विहितत्वाच्चाश्रमकर्माऽपि ॥32॥ सहकारित्वेन च ॥33॥ सर्वथाऽपि त एवोभयलिंगात् ॥34॥ अनभिभवञ्च दर्शयति ॥35॥ यज्ञादिकर्मांगिका ब्रह्मविद्येत्युक्तम् । तानि यज्ञादीनि केवलाश्रमिण इव विदुषाऽपि सकृदेवानुष्ठेयानि उताश्रमधर्मत्वेन विद्यार्थत्वेन च द्विरनुष्ठेयानीति संशयः । यदि विद्यार्थानि यज्ञादीनि नित्याग्निहोत्रमासाग्निहोत्रवद्भिन्नानि स्युस्तदा । विद्यार्थयज्ञादिभ्यो नित्याग्नियज्ञादीनि भिन्नानि स्युः । तदा विद्यार्थयज्ञानुष्ठानेनाश्रमधर्मयज्ञाद्यनिर्वृत्तेस्तानि पृथगनुष्ठेयानीति द्विरनुष्ठानं भवेत् । यदि तु नित्याग्निहोत्रकाम्याग्निहोत्रन्यायेनैक्यं स्यात्तदा काम्यप्रयोगतः प्रसङ्गान्नित्यसिद्धेः सकृदेवानुष्ठानं भवेत् । किमत्र न्याय्यं । कर्मभेदाद्द्विरनुष्ठानमिति प्रकरणभेदात् नित्याग्निहोत्रमासाग्निहोत्रन्यायेन कर्मभेदादिति पूर्वःपक्षः ॥ सिद्धान्तस्तु - आश्रमधर्मत्वेन तावत्कर्माणि विधीयन्ते । ‘यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपूर्णमासाभ्यां यजेते’ति यदेतैर्वचनैर्विद्याङ्गत्वेनापि विधीयन्ते ‘तमेतं वेदानुवचनेने’त्यादिवचनैः । एवं च यान्याश्रमधर्मरूपाणि यज्ञादीनि तान्येव विद्यार्थत्वेनापि विधीयन्ते । न च नित्यानित्यसंयोगविरोधः । विनियोजकवाक्यभेदसत्त्वात् । ‘खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्वीते’ति विनियोजकवाक्यभेदेनैकस्य खादिरत्वस्य क्रत्वर्थपुरुषार्थोभयरूपतायाः ‘एकस्य तूभयत्वे संयोगपृथक्त्व’मिति पूर्वतंत्राधिकरणे स्थितत्वात् । न चेह प्रकरणभेदाद्भेदश्शङ्कनीयः । यज्ञादिशब्दैः प्रसिद्धयज्ञादीनामेव प्रत्यभिज्ञापनात् । इह यदि यज्ञादिकं प्रसिद्धयज्ञादिकादन्यत्स्यात् तदा किंरूपमित्यवगन्तुं न शक्यते । इष्टिपशुसोमादिरूपस्य प्रसिद्धयज्ञस्यानेकविधत्वात् । न चेह तन्मध्ये केनचित्सादृश्यमवलम्ब्य प्रवृत्तया गौण्या वृत्त्या यज्ञशब्दप्रवृत्तिनिमित्तप्राप्तेरनिवार्यत्वेन प्रसिद्धयज्ञादिभिन्नत्वमपि समर्थयितुं न शक्यते । तस्मादिह यज्ञादिशब्दानां ‘यज्ञोऽध्ययनं दानमिति प्रथमः तप एव द्वितीयः, भोक्तारं यज्ञतपसां सर्वलोकमहेश्वर’ मित्यादिष्विव प्रसिद्धयज्ञादिपरत्वमेव युक्तम् । अत एव ‘धर्मेण पापमपनुदती’त्यादिश्रुतिः प्रसिद्धयज्ञादिधर्मान्निर्दिश्य तैरनभिभवं पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं" दर्शयति । अहरहरनुष्ठीयमानैर्यज्ञादिभिर्विशुद्धेऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा विद्या विशदतरावभावसोत्पद्यते । अतो यज्ञादिभेदाभावाद्विद्यार्थप्रयोगैरेव प्रसङ्गादाश्रमार्थसिद्धेः सकृदेवानुष्ठानम् । अत एव काम्याग्निहोत्रप्रयोगान्नित्याग्निहोत्रस्य प्रसङ्गात्सिद्धेर्न द्विरनुष्ठानमिति ॥ संग्रहकारिके ॥ विद्यार्थमाश्रमार्थं भिन्ना यज्ञादयो वाच्याः । प्रकरणभेदात्तेन द्विरनुष्ठानं भवत्येषाम् ॥ मैवं यज्ञादिशब्देन प्रत्यभिज्ञानदार्ढ्यतः । नास्ति भेदस्ततस्तेषां न भवेद्द्विरनुष्ठितिः ॥ इति विहितत्वाधिकरणम् ॥8॥