अनिविष्कुर्वन्नन्वयात्॥49॥ अथ ‘बाल्येनतिष्ठासे’दित्यत्र विधेयं बाल्यं बालकर्मरूपं कीद्दशमिति विचार्यते। द्विविधं हि बालस्य कर्म कामचारवादभक्षत्वादिकं अप्ररूढेन्द्रियत्वदर्पाहङ्काराहित्यादिरूपं च। द्विविधमपि विधेयमिति पूर्वपक्षः। ननु ‘नाविरतोदुश्चिरिता’दिति मंत्रेण दुश्चरितव्यावृत्तिर्विद्याङ्गत्वेन विधीयते। कथमिह तदनुमतिः। समयभेदेनाविरोध इति पूर्वपक्षीमन्यते। प्रकृष्टमननरूपात् मौनात्प्राग्बाल्यं विधीयते, प्रज्ञानेनैनामाप्नुयादिति प्रकृष्टमननांगत्वेन दुश्चरितव्यावृत्तिर्विधीयत इति। अत्र सिद्धान्तः। निर्विद्येत्नेन समापनं नोच्यत किंतु प्रतिष्ठितत्वं। निरुपसृष्टाल्लाभार्थाद्विदेस्तन्निष्पत्तेः। अतः कामचारवादभक्षत्व दुश्चरितव्यावृत्त्योर्मौनकाले विरोधात् दर्पाहङ्कारादिराहित्येनाभिजात्यादिस्वमहिमानाविष्करणमेव बाल्यमिति युक्तम्। अस्यैवान्वययोग्यत्वात्। तथाच भारतवचनं- ‘यन्नसन्तं नचासन्तं नाश्रुतं न बहुश्रुतम्। नसुवृत्तं वेद कश्चित्स ब्राह्मण-॥ गूढधर्माश्रितो विद्वानज्ञानचरितं" चरेत्। अन्धवज्जडवच्चापि मूकवच्च महीं चरे’दित्यादि॥ संग्रहकारिकाः॥ बालस्य कर्म बाल्यं तत्तु भवेत्कामचारादि। महिमानाविष्कृतिरेवात्रोदितं बाल्यम्॥ इति अनाविष्काराधिकरणम्॥13॥