अन्तराचापि तु तद्द्दष्टेः॥36॥ अपि स्मर्यते॥37॥ विशेषानुग्रहश्च॥38॥ अतस्त्वितरज्ज्यायो लिंगाच्च॥39॥ आश्रमधर्मांकिकाविद्येत्युक्तम्। अनाश्रमिणामपि विद्याधिकारस्समर्थ्यत इति सङ्गतिः। मृतपत्नीकाये ये पुनः गुरुकुलातभिसमावृत्याकृतविवाहाः" तेषामाश्रमानन्तरास्थितानां विद्याधिकारोऽस्ति नवेति विद्यानुग्रहार्थं यज्ञाद्यभावात् शाधारणयधर्मसद्भावाच्च संशये पूर्वपक्षः। नास्त्यधिकारः, विद्यानुग्राहककर्माभावात्। न च साधारणधर्मैस्तदनुग्रहः, ‘यज्ञेन दानेने’त्यादिश्रुतौ आश्रमधर्माणामेव तदनुग्राहकत्वोक्ते-, नचानाश्रमत्वेऽपि रैक्वसंवर्तगार्ग्यप्रभृतीनां विद्याद्दष्टेति वाच्यम्। तेषां विदुरादिवत् जन्मान्तरसिद्धत्वोपपत्तेः। न च ‘जप्येनैव तु संसिध्येत् ब्राह्मणे नात्र संशयः। कुर्यादन्यन्नवा कुर्यात् मैत्रो ब्राह्मण उच्यत’ इति स्मृतेः जपेन तदनुग्रस्स्यादिति वाच्यम्। तस्यास्स्मृते- ‘कुर्यादन्यन्न वा कुर्या’दिति स्ववचसैवजपप्रशंसामात्रपरत्वस्फटीकरणात्। न च ‘ब्रह्मचर्येण तपसा श्रद्धया विद्ययाऽऽत्मनमन्विष्ये’ति साधारणधर्ममात्रेणापि विद्यानुग्रहश्श्रूयत इति वाच्यम्। ‘अनाश्रमीनतिष्ठेत्तु क्षणमेकमपि द्विज’ इति विहितानां तेषां साधारणधर्मस्यापि विद्यानुग्राहकसम्भवीदिति॥ सिद्धान्तस्तु- ‘रैक्वादीनां ब्रह्मचर्येण’त्यादिश्रुतिद्दष्टेन साधारणधर्मजातेन जप्येनैवत्विति स्मार्तप्रशंसावगतोत्कर्षेण जपयज्ञेन च विद्यानुग्रहोपपादनसम्भवान्नतेषां जन्मान्तरे सिद्धिः कल्पनीया। तदर्वचीनानामपि विवाहाद्युपपत्त्यभावेनापद्यनाश्रमिणां सतां" विद्याधिकारउपपद्यत एव। ‘अनाश्रमीनतिष्ठेते’ति वचनंत्वनापद्विषयम्। अतएवानाश्रमित्वादाश्रमित्वं न्यायः धर्मभूयस्त्वसत्त्वात् अनाश्रमित्वनिषेधलिंगाच्च॥ संग्रहकारिका॥ आश्रमकर्माभावाद्विद्यायां नाधिकारिणो विधुराः। मैवं विद्याऽनुग्रहमुपैति जप्यादिभिस्तेषाम्॥ इति विधुराधिकरणम्॥9॥