स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्॥21॥ भावशब्दाच्च॥22॥ स्तुतिविधिप्रसङ्गादिदमधिकरणम्। छान्दोग्ये- ‘ओमित्येतदक्षरमुद्गीथमुपासीते’त्युपक्रम्य श्रूयते- ‘एषां भूतानां" पृथिनीरस- पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रस- पुरुषस्य वाग्रसो वाच ऋग्रस ऋचस्सामरस स्साम्र उद्गीथो रसस्स रसानां" रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ’ इति। इतं रसतमत्वादिप्रतिपादनं प्रकृतोद्गीथस्तुत्यर्थं उत तस्मिन् रसतमत्वादिद्दष्टिविधानार्थमिति स्तुतिवाक्यछायापत्त्यपूर्वत्वाभ्यां संशये पूर्वपक्षः। ‘इयमेव जुहूःस्वर्गो लोके आहवनीय’ इत्यादिषु जुह्वादेरिव कर्माङ्गस्योद्गीथस्य उपादानात्तद्वदेव स्तुत्यर्थत्वम्। न च कर्माङ्गोपादानमात्रेण स्तुत्य्रथत्वे ‘पर्णमयी जुहूर्भवति हिरण्मय्यस्स्रुचो भवन्ती’त्यादेरपि स्तुत्यर्थत्वप्रसङ्गः। विध्ययोग्यत्वेनापि विशेषणादिति। तत्र जुह्वादिविधेरिवात्र कर्मकाण्डगतस्योद्गीथविधेस्सन्निधानाभावात् अप्राप्तरसतमत्वादिद्दष्टिविधिरेव युक्तः। उपासीतेति विधिप्रत्ययस्यापि सत्त्वादिति सिद्धान्तः॥ सङ्ग्रहकारिका। क्रत्वङ्गाश्रितकृत्यसाध्यपठनं स्तुत्यर्थमेतज्जुहू वाक्ये द्दष्टमतो भवेद्रसतमत्वादेस्तथा कीर्तनम्। मैवं तावदपूर्व एष सुकरो द्दष्टिश्रुतेस्तद्विधि- स्स्तोतव्यस्य विधेर्न सन्निधिरतो ध्यानार्थमेतन्मतम्॥ इति स्तुतिमात्राधिकरणम्॥2॥