एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः॥51॥ अभ्युदयफलासु विद्यासूक्त उत्पत्तिकालानियमो मुक्तिफलास्वतिदिश्यत इति संगतिः। परविद्यासाधनानां कर्मणां अतिप्रबलत्वेन ततः प्रबलकर्मानतराभावान्नप्रतिबन्धस्सम्भवतीति तस्मिन्नेव जन्मनि विद्यया भाव्यमिति अधिका शङ्का। भगवत्प्रीत्यतिशयहेतुत्वेन परविद्यासाधनकर्मणां प्रबलत्वेऽपि ब्रह्मविदचाररूपैस्ततोऽपि प्रबलतरैः कर्मभिः प्रतिबन्धसम्भवात्प्रतिबन्धपरिहारार्थोद्गीथविद्यासाहित्याभावे नास्तयैहिकत्वनियम इति परिहारः॥ संग्रहाकारिके॥ यात्वपवर्गफला परविद्या सा स्यात्कर्मानन्तरमेव। न हि भगवत्प्रीत्यतिशयहेतौ सम्भवति प्रतिबन्धकमस्मिन्॥ तत्रापि ब्रह्मविदचारः प्रायस्सम्भवति प्रतिबन्धः। तद्यदि विद्यारहितमकारि प्रतिबन्धं न कथं बलिना स्यात्॥ इति मुक्तिफलाधिकरणम्॥15॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि- श्रीरङ्गराजध्वरिवरसूनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे नयमयूख- मालिकाख्ये द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य चतुर्थः पादः॥ ॥तृतीयोऽध्यायस्समाप्तः॥ ॥इति शम्॥