50 तद्भूताधिकरणम्

तद्भतस्यतु नातद्भावोजैमिनेरपि नियमातद्रपाभावेभ्यः।40॥ न चाधिकारिकमपि पतनानुमानात्तदयोगात्।41॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम्॥42॥ बहिस्तूभयथाऽपि स्म़ृतेराचाराच्च॥43॥ विधुरादिवत् अनाश्रमित्वसाम्यादाश्रमभ्रष्टानामपि विद्याधिकार इति शङ्क्या सङ्गतिः। किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारोऽस्ति नवेति तेषां तदधिकारोपपादकप्रायश्चित्तसम्भवासम्भवाभ्यां संशये पूर्वपक्षः। तेषामपि विद्याधिकारोऽस्ति। अनाश्रमित्वेऽपि विधुरादिवत् साधारणधर्मैर्विद्यानुग्रहसम्भवात्। न च ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादय’न्निति नैष्ठिकस्य ‘अरण्यमियान्नपुनरेया’दिति वैश्वानसस्य ‘सन्यस्याग्निं न पुनरावर्तये’दिति परिव्राजश्चावरोहनिषेधान्नतद्धर्मा विद्यानुग्राहका इति न तेषां विद्याधिकारइति वाच्यम्। अवरुह्य कृतप्रायश्चित्तानां तदधिकारसम्भवदिति॥ सिद्धान्तस्तु- नैष्ठिकाद्याश्रमं प्राप्तानां अत्यन्तमात्मानमित्याद्वचनैरवरोहव्यावर्तनात् नचावरुह्य कृतपायश्चित्तानां तेषां" ततधिकारसम्भवः। ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः। प्रायस्चित्तं न पश्यामि येन शुध्येत्स आत्महे’ति प्रायश्चित्ताभावस्मृत्या तेषां पतनानुमानात्। ननु पूर्वतन्त्रे अधिकारलक्षण षष्ठाध्याये ‘अवकीर्णिपशुश्च तद्वत्’ इत्यधकरणे अवकीर्णिनां ब्रह्मचर्यप्रच्युतानां" ‘ब्रह्मचार्यकीर्णी नैर्ऋतं गर्दभमालभेते’ति विहितं नैर्ऋतपशुरूपं प्रायश्चित्तं सिद्धं कृत्वाऽग्निर्विचारितः। तदधिकरणमित्थं- ‘यदाहवनीये जुरोती’ति सर्वषां होमानामाहवनीयाधारत्वविधेरवकीर्णीययाऽवकीर्णस्तयासह भार्यामधिगम्य वाग्नीनाधायाहवनीयेऽवकीर्णिपशुं" करोत्विति प्राप्ते ‘जायापती अग्निमादधीयाता’ मित्यग्न्याधानस्य दम्पतिकर्तृत्वस्मरणेन परस्रियासहाग्न्याधानायोगादपि विवाहविधानेन अकृतप्रायश्चित्तस्य विवाहायोगाच्च अग्न्याधानासम्भवादुपनयन- होमवत् लौकिकाग्नावेवावकीर्णिपशुरिति पूर्वाधिकरणे लौकिकाग्नावेवोपनयनहोमसमावर्तनानन्तरं" श्रुतस्य दारपरिग्रहस्योपनयनात्पूर्वमसम्भवेनाग्न्याधानरहितस्याहवनीयाभावादिति निरूपितम्। तदर्थस्सूत्रे तद्वदिति परामृष्टः। एवंचावकीर्णिपशनाकृतप्रायश्चित्तानां तेषां विद्याधिकारस्सम्भवतीति चेत्। मैवम्। उदाहृतस्मृत्या पतनानुमानेन पतितानां तेषामवकीर्णिपशावप्यधिकाराभावादवकीर्णिपशुविधानस्योपकुर्वाणब्रह्मचर्यविषयत्वात्। अथोच्येत। सामान्यमुखेन प्रवृत्ता नैर्ऋतपशुश्रुतिरुपकुर्वाणमात्रविषयत्वेन न शङ्कोचयितुं युक्ता। बाधकाभावात्। ‘आरूढो नैष्ठिकं धर्म’मिति स्मृत्या विशेषविषययाऽपि बाधितुं न शक्यते। श्रुतेस्सामान्यमुखेन नैष्ठिकरूपविशेषपर्यवसानं शीघ्र्परवृत्तिकम्। स्मृतेर्नपश्यामीति प्रायश्चित्तदर्शनाभावेन प्रायश्चित्ताभावानुमानं तेन श्रुत्यनुमानमिति विलम्ब इति विशेषसद्भावात्। अतो नैष्ठिकानां तावन्मध्वशनइव प्रायश्चित्तमस्ति। वेखानसपरिव्राजकयोरपि ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रद्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जस्वशास्रसंस्कारंचे’त्येवमादिप्रायश्चित्तस्मरणमस्ति। तथाऽपि तेषां न विद्याधिकारः। नरकहेतुकल्मषनिर्हरणाय प्रायाश्चित्तम्मरणेऽपि कर्माधिकारनुगुणप्रायश्चित्ताभावस्य ‘प्रायश्चित्तं न पश्यामी’ति स्मृतिवचनगौरवादाश्रमभ्रष्टान्नैकादीन् कृतप्रायश्चित्तानपि शिष्टा वर्जयन्तीत्याचारदर्शनाच्च तेषां" कृतप्रायश्चित्तानामपि इहासव्यवहार्यत्वावगमात् ‘नैष्ठिकानां वनस्थानां यतानांचावकीर्णिनाम्। तस्मात्तदीयपापानां नरकजननशक्त्या निवृत्तावपि असंव्यवहार्यतापादकशक्त्त्यान निवृत्तिरिति न तेषां विद्याधिकारः॥ संग्रहकारिके। स्वाश्रमधर्मनिवृत्तेयोवज्जीवं निषेधेऽपि। तन्निष्कृत्याधिकृता विद्यायामूर्ध्वरेतसस्सन्तु॥ पतितानां हि निष्कृतिरेषां यदि सोपपत्त्या स्यात्। विद्याधिकारबाह्या स्मृत्याचारात्तथाऽप्येते॥ इति तद्भूताधिकरणम्॥10॥