54 ऐहिकाधिकरणम्

ऐहिकमप्रस्तुतप्रतिबन्धं तद्दर्शनात्॥50॥ इत्थमङ्गचिंता कृता। अथाङ्गिनिष्पत्तिसमयश्चित्यत इति सङ्गतिः। सन्त्यैहिकभोगभोग्याभ्युदयफला विद्यास्ताः किं स्वसाधनपुण्यकर्मानुष्ठानानन्तरमिहैव जन्मनि नियमेन भवन्ति। उतेहवा दहान्तरेवा भवन्तीत्यनियम इति संशये पूर्वपक्षः। इहैव जन्मनि भवंति स्नानात्प्रायत्यवत्। स्वर्गादेवद्देहान्तरभोग्यत्वाभावा- दिति। असति प्रतिबन्धे तथैव, प्रबलकर्मान्तरप्रतिबन्धे तु देहान्तर इति सिद्धान्तः॥ संग्रहकारिका॥ अभ्युदयफलारोहति विद्यास्वफलककर्मानन्तरमेव। रोहेदियमसति प्रतिबन्धे तत्सत्वे तद्विलयमपेक्ष्य॥ इति ऐहिकताधिकरणम्॥14॥