साधननुरूपणानन्तरं फलमस्मिन्नध्याये निरूप्यते। देहे स्थितस्य विदुषः पापाश्लेषविनाशो मूर्धन्यनाड्या देहान्निर्गमोर्गतस्यार्चिरादिगतिर्ब्रह्म प्राप्तिश्चेति चतुर्विधं फलम्। तदिदं चतुर्विधं फलं क्रमात्पादचतुष्टयेन विचार्यते। आदौ तावाद्विद्यायां विचारणीयाः केचन विशेषाः" विचार्येन्ते। साधनभूताया विद्याया भक्तिदशापन्नायाः फलरूपत्वमस्तीति दर्शयितुं तृतीयविचारणीययानामपूह विचारः– आवृत्तिरसकृदुपदेशात्॥1॥ लिङ्गाच्च॥2॥ ’ ब्रह्मविदाप्नोति पर ’ मित्यादौ ब्रह्मप्राप्तिसाधनत्वेन श्रुता विद्या किं सकृदेवानुष्ठेया उतासकृदावर्तनीयेति संशये पूर्वपक्षः। सकृदनुष्ठेया। आवृत्तौ प्रमाणाभावात्। अवघातादिवत् दृष्टोपायत्वाभावात्। यागादिकर्मवद्वेदनमपि हि ’ फलमतउपपत्तेः ’ रित्यत्र प्रतिपादितम्। ननु ’ मनोब्रह्मेत्युपासीते ’ त्युपासिनाऽनुक्रम्य ’ यएववेदे ’ त्युपसंहारात् संवर्गाविद्यायां ’ यस्तद्वेदे ’ ति विदिनोपकर्म्य ’ यां देवतामुपास्स ’ इत्युपालिनोपसंहाराच्चज वेदान्तेषु विदिधात्वर्थविधान्यस्यावृत्तिगर्भोपासनापर्यवसानावगमादावृत्तिः सिध्येतिचेत्, अस्तु त्रिचतुर वृत्त्याऽप्यावृत्तिशास्त्रार्थसिद्धिर्न तन्मात्रेणासकृदावृत्तिस्सिद्धान्त्यभिमता सिद्ध्यीति। राद्धान्तस्तु। ’ द्रष्टव्यश्श्रोतव्योमन्तव्यो निदिध्यासितव्य ’ इति ’ तत्तस्तु तं पश्यति निष्कळं ध्यायमान ’ इति च विशदतरावभासतया विद्याया दर्शनसमानाकारपत्त्यपेक्षाप्रतिपादनात् तादर््थ्येन ’ तद्रूपप्रत्ययैकात्मा सन्ततिश्चान्यनिस्पृहा। तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निषपद्यते तदे ’ ति स्मृत्यनुसारेमचासकृदावर्तनीया विद्येति। संग्रहकारिके॥ मुमुक्षुभिस्सकृत्कराय विहितं ब्र्हमवेदनम्। ज्योतिष्टोमादितुल्यं हि दृष्टार्थं नावहन्तिवत्॥ आवर्तनीयमसकृत्तदुपास्तितया मितम्। उपक्रमोलपसंहारशाखान्तरगतैः पदैः॥ इति आवृत्त्यधिकरणम्॥1॥