08 इतराधिकरणम्

इतरस्याप्येवमसंश्लेषः पातेतु॥14॥ पापवत्पुण्यस्यापि विनाशाश्लेषादातिदेशिसी संगतिः। तत्रेयमतिदेशनिवर्तनीयाऽधिका शङ्का। अश्लेषविनाशवचनयोः पापग्रहणात् न पुण्यस्याश्लेषविनाशौ। न च ’ न जरा न मृत्यर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त ’ इति वचवनान्तरे पाप्मशब्दस्य पुण्यसाधारण्यादन्यत्रापि वेदान्तेषु स्थितः पापवाची शब्दः पुण्यसाधारणः। मुमुक्षुन्प्रत्यनिष्टफलत्वाविशेषादिति वाच्यम्। तथा नियमाभावात्। सर्वे पाप्मान इत्यत्र पाप्मशब्देन गृहीतानामपि जरा मृत्युशोकानां ’ अपहतपाप्मा विजरो विमृत्युर्विशोक ’ इत्यत्र पृथग्गृहीतत्वात्। एवमिहापि पापशब्दास्य पापमात्रपरत्वोपपत्तेरिति। एवमधिकशंकानिवृत्तिस्तु – वेदान्तेषु क्वचित्क्वचित्पापशब्दास्य पापमात्रपरत्वेऽपि स इह सुकृतसाधारण एव ’ न ससुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त ’ इति विद्यामाहात्म्यात् एव सुकृतस्यापि निवृत्तिक्षनणात् तस्य मुमुक्षुनिष्टफलत्वन्यायसाम्येन मुमुक्षुशास्त्रप्रामाण्येनचाश्लेषसाधारणत्वादिति। ननु विदुषोऽप्युपासनमिर्वृत्तये वृष्ट्यन्नाद्यादिफलानि पुण्यान्यपेक्षितानि। कथं सर्वेषां पुण्यानां विनाशः। तेषां विद्यानिगुणदृष्टफलानां यावच्छरीरधारणमनुवृत्तानां शरीरपातसमयेऽवशिष्टांशविनाश इति न विरोधः॥ संग्रहकारिके॥ सुकृतं विहितं हि विद्याया न तदश्लेषलयौ प्रपद्यते। अत एव तया स्वशब्दतो दुरतस्यैव विशिष्य तौ श्रुतौ॥ विहितमपि तद्विद्याभाजामनिष्टफलत्वतो दुरुतसदृशं दूरे त्याज्यं परानुभवार्थिनाम् । तदुभयपरश्रुत्यन्तस्थं च पाप्मपदादिकं तदिह नियतं तस्याप्यश्लेषणं सलयं तया॥ वृष्ट्यन्नाद्यादिफलं यत्पुण्यमपेक्षितं विदुषाम्। यत्र तदवशिष्टं स्याच्छरीरपाते लयस्तस्य इति इतराधिकरणम्॥8॥