47 सर्वान्नानुमत्यधिकरणम्

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥28॥ ब्रह्मविद्यायां शमातयोऽनुष्ठेया इत्युक्तम्। तत्र भोजननियमरूपश्शमविशेषोऽस्ति नवेति विचार्यत इति सङ्गतिः। वाजिनां छन्दोगानां" च प्राणविद्यायां ‘न ह वा एतस्यानन्नं जग्धं भवती’ति, न ह वा एवंविदि किं चनाचन्नं भवती’ति च प्राणाविद्यानिष्ठस्य प्राणान्नानुमतिस्सङ्कीर्त्यमाणा सर्वदा भवति उत प्राणात्ययापत्तावेवेति विशये विशेषानुपादानात् सर्वदेति प्राप्तम्। ननु ‘मटचीहतेषु कुरुष्वाटिक्यासह जाययोषस्तिर्हचाक्रायण इभ्यग्रामे प्रद्राणकउवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे सहोवाच। नेतोन्ये विद्यन्ते यच्चयेम इम उपनिहिता इत्येतेषां मे देहीतिहोवाच तानस्मैप्रददो हन्तानुपानमितानुच्छिष्टं वै मे पीतं स्यादिति न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा नखादन्निति होवाच कामोम उदपानमिति सह खादित्वाऽतिशेषान्जायाया आजहार साग्रए सुभिक्षाबभूव तान्प्रतिगृह्य निदधौ सहप्रापस्सञ्चिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्रां राजासौ यक्ष्यते समासर्वैरार्त्विज्यैर्वृणीतोति तं जायोवाच हंतपत इमएव कुल्माषा इति तान्खादित्वाऽसु यज्ञं विततमेयाये’ति छान्दोग्ये श्रूयते। मटचीभिरश्मवृष्टिभिः कुरुदेशसस्येषु हतेषु आटिक्या अनुपजातस्तनादिव्यं- जनया जायया सह उषस्तिरिति नाम्ना प्रसिद्धश्चक्रस्यापत्यमृषिरिभ्यस्य हस्त्यारोहस्यग्रामे। प्रद्राणकः अन्नालाभात् कुत्सितां गतिं कष्टावस्थां" प्राप्तस्सन् कदा चिमार्गवशादुवास। स किल कुल्माषात् सविशेषान् जलपक्वकुळुत्थादिकान्वा खादन्तमिभ्यं बिभक्षे। स किलेभ्य उवाच इतोऽस्मान्मया भक्ष्यमाणोच्छिष्टकुल्माषरा- शेरन्ये कुल्माषा न विद्यन्ते यच्चये यस्मिन्राशौ मदर्थं प्रक्षिप्ता इमे कुल्माषा इति। एवमुक्त उषस्तिरुवाच एतान्मह्यं देहीति। तानस्मा ऋषये प्रददौ। तत इभ्येन स्वपानाय समीपस्थमुदकं गृहीत्वा हर्षेण अनुपानमपि गृहाणेत्युक्तऋषिः प्रत्युवाच। यदीदमुदकं पिबेयं तदोच्छिष्टं मया पीतं स्यादिति। तत इभ्येन किमेते कुल्माषा नोच्छिष्टा इत्युक्त ऋषिरवाच नैवाजीविष्यमिमानषखादनेन स्वस्य प्राणसंशयापत्तिर्निवारिता भवति तावन्मात्रं खादित्वाऽवशिष्टान्जायायै ददौ। सा च प्रागेव तृप्ता तान्प्रतिगृह्यं निहितवती। ततस्स ऋषिः प्रातश्शय्यां त्वजन्नेव पुरुनरपि प्राणसंशयमापन्नः शीघ्रं याजनेन धनलिप्सया जिगमिषुस्तानेव कुल्माषान् पृष्टयाजायया खादित्वा राज्ञो यज्ञवाटं गत इति श्रुत्यर्थः। तथा ‘आहारशुद्धौ सत्वसुद्धिस्सत्वशुद्धौ ध्रुवास्मृति’रिति विद्योत्पत्त्यर्थमाहारशुद्धिविधानादपि ब्रह्मविदस्सर्वान्नीनत्वमापद्विषयमवगम्यते। एवं ब्रह्मविदग्रसरस्योषस्तेरपि प्राणात्यय एव उच्छिष्टभक्षणे तदनुसारिवचनेन च द्दष्टे कथमल्पशक्तेः प्राणविदस्सर्वदासर्वान्नानुमतिस्स्यादिति चेन्नैष दोषः। ‘नाविरतो दुश्चरितान्नाशांतो नासमाहित-। नाशान्तमानसोवाऽपि प्रज्ञानेनैव माप्नुया’दिति ब्रह्मविदो विद्यांगत्वेन दुश्चरितव्यावृत्तिविधानेऽपि ‘न कांचन परिहरेत्तद्व्रत’मिति वामदेव्योपासकस्य सर्वस्त्र्यपरिहारानुमतिवत् प्राणविदस्सर्वान्ननुमत्युपपत्तिरिति। एवं प्राप्ते सिद्धान्तः– नतावत्सर्वान्ननुमतौ विधिस्श्रूयते। कसंशयमापन्नो योऽन्नमत्ति सतस्ततः। लिप्यते न स पापेन पद्वपत्रमिवाम्भसे’त्यादीन्यापद्येव सर्वान्नानुमतिविषयाणि द्दशयन्ते। वैदिकश्च शब्द- कामकारनिवृत्तिप्रयोजनो द्दश्यते ‘तस्मात् ब्राह्मणस्सुरां न पिबे’दित्यादिः। अतस्तदनुसारेण प्राणविदोऽप्यापद्विषयैव सर्वान्नानुमतिरुच्यत इति कल्पनीयमिति॥ संग्रहकारिके॥ सर्वान्नानुमत्तिः प्राणविद्यानिष्ठस्य योच्यते। सात्वापद्येव विज्ञेया पृष्टा ब्रह्मविदोऽपि या॥ सामान्यवचनानां च न बाध उपपद्यते। अतस्तदनुसारेणाप्यापद्विषयतोचिता॥ इति सर्वान्नानुमत्यधिकरणम्॥7॥