सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्॥46॥ कृत्स्नभावात्तु गृहीणोपसंहारः॥47॥ मौनवदितरेषामप्युपदेशात्॥48॥ यज्ञादीनां शमादीनां च विद्यासहकारिणां निरूपणानन्तरसंगतिविशेषप्राप्तां सर्वान्नानुमत्यादिचिंतां कृत्वा पुनरपि विद्यायामेव सहकार्यन्तरं निरूप्यत इति संगतिः। ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येनतिष्ठासेत् बाल्यं च पांडित्यं च निर्विद्याथ मुनि’रिति कहोळब्राह्मणे श्रूयते। किमस्मिन्वाक्ये मौनमनूद्यते उत विधीयत इति मौनस्य पाण्डित्यरूपत्वतदर्थान्तराभ्यां संशये पूर्वपक्षः। मौनपाण्डित्यशब्दयोर्ज्ञानत्वात् ‘पाण्डित्यं निर्विद्ये’ति विहितमेव ज्ञानमथमुनिरित्यत्रानूद्यत इति। अत्र सिद्धान्तः- यथा ‘यज्ञेन दानेने’त्यादिना ‘शान्तोदान्त’ इत्यादिना च यज्ञादिश्शमादिश्च विद्यासहकारी विधीयते। यथा च श्रवणंमननंचार्थप्राप्तं" गृह्यते तथा ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्ये’ त्यादिना पाण्डित्यं बाल्यं मौनमिति त्रयं विद्यायास्सहकार्यन्तरं विधियते। तत्र बाल्यमनन्तराधिकरणे निर्वक्ष्यते। मौनं तु पाण्डित्यादन्यदेव। ऊहोपोहक्षमाधीः पण्डा साऽस्यसञ्जातेति पंडितः तस्य कर्म पाण्डित्यं" श्रवणमननान्तरं तदभ्यासपाटववशाल्लब्धय ऊहापोहक्षमया नवनवोन्मेषशालिन्या प्रतिभयाश्रुतमतार्थानुकूल्येन सकलोपनिषत्तात्पर्यप्रतिष्ठानरूपम्। मौनं तु प्रकृष्टमननं प्रकृष्टमननशीलेषु व्यासादिषु तत्प्रयोगात्। प्रकर्षश्च मननस्य स्नेहपूर्वकतया प्रियविरहितनायिकाया- नायकविषयस्येव निरन्तरमनुवर्तमानत्वरूपं उपासनालम्बनस्य शुभावश्रयस्यभगवद्विग्रहादेः पुनः पुनः संशीलनात्मकं। तदपि विद्यानिष्पत्त्यर्थमेव। यस्योपासनकालव्यतिरिक्तका- लेष्वपि गच्छतस्तिष्ठतश्शयानस्यवोपास्यविषयचिंताऽनुवर्तते, तस्यैवोपासनाकालेऽपि तद्विषयचित्तैकाग्न्याद्विद्या- द्दढीभवति। यस्यतूपासनाकालव्यतिरिक्तकालेषु विषयान्तरावेशः तस्योपासनाकालेऽपि चेतसि समयान्तरचिंतितविषयान्तरानुप्रवेशाद्विद्या न द्दढीभवेदिति। ननु ‘कुचुंबे शुचौ देश’ इत्यादिना गृहस्थाश्रमधर्मैर्मुक्तिरिति छान्दोग्योपनिषदुपसंहारो द्दश्यते इति गृहस्थाश्रमधर्मा एव विद्यासहकारिणा इति तदाशयोऽवसीयते। अतो गृहस्थानां यज्ञदानादितदर्थद्रव्यार्जनादिबहुव्यापारव्यग्रचेतसा मुक्तरूपमालम्बनसंशीलनं" न घटते। अतः ‘अथमुनि’रिति पाण्डित्यानुवाद इत्येवोचितमिति चेत्। मैवम्। नहि गृहस्थानामेव विद्या। कृत्स्नेष्वप्याश्रमेषु विद्यासद्भावे श्रुतीनामुदाहृतत्वात्। अतो गृहस्थेषु विद्योक्तिस्सर्वेषामाश्रमाणां प्रदर्शनार्था। विशिष्य गृहस्थनिर्देशस्तु यज्ञादिव्यग्रचेतसां" तेषां पाण्डित्यादिसाधनत्रयसाध्या विद्या न सम्भवतीति शङ्कानिरासार्था। यज्ञादीनामन्तः करणशुद्धिद्वारा शूभावश्रये चेतः प्रतिष्ठोपयोगित्वान्न तेस्तदुपरोध इति तदाशयः। अथ स्यात् कहोळब्राह्मणे ‘ब्राह्मणाः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं" चरन्ती’ति पारिव्रज्यैकान्तिकं धर्मोपन्यासानन्तरं ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्ये’ त्यादि श्रूयते। तेन परिव्राजामेव पाण्डित्यादिसाध्याविद्येति प्रतीतेः कथं तस्यास्सर्वाश्रमसाधारण्यम्। अतश्छानदोग्ये गृहस्थधर्मेणोपसंहारः केवलं गृहस्थधर्मप्रसंसार्थो न विद्यद्वार मुक्तयर्थत्वप्दर्शनार्थ इति चेत्। मैवं। तत्र मौनोपदेशस्यापि ‘यज्ञोध्ययनं दान’मित्यादि श्रुत्यनुसारेण सर्वेषामाश्रमाणां" प्रदर्शनार्थत्वात्। तस्माद्यज्ञादिसर्वाश्र- मधर्मसहकृतं वाल्यपाण्डित्ययोस्तृतीयं मौनं विधेयमिति सिद्धम्॥ संग्रहकारिकाः॥ अथमुनिरित्यत्र विधेश्श्रवणान्तमौनमविधेयम्। पाण्डित्यशब्दितं यत ज्ञावं विहितं तदनुवाद्यम्॥ पाण्डित्याद्यन्यदिदं प्रकृष्टमननात्मकं ज्ञानम्। आरंभणसंशीलनमितिहि यदाचक्षते वृद्धाः॥ पाण्डित्यबाल्ययोस्तत्तृतीयमधिकारिणो विदुषः। विद्यासहकारितया यज्ञादिकवद्विधेयमिह॥ इति सहकार्यन्तरविध्यधिकरणम्॥12॥