43 पारिप्लवाधिकरणम्

पारिप्लवार्था इतिचेन्न विशेषितत्वात्॥23॥ तथाचैकवाक्योपबन्धात्॥24॥ रसतमत्वादीनामुपासनार्थत्ववदाख्यानानां पारिप्लवार्थत्वात् प्रवृत्तिविशेषकरत्वादिति शह्क्या सङ्गतिः। विद्याप्रकरणेष्वाख्यानादिश्रूयतेप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम। अथ ह याज्ञवल्क्यस्यद्वे भार्यें बभूवतु’रित्यादीनि किं विद्याप्रशंसार्थत्वेन विद्याप्रधानानि उतपारिप्लवप्रयोगार्थत्वेन कर्मशेषभूतानीत्याख्यानत्वसा- मान्याद्विद्याप्रकरणगतत्वाच्च संशये पूर्वपक्षः। पारिप्लवप्रयोगार्थान्येतानि। अश्वमेधे ‘पारिप्लवंशंसती’ति पारिप्लवनामकं शस्रं विहितम्। तत्र सर्वाण्याख्यानानि पारिप्लवेसंतीति सर्वाख्यानशंसनं विहितम्। ततश्चाख्यानत्वसामान्यात् विद्याप्रकरणाम्नातानामपि आख्यानानां तत्र विनियोगस्स्यात्। नन्वश्वमेधे त्रिरात्रे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्यादि द्वितीयेऽहनि यमो वैवस्वतइत्यादिश्च तृतीयेऽहनि वरुण आदित्य इत्यादिश्चाख्यानविशेषे विनियुज्यते। तेन सर्वशब्दस्य सङ्कोचस्स्यादिति चेन्न। उपक्रमगतस्य वाक्यशेषेण सङ्कोचायोगात्। अन्यथा ‘एषवाव प्रथमो यज्ञो यज्ञानां" यज्ज्योतिष्टोमो य एतेनेष्ट्वाऽथान्येन यजेते’ इत्यत्रान्यशब्दस्य ज्योतिष्टोमेततरसर्वक्रतुपरामर्शिनो यो हि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति यः" पञ्चदशः स तं यस्सप्तदशस्स तं य एकविशस्सत’मिति वाक्यशेषगतत्रिवृदादिस्तोमकक्रतुसङ्कीर्तनानुसारेण तावन्मात्रे समकुचित्तवृत्तित्वात्त्या चतुर्विंशचतुश्चत्वारिंशादिस्तोमकानां क्रतूनां ज्योतिष्टोमात्प्रागप्यनुष्ठानप्रसङ्गेन ‘एकस्तोमेवा क्रतुसंयोगात् सर्वेषां वा चोदनाविशेषात् प्रशंसास्तोमानाः’ मिति पूर्वमक्षसिद्धन्तसूत्राभ्यां प्रवर्तितेन पूर्वतंत्राधिकरणेन विरोधापत्तेः। तस्मादुपक्रमगतसर्वश्रुत्याऽपि विद्याप्रकरणगताख्यानानामपि कर्मसु विनियोगान्न तेषां विद्याप्राधान्यमिति। सिद्धान्तस्तु- उपक्रमानुसारेणोपसंहारनयनस्यौत्सर्गिकत्वेऽप्यत्रानन्तरशाखागतसर्वाख्या- नशंसनस्याशक्यत्वात् स्वत एवोपक्रमगतसर्वश्रुतेस्सङ्कोचकापेक्षसत्त्वात् वाक्यशेषगतेष्वाख्यानविशेषेषु सङ्कोचः। यथा- ‘अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त’ इत्यत्र सर्वशब्दस्यासंकुचितसर्वपरत्वासम्भवेन सङ्कोचकापेक्षया ज्योतिष्टोमे प्रकृतेषु ऋत्विक्षु सङ्कोचः। अत एव ऋत्विजामेव हारियोजनप्रचारशेषसोमभक्षः। तस्मान्नविद्याप्रकरणगताख्यानानां पारिप्लवे विनियोग इति तत्तद्विद्याविधिभिरेव सम्बन्धः। संग्रहाकारिकाः॥ आख्यानजातं विधितोऽखिलं भवेत्पारिप्लवार्थं परविद्ययाऽन्वितम्। नाख्यायिकानन्त्यकृतामशक्यतां पश्यन्स विश्राम्यति वाक्यशेषगे॥ इति पारिप्लवार्थाधिकरणम्॥3॥