09 अनारब्धकार्याधिकरणम्

अनारब्धकार्ये एव तु पूर्वे तदवधेः॥15॥ उक्तस्सुकृतदुष्कृतयोर्विद्यया नाशः किमविशेषण उतानारब्धकार्ययोरिति ’ सर्वे पाप्मानः प्रदुष्यन्ते तस्य तावदेव चिर ’ मिति श्रुतिद्वयविरोधात् संशये सर्वश्रुत्यविरोधादशेषयोः पुण्यपापयोर्विनाशः ’ तस्य तावदेव चिर ’ मिति श्रुत्युक्तं तदनन्तरदेहधारणं तु कुलानचक्रभ्रमणन्यायेन संस्कारानुवृत्त्या भविष्यतीति पूर्वपक्षः। संस्कारानुवृत्त्याचेत् क्षीणायुषामष्यवनिदुषामपि तया देहधारणं प्रसज्यते। अत्तो देहधारणापर्थे प्रारब्धे सुकृतदुष्कृते विहायान्येषां पुण्यपापानां निद्यया विनाशः। एवं च प्रारब्धवशादेव विदुषामपि सुखदुःखभोगोपपत्तिः॥ संग्रहकारिके॥ अविशेषण विद्यातस्स्याल्लयः पुण्यपापयोः। सर्वे पाप्मान इति हि श्रुतिराशक्ष्यते तथाः॥ आरब्धकार्यमपहाय तयोर्लयस्य यत्तादेव चिरमित्यवधिः श्रुतोऽस्ति। संस्कारतो यदि शरीरभृतिस्समर्थ्या क्षीणायुषामविदुषामपि सा तदा स्यात्॥ इति अनारब्धकार्याधिकरणम्॥9॥