44 अग्नीन्धनाद्यधिकरणम्

अतएवचाग्नीन्धनाद्यनपेक्षा॥25॥ स्तुतिविधिप्रसङ्गदवान्तरसङ्गतिविशेषेणाधिकरणद्वयं प्रवृत्तम्। तस्मिन्प्रासंगिकेऽर्थे चिंतिते प्रथमाधिकरणे यदुक्तमूर्ध्वरेतस्स्वप्याश्रमेषु विद्याऽस्तीति तन्नयुज्यत इत्याक्षिप्य समाधीयत इति संगतिः। ऊर्ध्वरेतस्स्वाश्रेमेषु विद्या न सम्भवति। ‘यज्ञेन दानेने’ त्यादिवचनश्रुतविद्यानुग्राहककर्माभावादिति प्राप्ते तेष्वपि विद्या सम्भवति। ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति, यदिच्छन्तो ब्रह्मचर्यं चरन्ती’त्यादिश्रवणात्। अतस्तेषां विद्यायास्तत्तदाश्रमधर्मैरनुग्रहसम्भवात्तेषामाधानपूर्वकयज्ञाद्यनपेक्षैव विद्या सम्भवतीति सिद्धन्तः॥ संग्रहकारिकाः। अधिकारोऽस्त्ययज्ञानां न विद्यासूर्ध्वरेतसाम्। मैवं तेऽपिह्युपस्कुर्युर्विद्यास्वाश्रमकर्मभिः॥ इति अग्नीन्धनाद्यधिकरणम्॥4॥