राचीनदुरितानां विद्यया विनाशात् विदुषस्तदनन्तरं बुद्धिपूर्वकपापचरणाप्रसक्तेः प्रामादिकस्य योगनिषेवणेन निवृत्त्येक्तेः। यद्यपि नित्यनैमित्तिककानामाश्रमधर्माणां परित्यागो न युज्यत इति प्रत्यवायपरिहारार्थमाश्रमधर्मत्वेन कथञ्चिदनुष्ठानं समर्थ्येत, तथाऽपि विद्यार्थत्वने तेषामनुष्ठानं न सिध्यतीति॥ सिद्धान्तस्तु – विदुषाप्याश्रमधर्मत्वेन ते विद्यार्थ्तवेनाफ्यनुष्ठेयाः विद्यारूपकार्यायैव तदुपदेशात्। नन्वसिद्धस्तदुपदेशः, ’ यज्ञेने ’ त्यादिश्रुतेर्विद्यादयात्प्राक् तादर्थ्येन विधानार्थतोपपत्तेः, ’ स खल्वेदं वर्तय ’ न्नित्यादिश्रुतेपराश्रमधर्मानुवृत्तिमात्रविषयत्वोपपत्तेरिति चेन्न। उदयहृतश्रुतिद्वयस्याप्यन्तिमप्रत्ययपर्यन्तविद्य- यर्थकर्मानुवृततविषयत्वस्यापि सम्भवे तथा सङ्कोचकल्पनायोगात्। न च नैष्फलम्। यावद्विद्यानुवृत्त्यनुष्ठेयत्वेन सहितस्य विद्यासहकारिकर्मजातस्य मध्ये बुद्धिपूर्वंत्यागे सत्ययथाशास्त्रानुष्ठानतः प्रत्यवायेन चित्तदोषे हि सति कदाचिद्विद्यानुवर्तायिषा वा विच्छिद्येत। अन्तिमप्रत्ययवनिरोधिनिषिद्धानुष्ठानरुचेर्वोत्पद्यते। अतो दर्शनसमानाकारविद्योदयानन्तरमपि यावज्जीवं" व्दयार्थकर्माण्यनुष्ठेयानीति। यद्यग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यार्था विद्योत्पत्तेः प्राचीनं च विद्योदयकाले स्थितं प्रारब्धफलव्यतिरिक्तं सर्वं सुकृतं विद्यया विनष्टं प्रारब्धफलं" च सुकृतं भोगेन नाश्यं, तर्हि ’ सुहृदस्साधुकृत्या ’ मित्यस्य कोविषय इति चेत्। उच्यते – विद्योत्पत्त्यर्थायाः अग्निहोत्रादिसाधुकृत्यायाः" विद्योत्पत्तेः प्राचीनायाश्च शाधिकृत्यायाः अन्या अपि विदुषा कृता देहधारणार्था वृष्ट्यन्नाद्यादिफलस्साधुकृत्यास्ततत्र या प्रबलकर्मान्तरप्रतिबन्धात् प्रागभुक्तफलाऽस्ति सा तस्या विषयः। विद्यारहितकर्मणां प्रबलकर्मान्तरप्रितबन्धसम्भवस्य ’ यदेव विद्यया करोती ’ ति श्रुत्याऽवगतत्वादिति। अत्रेदं विचार्यते। – ’ इतरस्याप्येवमसमसश्लेषः पाते ’ त्विति सूत्रे वृष्ट्यान्नाद्यादिफलायाः साधुकृत्यायाः भुक्तफलावशिष्टायाशरीरपातसमये विनाश उक्तः कथं तस्यास्सुहृतद्गामित्वनुच्यते। अथ विदुषि फलाजनकत्वेमेव तत्र तन्नाशो विवक्षितः, तर्हि विद्योदयकाले पुण्यान्तरनाशोऽपि तथैव वक्तुं शक्य इति विदूषास्सर्वस्या अपि साधुकृत्यायास्सुहृद्गामित्वे वक्तुं शक्ये किमिति ’ सुहृदस्साधिकृत्या ’ मित्यस्य वृष्ट्यन्नाद्यादिफलसाधइकृत्यामात्रविष्यत्वेन सङ्कोचः क्रियते। अपि च ’ द्विषन्तः पापकृत्या ‘; मित्यस्य कं विषयं दृष्ट्वा ‘सुहृदस्साधु ’ मित्यस्यैव विषयविशेषनिर्धारणं क्रियते। विद्योत्पत्त्यनन्तर भावनी पापकृत्या तस्य विषयः स्यादिति चेत् न। तस्यामप्यश्लेषवचनसत्त्वासाम्यात्। यदि तत्राश्लेषवचनं विदुषि फलाजनकत्वमात्रार्थकमित्यध्यवसायः, तर्हि विदुषि साधुकृत्याया अशअलेषवचनमपि तथैवेत्यध्यवसितुं शक्यत्वात् विशिष्टसाधुकृत्यायाः गत्युक्तिर्नापोक्षिता। गतिरपि प्रबलकर्मातपरप्रतिबद्धफलैव साधुकृत्येति न सङ्कोचनीयम्। तदप्रतिबद्धफलाया अपि साधुकृत्यायास्सम्भवात्। यस्य विद्याप्रतिबन्धकदुरितान्यल्पानि तद्भूयस्त्वशङ्काया तन्निवत्त्यर्थमनुष्ठितानि कर्माणि भूयांसि तत्र प्रारब्धप्रतिबन्धकविघ्नाधिकसंख्यानि मङ्गळानीच कारीरिवददत्तफलान्यवशिष्यन्ते उपासकस्य वीतरागत्वेऽपि भ्रमात्तदभ्युदयेच्छया पुत्रादिभिरनुष्ठइतानि तटाकरामप्रतिष्ठादीन्यपि हि सम्भाव्यन्ते। अपि च तदधिगमाधिकरणे विनाशाश्लेषशास्त्रयोरभुक्तकर्माक्षयशास्त्रेण विरोधसमाधानार्थे तयोस्तस्य च भिन्नविषयत्वसमर्थनावसरे विनाशशास्त्रं विदुषइ प्राचीनकर्मणां फलजननसामर्थ्यविनाशशक्तिं अश्लेषशास्त्रं" विदुषि फलजननसामर्थ्योत्पत्तिप्रितबन्धशक्तिं च प्रतिपादयतीत्युक्तम्। तत्र स्वरूपविनाशः स्वरूपाश्लेषश्चोक्तः। तत एवावगतेऽर्थे पुनः साधुकृत्यायाः विषयप्रश्नस्य कोऽवकाशः। तस्मात्सर्वमिदमनुपपन्नमिति। अत्रेदं -प्राचीनसाधुकृत्याया अपि कश्चिन्मन्येत विनाष्टायास्तस्यास्सुहृत्संक्र- मणशास्त्रविषयत्वं नास्तीति तदाशयमनुरुध्य सुहृस्तंक्रमणवाक्ये विषयप्रश्नः तदाशयमनुरुध्यैव साधइकृत्यान्तराणां वनासेऽप्यन्ततो विद्वद्देहधारणार्थत्वेनानुवृत्ता वृष्ट्यादिफलासाधुकृत्यास्ततीति तद्विषयत्वोक्तिः। एवमेव सुकृतान्तरसद्भावेऽपि तद्विषयतानिक्तिः। एवं सति ’ द्विषन्तः पापकृत्या ’ मित्यस्यापि यद्यपि गतिप्रश्नतदुत्तराभ्यां भाव्यं तुल्यन्यायत्वात्, तथाऽपि तस्य विदुषा प्रमादेन कृतं प्रमादेनानवकाशेन वा यदकृतयोगनिषवणरूपप्रायश्चितं दुष्कृतं तद्विषयो भविष्यतीति न्यायसाम्येनोन्नेतुं शक्यत्वात्त्दनुक्तिः। तदधिगमाधिकरणोक्तसुहृद्विशत्संक्रमणशास्त्रविषयसद्भावेऽपि यथाश्रुतविनाशशास्त्रार्थश्रद्धासुतटस्थशङ्कानुरोधादेवं प्रश्नत्तरे इति सर्वमवदातम्॥ संग्रहकारिके॥ न श्लिष्यति चेत्सुकृं न कार्यमेवाग्निहोत्रादि। विदुषामेवं विद्यावेशद्यार्थे तदहरहः कार्यम्॥ यत्तु विदुषा कृतं स्याद्धृष्ट्यारोग्यादिसिद्धये कर्म। प्रबलप्रतिबद्धफलं तस्यैवसुहृद्गतेरुक्तिः॥ इति अग्निहोत्राद्यधिकरणम्॥10॥