45 सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादिश्रुतेरश्वरम्॥26॥ यदि विद्या यज्ञाद्यनपेक्षैव यत्यादीनाममृतत्वं साधयति तर्हि गृहस्थानमपि तथैव तत्साधयत्विति शङ्क्या सङ्गतिः। पूर्वपक्षश्च- ननु ‘यज्ञेने’त्यादिश्रुत्या गृहस्थानां विद्याया यज्ञाद्यपेक्षाऽवगम्यते। तत्र हि वेदानुवचनेनेत्यध्ययनप्रधानं ब्रह्मचारिधर्मजातं" लक्ष्यते। ‘यज्ञेन दानेने’ति यज्ञदानप्रधानं गृहस्थधर्मजातं, तपसति पञ्चाग्निमध्यतपश्चर्यादिप्रधानं वैखानसधर्मजातं अनाशेकेनेत्यशनप्रायाष्टग्रासनियमप्रधानं" यतिधर्मजातं लक्ष्यते। सत्यम्। तेषां धर्माणां विविदिषासाधनत्वमेवोच्यते। न विद्यासाधनत्वम्। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यादिति॥ एवं प्राप्ते सिद्धन्तः- प्रत्ययार्थप्राधान्यविषयात् सामान्यन्यायादिष्यमाणसमभिव्याहारे इष्यमाणं प्रधानमिति विशेषन्यायः स्वर्गकामादिवाक्ये क्लृप्तो बलीयात्। अत इष्यमाणविद्यासाधनत्वेन प्रतिपाद्यते। यथा अश्वेन जिगमिषतीत्यत्र अश्व इष्यमाणगमनसाधनत्वेन प्रतिपाद्यते। यथा अश्वेन जिगमिषतीत्यत्र अश्व इष्यमाणगमनसाधनत्वेन प्रतिपाद्यत इति गृहस्थेषु यज्ञाद्यपेक्षैव विद्या। न च तत्तदाश्रमधर्माणां" बह्वल्पभावात् कथं तत्र धर्ममात्रस्य विद्यासहकारित्वमिति शङ्कनीयम्। ‘यस्य यावत्स्वगृह्योक्तं स्पल्पं वा यदि वा बहु। तस्य तावति शास्रार्थे कृते सर्वं कृतं भवे’दिति न्यायानोपत्तेरिति॥ संग्रहकारिकाः॥ तर्हि गृहिष्वपि विद्या नयतिष्विव यज्ञसापेक्षा। यज्ञेनेत्यादिकृतं विनियुङ्क्ते वेदनेच्छायाम्॥ मैवं न प्रत्ययार्थस्य प्राधान्यमिह कल्पते। यदिष्यमाणप्राधान्यमिच्छायाः क्लृप्तमन्यतः॥ अश्वेनायं जिगमिषत्यसिनाऽयं निरीक्ष्यते। इत्यादविष्वमाणस्य प्राधान्यं हि निरीक्ष्यते॥ इति सर्वापेक्षाधिकरणम्॥5॥