04 आदित्यादिमत्यधिकरणम्

आदित्यादिमतयश्वांग उपपत्तेः॥6॥ उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येत्युक्तम्।तदोद्गीथादिदृष्टिरादित्यादौ कर्तव्येति शङ्कया सङ्गतिः। ’ य एवासौ तपति तमुद्गीथमुपासाञ्चक्रिर ’ इत्यादिषु किमादित्यादावुद्गीथादिदृष्टिर्विधेया उतोद्गीथादावादित्यादिदृष्टिरित्यन्यतरोत्कर्षानवधारणात् संशये पूर्वपक्षः। आदित्यादावुद्गीथादिदृष्टिर्विधेया फलवत्कर्माङ्गतया फलवत्त्वात्। आदित्यादेर्देवतारूपेण कर्माङ्गत्वे सत्यपि स्वतस्साध्यस्योद्गीथादेः" फलसन्निकर्षात् मनोब्रह्मेत्यत्रेवादित्यादेः प्रथमनिर्दिष्टस्योपास्यत्वप्रतीतेश्चेति॥ सिद्धान्तस्तु– उद्गीथादिष्वादित्यादिदृष्टिर्विधेया। कर्मणामादित्यादिदेवताराधनद्वारेणैव फलसाधनतयाऽऽदित्यादिनामुत्कृष्टत्वोपपत्तेः। आराधनानामाराध्यदेवताप्रधानतया साध्यानुरागेण तस्यापि साध्यतोपपत्तेस्तत्प्रयुक्तोत्कर्षस्याप्यनादरणीयत्वात्। यद्यादित्यादेः ‘अर्यम्णे चरुं निर्वपेत्स्वर्गकाम ’ इत्यादि विध्यन्तरविहितेषु कर्मसु फलप्रदत्वेऽप्यस्मिन्नुपासनाप्रकरणे देवतात्वाभावेन फलप्रदत्वाभावात् तत उद्गीथादेरेवात्र फलवत्कर्मौगतया फलवत्त्वादुत्कृष्टत्वमुच्यते तदाऽप्युद्गीथादावेवादित्यादृष्टिर्विधेया अंगानंगसमभिव्याहारवतीनां विद्यानामंगेष्वगदृष्टिरूपत्वे प्रधानकर्मप्रयुक्तांघाश्रयत्वात्। स्वतन्त्रफलानामपि तासां पृथक्प्रयुक्तिर्नकल्प्येति प्रयुक्तिलाघवाद्वैपरीत्ये प्रयुक्तन्तरकल्पनागौरवात्॥ सङ्ग्रहकारिके॥ यद्वृत्तप्राधम्यं यस्मादादित्यमुख्येषु। फलसाधनकर्मत्वादुद्गीथादिच तदुत्कृष्टम्॥ तस्मादुद्गीथादिदृगादित्यादिषु समाधेया। मैवमिह देवतैव हि कर्माराध्या तदुत्कृष्टा॥ इति आदित्यादिमत्त्याधिकरणम्॥4॥