07 तदधिगमाधिकरणम्

तदधिगमफत्तरपूर्वाघयोरश्लेषविनाशो तद्व्यपदेशात्॥13॥ एवं विद्यायामावृत्त्यादिविशेषा विचारिताः। अथैतत्पादार्थभूतं पापाश्लेषविनाशरूपं फलं विचार्यत इति सङ्गतिः। ’ तद्यथा पूष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत ’ इति ’ तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्त ’ इति च श्रूयमाणौ पापाश्लेषविनाशौ ब्रह्मविद्याफले भवितुर्महतो नवेति अभुक्तकर्मक्षयशास्त्रविरोधाभ्यां संशये पूर्वपक्षः। ब्रह्मविद्याफले तौ। ’ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ’ इति शास्त्रेण कर्मणां भोगैकनाश्यत्वावगस्या तयोर्विद्याफलत्वकल्पनायोगात्। न च तत्सामान्यशास्त्रं विद्याविनाश पापातिरिक्तकर्मविषयं स्यादिति वाच्यम्। विद्यायाः पापाश्लेषविनाषार्थत्वेन विधेरश्रूततया तत्संकोचकल्पकाभावात् । न च तथा विधिकल्पनं ब्रह्मप्राप्तिसाधनत्वेन विहिताया विद्यायाः फलान्तरानपेक्षत्वत् पापाश्लेषविनाशक्षवणस्य विद्याप्रशसार्थत्वोपपत्तेरिति॥ सिद्धान्तस्तु– विद्यालाभे सति उत्तरपूर्वाघयोरश्लेषविनाशौ भवतएवा ’ तद्यथा पुष्करपलाश ’ इत्यादिश्रुतिषु तथा व्यपदेशात्। न च ब्रह्मप्राप्तिफलकविद्यार्थवादस्तथा व्यपदेशः अभुक्तकर्मक्षयशास्त्रानुरोघादिति वाच्यम्। भोगं विना कर्मक्षयाभावे भोगार्थे शरीरं ग्राह्यं तस्मिन्नपि शरीरे कर्मान्तरार्जनमवर्जनीयम्त्यनिर्मोक्षापत्त्या मोक्षशास्त्रैरेव पापाश्लेषविनाशयोरपेक्षितत्वात्। पापाश्लेषविनाशाभुक्तकर्मक्षयशास्त्रयोर्भिन्नविषयत्वे विरोधाभावाच्च। तथाहि। अभुक्तर्माक्षयशास्त्रं कर्मणां फलजननशक्तिं प्रतिपादयति। पापविनाशाश्लेषशास्त्रे तु प्राचीनकर्मणां फलजननसाम्र्थ्यविनाशक्तिमागामिकर्मणां फवजननसामर्थ्योत्पत्तिप्रतिबन्धशक्तिं च प्रतिपादयतः।न च तत्र विरोधशङ्कास्ति। अग्निजलयोरौष्ण्यतन्निवारणश्कितवदुपपत्तेः। अश्लेषवचनं प्रामादिकपापमात्रविषयम्। ‘नाविरतो दुश्चरिता’ दित्यादिशास्त्रैराप्रायणमहरहरनुष्ठेयाया विद्याया दुश्चरितविरतिनिष्पाद्यत्वावगमात्। ’ अपिचेत्पातकं किंचिद्योगि कुर्यात्प्रमादतः। योगमेव निषेवेत नान्यत्कर्म समाचरे’दिति स्मृतेश्च। नन्विदं पापश्लेषविनाशद्वयमुपसनारम्भ- प्रथमदिवसे उत मध्ये अथवा तदवसान इति विवेक्तव्यम्।मध्ये दर्शनसमानाकारापत्तिसमय इति वविक्तमेव ‘क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे ’ इति श्रुत्या। ननु पूर्वै शरीरपातसमये कर्मक्षय उक्तःअत्र कथं समयान्तरोक्तिः। उच्यते। भगवदप्रितिः पापं। तत्प्रीतिविशेषरूपावश्लेषविनाशौ। ततश्च दर्शनसमाकारापत्तिसमये प्रीतिः परमात्मा तत्समाप्तावुपासकस्याघं क्षमिष्य इति सङ्कल्पयतीति तद्विषयमिदमधिकरणम्। समाप्तौ क्षान्तामिति सङ्कल्पयतीति तद्विषयं" पूर्वाधिकरणमिति न विरोधः॥ संग्रहकारिके। विद्योदयानन्तरपूर्वपापयोरश्लेषविध्वंसनवर्णनं स्तुतिः। नाभुक्तिकर्माक्षयशास्त्रबाधितं विद्याफलत्वप्रतिपादनक्षमम्॥ विभिन्नशक्त्योरनयोर्विरुदधतानशास्त्रयोरस्ति मुधैकबाधनम्। अमोधशक्तेरपि किं न सम्भवेद्विनाजन्मप्रतिबन्धकारणम्॥ इति तदधिगमाधिकरणम्॥7॥