आप्रयाणात्तत्रापि हि दृष्टम्॥12॥ पूर्वाह्णादिकालनियमवदेव तावत्कालपर्यन्तमुपासनाकार्येति कालेयत्तानिमस्याप्यश्रवणात् ’ सुकृत्कृते कृतश्शास्त्रार्थ ’ इति न्यायादेकस्मिन्नेव दिने कार्या। न तु यावदायूषम्।’ स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पूनरावर्तत ’ इति श्रुतिः कर्मणामेव यावदायुषमनुष्ठेयत्वमाह। न तु विद्याया पूर्वपक्षः। यावदायुषं कर्मानुष्ठा कर्मानुष्ठानस्यापुनरावृत्तिफलकत्वमुचिमानं विद्यां प्रति स्वरूपोपकारत्वेनैवोपपादनीयमिति तदुक्तिसामर््याद्विद्याया अपि यावदायुषमनुष्ठेयत्वं तत्र विवक्षितमुन्नीयत इति तद्बलात् ‘प्रायणान्तर्मोंकारमभिध्यायीते ’ ति श्रुत्यन्तरदर्शनाच्च यावदायुषमनुष्ठेयेति सिद्धान्तः॥ संग्रहकारिके। उपासनमिदं कार्यमकस्मिन्नेव वासरे। तावताऽपि कृतार्थं हि स्यादुपासनशासनम्॥ कार्यमन्वहमुपक्रमप्रभृयाशरीरविलयादुपासनम्। यावदायुषमिति श्रुतौ तथा प्रायणान्तमिति च श्रुतौ विधेः॥ इति आप्रयाणाधिकरणम्॥6॥