05 आसीनाधिकरणम्

आसीनस्सम्भवात्॥7॥ ध्यानाच्च॥8॥ अचलत्वञ्चापेक्ष्य॥9॥ स्मरन्तिच॥10॥ यत्रैकाग्रता तत्राविशेषात्॥11॥ अवसितमहंग्रह प्रसक्तानुप्रसक्तं।परविद्याविषय एव विचारितौऽनुवर्तते।परविद्यानां प्रधानफलार्थापत्तिमूलावावृत्त्यहंग्रहौ विचारितौ। इदानीमंगरूपप्रदानोपकाराथापत्तिमलौगविशेषश्चित्यते। परविद्यास्वासननियमोऽस्ति नवेति संशये नास्ति नियामकम्। नचासीनस्यैवोपासनोपयोग्यैकाग्न्यं" सम्भवतीति वाच्यम्। ऋत्विक्कर्तृकांगावबद्धोपासनेष्विव तिष्ठतोऽपि तत्सम्भवात्। ऋत्विजां कर्मविध्यनुसारेण तिष्ठतामपि तत्तंदंगाश्रयोपासनादर्शनादिति। सिद्धान्तस्तु–विशदतरावभासरूपदर्शनसमानाकारतापत्तयुपयोगिनीनां परब्रह्मापासनानां निरन्तरस्मृतिसन्तानरूपध्रुवानुस्मृत्यात्मतया क्रत्वंगाश्रयोपासनावैषम्यात् अचलत्वसाम्यमपेक्ष्य ’ ध्यायतीव पृथधिवी ध्यायीवान्तरिक्ष ’ मित्यादिनिर्देशनात् ‘उपविश्यासने युज्याद्योगमात्मविशुद्धये’ इति स्मृतश्चासीनएवोपासीत। शयानस्य निद्रासम्भवात् गच्छतस्तिष्ठत्च देहधारणप्रयत्नापेक्षणात्। आसीनस्यापि पश्चार्धधारणप्रयत्नोऽस्तीति तन्निवृत्त्यपेक्षायां सापाश्रय आसीत देशकालयोः परं न नियमः। एकाग्रतातिरिक्तदेशकालविशेषाश्रवणात्। एकाग्रतानुकूलो यो देशःकालश्च स एवोपासनस्य। न तु तत्र विशेषोऽस्ति। ’ समे शुचौ शर्करावह्निवालुकाविवर्जिते शीतलाश्रयादिभिः।मनोऽनुकूले न तुः चक्षुः पूडने गुहानिवाताश्रयणे प्रयोजये ’ दिति वचनमप्येकाग्रतोपयोगिनं देशमाह न तु देशविशेषं नियच्छति।मनोऽनुकूल इति वाक्यशेषात्। संग्रहकारिके। आसीन एव योगं कुर्यादेकाग्रतोत्पत्तेः। स्थितिगत्योरतियत्नाच्छयने निद्राभिभूतेश्च॥ मनोऽनुकूलतामात्रं देशकालेष्वपेक्ष्यते। न तारारण्यतिथ्यादि वाक्यशेषे तथा श्रुतेः। इति आसीनाधिकरणम्॥5॥