शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामप्यवश्यानुष्ठेयत्वात्॥27॥ गृहस्थेषु विद्या यज्ञादिवत् तदविरोधेन शमादीन्यप्यपेक्षत इति निरूपणात्संगतिः। यज्ञादिमत्सु गृहस्थेषु विद्याशमाद्यपेक्षा नवेति यज्ञादीनां शमादीनां च विरोधसद्भावाभ्यां संशये यज्ञादीनां बाह्यान्तरव्यापाररूपत्वात् बाह्यन्तरकणव्यापारोपरमरूपत्वेन तद्विरुद्धत्वात् न तानि गृहस्थैरनुष्ठोयानीति पूर्वपक्षः। यद्यपि गृहस्थः कर्मसु प्रवृत्तः, तथाऽपि सविद्वान् शमदमाद्युपेतः स्यात् ‘शान्तोदान्तउपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पशेय’दिति विद्यांगतया तेषामपि विधानात् निरन्तरस्मृतिसन्तानविद्योत्पत्तेश्चित्तसमाधानसाध्यत्वेन विद्यानिर्वृत्तये तेषामप्यनुष्ठेयत्वाच्च। न च विरोः। विहितेषु यज्ञादिषु करणव्यापारः, अविहितेषु निष्फलेषु तदुपशम इति विषयभेदेनाविरोधात्॥ संग्रहकारिके॥ शमाद्या नोपपद्यन्ते यज्ञादिव्यग्रचेतसः। तस्मान्न तदुपेतस्स्याद्गृहस्थस्सन्नुपासकः॥ यज्ञादिकं सर्वतोऽपि स्युरन्यत्र शमादयः। तस्मात्तेनाप्यनुष्ठेया विधर्द्दष्टोपकारतः॥ इति शमदमाद्यधिकरणम्॥6॥