03 प्रतीकाधिकरणम्

न प्रतीके न हि सः॥4॥ ब्रह्मदृष्टिरुत्कर्षात्॥5॥ अहं ग्रहेष्वीश्वरस्यात्मत्वेनोपासनमुक्तम्। प्रतीकोपासनेष्पपि तच्छङ्कया सङ्गतिः। ’ मनोब्रह्मे ’ त्यादिषु ब्रह्मण आत्मत्वेनानुसन्धानं कार्यं नवेति तस्यस्वतंत्रोपास्यत्वदृष्टिविशेषणत्वाभ्यां संशयः। यदि ब्रह्मणि मनोदृष्टिर्विद्येया तदा ब्रह्मणस्स्वतन्त्रोपास्यत्वात् पूर्वाधिकरणन्यायेन तस्यात्मत्वेनानुसन्धानं कार्यम्। यदि मनसि ब्रह्मदृष्टिर्विद्येया तदोपास्यस्याब्रह्मत्वात् न तथोपासनं कार्यमिति फलफलिभावः। तत्र ब्रह्मोपास्यं। मनोदृष्टि विशषणम्। अचेतनस्य मनसः फलप्रदानाशक्तस्योपास्यत्वायोगादिति पूर्वपक्षः। मनसि ब्रह्मदृष्टिर्विधेया ब्रह्मण उत्कृष्टत्वात्। अपकृष्टेह्युत्कृष्टबुद्धिरभ्युदयाय भवति। यथा राजभृत्ये राजबुद्धिः। उत्कृष्टेत्वपकृष्टबुद्धिरनथायैव स्यात्। तस्मान्मनस उपास्यत्वन्नात्मत्वेनानुसंधानं कार्यम्।मनसोऽप्यभिमानिदेवतारूपेण चेतनत्वादिति॥ सङ्ग्रहकारिके। एवमात्मत्वधीः कार्या प्रतीकोपासनेष्वपि। मैवं स हि भवक्यात्मा न खलुपासकं प्रति॥ स हि ब्रह्मदृश्योपास्यो नत्वत्र विपीरतता। उत्कृष्टब्रह्मदृष्टिर्हि निष्कृष्टे फलदीयिनी॥ इति प्रतीकाधिकणम्॥3॥