आत्मेतितुपगच्छन्ति ग्राहयन्ति च॥3॥ विद्यायां विशदतरावभासरूपफलार्थापत्तिप्रसूतमावृत्तिगुणकत्वं निरूपितम्। तदनन्तरं मुक्तावपि भगवतत्पारतंत्र्यरूपफलार्थापत्तिप्रसूतं" भगवतः स्वात्मत्वेननानुसन्धेयत्वं नुरूपप्यत इति सङ्गतिः। विद्यास्वीश्वरः स्वात्मत्वेन नानुसन्धेयाः। किं तु पृथक्त्वेननैव। ’ पृथगात्मानां प्रेरितारञ्च मत्वाजुष्टस्ततस्तेनामृतत्वेमती ’ ति श्रुतेः। अत्नर्यामिब्राह्मणोक्तं भगवतः स्वात्मत्वमस्तिचेत् अस्तु तन्न निषिध्यते। मुक्त्यर्थमनुसन्धानं पृथक्त्वेनैव कर्तव्यमूदाहृतश्रुतेरिति। राद्धान्तस्तु– तत्क्रतुन्यायेन मुक्तावपि भगवत्पारतंत्र्यसिद्ध्यर्थ स्वात्मत्वेनानुसन्धानं कार्यम्। तथैव पूर्वेऽप्युपासितारोऽनुसन्देधते ’ त्वंवा अहमसि भगवो देवतेऽहं" वै त्वमसी ’ ति। तथैव च शास्त्राण्यन्तर्यामिब्र्हमाणादीन्युपदिशन्ति। न च पृथक्त्वानुसन्धानवविरोधः। स्वशरीरात् स्वात्मनैव ततोऽपि परमात्मानोऽधिकत्वेन तथाऽनुसन्धानोपपत्तेः॥ संग्रहकारिके। अन्यत्वेनोपासितुरपासनं भगवतः कार्यम्। नत्वहमिति भिन्नत्वात् पृथगात्मामनमिति च श्रवणात्॥ भिन्नमपि तावदात्मा ब्रह्मशरीरस्य जीवस्य। तस्मान्नरोऽहमितिवत् ब्रह्माहमितीदमुपपन्नम्॥ इति आत्मत्वोपासनाधिकरणम्॥2।