51 स्वाम्यधिकरणम्

स्वामिनः फलश्रुतेरित्यात्रेयः॥44॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते॥45॥ उपासनानुष्ठात्रननुष्ठातृविभागविचारप्रसंगादुद्गीथाद्युपासनानुष्ठात्रननुष्ठातृविभागचिंतेति संगतिः। क्रत्वंगाश्रयाण्युपासनानि किं यजमानकर्तृकाणि उत ऋत्विक्कर्तृकाणीति दहराद्युपासनागोदोहनाद्यन्यतरन्याय- विषयत्वानवधारणात् संशये पूर्वपक्षः- ऋत्विक्परिक्रयस्यांगार्थत्वात् पृथक्फलवदुपासनं प्रधानमिति फलार्थिता यजमानेनैवोपासनं कार्यम्। गोदोहनादेः पृथक्फलत्वेऽपि ऋत्विक्कर्तृकप्रणयनाद्याश्रितस्य पृथक्कृत्य यजमानेनोपादातुमशक्यत्वान्नयाजमानत्वम्। उपासनानां तु क्रियारूपाणामुद्गीथादिभ्यः पृथक्कृत्य यजमानेन कर्तुं शक्यत्वात् प्रधानत्वाच्च याजमानत्वमेव युक्तम्। औद्गात्रसमाख्यादिकं तु शास्रफलं प्रयोक्तरीति न्यायविरोधान्नादरणीयमिति॥ एवं प्राप्ते सिद्धान्तः– उपासनं फलसाधनत्वेन प्रधानं सदपि ऋत्विक्कर्तृकमेव सांगप्रधानकरणायैव ऋत्विक्परिक्रयणात् प्रधानं याजमानं" अङ्गमार्त्वियमिति विभागाभावात्। यागदानादिकं तु प्रधानमिति कृत्वा न यजमानेन क्रियते। किं तु यजमानद्रव्यगतस्वत्वत्यागात्मकं तद्सवामिना ऋत्विजा कर्तुं न शस्यमिति तेन क्रियते। अतएवांगं सदपि दक्षिणादानं यजमानेन क्रियते यजमानफलसाधनकर्मकरणार्थस्य दक्षिणादानस्य यजमानद्रव्येण कर्तव्यत्वात्तद्गतत्वत्वत्यागस्यान्येन कर्तुमशख्यत्वात् शास्रफलं प्रयोक्तरीत्यौत्सर्गिकन्यायस्य ऋत्विक्परिक्रयाशास्रानुसारेण फलभाजो यजमानस्य प्रयोजककर्तृत्वाविषयतया तत्रैव पूर्वतन्त्राधिकरणे निर्णीतत्वात्। तस्मादौद्गात्रादिसमाख्ययाऽपि अनुग्रहलाभादुद्गातृशाखाद्याम्नातमुद्गीथाद्युपासनं" उद्गात्रादिभिरेव कार्यम्। अतएवान्तरादित्यविद्यावाक्यशेषे श्रूयते। ‘तस्मादेवंविदुद्गाता ब्रूयात् कन्ते काममागायानीत्येषह्येव कामागानस्येष्टे य एवं विद्वान् साम गायती’ति। एंविदन्तरादित्ये अन्तरक्षणिचोपास्यं सर्वेश्वर देवमनुष्यलोककामावाप्तिरूपतत्तदुपासनाफलाभ्यां" सह विद्वानुद्गातायजमानं पृच्छेत् कं ते कामं ऐहिकमामुष्मिकं वा किं फलमुद्दिश्यागायानि तत्फलानुकूलोपासनहितं गानं करवाणीति। हि यस्मादेष एवोद्गाता कामागानस्याभिमतफलसाधनोपासनासहितगानस्येष्टे य एवं विद्वान् अधिदैवताध्यात्मोपादिष्टपरमेश्वरस्वरूपं विद्वान् सामगायतीति श्रुत्यर्थः। अत्रोद्गाकर्तृकमुपासनमिति स्पष्टम्। एवं ‘यदेव विद्यया करोती’त्यादिविद्यायाः कर्तृसामानाधिकरण्यवचनमप्युदाहार्यम्। तस्माद्दत्विक्कर्तृकमुद्गीथा- द्युपासनम्। दहराद्युपासनस्य क्रत्वंगाश्रयत्वाभावात्॥ संग्रहकारिके। उद्गीथविद्यादिपृथक्फलश्रुतेरुपासनत्वात्फलशालिकर्तृकम्। गोदोहनादौ क्रतुशेषसंश्रिते यथा तथा तत्र हि नास्त्यशक्यता॥ सांगप्रधानाय परिक्रयोदितेरार्त्विज्यमेतत्फलमात्रमन्यगम्। आर्त्विज्यता यस्य पुनर्नसम्भवेत्तत्त्यागमात्रं यजमानकर्तृकम्॥ इति स्वाम्यधिकरणम्॥11॥